| |
|

This overlay will guide you through the buttons:

अघायतामपि नह्या मुखानि सपत्नेषु वज्रमर्पयैतम् ।इन्द्रेण दत्ता प्रथमा शतौदना भ्रातृव्यघ्नी यजमानस्य गातुः ॥१॥
अघायताम् अपि नह्याः मुखानि सपत्नेषु वज्रम् अर्पय एतम् ।इन्द्रेण दत्ता प्रथमा शत-ओदना भ्रातृव्य-घ्नी यजमानस्य गातुः ॥१॥
aghāyatām api nahyāḥ mukhāni sapatneṣu vajram arpaya etam .indreṇa dattā prathamā śata-odanā bhrātṛvya-ghnī yajamānasya gātuḥ ..1..

वेदिष्टे चर्म भवतु बर्हिर्लोमानि यानि ते ।एषा त्वा रशनाग्रभीद्ग्रावा त्वैषोऽधि नृत्यतु ॥२॥
वेदिष्टे चर्म भवतु बर्हिः-लोमानि यानि ते ।एषा त्वा रशना अग्रभीत् ग्रावा त्वा एषः अधि नृत्यतु ॥२॥
vediṣṭe carma bhavatu barhiḥ-lomāni yāni te .eṣā tvā raśanā agrabhīt grāvā tvā eṣaḥ adhi nṛtyatu ..2..

बालास्ते प्रोक्षणीः सन्तु जीह्वा सं मार्ष्टु अघ्न्ये ।शुद्धा त्वं यज्ञिया भूत्वा दिवं प्रेहि शतौदने ॥३॥
बालाः ते प्रोक्षणीः सन्तु जीह्वा सम् मार्ष्टु अघ्न्ये ।शुद्धा त्वम् यज्ञिया भूत्वा दिवम् प्रेहि शत-ओदने ॥३॥
bālāḥ te prokṣaṇīḥ santu jīhvā sam mārṣṭu aghnye .śuddhā tvam yajñiyā bhūtvā divam prehi śata-odane ..3..

यः शतौदनां पचति कामप्रेण स कल्पते ।प्रीता ह्यस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
यः शत-ओदनाम् पचति कामप्रेण स कल्पते ।प्रीताः हि अस्य ऋत्विजः सर्वे यन्ति यथायथम् ॥४॥
yaḥ śata-odanām pacati kāmapreṇa sa kalpate .prītāḥ hi asya ṛtvijaḥ sarve yanti yathāyatham ..4..

स स्वर्गमा रोहति यत्रादस्त्रिदिवं दिवः ।अपूपनाभिं कृत्वा यो ददाति शतौदनाम् ॥५॥
स स्वर्गम् आ रोहति यत्र अदः त्रिदिवम् दिवः ।अपूप-नाभिम् कृत्वा यः ददाति शत-ओदनाम् ॥५॥
sa svargam ā rohati yatra adaḥ tridivam divaḥ .apūpa-nābhim kṛtvā yaḥ dadāti śata-odanām ..5..

स तांल्लोकान्त्समाप्नोति ये दिव्या ये च पार्थिवाः ।हिरण्यज्योतिषं कृत्वा यो ददाति शतौदनाम् ॥६॥
स तान् लोकान् समाप्नोति ये दिव्याः ये च पार्थिवाः ।हिरण्य-ज्योतिषम् कृत्वा यः ददाति शत-ओदनाम् ॥६॥
sa tān lokān samāpnoti ye divyāḥ ye ca pārthivāḥ .hiraṇya-jyotiṣam kṛtvā yaḥ dadāti śata-odanām ..6..

ये ते देवि शमितारः पक्तारो ये च ते जनाः ।ते त्वा सर्वे गोप्स्यन्ति मैभ्यो भैषीः शतौदने ॥७॥
ये ते देवि शमितारः पक्तारः ये च ते जनाः ।ते त्वा सर्वे गोप्स्यन्ति मा एभ्यः भैषीः शत-ओदने ॥७॥
ye te devi śamitāraḥ paktāraḥ ye ca te janāḥ .te tvā sarve gopsyanti mā ebhyaḥ bhaiṣīḥ śata-odane ..7..

वसवस्त्वा दक्षिणत उत्तरान् मरुतस्त्वा ।आदित्याः पश्चाद्गोप्स्यन्ति साग्निष्टोममति द्रव ॥८॥
वसवः त्वा दक्षिणतस् उत्तरात् मरुतः त्वा ।आदित्याः पश्चात् गोप्स्यन्ति सा अग्निष्टोमम् अति द्रव ॥८॥
vasavaḥ tvā dakṣiṇatas uttarāt marutaḥ tvā .ādityāḥ paścāt gopsyanti sā agniṣṭomam ati drava ..8..

देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।ते त्वा सर्वे गोप्स्यन्ति सातिरात्रमति द्रव ॥९॥
देवाः पितरः मनुष्याः गन्धर्व-अप्सरसः च ये ।ते त्वा सर्वे गोप्स्यन्ति सा अतिरात्रम् अति द्रव ॥९॥
devāḥ pitaraḥ manuṣyāḥ gandharva-apsarasaḥ ca ye .te tvā sarve gopsyanti sā atirātram ati drava ..9..

अन्तरिक्षं दिवं भूमिमादित्यान् मरुतो दिशः ।लोकान्त्स सर्वान् आप्नोति यो ददाति शतौदनाम् ॥१०॥ {३०}
अन्तरिक्षम् दिवम् भूमिम् आदित्यान् मरुतः दिशः ।लोकान् स सर्वान् आप्नोति यः ददाति शत-ओदनाम् ॥१०॥
antarikṣam divam bhūmim ādityān marutaḥ diśaḥ .lokān sa sarvān āpnoti yaḥ dadāti śata-odanām ..10..

घृतं प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।पक्तारमघ्न्ये मा हिंसीर्दिवं प्रेहि शतौदने ॥११॥
घृतम् प्रोक्षन्ती सुभगा देवी देवान् गमिष्यति ।पक्तारम् अघ्न्ये मा हिंसीः दिवम् प्रेहि शत-ओदने ॥११॥
ghṛtam prokṣantī subhagā devī devān gamiṣyati .paktāram aghnye mā hiṃsīḥ divam prehi śata-odane ..11..

ये देवा दिविषदो अन्तरिक्षसदश्च ये ये चेमे भूम्यामधि ।तेभ्यस्त्वं धुक्ष्व सर्वदा क्षीरं सर्पिरथो मधु ॥१२॥
ये देवाः दिविषदः अन्तरिक्ष-सदः च ये ये च इमे भूम्याम् अधि ।तेभ्यः त्वम् धुक्ष्व सर्वदा क्षीरम् सर्पिः अथ उ मधु ॥१२॥
ye devāḥ diviṣadaḥ antarikṣa-sadaḥ ca ye ye ca ime bhūmyām adhi .tebhyaḥ tvam dhukṣva sarvadā kṣīram sarpiḥ atha u madhu ..12..

यत्ते शिरो यत्ते मुखं यौ कर्णौ ये च ते हनू ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१३॥
यत् ते शिरः यत् ते मुखम् यौ कर्णौ ये च ते हनू ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१३॥
yat te śiraḥ yat te mukham yau karṇau ye ca te hanū .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..13..

यौ त ओष्ठौ ये नासिके ये शृङ्गे ये च तेऽक्षिणी ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१४॥
यौ ते ओष्ठौ ये नासिके ये शृङ्गे ये च ते अक्षिणी ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१४॥
yau te oṣṭhau ye nāsike ye śṛṅge ye ca te akṣiṇī .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..14..

यत्ते क्लोमा यद्धृदयं पुरीतत्सहकण्ठिका ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१५॥
यत् ते क्लोमा यत् हृदयम् पुरीतत् सहकण्ठिका ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१५॥
yat te klomā yat hṛdayam purītat sahakaṇṭhikā .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..15..

यत्ते यकृद्ये मतस्ने यदान्त्रं याश्च ते गुदाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१६॥
यत् ते यकृत् ये मतस्ने यत् आन्त्रम् याः च ते गुदाः ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१६॥
yat te yakṛt ye matasne yat āntram yāḥ ca te gudāḥ .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..16..

यस्ते प्लाशिर्यो वनिष्ठुर्यौ कुक्षी यच्च चर्म ते ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१७॥
यः ते प्लाशिः यः वनिष्ठुः यौ कुक्षी यत् च चर्म ते ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१७॥
yaḥ te plāśiḥ yaḥ vaniṣṭhuḥ yau kukṣī yat ca carma te .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..17..

यत्ते मज्जा यदस्थि यन् मंसं यच्च लोहितम् ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१८॥
यत् ते मज्जा यत् अस्थि यत् मंसम् यत् च लोहितम् ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१८॥
yat te majjā yat asthi yat maṃsam yat ca lohitam .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..18..

यौ ते बाहू ये दोषणी यावंसौ या च ते ककुत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥१९॥
यौ ते बाहू ये दोषणी यौ अंसौ या च ते ककुद्।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥१९॥
yau te bāhū ye doṣaṇī yau aṃsau yā ca te kakud.āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..19..

यास्ते ग्रीवा ये स्कन्धा याः पृष्टीर्याश्च पर्शवः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२०॥ {३१}
याः ते ग्रीवाः ये स्कन्धाः याः पृष्टीः याः च पर्शवः ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥२०॥
yāḥ te grīvāḥ ye skandhāḥ yāḥ pṛṣṭīḥ yāḥ ca parśavaḥ .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..20..

यौ त उरू अष्ठीवन्तौ ये श्रोणी या च ते भसत्।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२१॥
यौ ते उरू अष्ठीवन्तौ ये श्रोणी या च ते भसद्।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥२१॥
yau te urū aṣṭhīvantau ye śroṇī yā ca te bhasad.āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..21..

यत्ते पुच्छं ये ते बाला यदूधो ये च ते स्तनाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२२॥
यत् ते पुच्छम् ये ते वालाः यत् ऊधर् ये च ते स्तनाः ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥२२॥
yat te puccham ye te vālāḥ yat ūdhar ye ca te stanāḥ .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..22..

यास्ते जङ्घाः याः कुष्ठिका ऋच्छरा ये च ते शफाः ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२३॥
याः ते जङ्घाः याः कुष्ठिकाः ऋच्छराः ये च ते शफाः ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥२३॥
yāḥ te jaṅghāḥ yāḥ kuṣṭhikāḥ ṛccharāḥ ye ca te śaphāḥ .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..23..

यत्ते चर्म शतौदने यानि लोमान्यघ्न्ये ।आमिक्षां दुह्रतां दात्रे क्षीरं सर्पिरथो मधु ॥२४॥
यत् ते चर्म शत-ओदने यानि लोमानि अघ्न्ये ।आमिक्षाम् दुह्रताम् दात्रे क्षीरम् सर्पिः अथ उ मधु ॥२४॥
yat te carma śata-odane yāni lomāni aghnye .āmikṣām duhratām dātre kṣīram sarpiḥ atha u madhu ..24..

क्रोडौ ते स्तां पुरोडाशावाज्येनाभिघारितौ ।तौ पक्षौ देवि कृत्वा सा पक्तारं दिवं वह ॥२५॥
क्रोडौ ते स्ताम् पुरोडाशौ आज्येन अभिघारितौ ।तौ पक्षौ देवि कृत्वा सा पक्तारम् दिवम् वह ॥२५॥
kroḍau te stām puroḍāśau ājyena abhighāritau .tau pakṣau devi kṛtvā sā paktāram divam vaha ..25..

उलूखले मुसले यश्च चर्मणि यो वा शूर्पे तण्डुलः कणः ।यं वा वातो मातरिश्वा पवमानो ममाथाग्निष्टद्धोता सुहुतं कृणोतु ॥२६॥
उलूखले मुसले यः च चर्मणि यः वा शूर्पे तण्डुलः कणः ।यम् वा वातः मातरिश्वा पवमानः ममाथ अग्निष्टत् होता सु हुतम् कृणोतु ॥२६॥
ulūkhale musale yaḥ ca carmaṇi yaḥ vā śūrpe taṇḍulaḥ kaṇaḥ .yam vā vātaḥ mātariśvā pavamānaḥ mamātha agniṣṭat hotā su hutam kṛṇotu ..26..

अपो देवीर्मधुमतीर्घृतश्चुतो ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहं तन् मे सर्वं सं पद्यतां वयं स्याम पतयो रयीणाम् ॥२७॥ {३२}
अपः देवीः मधुमतीः घृतश्चुतः ब्रह्मणाम् हस्तेषु प्रपृथक् सादयामि ।यद्-कामः इदम् अभिषिञ्चामि वः अहम् तत् मे सर्वम् सम् पद्यताम् वयम् स्याम पतयः रयीणाम् ॥२७॥
apaḥ devīḥ madhumatīḥ ghṛtaścutaḥ brahmaṇām hasteṣu prapṛthak sādayāmi .yad-kāmaḥ idam abhiṣiñcāmi vaḥ aham tat me sarvam sam padyatām vayam syāma patayaḥ rayīṇām ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In