| |
|

This overlay will guide you through the buttons:

यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
यः भूतम् च भव्यम् च सर्वम् यः च अधितिष्ठति ।स्वर् यस्य च केवलम् तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥
yaḥ bhūtam ca bhavyam ca sarvam yaḥ ca adhitiṣṭhati .svar yasya ca kevalam tasmai jyeṣṭhāya brahmaṇe namaḥ ..1..

स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
स्कम्भेन इमे विष्टभिते द्यौः च भूमिः च तिष्ठतः ।स्कम्भे इदम् सर्वम् आत्मन्वत् यत् प्राणत् निमिषत् च यत्॥२॥
skambhena ime viṣṭabhite dyauḥ ca bhūmiḥ ca tiṣṭhataḥ .skambhe idam sarvam ātmanvat yat prāṇat nimiṣat ca yat..2..

तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥
तिस्रः ह प्रजाः अत्यायम् आयन् नि अन्याः अर्कम् अभितस् अविशन्त ।बृहन् ह तस्थौ रजसः विमानः हरितः हरि-णीराः विवेश ॥३॥
tisraḥ ha prajāḥ atyāyam āyan ni anyāḥ arkam abhitas aviśanta .bṛhan ha tasthau rajasaḥ vimānaḥ haritaḥ hari-ṇīrāḥ viveśa ..3..

द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥
द्वादश प्रधयः चक्रम् एकम् त्रीणि नभ्यानि कः उ तत् चिकेत ।तत्र आहताः त्रीणि शतानि शङ्कवः षष्टिः च खीलाः अविचाचलाः ये ॥४॥
dvādaśa pradhayaḥ cakram ekam trīṇi nabhyāni kaḥ u tat ciketa .tatra āhatāḥ trīṇi śatāni śaṅkavaḥ ṣaṣṭiḥ ca khīlāḥ avicācalāḥ ye ..4..

इदं सवितर्वि जानीहि षड्यमा एक एकजः ।तस्मिन् हापित्वमिच्छन्ते य एषामेक एकजः ॥५॥
इदम् सवितर् ऋवि जानीहि षष् यमाः एकः एकजः ।तस्मिन् ह अपित्वम् इच्छन्ते यः एषाम् एकः एकजः ॥५॥
idam savitar ṛvi jānīhi ṣaṣ yamāḥ ekaḥ ekajaḥ .tasmin ha apitvam icchante yaḥ eṣām ekaḥ ekajaḥ ..5..

आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥
आविस् सन् निहितम् गुहा जरत् नाम महत् पदम् ।तत्र इदम् सर्वम् आ अर्पितम् एजत् प्राणत् प्रतिष्ठितम् ॥६॥
āvis san nihitam guhā jarat nāma mahat padam .tatra idam sarvam ā arpitam ejat prāṇat pratiṣṭhitam ..6..

एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥
एक-चक्रम् वर्तते एक-नेमि सहस्र-अक्षरम् प्र पुरस् नि पश्चा ।अर्धेन विश्वम् भुवनम् जजान यत् अस्य अर्धम् क्व तत् बभूव ॥७॥
eka-cakram vartate eka-nemi sahasra-akṣaram pra puras ni paścā .ardhena viśvam bhuvanam jajāna yat asya ardham kva tat babhūva ..7..

पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥
पञ्च-वाही वहति अग्रम् एषाम् प्रष्टयः युक्ताः अनुसंवहन्ति ।अ यातम् अस्य ददृशे न यातम् परम् नेदीयः अवरम् दवीयः ॥८॥
pañca-vāhī vahati agram eṣām praṣṭayaḥ yuktāḥ anusaṃvahanti .a yātam asya dadṛśe na yātam param nedīyaḥ avaram davīyaḥ ..8..

तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥
तिर्यक्-बिलः चमसः ऊर्ध्व-बुध्नः तस्मिन् यशः निहितम् विश्व-रूपम् ।तदा आसत ऋषयः सप्त साकम् ये अस्य गोपाः महतः बभूवुः ॥९॥
tiryak-bilaḥ camasaḥ ūrdhva-budhnaḥ tasmin yaśaḥ nihitam viśva-rūpam .tadā āsata ṛṣayaḥ sapta sākam ye asya gopāḥ mahataḥ babhūvuḥ ..9..

या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।यया यज्ञः प्राङ्तायते तां त्वा पृच्छामि कतमा सर्चाम् ॥१०॥ {२६}
या पुरस्तात् युज्यते या च पश्चात् या विश्वतस् युज्यते या च सर्वतस् ।यया यज्ञः प्राङ् तायते ताम् त्वा पृच्छामि कतमा सा ऋचाम् ॥१०॥
yā purastāt yujyate yā ca paścāt yā viśvatas yujyate yā ca sarvatas .yayā yajñaḥ prāṅ tāyate tām tvā pṛcchāmi katamā sā ṛcām ..10..

यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥
यत् एजति पतति यत् च तिष्ठति प्राणत् अ प्राणत् निमिषत् च यत् भुवत्।तत् दाधार पृथिवीम् विश्व-रूपम् तत् संभूय भवति एकम् एव ॥११॥
yat ejati patati yat ca tiṣṭhati prāṇat a prāṇat nimiṣat ca yat bhuvat.tat dādhāra pṛthivīm viśva-rūpam tat saṃbhūya bhavati ekam eva ..11..

अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥
अनन्तम् विततम् पुरुत्रा अनन्तम् अन्तवत् च समन्ते ।ते नाक-पालः चरति विचिन्वन् विद्वान् भूतम् उत भव्यम् अस्य ॥१२॥
anantam vitatam purutrā anantam antavat ca samante .te nāka-pālaḥ carati vicinvan vidvān bhūtam uta bhavyam asya ..12..

प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥
प्रजापतिः चरति गर्भे अन्तर-दृश्यमानः बहुधा वि जायते ।अर्धेन विश्वम् भुवनम् जजान यत् अस्य अर्धम् कतमः स केतुः ॥१३॥
prajāpatiḥ carati garbhe antara-dṛśyamānaḥ bahudhā vi jāyate .ardhena viśvam bhuvanam jajāna yat asya ardham katamaḥ sa ketuḥ ..13..

ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
ऊर्ध्वम् भरन्तम् उदकम् कुम्भेन इव उदहार्यम् ।पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥
ūrdhvam bharantam udakam kumbhena iva udahāryam .paśyanti sarve cakṣuṣā na sarve manasā viduḥ ..14..

दूरे पूर्णेन वसति दूर ऊनेन हीयते ।महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥
दूरे पूर्णेन वसति दूरे ऊनेन हीयते ।महत् यक्षम् भुवनस्य मध्ये तस्मै बलिम् राष्ट्रभृतः भरन्ति ॥१५॥
dūre pūrṇena vasati dūre ūnena hīyate .mahat yakṣam bhuvanasya madhye tasmai balim rāṣṭrabhṛtaḥ bharanti ..15..

यतः सूर्यः उदेत्यस्तं यत्र च गच्छति ।तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥
यतस् सूर्यः उदेति अस्तम् यत्र च गच्छति ।तत् एव मन्ये अहम् ज्येष्ठम् तत् उ न अत्येति किम् चन ॥१६॥
yatas sūryaḥ udeti astam yatra ca gacchati .tat eva manye aham jyeṣṭham tat u na atyeti kim cana ..16..

ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥
ये अर्वाक् मध्ये उत वा पुराणम् वेदम् विद्वांसम् अभितस् वदन्ति ।आदित्यम् एव ते परि वदन्ति सर्वे अग्निम् द्वितीयम् त्रिवृतम् च हंसम् ॥१७॥
ye arvāk madhye uta vā purāṇam vedam vidvāṃsam abhitas vadanti .ādityam eva te pari vadanti sarve agnim dvitīyam trivṛtam ca haṃsam ..17..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
सहस्राह्ण्यम् वियतौ अस्य पक्षौ हरेः हंसस्य पततः स्वर्गम् ।स देवान् सर्वान् उरसि उपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥
sahasrāhṇyam viyatau asya pakṣau hareḥ haṃsasya patataḥ svargam .sa devān sarvān urasi upadadya saṃpaśyan yāti bhuvanāni viśvā ..18..

सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥
सत्येन ऊर्ध्वः तपति ब्रह्मणा अर्वाङ् वि पश्यति ।प्राणेन तिर्यङ् प्राणति यस्मिन् ज्येष्ठम् अधि श्रितम् ॥१९॥
satyena ūrdhvaḥ tapati brahmaṇā arvāṅ vi paśyati .prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam ..19..

यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}
यः वै ते विद्यात् अरणी याभ्याम् निर्मथ्यते वसु ।स विद्वान् ज्येष्ठम् मन्येत स विद्यात् ब्राह्मणम् महत्॥२०॥
yaḥ vai te vidyāt araṇī yābhyām nirmathyate vasu .sa vidvān jyeṣṭham manyeta sa vidyāt brāhmaṇam mahat..20..

अपादग्रे समभवत्सो अग्रे स्वराभरत्।चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥
अ पाद् अग्रे समभवत् सः अग्रे स्वर् आभरत्।चतुष्पाद् भूत्वा भोग्यः सर्वम् आदत्त भोजनम् ॥२१॥
a pād agre samabhavat saḥ agre svar ābharat.catuṣpād bhūtvā bhogyaḥ sarvam ādatta bhojanam ..21..

भोग्यो भवदथो अन्नमदद्बहु ।यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥
भोग्यः भवत् अथो अन्नम् अदत् बहु ।यः देवम् उत्तरावन्तम् उपासातै सनातनम् ॥२२॥
bhogyaḥ bhavat atho annam adat bahu .yaḥ devam uttarāvantam upāsātai sanātanam ..22..

सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥
सनातनम् एनम् आहुः उत अद्य स्यात् पुनर्णवः ।अहोरात्रे प्र जायेते अन्यः अन्यस्य रूपयोः ॥२३॥
sanātanam enam āhuḥ uta adya syāt punarṇavaḥ .ahorātre pra jāyete anyaḥ anyasya rūpayoḥ ..23..

शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥
शतम् सहस्रम् अयुतम् न्यर्बुदम् असंख्येयम् स्वम् अस्मिन् निविष्टम् ।तत् अस्य घ्नन्ति अभिपश्यतः एव तस्मात् देवः रोचत इषः एतत्॥२४॥
śatam sahasram ayutam nyarbudam asaṃkhyeyam svam asmin niviṣṭam .tat asya ghnanti abhipaśyataḥ eva tasmāt devaḥ rocata iṣaḥ etat..24..

बालादेकमणीयस्कमुतैकं नेव दृश्यते ।ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
बालात् एक-मणीयस्कम् उत एकम् न इव दृश्यते ।ततस् परिष्वजीयसी देवता सा मम प्रिया ॥२५॥
bālāt eka-maṇīyaskam uta ekam na iva dṛśyate .tatas pariṣvajīyasī devatā sā mama priyā ..25..

इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।यस्मै कृता शये स यश्चकार जजार सः ॥२६॥
इयम् कल्याणी अजरा मर्त्यस्य अमृता गृहे ।यस्मै कृता शये स यः चकार जजार सः ॥२६॥
iyam kalyāṇī ajarā martyasya amṛtā gṛhe .yasmai kṛtā śaye sa yaḥ cakāra jajāra saḥ ..26..

त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥
त्वम् स्त्री त्वम् पुमान् असि त्वम् कुमारः उत वा कुमारी॥त्वम् जीर्णः दण्डेन वञ्चसि त्वम् जातः भवसि विश्वतोमुखः ॥२७॥
tvam strī tvam pumān asi tvam kumāraḥ uta vā kumārī..tvam jīrṇaḥ daṇḍena vañcasi tvam jātaḥ bhavasi viśvatomukhaḥ ..27..

उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥
उत एषाम् पिता उत वा पुत्रः एषाम् उत एषाम् ज्येष्ठः उत वा कनिष्ठः ।एकः ह देवः मनसि प्रविष्टः प्रथमः जातः सः उ गर्भे अन्तर् ॥२८॥
uta eṣām pitā uta vā putraḥ eṣām uta eṣām jyeṣṭhaḥ uta vā kaniṣṭhaḥ .ekaḥ ha devaḥ manasi praviṣṭaḥ prathamaḥ jātaḥ saḥ u garbhe antar ..28..

पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥
पूर्णात् पूर्णम् उदचति पूर्णम् पूर्णेन सिच्यते ।उत उ तत् अद्य विद्याम यतस् तत् परिषिच्यते ॥२९॥
pūrṇāt pūrṇam udacati pūrṇam pūrṇena sicyate .uta u tat adya vidyāma yatas tat pariṣicyate ..29..

एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}
एषा सनत्नी सनमा इव जाता एषा पुराणी परि सर्वम् बभूव ।मही देवी उषसः विभाती सा एकेन एकेन मिषता वि चष्टे ॥३०॥
eṣā sanatnī sanamā iva jātā eṣā purāṇī pari sarvam babhūva .mahī devī uṣasaḥ vibhātī sā ekena ekena miṣatā vi caṣṭe ..30..

अविर्वै नाम देवतर्तेनास्ते परीवृता ।तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥
अविः वै नाम देवता ऋतेन आस्ते परीवृता ।तस्याः रूपेण इमे वृक्षाः हरिताः हरित-स्रजः ॥३१॥
aviḥ vai nāma devatā ṛtena āste parīvṛtā .tasyāḥ rūpeṇa ime vṛkṣāḥ haritāḥ harita-srajaḥ ..31..

अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥
अन्ति सन्तम् न जहाति अन्ति सन्तम् न पश्यति ।देवस्य पश्य काव्यम् न ममार न जीर्यति ॥३२॥
anti santam na jahāti anti santam na paśyati .devasya paśya kāvyam na mamāra na jīryati ..32..

अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।वदन्तीर्यत्र गच्छन्ति तदाहुर्ब्राह्मणं महत्॥३३॥
अपूर्वेण इषिताः वाचः ताः वदन्ति यथायथम् ।वदन्तीः यत्र गच्छन्ति तत् आहुः ब्राह्मणम् महत्॥३३॥
apūrveṇa iṣitāḥ vācaḥ tāḥ vadanti yathāyatham .vadantīḥ yatra gacchanti tat āhuḥ brāhmaṇam mahat..33..

यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥
यत्र देवाः च मनुष्याः च अराः नाभौ इव श्रिताः ।अपाम् त्वा पुष्पम् पृच्छामि यत्र तत् मायया हितम् ॥३४॥
yatra devāḥ ca manuṣyāḥ ca arāḥ nābhau iva śritāḥ .apām tvā puṣpam pṛcchāmi yatra tat māyayā hitam ..34..

येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥
येभिः वातः इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।ये आहुतिम् अत्यमन्यन्त देवाः अपाम् नेतारः कतमे ते आसन् ॥३५॥
yebhiḥ vātaḥ iṣitaḥ pravāti ye dadante pañca diśaḥ sadhrīcīḥ .ye āhutim atyamanyanta devāḥ apām netāraḥ katame te āsan ..35..

इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥
इमाम् एषाम् पृथिवीम् वस्ते एकः अन्तरिक्षम् पर्येकः बभूव ।दिवम् एषाम् ददते यः विधर्ता विश्वाः आशाः प्रति रक्षन्ति एके ॥३६॥
imām eṣām pṛthivīm vaste ekaḥ antarikṣam paryekaḥ babhūva .divam eṣām dadate yaḥ vidhartā viśvāḥ āśāḥ prati rakṣanti eke ..36..

यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥
यः विद्यात् सूत्रम् विततम् यस्मिन् ओताः प्रजाः इमाः ।सूत्रम् सूत्रस्य यः विद्यात् स विद्यात् ब्राह्मणम् महत्॥३७॥
yaḥ vidyāt sūtram vitatam yasmin otāḥ prajāḥ imāḥ .sūtram sūtrasya yaḥ vidyāt sa vidyāt brāhmaṇam mahat..37..

वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥
वेद अहम् सूत्रम् विततम् यस्मिन् ओताः प्रजाः इमाः ।सूत्रम् सूत्रस्य अहम् वेद अथ उ यत् ब्राह्मणम् महत्॥३८॥
veda aham sūtram vitatam yasmin otāḥ prajāḥ imāḥ .sūtram sūtrasya aham veda atha u yat brāhmaṇam mahat..38..

यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥
यत् अन्तरा द्यावापृथिवी अग्निः ऐत् प्रदहन् विश्वदाव्यः ।यत्र अतिष्ठन् एकपत्नीः परस्तात् क्व इव आसीत् मातरिश्वा तदानीम् ॥३९॥
yat antarā dyāvāpṛthivī agniḥ ait pradahan viśvadāvyaḥ .yatra atiṣṭhan ekapatnīḥ parastāt kva iva āsīt mātariśvā tadānīm ..39..

अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥
अप्सु आसीत् मातरिश्वा प्रविष्टः प्रविष्टाः देवाः सलिलानि आसन्॥बृहन् ह तस्थौ रजसः विमानः पवमानः हरितः आ विवेश ॥४०॥
apsu āsīt mātariśvā praviṣṭaḥ praviṣṭāḥ devāḥ salilāni āsan..bṛhan ha tasthau rajasaḥ vimānaḥ pavamānaḥ haritaḥ ā viveśa ..40..

उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥
उत्तरेण इव गयत्रीम् अमृते अधि वि चक्रमे ।साम्ना ये साम संविदुः अजः तत् ददृशे क्व ॥४१॥
uttareṇa iva gayatrīm amṛte adhi vi cakrame .sāmnā ye sāma saṃviduḥ ajaḥ tat dadṛśe kva ..41..

निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥
निवेशनः संगमनः वसूनाम् देवः इव सविता सत्य-धर्मा ।इन्द्रः न तस्थौ समरे धनानाम् ॥४२॥
niveśanaḥ saṃgamanaḥ vasūnām devaḥ iva savitā satya-dharmā .indraḥ na tasthau samare dhanānām ..42..

पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥
पुण्डरीकम् नव-द्वारम् त्रिभिः गुणेभिः आवृतम् ।तस्मिन् यत् यक्षम् आत्मन्वत् तत् वै ब्रह्म-विदः विदुः ॥४३॥
puṇḍarīkam nava-dvāram tribhiḥ guṇebhiḥ āvṛtam .tasmin yat yakṣam ātmanvat tat vai brahma-vidaḥ viduḥ ..43..

अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}
अकामः धीरः अमृतः स्वयंभूः रसेन तृप्तः न कुतश्चन ऊनः ।तम् एव विद्वान् न बिभाय मृत्योः आत्मानम् धीरम् अजरम् युवानम् ॥४४॥
akāmaḥ dhīraḥ amṛtaḥ svayaṃbhūḥ rasena tṛptaḥ na kutaścana ūnaḥ .tam eva vidvān na bibhāya mṛtyoḥ ātmānam dhīram ajaram yuvānam ..44..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In