| |
|

This overlay will guide you through the buttons:

उत्तिष्ठत सं नह्यध्वमुदाराः केतुभिः सह ।सर्पा इतरजना रक्षांस्यमित्रान् अनु धावत ॥१॥
उत्तिष्ठत सम् नह्यध्वम् उदाराः केतुभिः सह ।सर्पाः इतरजनाः रक्षांसि अमित्रान् अनु धावत ॥१॥
uttiṣṭhata sam nahyadhvam udārāḥ ketubhiḥ saha .sarpāḥ itarajanāḥ rakṣāṃsi amitrān anu dhāvata ..1..

ईशां वो वेद राज्यं त्रिषन्धे अरुणैः केतुभिः सह ।ये अन्तरिक्षे ये दिवि पृथिव्यां ये च मानवाः ।त्रिषन्धेस्ते चेतसि दुर्णामान उपासताम् ॥२॥
ईशाम् वः वेद राज्यम् त्रिषन्धे अरुणैः केतुभिः सह ।ये अन्तरिक्षे ये दिवि पृथिव्याम् ये च मानवाः ।त्रिषन्धेः ते चेतसि दुर्णामानः उपासताम् ॥२॥
īśām vaḥ veda rājyam triṣandhe aruṇaiḥ ketubhiḥ saha .ye antarikṣe ye divi pṛthivyām ye ca mānavāḥ .triṣandheḥ te cetasi durṇāmānaḥ upāsatām ..2..

अयोमुखाः सूचीमुखा अथो विकङ्कतीमुखाः ।क्रव्यादो वातरंहस आ सजन्त्वमित्रान् वज्रेण त्रिषन्धिना ॥३॥
अयः-मुखाः सूची-मुखाः अथ उ विकङ्कती-मुखाः ।क्रव्य-अदः वात-रंहसः आ सजन्तु अमित्रान् वज्रेण त्रिषन्धिना ॥३॥
ayaḥ-mukhāḥ sūcī-mukhāḥ atha u vikaṅkatī-mukhāḥ .kravya-adaḥ vāta-raṃhasaḥ ā sajantu amitrān vajreṇa triṣandhinā ..3..

अन्तर्धेहि जातवेद आदित्य कुणपं बहु ।त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥४॥
अन्तर्धेहि जातवेदः आदित्य कुणपम् बहु ।त्रिषन्धेः इयम् सेना सु हिता अस्तु मे वशे ॥४॥
antardhehi jātavedaḥ āditya kuṇapam bahu .triṣandheḥ iyam senā su hitā astu me vaśe ..4..

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।अयं बलिर्व आहुतस्त्रिषन्धेराहुतिः प्रिया ॥५॥
उत्तिष्ठ त्वम् देव-जन अर्बुदे सेनया सह ।अयम् बलिः वः आहुतः त्रिषन्धेः आहुतिः प्रिया ॥५॥
uttiṣṭha tvam deva-jana arbude senayā saha .ayam baliḥ vaḥ āhutaḥ triṣandheḥ āhutiḥ priyā ..5..

शितिपदी सं द्यतु शरव्येयं चतुष्पदी ।कृत्येऽमित्रेभ्यो भव त्रिषन्धेः सह सेनया ॥६॥
शितिपदी सम् द्यतु शरव्या इयम् चतुष्पदी ।कृत्ये अमित्रेभ्यः भव त्रिषन्धेः सह सेनया ॥६॥
śitipadī sam dyatu śaravyā iyam catuṣpadī .kṛtye amitrebhyaḥ bhava triṣandheḥ saha senayā ..6..

धूमाक्षी सं पततु कृधुकर्णी च क्रोशतु ।त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
धूम-अक्षी सम् पततु कृधु-कर्णी च क्रोशतु ।त्रिषन्धेः सेनया जिते अरुणाः सन्तु केतवः ॥७॥
dhūma-akṣī sam patatu kṛdhu-karṇī ca krośatu .triṣandheḥ senayā jite aruṇāḥ santu ketavaḥ ..7..

अवायन्तां पक्षिणो ये वयांस्यन्तरिक्षे दिवि ये चरन्ति ।श्वापदो मक्षिकाः सं रभन्तामामादो गृध्राः कुणपे रदन्ताम् ॥८॥
अवायन्ताम् पक्षिणः ये वयांसि अन्तरिक्षे दिवि ये चरन्ति ।श्वापदः मक्षिकाः सम् रभन्ताम् आमादः गृध्राः कुणपे रदन्ताम् ॥८॥
avāyantām pakṣiṇaḥ ye vayāṃsi antarikṣe divi ye caranti .śvāpadaḥ makṣikāḥ sam rabhantām āmādaḥ gṛdhrāḥ kuṇape radantām ..8..

यामिन्द्रेण संधां समधत्था ब्रह्मणा च बृहस्पते ।तयाहमिन्द्रसंधया सर्वान् देवान् इह हुव इतो जयत मामुतः ॥९॥
याम् इन्द्रेण संधाम् समधत्थाः ब्रह्मणा च बृहस्पते ।तया अहम् इन्द्र-संधया सर्वान् देवान् इह हुवे इतस् जयत मा अमुतस् ॥९॥
yām indreṇa saṃdhām samadhatthāḥ brahmaṇā ca bṛhaspate .tayā aham indra-saṃdhayā sarvān devān iha huve itas jayata mā amutas ..9..

बृहस्पतिराङ्गिरस ऋषयो ब्रह्मसंशिताः ।असुरक्षयणं वधं त्रिषन्धिं दिव्याश्रयन् ॥१०॥ {२८}
बृहस्पतिः आङ्गिरसः ऋषयः ब्रह्म-संशिताः ।असुर-क्षयणम् वधम् त्रिषन्धिम् दिवि आश्रयन् ॥१०॥
bṛhaspatiḥ āṅgirasaḥ ṛṣayaḥ brahma-saṃśitāḥ .asura-kṣayaṇam vadham triṣandhim divi āśrayan ..10..

येनासौ गुप्त आदित्य उभाविन्द्रश्च तिष्ठतः ।त्रिषन्धिं देवा अभजन्तौजसे च बलाय च ॥११॥
येन असौ गुप्तः आदित्यः उभौ इन्द्रः च तिष्ठतः ।त्रिषन्धिम् देवाः अभजन्त ओजसे च बलाय च ॥११॥
yena asau guptaḥ ādityaḥ ubhau indraḥ ca tiṣṭhataḥ .triṣandhim devāḥ abhajanta ojase ca balāya ca ..11..

सर्वांल्लोकान्त्समजयन् देवा आहुत्यानया ।बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ॥१२॥
सर्वान् लोकान् समजयन् देवाः आहुत्या अनया ।बृहस्पतिः आङ्गिरसः वज्रम् यम् असिञ्चत असुर-क्षयणम् वधम् ॥१२॥
sarvān lokān samajayan devāḥ āhutyā anayā .bṛhaspatiḥ āṅgirasaḥ vajram yam asiñcata asura-kṣayaṇam vadham ..12..

बृहस्पतिराङ्गिरसो वज्रं यमसिञ्चतासुरक्षयणं वधम् ।तेनाहममूं सेनां नि लिम्पामि बृहस्पतेऽमित्रान् हन्म्योजसा ॥१३॥
बृहस्पतिः आङ्गिरसः वज्रम् यम् असिञ्चत असुर-क्षयणम् वधम् ।तेन अहम् अमूम् सेनाम् नि लिम्पामि बृहस्पते अमित्रान् हन्मि ओजसा ॥१३॥
bṛhaspatiḥ āṅgirasaḥ vajram yam asiñcata asura-kṣayaṇam vadham .tena aham amūm senām ni limpāmi bṛhaspate amitrān hanmi ojasā ..13..

सर्वे देवा अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।इमां जुषध्वमाहुतिमितो जयत मामुतः ॥१४॥
सर्वे देवाः अत्यायन्ति ये अश्नन्ति वषट्कृतम् ।इमाम् जुषध्वम् आहुतिम् इतस् जयत मा अमुतस् ॥१४॥
sarve devāḥ atyāyanti ye aśnanti vaṣaṭkṛtam .imām juṣadhvam āhutim itas jayata mā amutas ..14..

सर्वे देवा अत्यायन्तु त्रिषन्धेराहुतिः प्रिया ।संधां महतीं रक्षत ययाग्रे असुरा जिताः ॥१५॥
सर्वे देवाः अत्यायन्तु त्रिषन्धेः आहुतिः प्रिया ।संधाम् महतीम् रक्षत यया अग्रे असुराः जिताः ॥१५॥
sarve devāḥ atyāyantu triṣandheḥ āhutiḥ priyā .saṃdhām mahatīm rakṣata yayā agre asurāḥ jitāḥ ..15..

वायुरमित्राणामिष्वग्राण्याञ्चतु ।इन्द्र एषां बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।आदित्य एषामस्त्रं वि नाशयतु चन्द्रमा युतामगतस्य पन्थाम् ॥१६॥
वायुः अमित्राणाम् इषु-अग्राणि आञ्चतु ।इन्द्रः एषाम् बाहून् प्रति भनक्तु मा शकन् प्रतिधामिषुम् ।आदित्यः एषाम् अस्त्रम् वि नाशयतु चन्द्रमाः युताम् अ गतस्य पन्थाम् ॥१६॥
vāyuḥ amitrāṇām iṣu-agrāṇi āñcatu .indraḥ eṣām bāhūn prati bhanaktu mā śakan pratidhāmiṣum .ādityaḥ eṣām astram vi nāśayatu candramāḥ yutām a gatasya panthām ..16..

यदि प्रेयुर्देवपुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानं परिपाणं कृण्वाना यदुपोचिरे सर्वं तदरसं कृधि ॥१७॥
यदि प्रेयुः देव-पुरा ब्रह्म वर्माणि चक्रिरे ।तनूपानम् परिपाणम् कृण्वानाः यत् उपोचिरे सर्वम् तत् अरसम् कृधि ॥१७॥
yadi preyuḥ deva-purā brahma varmāṇi cakrire .tanūpānam paripāṇam kṛṇvānāḥ yat upocire sarvam tat arasam kṛdhi ..17..

क्रव्यादानुवर्तयन् मृत्युना च पुरोहितम् ।त्रिषन्धे प्रेहि सेनया जयामित्रान् प्र पद्यस्व ॥१८॥
क्रव्यादा अनुवर्तयन् मृत्युना च पुरोहितम् ।त्रिषन्धे प्रेहि सेनया जय अमित्रान् प्र पद्यस्व ॥१८॥
kravyādā anuvartayan mṛtyunā ca purohitam .triṣandhe prehi senayā jaya amitrān pra padyasva ..18..

त्रिषन्धे तमसा त्वममित्रान् परि वारय ।पृषदाज्यप्रणुत्तानां मामीषां मोचि कश्चन ॥१९॥
त्रिषन्धे तमसा त्वम् अमित्रान् परि वारय ।पृषदाज्य-प्रणुत्तानाम् मा अमीषाम् मोचि कश्चन ॥१९॥
triṣandhe tamasā tvam amitrān pari vāraya .pṛṣadājya-praṇuttānām mā amīṣām moci kaścana ..19..

शितिपदी सं पतत्वमित्राणाममूः सिचः ।मुह्यन्त्वद्यामूः सेना अमित्राणां न्यर्बुदे ॥२०॥ {२९}
शितिपदी सम् पततु अमित्राणाम् अमूः सिचः ।मुह्यन्तु अद्य अमूः सेनाः अमित्राणाम् न्यर्बुदे ॥२०॥
śitipadī sam patatu amitrāṇām amūḥ sicaḥ .muhyantu adya amūḥ senāḥ amitrāṇām nyarbude ..20..

मूढा अमित्रा न्यर्बुदे जह्येषां वरंवरम् ।अनया जहि सेनया ॥२१॥
मूढाः अमित्राः न्यर्बुदे जहि एषाम् वरम् वरम् ।अनया जहि सेनया ॥२१॥
mūḍhāḥ amitrāḥ nyarbude jahi eṣām varam varam .anayā jahi senayā ..21..

यश्च कवची यश्चाकवचोऽमित्रो यश्चाज्मनि ।ज्यापाशैः कवचपाशैरज्मनाभिहतः शयाम् ॥२२॥
यः च कवची यः च अकवचः अमित्रः यः च अज्मनि ।ज्या-पाशैः कवच-पाशैः अज्मना अभिहतः शयाम् ॥२२॥
yaḥ ca kavacī yaḥ ca akavacaḥ amitraḥ yaḥ ca ajmani .jyā-pāśaiḥ kavaca-pāśaiḥ ajmanā abhihataḥ śayām ..22..

ये वर्मिणो येऽवर्माणो अमित्रा ये च वर्मिणः ।सर्वांस्तामर्बुदे हतां छ्वानोऽदन्तु भूम्याम् ॥२३॥
ये वर्मिणः ये अवर्माणः अमित्राः ये च वर्मिणः ।सर्वान् ताम् अर्बुदे हताम् श्वानः अदन्तु भूम्याम् ॥२३॥
ye varmiṇaḥ ye avarmāṇaḥ amitrāḥ ye ca varmiṇaḥ .sarvān tām arbude hatām śvānaḥ adantu bhūmyām ..23..

ये रथिनो ये अरथा असादा ये च सादिनः ।सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
ये रथिनः ये अ रथाः अ सादाः ये च सादिनः ।सर्वान् अदन्तु तान् हतान् गृध्राः श्येनाः पतत्रिणः ॥२४॥
ye rathinaḥ ye a rathāḥ a sādāḥ ye ca sādinaḥ .sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ ..24..

सहस्रकुणपा शेतामामित्री सेना समरे वधानाम् ।विविद्धा ककजाकृता ॥२५॥
सहस्र-कुणपा शेताम् आमित्री सेना समरे वधानाम् ।विविद्धा ककजाकृता ॥२५॥
sahasra-kuṇapā śetām āmitrī senā samare vadhānām .vividdhā kakajākṛtā ..25..

मर्माविधं रोरुवतं सुपर्णैरदन्तु दुश्चितं मृदितं शयानम् ।य इमां प्रतीचीमाहुतिममित्रो नो युयुत्सति ॥२६॥
मर्माविधम् रोरुवतम् सुपर्णैः अदन्तु दुश्चितम् मृदितम् शयानम् ।यः इमाम् प्रतीचीम् आहुतिम् अमित्रः नः युयुत्सति ॥२६॥
marmāvidham roruvatam suparṇaiḥ adantu duścitam mṛditam śayānam .yaḥ imām pratīcīm āhutim amitraḥ naḥ yuyutsati ..26..

यां देवा अनुतिष्ठन्ति यस्या नास्ति विराधनम् ।तयेन्द्रो हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥ {३०}
याम् देवाः अनुतिष्ठन्ति यस्याः न अस्ति विराधनम् ।तया इन्द्रः हन्तु वृत्रहा वज्रेण त्रिषन्धिना ॥२७॥
yām devāḥ anutiṣṭhanti yasyāḥ na asti virādhanam .tayā indraḥ hantu vṛtrahā vajreṇa triṣandhinā ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In