| |
|

This overlay will guide you through the buttons:

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय ब्रह्मयोगैर्वो युनज्मि ॥१०.५.१॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय ब्रह्म-योगैः वः युनज्मि ॥१०।५।१॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya brahma-yogaiḥ vaḥ yunajmi ..10.5.1..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय क्षत्रयोगैर्वो युनज्मि ॥१०.५.२॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय क्षत्र-योगैः वः युनज्मि ॥१०।५।२॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya kṣatra-yogaiḥ vaḥ yunajmi ..10.5.2..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायेन्द्रयोगैर्वो युनज्मि ॥१०.५.३॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय इन्द्र-योगैः वः युनज्मि ॥१०।५।३॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya indra-yogaiḥ vaḥ yunajmi ..10.5.3..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय सोमयोगैर्वो युनज्मि ॥१०.५.४॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय सोम-योगैः वः युनज्मि ॥१०।५।४॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya soma-yogaiḥ vaḥ yunajmi ..10.5.4..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगायाप्सुयोगैर्वो युनज्मि ॥१०.५.५॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय अप्सुयोगैः वः युनज्मि ॥१०।५।५॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya apsuyogaiḥ vaḥ yunajmi ..10.5.5..

इन्द्रस्यौज स्थेन्द्रस्य सह स्थेन्द्रस्य बलं स्थेन्द्रस्य वीर्यं स्थेन्द्रस्य नृम्णं स्थ ।जिष्णवे योगाय विश्वानि मा भूतान्युप तिष्ठन्तु युक्ता म आप स्थ ॥१०.५.६॥
इन्द्रस्य ओजः स्थ इन्द्रस्य सहः स्थ इन्द्रस्य बलम् स्थ इन्द्रस्य वीर्यम् स्थ इन्द्रस्य नृम्णम् स्थ ।जिष्णवे योगाय विश्वानि मा भूतानि उप तिष्ठन्तु युक्ताः मे आपः स्थ ॥१०।५।६॥
indrasya ojaḥ stha indrasya sahaḥ stha indrasya balam stha indrasya vīryam stha indrasya nṛmṇam stha .jiṣṇave yogāya viśvāni mā bhūtāni upa tiṣṭhantu yuktāḥ me āpaḥ stha ..10.5.6..

अग्नेर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.७॥
अग्नेः भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।७॥
agneḥ bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.7..

इन्द्रस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.८॥
इन्द्रस्य भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।८॥
indrasya bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.8..

सोमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.९॥
सोमस्य भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।९॥
somasya bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.9..

वरुणस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१०॥ {१३}
वरुणस्य भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।१०॥
varuṇasya bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.10..

मित्रावरुणयोर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.११॥
मित्रावरुणयोः भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।११॥
mitrāvaruṇayoḥ bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.11..

यमस्य भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१२॥
यमस्य भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।१२॥
yamasya bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.12..

पितॄणां भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१३॥
पितॄणाम् भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।१३॥
pitṝṇām bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.13..

देवस्य सवितुर्भाग स्थ अपां शुक्रमापो देवीर्वर्चो अस्मासु धत्त ।प्रजापतेर्वो धाम्नास्मै लोकाय सादये ॥१०.५.१४॥
देवस्य सवितुः भागः स्थ अपाम् शुक्रम् आपः देवीः वर्चः अस्मासु धत्त ।प्रजापतेः वः धाम्ना अस्मै लोकाय सादये ॥१०।५।१४॥
devasya savituḥ bhāgaḥ stha apām śukram āpaḥ devīḥ varcaḥ asmāsu dhatta .prajāpateḥ vaḥ dhāmnā asmai lokāya sādaye ..10.5.14..

यो व आपोऽपां भागोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१५ ॥
यः वः आपः अपाम् भागः अप्सु अन्तर् यजुष्यः देवयजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।१५ ॥
yaḥ vaḥ āpaḥ apām bhāgaḥ apsu antar yajuṣyaḥ devayajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.15 ..

यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१६ ॥
यः वः आपः अपाम् ऊर्मिः अप्सु अन्तर् यजुष्यः देव-यजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।१६ ॥
yaḥ vaḥ āpaḥ apām ūrmiḥ apsu antar yajuṣyaḥ deva-yajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.16 ..

यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१७ ॥
यः वः आपः अपाम् वत्सः अप्सु अन्तर् यजुष्यः देवयजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।१७ ॥
yaḥ vaḥ āpaḥ apām vatsaḥ apsu antar yajuṣyaḥ devayajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.17 ..

यो व आपोऽपां वृषभोऽप्स्वन्तर्यजुष्यो देवयजनः ॥ इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ॥ तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१८ ॥
यः वः आपः अपाम् वृषभः अप्सु अन्तर् यजुष्यः देवयजनः ॥ इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ॥ तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।१८ ॥
yaḥ vaḥ āpaḥ apām vṛṣabhaḥ apsu antar yajuṣyaḥ devayajanaḥ .. idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .. tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.18 ..

यो व आपोऽपां हिरण्यगर्भोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.१९ ॥
यः वः आपः अपाम् हिरण्य-गर्भः अप्सु अन्तर् यजुष्यः देवयजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।१९ ॥
yaḥ vaḥ āpaḥ apām hiraṇya-garbhaḥ apsu antar yajuṣyaḥ devayajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.19 ..

यो व आपोऽपामश्मा पृश्निर्दिव्योऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२० ॥
यः वः आपः अपाम् अश्मा पृश्निः दिव्यः अप्सु अन्तर् यजुष्यः देवयजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।२० ॥
yaḥ vaḥ āpaḥ apām aśmā pṛśniḥ divyaḥ apsu antar yajuṣyaḥ devayajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.20 ..

यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्यो देवयजनः ।इदं तमति सृजामि तं माभ्यवनिक्षि ।तेन तमभ्यतिसृजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ १०.५.२१ ॥
यः वः आपः अपाम् अग्नयः अप्सु अन्तर् यजुष्यः देवयजनः ।इदम् तम् अति सृजामि तम् मा अभ्यवनिक्षि ।तेन तम् अभ्यतिसृजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।तम् वधेयम् तम् स्तृषीय अनेन ब्रह्मणा अनेन कर्मणा अनया मेन्या ॥ १०।५।२१ ॥
yaḥ vaḥ āpaḥ apām agnayaḥ apsu antar yajuṣyaḥ devayajanaḥ .idam tam ati sṛjāmi tam mā abhyavanikṣi .tena tam abhyatisṛjāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .tam vadheyam tam stṛṣīya anena brahmaṇā anena karmaṇā anayā menyā .. 10.5.21 ..

यदर्वाचीनं त्रैहायणादनृतं किं चोदिम ।आपो मा तस्मात्सर्वस्माद्दुरितात्पान्त्वंहसः ॥१०.५.२२॥
यत् अर्वाचीनम् त्रैहायणात् अनृतम् किम् चोदिम ।आपः मा तस्मात् सर्वस्मात् दुरितात् पान्तु अंहसः ॥१०।५।२२॥
yat arvācīnam traihāyaṇāt anṛtam kim codima .āpaḥ mā tasmāt sarvasmāt duritāt pāntu aṃhasaḥ ..10.5.22..

समुद्रं वः प्र हिणोमि स्वां योनिमपीतन ।अरिष्टाः सर्वहायसो मा च नः किं चनाममत्॥१०.५.२३॥
समुद्रम् वः प्र हिणोमि स्वाम् योनिम् अपीतन ।अरिष्टाः सर्व-हायसः मा च नः किम् चन अममत्॥१०।५।२३॥
samudram vaḥ pra hiṇomi svām yonim apītana .ariṣṭāḥ sarva-hāyasaḥ mā ca naḥ kim cana amamat..10.5.23..

अरिप्रा आपो अप रिप्रमस्मत्।प्रास्मदेनो दुरितं सुप्रतीकाः प्र दुष्वप्न्यं प्र मलं वहन्तु ॥१०.५.२४॥
अरिप्राः आपः अप।प्र अस्मत् एनः दुरितम् सु प्रतीकाः प्र दुष्वप्न्यम् प्र मलम् वहन्तु ॥१०।५।२४॥
ariprāḥ āpaḥ apa.pra asmat enaḥ duritam su pratīkāḥ pra duṣvapnyam pra malam vahantu ..10.5.24..

विष्णोः क्रमोऽसि सपत्नहा पृथिवीसंशितोऽग्नितेजाः ।पृथिवीमनु वि क्रमेऽहं पृथिव्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२५॥
विष्णोः क्रमः असि सपत्न-हा पृथिवी-संशितः अग्नि-तेजाः ।पृथिवीम् अनु वि क्रमे अहम् पृथिव्याः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।२५॥
viṣṇoḥ kramaḥ asi sapatna-hā pṛthivī-saṃśitaḥ agni-tejāḥ .pṛthivīm anu vi krame aham pṛthivyāḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.25..

विष्णोः क्रमोऽसि सपत्नहान्तरिक्षसंशितो वायुतेजाः ।अन्तरिक्षमनु वि क्रमेऽहमन्तरिक्षात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२६॥
विष्णोः क्रमः असि सपत्न-हा अन्तरिक्ष-संशितः वायु-तेजाः ।अन्तरिक्षम् अनु वि क्रमे अहम् अन्तरिक्षात् तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।२६॥
viṣṇoḥ kramaḥ asi sapatna-hā antarikṣa-saṃśitaḥ vāyu-tejāḥ .antarikṣam anu vi krame aham antarikṣāt tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.26..

विष्णोः क्रमोऽसि सपत्नहा द्यौसंशितः सूर्यतेजाः ।दिवमनु वि क्रमेऽहं दिवस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२७॥
विष्णोः क्रमः असि सपत्न-हा द्यौ-संशितः सूर्य-तेजाः ।दिवम् अनु वि क्रमे अहम् दिवः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।२७॥
viṣṇoḥ kramaḥ asi sapatna-hā dyau-saṃśitaḥ sūrya-tejāḥ .divam anu vi krame aham divaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.27..

विष्णोः क्रमोऽसि सपत्नहा दिक्संशितो मनस्तेजाः ।दिशो अनु वि क्रमेऽहं दिग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२८॥
विष्णोः क्रमः असि सपत्न-हा दिश्-संशितः मनः-तेजाः ।दिशः अनु वि क्रमे अहम् दिग्भ्यः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।२८॥
viṣṇoḥ kramaḥ asi sapatna-hā diś-saṃśitaḥ manaḥ-tejāḥ .diśaḥ anu vi krame aham digbhyaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.28..

विष्णोः क्रमोऽसि सपत्नहाशासंशितो वाततेजाः ।आशा अनु वि क्रमेऽहमाशाभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.२९॥
विष्णोः क्रमः असि सपत्न-हा आशा-संशितः वात-तेजाः ।आशाः अनु वि क्रमे अहम् आशाभ्यः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।२९॥
viṣṇoḥ kramaḥ asi sapatna-hā āśā-saṃśitaḥ vāta-tejāḥ .āśāḥ anu vi krame aham āśābhyaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.29..

विष्णोः क्रमोऽसि सपत्नहा ऋक्संशितो सामतेजाः ।ऋचोऽनु वि क्रमेऽहमृग्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३०॥ {१५}
विष्णोः क्रमः असि सपत्न-हा ऋक्-संशितः साम-तेजाः ।ऋचः अनु वि क्रमे अहम् ऋग्भ्यः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३०॥
viṣṇoḥ kramaḥ asi sapatna-hā ṛk-saṃśitaḥ sāma-tejāḥ .ṛcaḥ anu vi krame aham ṛgbhyaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.30..

विष्णोः क्रमोऽसि सपत्नहा यज्ञसंशितो ब्रह्मतेजाः ।यज्ञमनु वि क्रमेऽहं यज्ञात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३१॥
विष्णोः क्रमः असि सपत्न-हा यज्ञ-संशितः ब्रह्म-तेजाः ।यज्ञम् अनु वि क्रमे अहम् यज्ञात् तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३१॥
viṣṇoḥ kramaḥ asi sapatna-hā yajña-saṃśitaḥ brahma-tejāḥ .yajñam anu vi krame aham yajñāt tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.31..

विष्णोः क्रमोऽसि सपत्नहौषधीसंशितो सोमतेजाः ।ओषधीरनु वि क्रमेऽहमोषधीभ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३२॥
विष्णोः क्रमः असि सोम-तेजाः ।ओषधीः अनु वि क्रमे अहम् ओषधीभ्यः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३२॥
viṣṇoḥ kramaḥ asi soma-tejāḥ .oṣadhīḥ anu vi krame aham oṣadhībhyaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.32..

विष्णोः क्रमोऽसि सपत्नहाप्सुसंशितो वरुणतेजाः ।अपोऽनु वि क्रमेऽहमद्भ्यस्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३३॥
विष्णोः क्रमः असि सपत्न-हा अप्सु-संशितः वरुण-तेजाः ।अपः अनु वि क्रमे अहम् अद्भ्यः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३३॥
viṣṇoḥ kramaḥ asi sapatna-hā apsu-saṃśitaḥ varuṇa-tejāḥ .apaḥ anu vi krame aham adbhyaḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.33..

विष्णोः क्रमोऽसि सपत्नहा कृषिसंशितोऽन्नतेजाः ।कृषिमनु वि क्रमेऽहं कृष्यास्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३४॥
विष्णोः क्रमः असि सपत्न-हा कृषि-संशितः अन्न-तेजाः ।कृषिम् अनु वि क्रमे अहम् कृष्याः तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३४॥
viṣṇoḥ kramaḥ asi sapatna-hā kṛṣi-saṃśitaḥ anna-tejāḥ .kṛṣim anu vi krame aham kṛṣyāḥ tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.34..

विष्णोः क्रमोऽसि सपत्नहा प्राणसंशितः पुरुषतेजाः ।प्राणमनु वि क्रमेऽहं प्राणात्तं निर्भजामो योऽस्मान् द्वेष्टि यं वयं द्विष्मः ।स मा जीवीत्तं प्राणो जहातु ॥१०.५.३५॥
विष्णोः क्रमः असि सपत्न-हा प्राण-संशितः पुरुष-तेजाः ।प्राणम् अनु वि क्रमे अहम् प्राणात् तम् निर्भजामः यः अस्मान् द्वेष्टि यम् वयम् द्विष्मः ।स मा जीवीत् तम् प्राणः जहातु ॥१०।५।३५॥
viṣṇoḥ kramaḥ asi sapatna-hā prāṇa-saṃśitaḥ puruṣa-tejāḥ .prāṇam anu vi krame aham prāṇāt tam nirbhajāmaḥ yaḥ asmān dveṣṭi yam vayam dviṣmaḥ .sa mā jīvīt tam prāṇaḥ jahātu ..10.5.35..

जितमस्माकमुद्भिन्नमस्माकमभ्यष्ठां विश्वाः पृतना अरातीः ।इदमहमामुष्यायणस्यामुष्याः पुत्रस्य वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०.५.३६॥
जितम् अस्माकम् उद्भिन्नम् अस्माकम् अभ्यष्ठाम् विश्वाः पृतनाः अरातीः ।इदम् अहम् आमुष्यायणस्य अमुष्याः पुत्रस्य वर्चः तेजः प्राणम् आयुः नि वेष्टयामि इदम् एनम् अधराञ्चम् पादयामि ॥१०।५।३६॥
jitam asmākam udbhinnam asmākam abhyaṣṭhām viśvāḥ pṛtanāḥ arātīḥ .idam aham āmuṣyāyaṇasya amuṣyāḥ putrasya varcaḥ tejaḥ prāṇam āyuḥ ni veṣṭayāmi idam enam adharāñcam pādayāmi ..10.5.36..

सूर्यस्यावृतमन्वावर्ते दक्षिणामन्वावृतम् ।सा मे द्रविणं यच्छतु सा मे ब्राह्मणवर्चसम् ॥१०.५.३७॥
सूर्यस्य आवृतम् अन्वावर्ते दक्षिणाम् अन्वावृतम् ।सा मे द्रविणम् यच्छतु सा मे ब्राह्मण-वर्चसम् ॥१०।५।३७॥
sūryasya āvṛtam anvāvarte dakṣiṇām anvāvṛtam .sā me draviṇam yacchatu sā me brāhmaṇa-varcasam ..10.5.37..

दिशो ज्योतिष्मतीरभ्यावर्ते ।ता मे द्रविणं यच्छन्तु ता मे ब्राह्मणवर्चसम् ॥१०.५.३८॥
दिशः ज्योतिष्मतीः अभ्यावर्ते ।ताः मे द्रविणम् यच्छन्तु ताः मे ब्राह्मण-वर्चसम् ॥१०।५।३८॥
diśaḥ jyotiṣmatīḥ abhyāvarte .tāḥ me draviṇam yacchantu tāḥ me brāhmaṇa-varcasam ..10.5.38..

सप्तऋषीन् अभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.३९॥
सप्त ऋषीन् अभ्यावर्ते ।ते मे द्रविणम् यच्छन्तु ते मे ब्राह्मण-वर्चसम् ॥१०।५।३९॥
sapta ṛṣīn abhyāvarte .te me draviṇam yacchantu te me brāhmaṇa-varcasam ..10.5.39..

ब्रह्माभ्यावर्ते ।तन् मे द्रविणं यच्छन्तु तन् मे ब्राह्मणवर्चसम् ॥१०.५.४०॥ {१६}
ब्रह्म-अभ्यावर्ते ।तत् मे द्रविणम् यच्छन्तु तत् मे ब्राह्मण-वर्चसम् ॥१०।५।४०॥
brahma-abhyāvarte .tat me draviṇam yacchantu tat me brāhmaṇa-varcasam ..10.5.40..

ब्राह्मणामभ्यावर्ते ।ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥१०.५.४१॥
ब्राह्मणाम् अभ्यावर्ते ।ते मे द्रविणम् यच्छन्तु ते मे ब्राह्मण-वर्चसम् ॥१०।५।४१॥
brāhmaṇām abhyāvarte .te me draviṇam yacchantu te me brāhmaṇa-varcasam ..10.5.41..

यं वयं मृगयामहे तं वधै स्तृणवामहै ।व्यात्ते परमेष्ठिनो ब्रह्मणापीपदाम तम् ॥१०.५.४२॥
यम् वयम् मृगयामहे तम् वधैः स्तृणवामहै ।व्यात्ते परमेष्ठिनः ब्रह्मणा अपीपदाम तम् ॥१०।५।४२॥
yam vayam mṛgayāmahe tam vadhaiḥ stṛṇavāmahai .vyātte parameṣṭhinaḥ brahmaṇā apīpadāma tam ..10.5.42..

वैश्वानरस्य दंष्ट्राभ्यां हेतिस्तं समधादभि ।इयं तं प्सात्वाहुतिः समिद्देवी सहीयसी ॥१०.५.४३॥
वैश्वानरस्य दंष्ट्राभ्याम् हेतिः तम् समधात् अभि ।इयम् तम् प्सातु आहुतिः समिध् देवी सहीयसी ॥१०।५।४३॥
vaiśvānarasya daṃṣṭrābhyām hetiḥ tam samadhāt abhi .iyam tam psātu āhutiḥ samidh devī sahīyasī ..10.5.43..

राज्ञो वरुणस्य बन्धोऽसि ।सोऽमुमामुष्यायणममुष्याः पुत्रमन्ने प्राणे बधान ॥१०.५.४४॥
राज्ञः वरुणस्य बन्धः असि ।सः अमुम् आमुष्यायणम् अमुष्याः पुत्रम् अन्ने प्राणे बधान ॥१०।५।४४॥
rājñaḥ varuṇasya bandhaḥ asi .saḥ amum āmuṣyāyaṇam amuṣyāḥ putram anne prāṇe badhāna ..10.5.44..

यत्ते अन्नं भुवस्पत आक्षियति पृथिवीमनु ।तस्य नस्त्वं भुवस्पते संप्रयच्छ प्रजापते ॥१०.५.४५॥
यत् ते अन्नम् भुवस्पते आक्षियति पृथिवीम् अनु ।तस्य नः त्वम् भुवस्पते संप्रयच्छ प्रजापते ॥१०।५।४५॥
yat te annam bhuvaspate ākṣiyati pṛthivīm anu .tasya naḥ tvam bhuvaspate saṃprayaccha prajāpate ..10.5.45..

अपो दिव्या अचायिषं रसेन समपृक्ष्महि ।पयस्वान् अग्न आगमं तं मा सं सृज वर्चसा ॥१०.५.४६॥
अपः दिव्याः अचायिषम् रसेन समपृक्ष्महि ।पयस्वान् अग्ने आगमम् तम् मा सम् सृज वर्चसा ॥१०।५।४६॥
apaḥ divyāḥ acāyiṣam rasena samapṛkṣmahi .payasvān agne āgamam tam mā sam sṛja varcasā ..10.5.46..

सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥१०.५.४७॥
सम् मा अग्ने वर्चसा सृज सम् प्रजया सम् आयुषा ।विद्युः मे अस्य देवाः इन्द्रः विद्यात् सह ऋषिभिः ॥१०।५।४७॥
sam mā agne varcasā sṛja sam prajayā sam āyuṣā .vidyuḥ me asya devāḥ indraḥ vidyāt saha ṛṣibhiḥ ..10.5.47..

यदग्ने अद्य मिथुना शपतो यद्वाचस्तृष्टं जनयन्त रेभाः ।मन्योर्मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०.५.४८॥
यत् अग्ने अद्य मिथुना शपतः यत् वाचः तृष्टम् जनयन्त रेभाः ।मन्योः मनसः शरव्या जायते या तया विध्य हृदये यातुधानान् ॥१०।५।४८॥
yat agne adya mithunā śapataḥ yat vācaḥ tṛṣṭam janayanta rebhāḥ .manyoḥ manasaḥ śaravyā jāyate yā tayā vidhya hṛdaye yātudhānān ..10.5.48..

परा शृणीहि तपसा यातुधानान् पराग्ने रक्षो हरसा शृणीहि ।परार्चिषा मूरदेवां छृणीहि परासुतृपः शोशुचतः शृणीहि ॥१०.५.४९॥
परा शृणीहि तपसा यातुधानान् परा अग्ने रक्षः हरसा शृणीहि ।परा अर्चिषा मूरदेवाम् शृणीहि परा असुतृपः शोशुचतः शृणीहि ॥१०।५।४९॥
parā śṛṇīhi tapasā yātudhānān parā agne rakṣaḥ harasā śṛṇīhi .parā arciṣā mūradevām śṛṇīhi parā asutṛpaḥ śośucataḥ śṛṇīhi ..10.5.49..

अपामस्मै वज्रं प्र हरामि चतुर्भृष्टिं शीर्षभिद्याय विद्वान् ।सो अस्याङ्गानि प्र शृणातु सर्वा तन् मे देवा अनु जानन्तु विश्वे ॥१०.५.५०॥ {१७}
अपाम् अस्मै वज्रम् प्र हरामि चतुर्-भृष्टिम् शीर्ष-भिद्याय विद्वान् ।सः अस्य अङ्गानि प्र शृणातु सर्वा तत् मे देवाः अनु जानन्तु विश्वे ॥१०।५।५०॥
apām asmai vajram pra harāmi catur-bhṛṣṭim śīrṣa-bhidyāya vidvān .saḥ asya aṅgāni pra śṛṇātu sarvā tat me devāḥ anu jānantu viśve ..10.5.50..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In