| |
|

This overlay will guide you through the buttons:

भवाशर्वौ मृडतं माभि यातं भूतपती पशुपती नमो वाम् ।प्रतिहितामायतां मा वि स्राष्टं मा नो हिंसिष्टं द्विपदो मा चतुष्पदः ॥१॥
भवाशर्वौ मृडतम् मा अभि यातम् भूतपती पशुपती नमः वाम् ।प्रतिहिताम् आयताम् मा वि स्राष्टम् मा नः हिंसिष्टम् द्विपदः मा चतुष्पदः ॥१॥
bhavāśarvau mṛḍatam mā abhi yātam bhūtapatī paśupatī namaḥ vām .pratihitām āyatām mā vi srāṣṭam mā naḥ hiṃsiṣṭam dvipadaḥ mā catuṣpadaḥ ..1..

शुने क्रोष्ट्रे मा शरीराणि कर्तमलिक्लवेभ्यो गृध्रेभ्यो ये च कृष्णा अविष्यवः ।मक्षिकास्ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
शुने क्रोष्ट्रे मा शरीराणि कर्तम् अलिक्लवेभ्यः गृध्रेभ्यः ये च कृष्णाः अविष्यवः ।मक्षिकाः ते पशुपते वयांसि ते विघसे मा विदन्त ॥२॥
śune kroṣṭre mā śarīrāṇi kartam aliklavebhyaḥ gṛdhrebhyaḥ ye ca kṛṣṇāḥ aviṣyavaḥ .makṣikāḥ te paśupate vayāṃsi te vighase mā vidanta ..2..

क्रन्दाय ते प्राणाय याश्च ते भव रोपयः ।नमस्ते रुद्र कृण्मः सहस्राक्षायामर्त्य ॥३॥
क्रन्दाय ते प्राणाय याः च ते भव रोपयः ।नमः ते रुद्र कृण्मः सहस्र-अक्षाय अमर्त्य ॥३॥
krandāya te prāṇāya yāḥ ca te bhava ropayaḥ .namaḥ te rudra kṛṇmaḥ sahasra-akṣāya amartya ..3..

पुरस्तात्ते नमः कृण्म उत्तरादधरादुत ।अभीवर्गाद्दिवस्पर्यन्तरिक्षाय ते नमः ॥४॥
पुरस्तात् ते नमः कृण्मः उत्तरात् अधरात् उत ।अभीवर्गात् दिवस्परि अन्तरिक्षाय ते नमः ॥४॥
purastāt te namaḥ kṛṇmaḥ uttarāt adharāt uta .abhīvargāt divaspari antarikṣāya te namaḥ ..4..

मुखाय ते पशुपते यानि चक्षूंषि ते भव ।त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥
मुखाय ते पशुपते यानि चक्षूंषि ते भव ।त्वचे रूपाय संदृशे प्रतीचीनाय ते नमः ॥५॥
mukhāya te paśupate yāni cakṣūṃṣi te bhava .tvace rūpāya saṃdṛśe pratīcīnāya te namaḥ ..5..

अङ्गेभ्यस्त उदराय जिह्वाया आस्याय ते ।दद्भ्यो गन्धाय ते नमः ॥६॥
अङ्गेभ्यः ते उदराय जिह्वायै आस्याय ते ।दद्भ्यः गन्धाय ते नमः ॥६॥
aṅgebhyaḥ te udarāya jihvāyai āsyāya te .dadbhyaḥ gandhāya te namaḥ ..6..

अस्त्रा नीलशिखण्डेन सहस्राक्षेण वाजिना ।रुद्रेणार्धकघातिना तेन मा समरामहि ॥७॥
अस्त्रा नील-शिखण्डेन सहस्राक्षेण वाजिना ।रुद्रेण अर्धक-घातिना तेन मा समरामहि ॥७॥
astrā nīla-śikhaṇḍena sahasrākṣeṇa vājinā .rudreṇa ardhaka-ghātinā tena mā samarāmahi ..7..

स नो भवः परि वृणक्तु विश्वत आप इवाग्निः परि वृणक्तु नो भवः ।मा नोऽभि मांस्त नमो अस्त्वस्मै ॥८॥
स नः भवः परि वृणक्तु विश्वतस् आपः इव अग्निः परि वृणक्तु नः भवः ।मा नः अभि मांस्त नमः अस्तु अस्मै ॥८॥
sa naḥ bhavaḥ pari vṛṇaktu viśvatas āpaḥ iva agniḥ pari vṛṇaktu naḥ bhavaḥ .mā naḥ abhi māṃsta namaḥ astu asmai ..8..

चतुर्नमो अष्टकृत्वो भवाय दश कृत्वः पशुपते नमस्ते ।तवेमे पञ्च पशवो विभक्ता गावो अश्वाः पुरुषा अजावयः ॥९॥
चतुः नमः अष्ट-कृत्वस् भवाय दश कृत्वस् पशुपते नमः ते ।तव इमे पञ्च पशवः विभक्ताः गावः अश्वाः पुरुषाः अज-अवयः ॥९॥
catuḥ namaḥ aṣṭa-kṛtvas bhavāya daśa kṛtvas paśupate namaḥ te .tava ime pañca paśavaḥ vibhaktāḥ gāvaḥ aśvāḥ puruṣāḥ aja-avayaḥ ..9..

तव चतस्रः प्रदिशस्तव द्यौस्तव पृथिवी तवेदमुग्रोर्वन्तरिक्षम् ।तवेदं सर्वमात्मन्वद्यत्प्राणत्पृथिवीमनु ॥१०॥ {५}
तव चतस्रः प्रदिशः तव द्यौः तव पृथिवी तव इदम् उग्रोः उरु अन्तरिक्षम् ।तव इदम् सर्वम् आत्मन्वत् यत् प्राणत् पृथिवीम् अनु ॥१०॥
tava catasraḥ pradiśaḥ tava dyauḥ tava pṛthivī tava idam ugroḥ uru antarikṣam .tava idam sarvam ātmanvat yat prāṇat pṛthivīm anu ..10..

उरुः कोशो वसुधानस्तवायं यस्मिन्न् इमा विश्वा भुवनान्यन्तः ।स नो मृड पशुपते नमस्ते परः क्रोष्टारो अभिभाः श्वानः परो यन्त्वघरुदो विकेश्यः ॥११॥
उरुः कोशः वसु-धानः तव अयम् यस्मिन् इमा विश्वा भुवनानि अन्तर् ।स नः मृड पशुपते नमः ते परस् क्रोष्टारः अभिभाः श्वानः परस् यन्तु अघरुदः विकेश्यः ॥११॥
uruḥ kośaḥ vasu-dhānaḥ tava ayam yasmin imā viśvā bhuvanāni antar .sa naḥ mṛḍa paśupate namaḥ te paras kroṣṭāraḥ abhibhāḥ śvānaḥ paras yantu agharudaḥ vikeśyaḥ ..11..

धनुर्बिभर्षि हरितं हिरण्ययं सहस्रघ्निं शतवधं शिखण्डिन् ।रुद्रस्येषुश्चरति देवहेतिस्तस्यै नमो यतमस्यां दिशीतः ॥१२॥
धनुः बिभर्षि हरितम् हिरण्ययम् सहस्रघ्निम् शत-वधम् शिखण्डिन् ।रुद्रस्य इषुः चरति देव-हेतिः तस्यै नमः यतमस्याम् दिशि इतस् ॥१२॥
dhanuḥ bibharṣi haritam hiraṇyayam sahasraghnim śata-vadham śikhaṇḍin .rudrasya iṣuḥ carati deva-hetiḥ tasyai namaḥ yatamasyām diśi itas ..12..

योऽभियातो निलयते त्वां रुद्र निचिकीर्षति ।पश्चादनुप्रयुङ्क्षे तं विद्धस्य पदनीरिव ॥१३॥
यः अभियातः निलयते त्वाम् रुद्र निचिकीर्षति ।पश्चात् अनुप्रयुङ्क्षे तम् विद्धस्य पदनीः इव ॥१३॥
yaḥ abhiyātaḥ nilayate tvām rudra nicikīrṣati .paścāt anuprayuṅkṣe tam viddhasya padanīḥ iva ..13..

भवारुद्रौ सयुजा संविदानावुभावुग्रौ चरतो वीर्याय ।ताभ्यां नमो यतमस्यां दिशीतः ॥१४॥
भवारुद्रौ सयुजा संविदानौ उभौ उग्रौ चरतः वीर्याय ।ताभ्याम् नमः यतमस्याम् दिशि इतस् ॥१४॥
bhavārudrau sayujā saṃvidānau ubhau ugrau carataḥ vīryāya .tābhyām namaḥ yatamasyām diśi itas ..14..

नमस्ते अस्त्वायते नमो अस्तु परायते ।नमस्ते रुद्र तिष्ठत आसीनायोत ते नमः ॥१५॥
नमः ते अस्तु आयते नमः अस्तु परायते ।नमः ते रुद्र तिष्ठते आसीनाय उत ते नमः ॥१५॥
namaḥ te astu āyate namaḥ astu parāyate .namaḥ te rudra tiṣṭhate āsīnāya uta te namaḥ ..15..

नमः सायं नमः प्रातर्नमो रात्र्या नमो दिवा ।भवाय च शर्वाय चोभाभ्यामकरं नमः ॥१६॥
नमः सायम् नमः प्रातर् नमः रात्र्या नमः दिवा ।भवाय च शर्वाय च उभाभ्याम् अकरम् नमः ॥१६॥
namaḥ sāyam namaḥ prātar namaḥ rātryā namaḥ divā .bhavāya ca śarvāya ca ubhābhyām akaram namaḥ ..16..

सहस्राक्षमतिपश्यं पुरस्ताद्रुद्रमस्यन्तं बहुधा विपश्चितम् ।मोपाराम जिह्वयेयमानम् ॥१७॥
सहस्र-अक्षम् अतिपश्यम् पुरस्तात् रुद्रम् अस्यन्तम् बहुधा विपश्चितम् ।मा उपाराम जिह्वया इयमानम् ॥१७॥
sahasra-akṣam atipaśyam purastāt rudram asyantam bahudhā vipaścitam .mā upārāma jihvayā iyamānam ..17..

श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम् ।पूर्वे प्रतीमो नमो अस्त्वस्मै ॥१८॥
श्याव-अश्वम् कृष्णम् असितम् मृणन्तम् भीमम् रथम् केशिनः पादयन्तम् ।पूर्वे प्रतीमः नमः अस्तु अस्मै ॥१८॥
śyāva-aśvam kṛṣṇam asitam mṛṇantam bhīmam ratham keśinaḥ pādayantam .pūrve pratīmaḥ namaḥ astu asmai ..18..

मा नोऽभि स्रा मत्यं देवहेतिं मा नः क्रुधः पशुपते नमस्ते ।अन्यत्रास्मद्दिव्यां शाखां वि धूनु ॥१९॥
मा नः अभि स्राः मत्यम् देव-हेतिम् मा नः क्रुधः पशुपते नमः ते ।अन्यत्र अस्मत् दिव्याम् शाखाम् वि धूनु ॥१९॥
mā naḥ abhi srāḥ matyam deva-hetim mā naḥ krudhaḥ paśupate namaḥ te .anyatra asmat divyām śākhām vi dhūnu ..19..

मा नो हिंसीरधि नो ब्रूहि परि णो वृङ्धि मा क्रुधः ।मा त्वया समरामहि ॥२०॥ {६}
मा नः हिंसीः अधि नः ब्रूहि परि नः वृङ्धि मा क्रुधः ।मा त्वया समरामहि ॥२०॥
mā naḥ hiṃsīḥ adhi naḥ brūhi pari naḥ vṛṅdhi mā krudhaḥ .mā tvayā samarāmahi ..20..

मा नो गोषु पुरुषेषु मा गृधो नो अजाविषु ।अन्यत्रोग्र वि वर्तय पियारूणां प्रजां जहि ॥२१॥
मा नः गोषु पुरुषेषु मा गृधः नः अज-अविषु ।अन्यत्र उग्र वि वर्तय पियारूणाम् प्रजाम् जहि ॥२१॥
mā naḥ goṣu puruṣeṣu mā gṛdhaḥ naḥ aja-aviṣu .anyatra ugra vi vartaya piyārūṇām prajām jahi ..21..

यस्य तक्मा कासिका हेतिरेकमश्वस्येव वृषणः क्रन्द एति ।अभिपूर्वं निर्णयते नमो अस्त्वस्मै ॥२२॥
यस्य तक्मा कासिका हेतिः एकम् अश्वस्य इव वृषणः क्रन्दः एति ।अभिपूर्वम् निर्णयते नमः अस्तु अस्मै ॥२२॥
yasya takmā kāsikā hetiḥ ekam aśvasya iva vṛṣaṇaḥ krandaḥ eti .abhipūrvam nirṇayate namaḥ astu asmai ..22..

योऽन्तरिक्षे तिष्ठति विष्टभितोऽयज्वनः प्रमृणन् देवपीयून् ।तस्मै नमो दशभिः शक्वरीभिः ॥२३॥
यः अन्तरिक्षे तिष्ठति विष्टभितः अयज्वनः प्रमृणन् देव-पीयून् ।तस्मै नमः दशभिः शक्वरीभिः ॥२३॥
yaḥ antarikṣe tiṣṭhati viṣṭabhitaḥ ayajvanaḥ pramṛṇan deva-pīyūn .tasmai namaḥ daśabhiḥ śakvarībhiḥ ..23..

तुभ्यमारण्याः पशवो मृगा वने हिता हंसाः सुपर्णाः शकुना वयांसि ।तव यक्षं पशुपते अप्स्वन्तस्तुभ्यं क्षरन्ति दिव्या आपो वृधे ॥२४॥
तुभ्यम् आरण्याः पशवः मृगाः वने हिताः हंसाः सुपर्णाः शकुनाः वयांसि ।तव यक्षम् पशुपते अप्स्वन्तः तुभ्यम् क्षरन्ति दिव्याः आपः वृधे ॥२४॥
tubhyam āraṇyāḥ paśavaḥ mṛgāḥ vane hitāḥ haṃsāḥ suparṇāḥ śakunāḥ vayāṃsi .tava yakṣam paśupate apsvantaḥ tubhyam kṣaranti divyāḥ āpaḥ vṛdhe ..24..

शिंशुमारा अजगराः पुरीकया जषा मत्स्या रजसा येभ्यो अस्यसि ।न ते दूरं न परिष्ठास्ति ते भव सद्यः सर्वां परि पश्यसि भूमिं पूर्वस्माद्धंस्युत्तरस्मिन्त्समुद्रे ॥२५॥
शिंशुमाराः अजगराः पुरीकयाः जषाः मत्स्याः रजसाः येभ्यः अस्यसि ।न ते दूरम् न परिष्ठा अस्ति ते भव सद्यस् सर्वाम् परि पश्यसि भूमिम् पूर्वस्मात् हंसि उत्तरस्मिन् समुद्रे ॥२५॥
śiṃśumārāḥ ajagarāḥ purīkayāḥ jaṣāḥ matsyāḥ rajasāḥ yebhyaḥ asyasi .na te dūram na pariṣṭhā asti te bhava sadyas sarvām pari paśyasi bhūmim pūrvasmāt haṃsi uttarasmin samudre ..25..

मा नो रुद्र तक्मना मा विषेण मा नः सं स्रा दिव्येनाग्निना ।अन्यत्रास्मद्विद्युतं पातयैताम् ॥२६॥
मा नः रुद्र तक्मना मा विषेण मा नः सम् स्राः दिव्येन अग्निना ।अन्यत्र अस्मत् विद्युतम् पातय एताम् ॥२६॥
mā naḥ rudra takmanā mā viṣeṇa mā naḥ sam srāḥ divyena agninā .anyatra asmat vidyutam pātaya etām ..26..

भवो दिवो भव ईशे पृथिव्या भव आ पप्र उर्वन्तरिक्षम् ।तस्यै नमो यतमस्यां दिशीतः ॥२७॥
भवः दिवः भवः ईशे पृथिव्याः भवः आ पप्रे उरु अन्तरिक्षम् ।तस्यै नमः यतमस्याम् दिशि इतस् ॥२७॥
bhavaḥ divaḥ bhavaḥ īśe pṛthivyāḥ bhavaḥ ā papre uru antarikṣam .tasyai namaḥ yatamasyām diśi itas ..27..

भव राजन् यजमानाय मृड पशूनां हि पशुपतिर्बभूथ ।यः श्रद्दधाति सन्ति देवा इति चतुष्पदे द्विपदेऽस्य मृड ॥२८॥
भव राजन् यजमानाय मृड पशूनाम् हि पशुपतिः बभूथ ।यः श्रद्दधाति सन्ति देवाः इति चतुष्पदे द्विपदे अस्य मृड ॥२८॥
bhava rājan yajamānāya mṛḍa paśūnām hi paśupatiḥ babhūtha .yaḥ śraddadhāti santi devāḥ iti catuṣpade dvipade asya mṛḍa ..28..

मा नो महान्तमुत मा नो अर्भकं मा नो वहन्तमुत मा नो वक्ष्यतः ।मा नो हिंसीः पितरं मातरं च स्वां तन्वं रुद्र मा रीरिषो नः ॥२९॥
मा नः महान्तम् उत मा नः अर्भकम् मा नः वहन्तम् उत मा नः वक्ष्यतः ।मा नः हिंसीः पितरम् मातरम् च स्वाम् तन्वम् रुद्र मा रीरिषः नः ॥२९॥
mā naḥ mahāntam uta mā naḥ arbhakam mā naḥ vahantam uta mā naḥ vakṣyataḥ .mā naḥ hiṃsīḥ pitaram mātaram ca svām tanvam rudra mā rīriṣaḥ naḥ ..29..

रुद्रस्यैलबकारेभ्योऽसंसूक्तगिलेभ्यः ।इदं महास्येभ्यः श्वभ्यो अकरं नमः ॥३०॥
रुद्रस्य ऐलबकारेभ्यः असंसूक्तगिलेभ्यः ।इदम् महा-आस्येभ्यः श्वभ्यः अकरम् नमः ॥३०॥
rudrasya ailabakārebhyaḥ asaṃsūktagilebhyaḥ .idam mahā-āsyebhyaḥ śvabhyaḥ akaram namaḥ ..30..

नमस्ते घोषिणीभ्यो नमस्ते केशिनीभ्यः ।नमो नमस्कृताभ्यो नमः संभुञ्जतीभ्यः ।नमस्ते देव सेनाभ्यः स्वस्ति नो अभयं च नः ॥३१॥ {७}
नमः ते घोषिणीभ्यः नमः ते केशिनीभ्यः ।नमः नमस्कृताभ्यः नमः संभुञ्जतीभ्यः ।नमः ते देव सेनाभ्यः स्वस्ति नः अभयम् च नः ॥३१॥
namaḥ te ghoṣiṇībhyaḥ namaḥ te keśinībhyaḥ .namaḥ namaskṛtābhyaḥ namaḥ saṃbhuñjatībhyaḥ .namaḥ te deva senābhyaḥ svasti naḥ abhayam ca naḥ ..31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In