| |
|

This overlay will guide you through the buttons:

अरातीयोर्भ्रातृव्यस्य दुर्हार्दो द्विषतः शिरः ।अपि वृश्चाम्योजसा ॥१॥
अरातीयोः भ्रातृव्यस्य दुर्हार्दः द्विषतः शिरः ।अपि वृश्चामि ओजसा ॥१॥
arātīyoḥ bhrātṛvyasya durhārdaḥ dviṣataḥ śiraḥ .api vṛścāmi ojasā ..1..

वर्म मह्यमयं मणिः फालाज्जातः करिष्यति ।पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥२॥
वर्म मह्यम् अयम् मणिः फालात् जातः करिष्यति ।पूर्णः मन्थेन मा अगमत् रसेन सह वर्चसा ॥२॥
varma mahyam ayam maṇiḥ phālāt jātaḥ kariṣyati .pūrṇaḥ manthena mā agamat rasena saha varcasā ..2..

यत्त्वा शिक्वः परावधीत्तक्षा हस्तेन वास्या ।आपस्त्वा तस्मज्जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
यत् त्वा शिक्वः परावधीत् तक्षा हस्तेन वास्या ।आपः त्वा तस्मत् जीवलाः पुनन्तु शुचयः शुचिम् ॥३॥
yat tvā śikvaḥ parāvadhīt takṣā hastena vāsyā .āpaḥ tvā tasmat jīvalāḥ punantu śucayaḥ śucim ..3..

हिरण्यस्रगयं मणिः श्रद्धां यज्ञं महो दधत्।गृहे वसतु नोऽतिथिः ॥४॥
हिरण्य-स्रज् अयम् मणिः श्रद्धाम् यज्ञम् महः दधत्।गृहे वसतु नः अतिथिः ॥४॥
hiraṇya-sraj ayam maṇiḥ śraddhām yajñam mahaḥ dadhat.gṛhe vasatu naḥ atithiḥ ..4..

तस्मै घृतं सुरं मध्वन्नमन्नं क्षदामहे ।स नः पितेव पुत्रेभ्यः श्रेयःश्रेयश्चिकित्सतु भूयोभूयः श्वःश्वो देवेभ्यो मणिरेत्य ॥५॥
तस्मै घृतम् सुरम् मधु अन्नम् अन्नम् क्षदामहे ।स नः पिता इव पुत्रेभ्यः श्रेयः श्रेयः चिकित्सतु भूयस् भूयस् श्वस् श्वस् देवेभ्यः मणिः एत्य ॥५॥
tasmai ghṛtam suram madhu annam annam kṣadāmahe .sa naḥ pitā iva putrebhyaḥ śreyaḥ śreyaḥ cikitsatu bhūyas bhūyas śvas śvas devebhyaḥ maṇiḥ etya ..5..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमग्निः प्रत्यमुञ्चत सो अस्मै दुह आज्यं भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥६॥
यम् अबध्नात् बृहस्पतिः मणिम् फालम् घृतश्चुतम् उग्रम् खदिरम् ओजसे ।तम् अग्निः प्रत्यमुञ्चत सः अस्मै दुहे आज्यम् भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥६॥
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase .tam agniḥ pratyamuñcata saḥ asmai duhe ājyam bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..6..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तमिन्द्रः प्रत्यमुञ्चतौजसे वीर्याय कम् ।सो अस्मै बलमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥७॥
यम् अबध्नात् बृहस्पतिः मणिम् फालम् घृतश्चुतम् उग्रम् खदिरम् ओजसे ।तम् इन्द्रः प्रत्यमुञ्चत ओजसे वीर्याय कम् ।सः अस्मै बलम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥७॥
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase .tam indraḥ pratyamuñcata ojase vīryāya kam .saḥ asmai balam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..7..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।सो अस्मै वर्च इद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥८॥
यम् अबध्नात् बृहस्पतिः मणिम् फालम् घृतश्चुतम् उग्रम् खदिरम् ओजसे ।तम् सोमः प्रत्यमुञ्चत महे श्रोत्राय चक्षसे ।सः अस्मै वर्चः इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥८॥
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase .tam somaḥ pratyamuñcata mahe śrotrāya cakṣase .saḥ asmai varcaḥ id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..8..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं सूर्यः प्रत्यमुञ्चत तेनेमा अजयद्दिशः ।सो अस्मै भूतिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥९॥
यम् अबध्नात् बृहस्पतिः मणिम् फालम् घृतश्चुतम् उग्रम् खदिरम् ओजसे ।तम् सूर्यः प्रत्यमुञ्चत तेन इमाः अजयत् दिशः ।सः अस्मै भूतिम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥९॥
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase .tam sūryaḥ pratyamuñcata tena imāḥ ajayat diśaḥ .saḥ asmai bhūtim id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..9..

यमबध्नाद्बृहस्पतिर्मणिं फालं घृतश्चुतमुग्रं खदिरमोजसे ।तं बिभ्रच्चन्द्रमा मणिमसुराणां पुरोऽजयद्दानवानां हिरण्ययीः ।सो अस्मै श्रियमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१०॥ {१८}
यम् अबध्नात् बृहस्पतिः मणिम् फालम् घृतश्चुतम् उग्रम् खदिरम् ओजसे ।तम् बिभ्रत् चन्द्रमाः मणिम् असुराणाम् पुरः अजयत् दानवानाम् हिरण्ययीः ।सः अस्मै श्रियम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१०॥
yam abadhnāt bṛhaspatiḥ maṇim phālam ghṛtaścutam ugram khadiram ojase .tam bibhrat candramāḥ maṇim asurāṇām puraḥ ajayat dānavānām hiraṇyayīḥ .saḥ asmai śriyam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..10..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।सो अस्मै वाजिनमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥११॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।सः अस्मै वाजिनम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥११॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .saḥ asmai vājinam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..11..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तेनेमां मणिना कृषिमश्विनावभि रक्षतः ।स भिषग्भ्यां महो दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१२॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तेन इमाम् मणिना कृषिम् अश्विनौ अभि रक्षतः ।स भिषग्भ्याम् महः दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१२॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tena imām maṇinā kṛṣim aśvinau abhi rakṣataḥ .sa bhiṣagbhyām mahaḥ duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..12..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं बिभ्रत्सविता मणिं तेनेदमजयत्स्वः ।सो अस्मै सूनृतां दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१३॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तम् बिभ्रत् सविता मणिम् तेन इदम् अजयत् स्वर् ।सः अस्मै सूनृताम् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१३॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tam bibhrat savitā maṇim tena idam ajayat svar .saḥ asmai sūnṛtām duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..13..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमापो बिभ्रतीर्मणिं सदा धावन्त्यक्षिताः ।स आभ्योऽमृतमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१४॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तम् आपः बिभ्रतीः मणिम् सदा धावन्ति अक्षिताः ।सः आभ्यः अमृतम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१४॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tam āpaḥ bibhratīḥ maṇim sadā dhāvanti akṣitāḥ .saḥ ābhyaḥ amṛtam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..14..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं राजा वरुणो मणिं प्रत्यमुञ्चत शंभुवम् ।सो अस्मै सत्यमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१५॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तम् राजा वरुणः मणिम् प्रत्यमुञ्चत शंभुवम् ।सः अस्मै सत्यम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१५॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tam rājā varuṇaḥ maṇim pratyamuñcata śaṃbhuvam .saḥ asmai satyam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..15..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तं देवा बिभ्रतो मणिं सर्वांल्लोकान् युधाजयन् ।स एभ्यो जितिमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१६॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तम् देवाः बिभ्रतः मणिम् सर्वान् लोकान् युधा अजयन् ।सः एभ्यः जितिमित् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१६॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tam devāḥ bibhrataḥ maṇim sarvān lokān yudhā ajayan .saḥ ebhyaḥ jitimit duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..16..

यमबध्नाद्बृहस्पतिर्वाताय मणिमाशवे ।तमिमं देवता मणिं प्रत्यमुञ्चन्त शम्भुवम् ।स आभ्यो विश्वमिद्दुहे भूयोभूयः श्वःश्वस्तेन त्वं द्विषतो जहि ॥१७॥
यम् अबध्नात् बृहस्पतिः वाताय मणिम् आशवे ।तम् इमम् देवताः मणिम् प्रत्यमुञ्चन्त शम्भुवम् ।सः आभ्यः विश्वम् इद् दुहे भूयस् भूयस् श्वस् श्वस् तेन त्वम् द्विषतः जहि ॥१७॥
yam abadhnāt bṛhaspatiḥ vātāya maṇim āśave .tam imam devatāḥ maṇim pratyamuñcanta śambhuvam .saḥ ābhyaḥ viśvam id duhe bhūyas bhūyas śvas śvas tena tvam dviṣataḥ jahi ..17..

ऋतवस्तमबध्नतार्तवास्तमबध्नत ।संवत्सरस्तं बद्ध्वा सर्वं भूतं वि रक्षति ॥१८॥
ऋतवः तम् अबध्नत आर्तवाः तम् अबध्नत ।संवत्सरः तम् बद्ध्वा सर्वम् भूतम् वि रक्षति ॥१८॥
ṛtavaḥ tam abadhnata ārtavāḥ tam abadhnata .saṃvatsaraḥ tam baddhvā sarvam bhūtam vi rakṣati ..18..

अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत ।प्रजापतिसृष्टो मणिर्द्विषतो मेऽधरामकः ॥१९॥
अन्तर्देशाः अबध्नत प्रदिशः तम् अबध्नत ।प्रजापति-सृष्टः मणिः द्विषतः मे अधरामकः ॥१९॥
antardeśāḥ abadhnata pradiśaḥ tam abadhnata .prajāpati-sṛṣṭaḥ maṇiḥ dviṣataḥ me adharāmakaḥ ..19..

अथर्वाणो अबध्नताथर्वणा अबध्नत ।तैर्मेदिनो अङ्गिरसो दस्यूनां बिभिदुः पुरस्तेन त्वं द्विषतो जहि ॥२०॥ {१९}
अथर्वाणः अबध्नत आथर्वणाः अबध्नत ।तैः मेदिनः अङ्गिरसः दस्यूनाम् बिभिदुः पुरः तेन त्वम् द्विषतः जहि ॥२०॥
atharvāṇaḥ abadhnata ātharvaṇāḥ abadhnata .taiḥ medinaḥ aṅgirasaḥ dasyūnām bibhiduḥ puraḥ tena tvam dviṣataḥ jahi ..20..

तं धाता प्रत्यमुञ्चत स भूतं व्यकल्पयत्।तेन त्वं द्विषतो जहि ॥२१॥
तम् धाता प्रत्यमुञ्चत स भूतम् व्यकल्पयत्।तेन त्वम् द्विषतः जहि ॥२१॥
tam dhātā pratyamuñcata sa bhūtam vyakalpayat.tena tvam dviṣataḥ jahi ..21..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमद्रसेन सह वर्चसा ॥२२॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् रसेन सह वर्चसा ॥२२॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat rasena saha varcasā ..22..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह गोभिरजाविभिरन्नेन प्रजया सह ॥२३॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् सह गोभिः अज-अविभिः अन्नेन प्रजया सह ॥२३॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat saha gobhiḥ aja-avibhiḥ annena prajayā saha ..23..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सह व्रीहियवाभ्यां महसा भूत्या सह ॥२४॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् सह व्रीहि-यवाभ्याम् महसा भूत्या सह ॥२४॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat saha vrīhi-yavābhyām mahasā bhūtyā saha ..24..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमन् मधोर्घृतस्य धारया कीलालेन मणिः सह ॥२५॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् मधोः घृतस्य धारया कीलालेन मणिः सह ॥२५॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat madhoḥ ghṛtasya dhārayā kīlālena maṇiḥ saha ..25..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमदूर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् ऊर्जया पयसा सह द्रविणेन श्रिया सह ॥२६॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat ūrjayā payasā saha draviṇena śriyā saha ..26..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् तेजसा त्विष्या सह यशसा कीर्त्या सह ॥२७॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat tejasā tviṣyā saha yaśasā kīrtyā saha ..27..

यमबध्नाद्बृहस्पतिर्देवेभ्यो असुरक्षितिम् ।स मायं मणिरागमत्सर्वाभिर्भूतिभिः सह ॥२८॥
यम् अबध्नात् बृहस्पतिः देवेभ्यः असुर-क्षितिम् ।स मा अयम् मणिः आगमत् सर्वाभिः भूतिभिः सह ॥२८॥
yam abadhnāt bṛhaspatiḥ devebhyaḥ asura-kṣitim .sa mā ayam maṇiḥ āgamat sarvābhiḥ bhūtibhiḥ saha ..28..

तमिमं देवता मणिं मह्यं ददतु पुष्टये ।अभिभुं क्षत्रवर्धनं सपत्नदम्भनं मणिम् ॥२९॥
तम् इमम् देवताः मणिम् मह्यम् ददतु पुष्टये ।अभिभुम् क्षत्र-वर्धनम् सपत्न-दम्भनम् मणिम् ॥२९॥
tam imam devatāḥ maṇim mahyam dadatu puṣṭaye .abhibhum kṣatra-vardhanam sapatna-dambhanam maṇim ..29..

ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।असपत्नः सपत्नहा सपत्नान् मेऽधरामकः ॥३०॥ {२०}
ब्रह्मणा तेजसा सह प्रति मुञ्चामि मे शिवम् ।असपत्नः सपत्न-हा सपत्नात् मे अधरामकः ॥३०॥
brahmaṇā tejasā saha prati muñcāmi me śivam .asapatnaḥ sapatna-hā sapatnāt me adharāmakaḥ ..30..

उत्तरं द्विषतो मामयं मणिः कृणोतु देवजाः ।यस्य लोका इमे त्रयः पयो दुग्धमुपासते ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
उत्तरम् द्विषतः माम् अयम् मणिः कृणोतु देव-जाः ।यस्य लोकाः इमे त्रयः पयः दुग्धम् उपासते ।स मा अयम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३१॥
uttaram dviṣataḥ mām ayam maṇiḥ kṛṇotu deva-jāḥ .yasya lokāḥ ime trayaḥ payaḥ dugdham upāsate .sa mā ayam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ..31..

यं देवाः पितरो मनुष्या उपजीवन्ति सर्वदा ।स मायमधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
यम् देवाः पितरः मनुष्याः उपजीवन्ति सर्वदा ।स मा अयम् अधि रोहतु मणिः श्रैष्ठ्याय मूर्धतः ॥३२॥
yam devāḥ pitaraḥ manuṣyāḥ upajīvanti sarvadā .sa mā ayam adhi rohatu maṇiḥ śraiṣṭhyāya mūrdhataḥ ..32..

यथा बीजमुर्वरायां कृष्टे फालेन रोहति ।एवा मयि प्रजा पशवोऽन्नमन्नं वि रोहतु ॥३३॥
यथा बीजम् उर्वरायाम् कृष्टे फालेन रोहति ।एव मयि प्रजा पशवः अन्नम् अन्नम् वि रोहतु ॥३३॥
yathā bījam urvarāyām kṛṣṭe phālena rohati .eva mayi prajā paśavaḥ annam annam vi rohatu ..33..

यस्मै त्वा यज्ञवर्धन मणे प्रत्यमुचं शिवम् ।तं त्वं शतदक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
यस्मै त्वा यज्ञ-वर्धन मणे प्रत्यमुचम् शिवम् ।तम् त्वम् शत-दक्षिण मणे श्रैष्ठ्याय जिन्वतात्॥३४॥
yasmai tvā yajña-vardhana maṇe pratyamucam śivam .tam tvam śata-dakṣiṇa maṇe śraiṣṭhyāya jinvatāt..34..

एतमिध्मं समाहितं जुषणो अग्ने प्रति हर्य होमैः ।तस्मिन् विधेम सुमतिं स्वस्ति प्रजां चक्षुः पशून्त्समिद्धे जातवेदसि ब्रह्मणा ॥३५॥ {२१}
एतम् इध्मम् समाहितम् जुषणः अग्ने प्रति हर्य होमैः ।तस्मिन् विधेम सुमतिम् स्वस्ति प्रजाम् चक्षुः पशून् समिद्धे जातवेदसि ब्रह्मणा ॥३५॥
etam idhmam samāhitam juṣaṇaḥ agne prati harya homaiḥ .tasmin vidhema sumatim svasti prajām cakṣuḥ paśūn samiddhe jātavedasi brahmaṇā ..35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In