| |
|

This overlay will guide you through the buttons:

अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा ।सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥१॥
अग्ने जायस्व अदितिः नाथिता इयम् ब्रह्मौदनम् पचति पुत्र-कामा ।सप्त-ऋषयः भूत-कृतः ते त्वा मन्थन्तु प्रजया सह इह ॥१॥
agne jāyasva aditiḥ nāthitā iyam brahmaudanam pacati putra-kāmā .sapta-ṛṣayaḥ bhūta-kṛtaḥ te tvā manthantu prajayā saha iha ..1..

कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ ।अयमग्निः पृतनाषाट्सुवीरो येन देवा असहन्त दस्यून् ॥२॥
कृणुत धूमम् वृषणः सखायः अद्रोघाविताः वाचम् अच्छ ।अयम् अग्निः पृतनाषाह् सु वीरः येन देवाः असहन्त दस्यून् ॥२॥
kṛṇuta dhūmam vṛṣaṇaḥ sakhāyaḥ adroghāvitāḥ vācam accha .ayam agniḥ pṛtanāṣāh su vīraḥ yena devāḥ asahanta dasyūn ..2..

अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।सप्तऋषयो भूतकृतस्ते त्वाजीजनन्न् अस्यै रयिं सर्ववीरं नि यच्छ ॥३॥
अग्ने अजनिष्ठाः महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः ।सप्त-ऋषयः भूत-कृतः ते त्वा अजीजनन् अस्यै रयिम् सर्व-वीरम् नि यच्छ ॥३॥
agne ajaniṣṭhāḥ mahate vīryāya brahmaudanāya paktave jātavedaḥ .sapta-ṛṣayaḥ bhūta-kṛtaḥ te tvā ajījanan asyai rayim sarva-vīram ni yaccha ..3..

समिद्धो अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियामेह वक्षः ।तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥४॥
समिद्धः अग्ने समिधा समिध्यस्व विद्वान् देवान् यज्ञियाम इह वक्षः ।तेभ्यः हविः श्रपयन् जातवेदः उत्तमम् नाकम् अधि रोहय इमम् ॥४॥
samiddhaḥ agne samidhā samidhyasva vidvān devān yajñiyāma iha vakṣaḥ .tebhyaḥ haviḥ śrapayan jātavedaḥ uttamam nākam adhi rohaya imam ..4..

त्रेधा भागो निहितो यः पुरा वो देवानां पितॄणां मर्त्यानाम् ।अंशां जानीध्वं वि भजामि तान् वो यो देवानां स इमां पारयाति ॥५॥
त्रेधा भागः निहितः यः पुरा वः देवानाम् पितॄणाम् मर्त्यानाम् ।अंशाम् जानीध्वम् वि भजामि तान् वः यः देवानाम् सः इमाम् पारयाति ॥५॥
tredhā bhāgaḥ nihitaḥ yaḥ purā vaḥ devānām pitṝṇām martyānām .aṃśām jānīdhvam vi bhajāmi tān vaḥ yaḥ devānām saḥ imām pārayāti ..5..

अग्ने सहस्वान् अभिभूरभीदसि नीचो न्युब्ज द्विषतः सपत्नान् ।इयं मात्रा मीयमाना मिता च सजातांस्ते बलिहृतः कृणोतु ॥६॥
अग्ने सहस्वान् अभिभूः अभीदसि नीचः न्युब्ज द्विषतः सपत्नान् ।इयम् मात्रा मीयमाना मिता च सजातान् ते बलि-हृतः कृणोतु ॥६॥
agne sahasvān abhibhūḥ abhīdasi nīcaḥ nyubja dviṣataḥ sapatnān .iyam mātrā mīyamānā mitā ca sajātān te bali-hṛtaḥ kṛṇotu ..6..

साकं सजातैः पयसा सहैध्युदुब्जैनां महते वीर्याय ।ऊर्ध्वो नाकस्याधि रोह विष्टपं स्वर्गो लोक इति यं वदन्ति ॥७॥
साकम् सजातैः पयसा सह एधि उदुब्जा एनाम् महते वीर्याय ।ऊर्ध्वः नाकस्य अधि रोह विष्टपम् स्वर्गः लोकः इति यम् वदन्ति ॥७॥
sākam sajātaiḥ payasā saha edhi udubjā enām mahate vīryāya .ūrdhvaḥ nākasya adhi roha viṣṭapam svargaḥ lokaḥ iti yam vadanti ..7..

इयं मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।अथ गछेम सुकृतस्य लोकम् ॥८॥
इयम् मही प्रति गृह्णातु चर्म पृथिवी देवी सुमनस्यमाना ।अथ गच्छेम सुकृतस्य लोकम् ॥८॥
iyam mahī prati gṛhṇātu carma pṛthivī devī sumanasyamānā .atha gacchema sukṛtasya lokam ..8..

एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्ध्यंशून् यजमानाय साधु ।अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥९॥
एतौ ग्रावाणौ सयुजा युङ्धि चर्मणि निर्बिन्धि अंशून् यजमानाय साधु ।अवघ्नती नि जहि ये इमाम् पृतन्यवः ऊर्ध्वम् प्रजाम् उद्भरन्ती उदूह ॥९॥
etau grāvāṇau sayujā yuṅdhi carmaṇi nirbindhi aṃśūn yajamānāya sādhu .avaghnatī ni jahi ye imām pṛtanyavaḥ ūrdhvam prajām udbharantī udūha ..9..

गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः ।त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥१०॥ {१}
गृहाण ग्रावाणौ सकृतौ वीर हस्ते आ ते देवाः यज्ञियाः यज्ञम् अगुः ।त्रयः वराः यतमान् त्वम् वृणीषे ताः ते समृद्धीः इह राधयामि ॥१०॥
gṛhāṇa grāvāṇau sakṛtau vīra haste ā te devāḥ yajñiyāḥ yajñam aguḥ .trayaḥ varāḥ yatamān tvam vṛṇīṣe tāḥ te samṛddhīḥ iha rādhayāmi ..10..

इयं ते धीतिरिदमु ते जनित्रं गृह्णातु त्वामदितिः शूरपुत्रा ।परा पुनीहि य इमां पृतन्यवोऽस्यै रयिं सर्ववीरं नि यच्छ ॥११॥
इयम् ते धीतिः इदम् उ ते जनित्रम् गृह्णातु त्वाम् अदितिः शूर-पुत्रा ।परा पुनीहि ये इमाम् पृतन्यवः अस्यै रयिम् सर्व-वीरम् नि यच्छ ॥११॥
iyam te dhītiḥ idam u te janitram gṛhṇātu tvām aditiḥ śūra-putrā .parā punīhi ye imām pṛtanyavaḥ asyai rayim sarva-vīram ni yaccha ..11..

उपश्वसे द्रुवये सीदता यूयं वि विच्यध्वं यज्ञियासस्तुषैः ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥१२॥
उपश्वसे द्रुवये सीदत आ यूयम् वि विच्यध्वम् यज्ञियासः तुषैः ।श्रिया समानान् अति सर्वान् स्याम अधस्पदम् द्विषतः पादयामि ॥१२॥
upaśvase druvaye sīdata ā yūyam vi vicyadhvam yajñiyāsaḥ tuṣaiḥ .śriyā samānān ati sarvān syāma adhaspadam dviṣataḥ pādayāmi ..12..

परेहि नारि पुनरेहि क्षिप्रमपां त्वा गोष्ठो अध्यरुक्षद्भराय ।तासां गृह्णीताद्यतमा यज्ञिया असन् विभाज्य धीरीतरा जहीतात्॥१३॥
परेहि नारि पुनर् एहि क्षिप्रम् अपाम् त्वा गोष्ठः अध्यरुक्षत् भराय ।तासाम् गृह्णीत अद्यतमाः यज्ञियाः असन् विभाज्य धीरीतरा जहीतात्॥१३॥
parehi nāri punar ehi kṣipram apām tvā goṣṭhaḥ adhyarukṣat bharāya .tāsām gṛhṇīta adyatamāḥ yajñiyāḥ asan vibhājya dhīrītarā jahītāt..13..

एमा अगुर्योषितः शुम्भमाना उत्तिष्ठ नारि तवसं रभस्व ।सुपत्नी पत्या प्रजया प्रजावत्या त्वागन् यज्ञः प्रति कुम्भं गृभाय ॥१४॥
आ इमाः अगुरि ओषितः शुम्भमानाः उत्तिष्ठ नारि तवसम् रभस्व ।सु पत्नी पत्या प्रजया प्रजावत्या त्वा अगन् यज्ञः प्रति कुम्भम् गृभाय ॥१४॥
ā imāḥ aguri oṣitaḥ śumbhamānāḥ uttiṣṭha nāri tavasam rabhasva .su patnī patyā prajayā prajāvatyā tvā agan yajñaḥ prati kumbham gṛbhāya ..14..

ऊर्जो भागो निहितो यः पुरा व ऋषिप्रशिष्टाप आ भरैताः ।अयं यज्ञो गातुविन् नाथवित्प्रजाविदुग्रः पशुविद्वीरविद्वो अस्तु ॥१५॥
ऊर्जः भागः निहितः यः पुरा वः ऋषि-प्रशिष्ट अपः आ भर एताः ।अयम् यज्ञः गातु-विद् नाथ-विद् प्रजा-विद् उग्रः पशु-विद् वीर-विद् वः अस्तु ॥१५॥
ūrjaḥ bhāgaḥ nihitaḥ yaḥ purā vaḥ ṛṣi-praśiṣṭa apaḥ ā bhara etāḥ .ayam yajñaḥ gātu-vid nātha-vid prajā-vid ugraḥ paśu-vid vīra-vid vaḥ astu ..15..

अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम् ।आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥१६॥
अग्ने चरुः यज्ञियः त्वा अध्यरुक्षत् शुचिः तपिष्ठः तपसा तप एनम् ।आर्षेयाः दैवाः अभिसंगत्य भागम् इमम् तपिष्ठाः ऋतुभिः तपन्तु ॥१६॥
agne caruḥ yajñiyaḥ tvā adhyarukṣat śuciḥ tapiṣṭhaḥ tapasā tapa enam .ārṣeyāḥ daivāḥ abhisaṃgatya bhāgam imam tapiṣṭhāḥ ṛtubhiḥ tapantu ..16..

शुद्धाः पूता योषितो यज्ञिया इमा आपश्चरुमव सर्पन्तु शुभ्राः ।अदुः प्रजां बहुलां पशून् नः पक्तौदनस्य सुकृतामेतु लोकम् ॥१७॥
शुद्धाः पूताः योषितः यज्ञियाः इमाः आपः चरुम् अव सर्पन्तु शुभ्राः ।अदुः प्रजाम् बहुलाम् पशून् नः पक्ता ओदनस्य सु कृताम् एतु लोकम् ॥१७॥
śuddhāḥ pūtāḥ yoṣitaḥ yajñiyāḥ imāḥ āpaḥ carum ava sarpantu śubhrāḥ .aduḥ prajām bahulām paśūn naḥ paktā odanasya su kṛtām etu lokam ..17..

ब्रह्मणा शुद्धा उत पूता घृतेन सोमस्यांशवस्तण्डुला यज्ञिया इमे ।अपः प्र विशत प्रति गृह्णातु वश्चरुरिमं पक्त्वा सुकृतामेत लोकम् ॥१८॥
ब्रह्मणा शुद्धाः उत पूताः घृतेन सोमस्य अंशवः तण्डुलाः यज्ञियाः इमे ।अपः प्र विशत प्रति गृह्णातु वः चरुः इमम् पक्त्वा सु कृताम् एत लोकम् ॥१८॥
brahmaṇā śuddhāḥ uta pūtāḥ ghṛtena somasya aṃśavaḥ taṇḍulāḥ yajñiyāḥ ime .apaḥ pra viśata prati gṛhṇātu vaḥ caruḥ imam paktvā su kṛtām eta lokam ..18..

उरुः प्रथस्व महता महिम्ना सहस्रपृष्ठः सुकृतस्य लोके ।पितामहाः पितरः प्रजोपजाहं पक्ता पञ्चदशस्ते अस्मि ॥१९॥
उरुः प्रथस्व महता महिम्ना सहस्र-पृष्ठः सुकृतस्य लोके ।पितामहाः पितरः प्रजा उपजा अहम् पक्ता पञ्चदशः ते अस्मि ॥१९॥
uruḥ prathasva mahatā mahimnā sahasra-pṛṣṭhaḥ sukṛtasya loke .pitāmahāḥ pitaraḥ prajā upajā aham paktā pañcadaśaḥ te asmi ..19..

सहस्रपृष्ठः शतधारो अक्षितो ब्रह्मौदनो देवयानः स्वर्गः ।अमूंस्त आ दधामि प्रजया रेषयैनान् बलिहाराय मृडतान् मह्यमेव ॥२०॥ {२}
सहस्र-पृष्ठः शत-धारः अक्षितः ब्रह्मौदनः देव-यानः स्वर्-गः ।अमून् ते आ दधामि प्रजया रेषय एनान् बलि-हाराय मृडतात् मह्यम् एव ॥२०॥
sahasra-pṛṣṭhaḥ śata-dhāraḥ akṣitaḥ brahmaudanaḥ deva-yānaḥ svar-gaḥ .amūn te ā dadhāmi prajayā reṣaya enān bali-hārāya mṛḍatāt mahyam eva ..20..

उदेहि वेदिं प्रजया वर्धयैनां नुदस्व रक्षः प्रतरं धेह्येनाम् ।श्रिया समानान् अति सर्वान्त्स्यामाधस्पदं द्विषतस्पादयामि ॥२१॥
उदेहि वेदिम् प्रजया वर्धय एनाम् नुदस्व रक्षः प्रतरम् धेहि एनाम् ।श्रिया समानान् अति सर्वान् स्याम अधस्पदम् द्विषतः पादयामि ॥२१॥
udehi vedim prajayā vardhaya enām nudasva rakṣaḥ prataram dhehi enām .śriyā samānān ati sarvān syāma adhaspadam dviṣataḥ pādayāmi ..21..

अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङ्ङेनां देवताभिः सहैधि ।मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
अभ्यावर्तस्व पशुभिः सह एनाम् प्रत्यङ् एनाम् देवताभिः सह एधि ।मा त्वा प्रापत् शपथः मा अभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥२२॥
abhyāvartasva paśubhiḥ saha enām pratyaṅ enām devatābhiḥ saha edhi .mā tvā prāpat śapathaḥ mā abhicāraḥ sve kṣetre anamīvā vi rāja ..22..

ऋतेन तष्टा मनसा हितैषा ब्रह्मौदनस्य विहिता वेदिरग्रे ।अंसध्रीं शुद्धामुप धेहि नारि तत्रौदनं सादय दैवानाम् ॥२३॥
ऋतेन तष्टा मनसा हिता एषा ब्रह्मौदनस्य विहिता वेदिः अग्रे ।अंसध्रीम् शुद्धाम् उप धेहि नारि तत्र ओदनम् सादय दैवानाम् ॥२३॥
ṛtena taṣṭā manasā hitā eṣā brahmaudanasya vihitā vediḥ agre .aṃsadhrīm śuddhām upa dhehi nāri tatra odanam sādaya daivānām ..23..

अदितेर्हस्तां स्रुचमेतां द्वितीयां सप्तऋषयो भूतकृतो यामकृण्वन् ।सा गात्राणि विदुष्योदनस्य दर्विर्वेद्यामध्येनं चिनोतु ॥२४॥
अदितेः हस्ताम् स्रुचम् एताम् द्वितीयाम् सप्त-ऋषयः भूत-कृतः याम् अकृण्वन् ।सा गात्राणि विदुष्य ओदनस्य दर्विः वेद्याम् अधि एनम् चिनोतु ॥२४॥
aditeḥ hastām srucam etām dvitīyām sapta-ṛṣayaḥ bhūta-kṛtaḥ yām akṛṇvan .sā gātrāṇi viduṣya odanasya darviḥ vedyām adhi enam cinotu ..24..

शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान् प्र सीद ।सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन् प्राशितारः ॥२५॥
शृतम् त्वा हव्यम् उप सीदन्तु दैवाः निःसृप्य अग्नेः पुनर् एनान् प्र सीद ।सोमेन पूतः जठरे सीद ब्रह्मणाम् आर्षेयाः ते मा रिषन् प्राशितारः ॥२५॥
śṛtam tvā havyam upa sīdantu daivāḥ niḥsṛpya agneḥ punar enān pra sīda .somena pūtaḥ jaṭhare sīda brahmaṇām ārṣeyāḥ te mā riṣan prāśitāraḥ ..25..

सोम राजन्त्संज्ञानमा वपैभ्यः सुब्राह्मणा यतमे त्वोपसीदान् ।ऋषीन् आर्षेयांस्तपसोऽधि जातान् ब्रह्मौदने सुहवा जोहवीमि ॥२६॥
सोम राजन् संज्ञानम् आ वप एभ्यः सुब्राह्मणाः यतमे त्वा उपसीदान् ।ऋषीन् आर्षेयान् तपसः अधि जातान् ब्रह्मौदने सु हवा जोहवीमि ॥२६॥
soma rājan saṃjñānam ā vapa ebhyaḥ subrāhmaṇāḥ yatame tvā upasīdān .ṛṣīn ārṣeyān tapasaḥ adhi jātān brahmaudane su havā johavīmi ..26..

शुद्धाः पूता योषितो यज्ञिया इमा ब्रह्मणां हस्तेषु प्रपृथक्सादयामि ।यत्काम इदमभिषिञ्चामि वोऽहमिन्द्रो मरुत्वान्त्स ददादिदं मे ॥२७॥
शुद्धाः पूताः योषितः यज्ञियाः इमाः ब्रह्मणाम् हस्तेषु प्रपृथक् सादयामि ।यद्-कामः इदम् अभिषिञ्चामि वः अहम् इन्द्रः मरुत्वान् स ददात् इदम् मे ॥२७॥
śuddhāḥ pūtāḥ yoṣitaḥ yajñiyāḥ imāḥ brahmaṇām hasteṣu prapṛthak sādayāmi .yad-kāmaḥ idam abhiṣiñcāmi vaḥ aham indraḥ marutvān sa dadāt idam me ..27..

इदं मे ज्योतिरमृतं हिरण्यं पक्वं क्षेत्रात्कामदुघा म एषा ।इदं धनं नि दधे ब्राह्मणेषु कृण्वे पन्थां पितृषु यः स्वर्गः ॥२८॥
इदम् मे ज्योतिः अमृतम् हिरण्यम् पक्वम् क्षेत्रात् कामदुघा मे एषा ।इदम् धनम् नि दधे ब्राह्मणेषु कृण्वे पन्थाम् पितृषु यः स्वर्-गः ॥२८॥
idam me jyotiḥ amṛtam hiraṇyam pakvam kṣetrāt kāmadughā me eṣā .idam dhanam ni dadhe brāhmaṇeṣu kṛṇve panthām pitṛṣu yaḥ svar-gaḥ ..28..

अग्नौ तुषान् आ वप जातवेदसि परः कम्बूकामप मृड्ढि दूरम् ।एतं शुश्रुम गृहराजस्य भागमथो विद्म निर्ऋतेर्भागधेयम् ॥२९॥
अग्नौ तुषान् आ वप जातवेदसि परस् कम्बूकाम् अप मृड्ढि दूरम् ।एतम् शुश्रुम गृह-राजस्य भागम् अथो विद्म निरृतेः भागधेयम् ॥२९॥
agnau tuṣān ā vapa jātavedasi paras kambūkām apa mṛḍḍhi dūram .etam śuśruma gṛha-rājasya bhāgam atho vidma nirṛteḥ bhāgadheyam ..29..

श्राम्यतः पचतो विद्धि सुन्वतः पन्थां स्वर्गमधि रोहयैनम् ।येन रोहात्परमापद्य यद्वय उत्तमं नाकं परमं व्योम ॥३०॥ {३}
श्राम्यतः पचतः विद्धि सुन्वतः पन्थाम् स्वर्गम् अधि रोहय एनम् ।येन रोहात् परम् आपद्य यत् वयः उत्तमम् नाकम् परमम् व्योम ॥३०॥
śrāmyataḥ pacataḥ viddhi sunvataḥ panthām svargam adhi rohaya enam .yena rohāt param āpadya yat vayaḥ uttamam nākam paramam vyoma ..30..

बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान् ।घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥३१॥
बभ्रेः अध्वर्यो मुखम् एतत् वि मृड्ढि आज्याय लोकम् कृणुहि प्रविद्वान् ।घृतेन गात्रा अनु सर्वा वि मृड्ढि कृण्वे पन्थाम् पितृषु यः स्वर्-गः ॥३१॥
babhreḥ adhvaryo mukham etat vi mṛḍḍhi ājyāya lokam kṛṇuhi pravidvān .ghṛtena gātrā anu sarvā vi mṛḍḍhi kṛṇve panthām pitṛṣu yaḥ svar-gaḥ ..31..

बभ्रे रक्षः समदमा वपैभ्योऽब्राह्मणा यतमे त्वोपसीदान् ।पुरीषिणः प्रथमानाः पुरस्तादार्षेयास्ते मा रिषन् प्राशितारः ॥३२॥
बभ्रे रक्षः समदमाः वप एभ्यः अब्राह्मणाः यतमे त्वा उपसीदान् ।पुरीषिणः प्रथमानाः पुरस्तात् आर्षेयाः ते मा रिषन् प्राशितारः ॥३२॥
babhre rakṣaḥ samadamāḥ vapa ebhyaḥ abrāhmaṇāḥ yatame tvā upasīdān .purīṣiṇaḥ prathamānāḥ purastāt ārṣeyāḥ te mā riṣan prāśitāraḥ ..32..

आर्षेयेषु नि दध ओदन त्वा नानार्षेयाणामप्यस्त्यत्र ।अग्निर्मे गोप्ता मरुतश्च सर्वे विश्वे देवा अभि रक्षन्तु पक्वम् ॥३३॥
आर्षेयेषु नि दधे ओदन त्वा न अनार्षेयाणाम् अपि अस्ति अत्र ।अग्निः मे गोप्ता मरुतः च सर्वे विश्वे देवाः अभि रक्षन्तु पक्वम् ॥३३॥
ārṣeyeṣu ni dadhe odana tvā na anārṣeyāṇām api asti atra .agniḥ me goptā marutaḥ ca sarve viśve devāḥ abhi rakṣantu pakvam ..33..

यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम् ।प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥३४॥
यज्ञम् दुहानम् सदमिध्-प्रपीनम् पुमांसम् धेनुम् सदनम् रयीणाम् ।प्रजा अमृत-त्वम् उत दीर्घम् आयुः रायः च पोषैः उप त्वा सदेम ॥३४॥
yajñam duhānam sadamidh-prapīnam pumāṃsam dhenum sadanam rayīṇām .prajā amṛta-tvam uta dīrgham āyuḥ rāyaḥ ca poṣaiḥ upa tvā sadema ..34..

वृषभोऽसि स्वर्ग ऋषीन् आर्षेयान् गच्छ ।सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥३५॥
वृषभः असि स्वर्-गः ऋषीन् आर्षेयान् गच्छ ।सुकृताम् लोके सीद तत्र नौ संस्कृतम् ॥३५॥
vṛṣabhaḥ asi svar-gaḥ ṛṣīn ārṣeyān gaccha .sukṛtām loke sīda tatra nau saṃskṛtam ..35..

समाचिनुष्वानुसंप्रयाह्यग्ने पथः कल्पय देवयानान् ।एतैः सुकृतैरनु गछेम यज्ञं नाके तिष्ठन्तमधि सप्तरश्मौ ॥३६॥
समाचिनुष्व अनुसंप्रयाहि अग्ने पथः कल्पय देव-यानान् ।एतैः सु कृतैः अनु गच्छेम यज्ञम् नाके तिष्ठन्तम् अधि सप्त-रश्मौ ॥३६॥
samācinuṣva anusaṃprayāhi agne pathaḥ kalpaya deva-yānān .etaiḥ su kṛtaiḥ anu gacchema yajñam nāke tiṣṭhantam adhi sapta-raśmau ..36..

येन देवा ज्योतिषा द्यामुदायन् ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम् ।तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥३७॥ {४}
येन देवाः ज्योतिषा द्याम् उदायन् ब्रह्मौदनम् पक्त्वा सुकृतस्य लोकम् ।तेन गेष्म सुकृतस्य लोकम् स्वर् आरोहन्तः अभि नाकम् उत्तमम् ॥३७॥
yena devāḥ jyotiṣā dyām udāyan brahmaudanam paktvā sukṛtasya lokam .tena geṣma sukṛtasya lokam svar ārohantaḥ abhi nākam uttamam ..37..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In