| |
|

This overlay will guide you through the buttons:

कस्मिन्न् अङ्गे तपो अस्याधि तिष्ठति कस्मिन्न् अङ्ग ऋतमस्याध्याहितम् ।क्व व्रतं क्व श्रद्धास्य तिष्ठति कस्मिन्न् अङ्गे सत्यमस्य प्रतिष्ठितम् ॥१॥
कस्मिन् अङ्गे तपः अस्य अधि तिष्ठति कस्मिन् अङ्गे ऋतम् अस्य अध्याहितम् ।क्व व्रतम् क्व श्रद्धा अस्य तिष्ठति कस्मिन् अङ्गे सत्यम् अस्य प्रतिष्ठितम् ॥१॥
kasmin aṅge tapaḥ asya adhi tiṣṭhati kasmin aṅge ṛtam asya adhyāhitam .kva vratam kva śraddhā asya tiṣṭhati kasmin aṅge satyam asya pratiṣṭhitam ..1..

कस्मादङ्गाद्दीप्यते अग्निरस्य कस्मादङ्गात्पवते मातरिश्व ।कस्मादङ्गाद्वि मिमीतेऽधि चन्द्रमा मह स्कम्भस्य मिमानो अङ्गम् ॥२॥
कस्मात् अङ्गात् दीप्यते अग्निः अस्य कस्मात् अङ्गात् पवते मातरिश्व ।कस्मात् अङ्गात् वि मिमीते अधि चन्द्रमाः महः स्कम्भस्य मिमानः अङ्गम् ॥२॥
kasmāt aṅgāt dīpyate agniḥ asya kasmāt aṅgāt pavate mātariśva .kasmāt aṅgāt vi mimīte adhi candramāḥ mahaḥ skambhasya mimānaḥ aṅgam ..2..

कस्मिन्न् अङ्गे तिष्ठति भूमिरस्य कस्मिन्न् अङ्गे तिष्ठत्यन्तरिक्षम् ।कस्मिन्न् अङ्गे तिष्ठत्याहिता द्यौः कस्मिन्न् अङ्गे तिष्ठत्युत्तरं दिवः ॥३॥
कस्मिन् अङ्गे तिष्ठति भूमिः अस्य कस्मिन् अङ्गे तिष्ठति अन्तरिक्षम् ।कस्मिन् अङ्गे तिष्ठति आहिता द्यौः कस्मिन् अङ्गे तिष्ठति उत्तरम् दिवः ॥३॥
kasmin aṅge tiṣṭhati bhūmiḥ asya kasmin aṅge tiṣṭhati antarikṣam .kasmin aṅge tiṣṭhati āhitā dyauḥ kasmin aṅge tiṣṭhati uttaram divaḥ ..3..

क्व प्रेप्सन् दीप्यत ऊर्ध्वो अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।यत्र प्रेप्सन्तीरभियन्त्यावृतः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥४॥
क्व प्रेप्सन् दीप्यते ऊर्ध्वः अग्निः क्व प्रेप्सन् पवते मातरिश्वा ।यत्र प्रेप्सन्तीः अभियन्ति आवृतः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥४॥
kva prepsan dīpyate ūrdhvaḥ agniḥ kva prepsan pavate mātariśvā .yatra prepsantīḥ abhiyanti āvṛtaḥ skambham tam brūhi katamaḥ svid eva saḥ ..4..

क्वार्धमासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।यत्र यन्त्यृतवो यत्रार्तवाः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥५॥
क्व अर्ध-मासाः क्व यन्ति मासाः संवत्सरेण सह संविदानाः ।यत्र यन्ति ऋतवः यत्र आर्तवाः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥५॥
kva ardha-māsāḥ kva yanti māsāḥ saṃvatsareṇa saha saṃvidānāḥ .yatra yanti ṛtavaḥ yatra ārtavāḥ skambham tam brūhi katamaḥ svid eva saḥ ..5..

क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।यत्र प्रेप्सन्तीरभियन्त्यापः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥६॥
क्व प्रेप्सन्ती युवती विरूपे अहोरात्रे द्रवतः संविदाने ।यत्र प्रेप्सन्तीः अभियन्ति आपः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥६॥
kva prepsantī yuvatī virūpe ahorātre dravataḥ saṃvidāne .yatra prepsantīḥ abhiyanti āpaḥ skambham tam brūhi katamaḥ svid eva saḥ ..6..

यस्मिन्त्स्तब्ध्वा प्रजापतिर्लोकान्त्सर्वामधारयत्।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥७॥
यस्मिन् स्तब्ध्वा प्रजापतिः लोकान् सर्वाम् अधारयत्।स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥७॥
yasmin stabdhvā prajāpatiḥ lokān sarvām adhārayat.skambham tam brūhi katamaḥ svid eva saḥ ..7..

यत्परममवमं यच्च मध्यमं प्रजापतिः ससृजे विश्वरूपम् ।कियता स्कम्भः प्र विवेश तत्र यन् न प्राविशत्कियत्तद्बभूव ॥८॥
यत् परमम् अवमम् यत् च मध्यमम् प्रजापतिः ससृजे विश्व-रूपम् ।कियता स्कम्भः प्र विवेश तत्र यत् न प्राविशत् कियत् तत् बभूव ॥८॥
yat paramam avamam yat ca madhyamam prajāpatiḥ sasṛje viśva-rūpam .kiyatā skambhaḥ pra viveśa tatra yat na prāviśat kiyat tat babhūva ..8..

कियता स्कम्भः प्र विवेश भूतं कियद्भविष्यदन्वाशयेऽस्य ।एकं यदङ्गमकृणोत्सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
कियता स्कम्भः प्र विवेश भूतम् कियत् भविष्यत् अन्वाशये अस्य ।एकम् यत् अङ्गम् अकृणोत् सहस्रधा कियता स्कम्भः प्र विवेश तत्र ॥९॥
kiyatā skambhaḥ pra viveśa bhūtam kiyat bhaviṣyat anvāśaye asya .ekam yat aṅgam akṛṇot sahasradhā kiyatā skambhaḥ pra viveśa tatra ..9..

यत्र लोकाम्श्च कोशांश्चापो ब्रह्म जना विदुः ।असच्च यत्र सच्चान्त स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१०॥ {२२}
यत्र लोकान् च कोशान् च अपः ब्रह्म जनाः विदुः ।असत् च यत्र सत् च अन्तर् स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१०॥
yatra lokān ca kośān ca apaḥ brahma janāḥ viduḥ .asat ca yatra sat ca antar skambham tam brūhi katamaḥ svid eva saḥ ..10..

यत्र तपः पराक्रम्य व्रतं धारयत्युत्तरम् ।ऋतं च यत्र श्रद्धा चापो ब्रह्म समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥११॥
यत्र तपः पराक्रम्य व्रतम् धारयति उत्तरम् ।ऋतम् च यत्र श्रद्धा च अपः ब्रह्म समाहिताः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥११॥
yatra tapaḥ parākramya vratam dhārayati uttaram .ṛtam ca yatra śraddhā ca apaḥ brahma samāhitāḥ skambham tam brūhi katamaḥ svid eva saḥ ..11..

यस्मिन् भूमिरन्तरिक्षं द्यौर्यस्मिन्न् अध्याहिता ।यत्राग्निश्चन्द्रमाः सूर्यो वातस्तिष्ठन्त्यार्पिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१२॥
यस्मिन् भूमिः अन्तरिक्षम् द्यौः यस्मिन् अध्याहिता ।यत्र अग्निः चन्द्रमाः सूर्यः वातः तिष्ठन्ति आर्पिताः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१२॥
yasmin bhūmiḥ antarikṣam dyauḥ yasmin adhyāhitā .yatra agniḥ candramāḥ sūryaḥ vātaḥ tiṣṭhanti ārpitāḥ skambham tam brūhi katamaḥ svid eva saḥ ..12..

यस्य त्रयस्त्रिंशद्देवा अङ्गे सर्वे समाहिताः ।स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१३॥
यस्य त्रयस्त्रिंशत् देवाः अङ्गे सर्वे समाहिताः ।स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१३॥
yasya trayastriṃśat devāḥ aṅge sarve samāhitāḥ .skambham tam brūhi katamaḥ svid eva saḥ ..13..

यत्र ऋषयः प्रथमजा ऋचः साम यजुर्मही ।एकर्षिर्यस्मिन्न् आर्पितः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१४॥
यत्र ऋषयः प्रथम-जाः ऋचः साम यजुः मही ।एक-ऋषिः यस्मिन् आर्पितः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१४॥
yatra ṛṣayaḥ prathama-jāḥ ṛcaḥ sāma yajuḥ mahī .eka-ṛṣiḥ yasmin ārpitaḥ skambham tam brūhi katamaḥ svid eva saḥ ..14..

यत्रामृतं च मृत्युश्च पुरुषेऽधि समाहिते ।समुद्रो यस्य नाड्यः पुरुषेऽधि समाहिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१५॥
यत्र अमृतम् च मृत्युः च पुरुषे अधि समाहिते ।समुद्रः यस्य नाड्यः पुरुषे अधि समाहिताः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१५॥
yatra amṛtam ca mṛtyuḥ ca puruṣe adhi samāhite .samudraḥ yasya nāḍyaḥ puruṣe adhi samāhitāḥ skambham tam brūhi katamaḥ svid eva saḥ ..15..

यस्य चतस्रः प्रदिशो नाड्यस्तिष्ठन्ति प्रथमाः ।यज्ञो यत्र पराक्रान्तः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१६॥
यस्य चतस्रः प्रदिशः नाड्यः तिष्ठन्ति प्रथमाः ।यज्ञः यत्र पराक्रान्तः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१६॥
yasya catasraḥ pradiśaḥ nāḍyaḥ tiṣṭhanti prathamāḥ .yajñaḥ yatra parākrāntaḥ skambham tam brūhi katamaḥ svid eva saḥ ..16..

ये पुरुषे ब्रह्म विदुस्ते विदुः परमेष्ठिनम् ।यो वेद परमेष्ठिनं यश्च वेद प्रजापतिम् ।ज्येष्ठं ये ब्राह्मणं विदुस्ते स्कम्भमनुसंविदुः ॥१७॥
ये पुरुषे ब्रह्म विदुः ते विदुः परमेष्ठिनम् ।यः वेद परमेष्ठिनम् यः च वेद प्रजापतिम् ।ज्येष्ठम् ये ब्राह्मणम् विदुः ते स्कम्भम् अनुसंविदुः ॥१७॥
ye puruṣe brahma viduḥ te viduḥ parameṣṭhinam .yaḥ veda parameṣṭhinam yaḥ ca veda prajāpatim .jyeṣṭham ye brāhmaṇam viduḥ te skambham anusaṃviduḥ ..17..

यस्य शिरो वैश्वानरश्चक्षुरङ्गिरसोऽभवन् ।अङ्गानि यस्य यातवः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१८॥
यस्य शिरः वैश्वानरः चक्षुः अङ्गिरसः अभवन् ।अङ्गानि यस्य यातवः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१८॥
yasya śiraḥ vaiśvānaraḥ cakṣuḥ aṅgirasaḥ abhavan .aṅgāni yasya yātavaḥ skambham tam brūhi katamaḥ svid eva saḥ ..18..

यस्य ब्रह्म मुखमाहुर्जिह्वां मधुकशामुत ।विराजमूधो यस्याहुः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥१९॥
यस्य ब्रह्म मुखम् आहुः जिह्वाम् मधु-कशाम् उत ।विराजमूधः यस्य आहुः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥१९॥
yasya brahma mukham āhuḥ jihvām madhu-kaśām uta .virājamūdhaḥ yasya āhuḥ skambham tam brūhi katamaḥ svid eva saḥ ..19..

यस्मादृचो अपातक्षन् यजुर्यस्मादपाकषन् ।सामानि यस्य लोमान्यथर्वाङ्गिरसो मुखं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२०॥ {२३}
यस्मात् ऋचः अपातक्षन् यजुः यस्मात् अपाकषन् ।सामानि यस्य लोमानि अथर्व-अङ्गिरसः मुखम् स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥२०॥
yasmāt ṛcaḥ apātakṣan yajuḥ yasmāt apākaṣan .sāmāni yasya lomāni atharva-aṅgirasaḥ mukham skambham tam brūhi katamaḥ svid eva saḥ ..20..

असच्शाखां प्रतिष्ठन्तीं परममिव जना विदुः ।उतो सन्मन्यन्तेऽवरे ये ते शाखामुपासते ॥२१॥
असत्-शाखाम् प्रतिष्ठन्तीम् परमम् इव जनाः विदुः ।उत उ सत् मन्यन्ते अवरे ये ते शाखाम् उपासते ॥२१॥
asat-śākhām pratiṣṭhantīm paramam iva janāḥ viduḥ .uta u sat manyante avare ye te śākhām upāsate ..21..

यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः ।भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥२२॥
यत्र आदित्याः च रुद्राः च वसवः च समाहिताः ।भूतम् च यत्र भव्यम् च सर्वे लोकाः प्रतिष्ठिताः स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥२२॥
yatra ādityāḥ ca rudrāḥ ca vasavaḥ ca samāhitāḥ .bhūtam ca yatra bhavyam ca sarve lokāḥ pratiṣṭhitāḥ skambham tam brūhi katamaḥ svid eva saḥ ..22..

यस्य त्रयस्त्रिंशद्देवा निधिं रक्षन्ति सर्वदा ।निधिं तमद्य को वेद यं देवा अभिरक्षथ ॥२३॥
यस्य त्रयस्त्रिंशत् देवाः निधिम् रक्षन्ति सर्वदा ।निधिम् तम् अद्य कः वेद यम् देवाः अभिरक्षथ ॥२३॥
yasya trayastriṃśat devāḥ nidhim rakṣanti sarvadā .nidhim tam adya kaḥ veda yam devāḥ abhirakṣatha ..23..

यत्र देवा ब्रह्मविदो ब्रह्म ज्येष्ठमुपासते ।यो वै तान् विद्यात्प्रत्यक्षं स ब्रह्मा वेदिता स्यात्॥२४॥
यत्र देवाः ब्रह्म-विदः ब्रह्म ज्येष्ठम् उपासते ।यः वै तान् विद्यात् प्रत्यक्षम् स ब्रह्मा वेदिता स्यात्॥२४॥
yatra devāḥ brahma-vidaḥ brahma jyeṣṭham upāsate .yaḥ vai tān vidyāt pratyakṣam sa brahmā veditā syāt..24..

बृहन्तो नाम ते देवा येऽसतः परि जज्ञिरे ।एकं तदङ्गं स्कम्भस्यासदाहुः परो जनाः ॥२५॥
बृहन्तः नाम ते देवाः ये असतः परि जज्ञिरे ।एकम् तत् अङ्गम् स्कम्भस्य असत् आहुः परस् जनाः ॥२५॥
bṛhantaḥ nāma te devāḥ ye asataḥ pari jajñire .ekam tat aṅgam skambhasya asat āhuḥ paras janāḥ ..25..

यत्र स्कम्भः प्रजनयन् पुराणं व्यवर्तयत्।एकं तदङ्गं स्कम्भस्य पुराणमनुसंविदुः ॥२६॥
यत्र स्कम्भः प्रजनयन् पुराणम् व्यवर्तयत्।एकम् तत् अङ्गम् स्कम्भस्य पुराणम् अनुसंविदुः ॥२६॥
yatra skambhaḥ prajanayan purāṇam vyavartayat.ekam tat aṅgam skambhasya purāṇam anusaṃviduḥ ..26..

यस्य त्रयस्त्रिंशद्देवा अङ्गे गात्रा विभेजिरे ।तान् वै त्रयस्त्रिंशद्देवान् एके ब्रहमविदो विदुः ॥२७॥
यस्य त्रयस्त्रिंशत् देवाः अङ्गे गात्रा विभेजिरे ।तान् वै त्रयस्त्रिंशत् देवान् एके ब्रहम् अविदः विदुः ॥२७॥
yasya trayastriṃśat devāḥ aṅge gātrā vibhejire .tān vai trayastriṃśat devān eke braham avidaḥ viduḥ ..27..

हिरण्यगर्भं परममनत्युद्यं जना विदुः ।स्कम्भस्तदग्रे प्रासिञ्चद्धिरण्यं लोके अन्तरा ॥२८॥
हिरण्यगर्भम् परमम् अन् अत्युद्यम् जनाः विदुः ।स्कम्भः तत् अग्रे प्रासिञ्चत् हिरण्यम् लोके अन्तरा ॥२८॥
hiraṇyagarbham paramam an atyudyam janāḥ viduḥ .skambhaḥ tat agre prāsiñcat hiraṇyam loke antarā ..28..

स्कम्भे लोकाः स्कम्भे तपः स्कम्भेऽध्यृतमाहितम् ।स्कम्भ त्वा वेद प्रत्यक्षमिन्द्रे सर्वं समाहितम् ॥२९॥
स्कम्भे लोकाः स्कम्भे तपः स्कम्भे अध्यृतम् आहितम् ।स्कम्भ त्वा वेद प्रत्यक्षम् इन्द्रे सर्वम् समाहितम् ॥२९॥
skambhe lokāḥ skambhe tapaḥ skambhe adhyṛtam āhitam .skambha tvā veda pratyakṣam indre sarvam samāhitam ..29..

इन्द्रे लोका इन्द्रे तप इन्द्रेऽध्यृतमाहितम् ।इन्द्रं त्वा वेद प्रत्यक्षं स्कम्भे सर्वं प्रतिष्ठितम् ॥३०॥ {२४}
इन्द्रे लोकाः इन्द्रे तपः इन्द्रे अध्यृतम् आहितम् ।इन्द्रम् त्वा वेद प्रत्यक्षम् स्कम्भे सर्वम् प्रतिष्ठितम् ॥३०॥
indre lokāḥ indre tapaḥ indre adhyṛtam āhitam .indram tvā veda pratyakṣam skambhe sarvam pratiṣṭhitam ..30..

नाम नाम्ना जोहवीति पुरा सूर्यात्पुरोषसः ।यदजः प्रथमं संबभूव स ह तत्स्वराज्यमियाय यस्मान् नान्यत्परमस्ति भूतम् ॥३१॥
नाम नाम्ना जोहवीति पुरा सूर्यात् पुरा उषसः ।यत् अजः प्रथमम् संबभूव स ह तत् स्वराज्यम् इयाय यस्मात् न अन्यत् परम् अस्ति भूतम् ॥३१॥
nāma nāmnā johavīti purā sūryāt purā uṣasaḥ .yat ajaḥ prathamam saṃbabhūva sa ha tat svarājyam iyāya yasmāt na anyat param asti bhūtam ..31..

यस्य भूमिः प्रमान्तरिक्षमुतोदरम् ।दिवं यश्चक्रे मूर्धानं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
यस्य भूमिः प्रमा अन्तरिक्षम् उत उदरम् ।दिवम् यः चक्रे मूर्धानम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३२॥
yasya bhūmiḥ pramā antarikṣam uta udaram .divam yaḥ cakre mūrdhānam tasmai jyeṣṭhāya brahmaṇe namaḥ ..32..

यस्य सूर्यश्चक्षुश्चन्द्रमाश्च पुनर्णवः ।अग्निं यश्चक्र आस्यं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
यस्य सूर्यः चक्षुः चन्द्रमाः च पुनर्णवः ।अग्निम् यः चक्रे आस्यम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३३॥
yasya sūryaḥ cakṣuḥ candramāḥ ca punarṇavaḥ .agnim yaḥ cakre āsyam tasmai jyeṣṭhāya brahmaṇe namaḥ ..33..

यस्य वातः प्राणापानौ चक्षुरङ्गिरसोऽभवन् ।दिशो यश्चक्रे प्रज्ञानीस्तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
यस्य वातः प्राण-अपानौ चक्षुः अङ्गिरसः अभवन् ।दिशः यः चक्रे प्रज्ञानीः तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३४॥
yasya vātaḥ prāṇa-apānau cakṣuḥ aṅgirasaḥ abhavan .diśaḥ yaḥ cakre prajñānīḥ tasmai jyeṣṭhāya brahmaṇe namaḥ ..34..

स्कम्भो दाधार द्यावापृथिवी उभे इमे स्कम्भो दाधारोर्वन्तरिक्षम् ।स्कम्भो दाधार प्रदिशः षडुर्वीः स्कम्भ इदं विश्वं भुवनमा विवेश ॥३५॥
स्कम्भः दाधार द्यावापृथिवी उभे इमे स्कम्भः दाधार उरु अन्तरिक्षम् ।स्कम्भः दाधार प्रदिशः षड् उर्वीः स्कम्भः इदम् विश्वम् भुवनम् आ विवेश ॥३५॥
skambhaḥ dādhāra dyāvāpṛthivī ubhe ime skambhaḥ dādhāra uru antarikṣam .skambhaḥ dādhāra pradiśaḥ ṣaḍ urvīḥ skambhaḥ idam viśvam bhuvanam ā viveśa ..35..

यः श्रमात्तपसो जातो लोकान्त्सर्वान्त्समानशे ।सोमं यश्चक्रे केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
यः श्रमात् तपसः जातः लोकान् सर्वान् समानशे ।सोमम् यः चक्रे केवलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥३६॥
yaḥ śramāt tapasaḥ jātaḥ lokān sarvān samānaśe .somam yaḥ cakre kevalam tasmai jyeṣṭhāya brahmaṇe namaḥ ..36..

कथं वातो नेलयति कथं न रमते मनः ।किमापः सत्यं प्रेप्सन्तीर्नेलयन्ति कदा चन ॥३७॥
कथम् वातः न इलयति कथम् न रमते मनः ।किम् आपः सत्यम् प्रेप्सन्तीः न इलयन्ति कदा चन ॥३७॥
katham vātaḥ na ilayati katham na ramate manaḥ .kim āpaḥ satyam prepsantīḥ na ilayanti kadā cana ..37..

महद्यक्षं भुवनस्य मध्ये तपसि क्रान्तं सलिलस्य पृष्ठे ।तस्मिन् छ्रयन्ते य उ के च देवा वृक्षस्य स्कन्धः परित इव शाखाः ॥३८॥
महत् यक्षम् भुवनस्य मध्ये तपसि क्रान्तम् सलिलस्य पृष्ठे ।तस्मिन् श्रयन्ते ये उ के च देवाः वृक्षस्य स्कन्धः परितस् इव शाखाः ॥३८॥
mahat yakṣam bhuvanasya madhye tapasi krāntam salilasya pṛṣṭhe .tasmin śrayante ye u ke ca devāḥ vṛkṣasya skandhaḥ paritas iva śākhāḥ ..38..

यस्मै हस्ताभ्यां पादाभ्यां वाचा श्रोत्रेण चक्षुषा ।यस्मै देवाः सदा बलिं प्रयच्छन्ति विमितेऽमितं स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥३९॥
यस्मै हस्ताभ्याम् पादाभ्याम् वाचा श्रोत्रेण चक्षुषा ।यस्मै देवाः सदा बलिम् प्रयच्छन्ति विमिते अमितम् स्कम्भम् तम् ब्रूहि कतमः स्विद् एव सः ॥३९॥
yasmai hastābhyām pādābhyām vācā śrotreṇa cakṣuṣā .yasmai devāḥ sadā balim prayacchanti vimite amitam skambham tam brūhi katamaḥ svid eva saḥ ..39..

अप तस्य हतं तमो व्यावृत्तः स पाप्मना ।सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
अप तस्य हतम् तमः व्यावृत्तः स पाप्मना ।सर्वाणि तस्मिन् ज्योतींषि यानि त्रीणि प्रजापतौ ॥४०॥
apa tasya hatam tamaḥ vyāvṛttaḥ sa pāpmanā .sarvāṇi tasmin jyotīṃṣi yāni trīṇi prajāpatau ..40..

यो वेतसं हिरण्ययं तिष्ठन्तं सलिले वेद ।स वै गुह्यः प्रजापतिः ॥४१॥
यः वेतसम् हिरण्ययम् तिष्ठन्तम् सलिले वेद ।स वै गुह्यः प्रजापतिः ॥४१॥
yaḥ vetasam hiraṇyayam tiṣṭhantam salile veda .sa vai guhyaḥ prajāpatiḥ ..41..

तन्त्रमेके युवती विरूपे अभ्याक्रामं वयतः षण्मयूखम् ।प्रान्या तन्तूंस्तिरते धत्ते अन्या नाप वृञ्जाते न गमातो अन्तम् ॥४२॥
तन्त्रम् एके युवती विरूपे अभ्याक्रामम् वयतः षष्-मयूखम् ।प्र अन्या तन्तून् तिरते धत्ते अन्या न अप वृञ्जाते न गमातः अन्तम् ॥४२॥
tantram eke yuvatī virūpe abhyākrāmam vayataḥ ṣaṣ-mayūkham .pra anyā tantūn tirate dhatte anyā na apa vṛñjāte na gamātaḥ antam ..42..

तयोरहं परिनृत्यन्त्योरिव न वि जानामि यतरा परस्तात्।पुमान् एनद्वयत्युद्गृणन्ति पुमान् एनद्वि जभाराधि नाके ॥४३॥
तयोः अहम् परिनृत्यन्त्योः इव न वि जानामि यतरा परस्तात्।पुमान् एनत् वयति उद्गृणन्ति पुमान् एनत् वि जभारा अधि नाके ॥४३॥
tayoḥ aham parinṛtyantyoḥ iva na vi jānāmi yatarā parastāt.pumān enat vayati udgṛṇanti pumān enat vi jabhārā adhi nāke ..43..

इमे मयूखा उप तस्तभुर्दिवं सामानि चक्रुस्तसराणि वातवे ॥४४॥ {२५}
इमे मयूखाः उप तस्तभुः दिवम् सामानि चक्रुः तसराणि वातवे ॥४४॥
ime mayūkhāḥ upa tastabhuḥ divam sāmāni cakruḥ tasarāṇi vātave ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In