| |
|

This overlay will guide you through the buttons:

तस्यौदनस्य बृहस्पतिः शिरो ब्रह्म मुखम् ॥१॥
तस्य ओदनस्य बृहस्पतिः शिरः ब्रह्म मुखम् ॥१॥
tasya odanasya bṛhaspatiḥ śiraḥ brahma mukham ..1..

द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसावक्षिणी सप्तऋषयः प्राणापानाः ॥२॥
द्यावापृथिवी श्रोत्रे सूर्याचन्द्रमसौ अक्षिणी सप्त-ऋषयः प्राण-अपानाः ॥२॥
dyāvāpṛthivī śrotre sūryācandramasau akṣiṇī sapta-ṛṣayaḥ prāṇa-apānāḥ ..2..

चक्षुर्मुसलं काम उलूखलम् ॥३॥
चक्षुः मुसलम् कामः उलूखलम् ॥३॥
cakṣuḥ musalam kāmaḥ ulūkhalam ..3..

दितिः शूर्पमदितिः शूर्पग्राही वातोऽपाविनक्॥४॥
दितिः शूर्पम् अदितिः शूर्प-ग्राही वातः अपाविनक्॥४॥
ditiḥ śūrpam aditiḥ śūrpa-grāhī vātaḥ apāvinak..4..

अश्वाः कणा गावस्तण्डुला मशकास्तुषाः ॥५॥
अश्वाः कणाः गावः तण्डुलाः मशकाः तुषाः ॥५॥
aśvāḥ kaṇāḥ gāvaḥ taṇḍulāḥ maśakāḥ tuṣāḥ ..5..

कब्रु फलीकरणाः शरोऽभ्रम् ॥६॥
कब्रु फलीकरणाः शरः अभ्रम् ॥६॥
kabru phalīkaraṇāḥ śaraḥ abhram ..6..

श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥७॥
श्यामम् अयः अस्य मांसानि लोहितम् अस्य लोहितम् ॥७॥
śyāmam ayaḥ asya māṃsāni lohitam asya lohitam ..7..

त्रपु भस्म हरितं वर्णः पुष्करमस्य गन्धः ॥८॥
त्रपु भस्म हरितम् वर्णः पुष्करम् अस्य गन्धः ॥८॥
trapu bhasma haritam varṇaḥ puṣkaram asya gandhaḥ ..8..

खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥९॥
खलः पात्रम् स्फ्य-अवंसौ ईषे अनूक्ये ॥९॥
khalaḥ pātram sphya-avaṃsau īṣe anūkye ..9..

आन्त्राणि जत्रवो गुदा वरत्राः ॥१०॥
आन्त्राणि जत्रवः गुदाः वरत्राः ॥१०॥
āntrāṇi jatravaḥ gudāḥ varatrāḥ ..10..

इयमेव पृथिवी कुम्भी भवति राध्यमानस्यौदनस्य द्यौरपिधानम् ॥११॥
इयम् एव पृथिवी कुम्भी भवति राध्यमानस्य ओदनस्य द्यौः अपिधानम् ॥११॥
iyam eva pṛthivī kumbhī bhavati rādhyamānasya odanasya dyauḥ apidhānam ..11..

सीताः पर्शवः सिकता ऊबध्यम् ॥१२॥
सीताः पर्शवः सिकताः ऊबध्यम् ॥१२॥
sītāḥ parśavaḥ sikatāḥ ūbadhyam ..12..

ऋतं हस्तावनेजनं कुल्योपसेचनम् ॥१३॥
ऋतम् हस्त-अवनेजनम् कुल्या-उपसेचनम् ॥१३॥
ṛtam hasta-avanejanam kulyā-upasecanam ..13..

ऋचा कुम्भ्यधिहितार्त्विज्येन प्रेषिता ॥१४॥
ऋचा कुम्भी अधिहिता आर्त्विज्येन प्रेषिता ॥१४॥
ṛcā kumbhī adhihitā ārtvijyena preṣitā ..14..

ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
ब्रह्मणा परिगृहीता साम्ना पर्यूढा ॥१५॥
brahmaṇā parigṛhītā sāmnā paryūḍhā ..15..

बृहदायवनं रथन्तरं दर्विः ॥१६॥
बृहत् आयवनम् रथन्तरम् दर्विः ॥१६॥
bṛhat āyavanam rathantaram darviḥ ..16..

ऋतवः पक्तार आर्तवाः समिन्धते ॥१७॥
ऋतवः पक्तारः आर्तवाः समिन्धते ॥१७॥
ṛtavaḥ paktāraḥ ārtavāḥ samindhate ..17..

चरुं पञ्चबिलमुखं घर्मोऽभीन्धे ॥१८॥
चरुम् पञ्च-बिल-मुखम् घर्मः अभीन्धे ॥१८॥
carum pañca-bila-mukham gharmaḥ abhīndhe ..18..

ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
ओदनेन यज्ञवतः सर्वे लोकाः समाप्याः ॥१९॥
odanena yajñavataḥ sarve lokāḥ samāpyāḥ ..19..

यस्मिन्त्समुद्रो द्यौर्भूमिस्त्रयोऽवरपरं श्रिताः ॥२०॥
यस्मिन् समुद्रः द्यौः भूमिः त्रयः अवर-परम् श्रिताः ॥२०॥
yasmin samudraḥ dyauḥ bhūmiḥ trayaḥ avara-param śritāḥ ..20..

यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥२१॥
यस्य देवाः अकल्पन्त उच्छिष्टे षडशीतयः ॥२१॥
yasya devāḥ akalpanta ucchiṣṭe ṣaḍaśītayaḥ ..21..

तं त्वौदनस्य पृछामि यो अस्य महिमा महान् ॥२२॥
तम् त्वा ओदनस्य पृच्छामि यः अस्य महिमा महान् ॥२२॥
tam tvā odanasya pṛcchāmi yaḥ asya mahimā mahān ..22..

स य ओदनस्य महिमानं विद्यात्॥२३॥
स यः ओदनस्य महिमानम् विद्यात्॥२३॥
sa yaḥ odanasya mahimānam vidyāt..23..

नाल्प इति ब्रूयान् नानुपसेचन इति नेदं च किं चेति ॥२४॥
न अल्पः इति ब्रूयात् न अनुपसेचनः इति न इदम् च किम् च इति ॥२४॥
na alpaḥ iti brūyāt na anupasecanaḥ iti na idam ca kim ca iti ..24..

यावद्दाताभिमनस्येत तन् नाति वदेत्॥२५॥
यावत् दाता अभिमनस्येत तत् न अति वदेत्॥२५॥
yāvat dātā abhimanasyeta tat na ati vadet..25..

ब्रह्मवादिनो वदन्ति पराञ्चमोदनं प्राशी३ः प्रत्यञ्चा३ इति ॥२६॥
ब्रह्म-वादिनः वदन्ति पराञ्चम् ओदनम् प्राशिः प्रत्यञ्चः इति ॥२६॥
brahma-vādinaḥ vadanti parāñcam odanam prāśiḥ pratyañcaḥ iti ..26..

त्वमोदनं प्राशी३ त्वामोदना३ इति ॥२७॥
त्वम् ओदनम् प्राशीः त्वाम् ओदनः इति ॥२७॥
tvam odanam prāśīḥ tvām odanaḥ iti ..27..

पराञ्चं चैनं प्राशीः प्राणास्त्वा हास्यन्तीत्येनमाह ॥२८॥
पराञ्चम् च एनम् प्राशीः प्राणाः त्वा हास्यन्ति इति एनम् आह ॥२८॥
parāñcam ca enam prāśīḥ prāṇāḥ tvā hāsyanti iti enam āha ..28..

प्रत्यञ्चं चैनं प्राशीरपानास्त्वा हास्यन्तीत्येनमाह ॥२९॥
प्रत्यञ्चम् च एनम् प्राशीः अपानाः त्वा हास्यन्ति इति एनम् आह ॥२९॥
pratyañcam ca enam prāśīḥ apānāḥ tvā hāsyanti iti enam āha ..29..

नैवाहमोदनं न मामोदनः ॥३०॥
न एव अहम् ओदनम् न माम् ओदनः ॥३०॥
na eva aham odanam na mām odanaḥ ..30..

ओदन एवौदनं प्राशीत्॥३१॥ {८}
ओदनः एव ओदनम् प्राशीत्॥३१॥
odanaḥ eva odanam prāśīt..31..

ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३२॥ [१]
ततस् च एनम् अन्येन शीर्ष्णा प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।ज्येष्ठतस् ते प्रजा मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।बृहस्पतिना शीर्ष्णा ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३२॥ [१]
tatas ca enam anyena śīrṣṇā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .jyeṣṭhatas te prajā mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .bṛhaspatinā śīrṣṇā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..32.. [1]

ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बधिरो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।द्यावापृथिवीभ्यां श्रोत्राभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३३॥ [२]
ततस् च एनम् अन्याभ्याम् श्रोत्राभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।बधिरः भविष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।द्यावापृथिवीभ्याम् श्रोत्राभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३३॥ [२]
tatas ca enam anyābhyām śrotrābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .badhiraḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .dyāvāpṛthivībhyām śrotrābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..33.. [2]

ततश्चैनमन्याभ्यामक्षीभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।अन्धो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सूर्याचन्द्रमसाभ्यामक्षीभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३४॥ [३]
ततस् च एनम् अन्याभ्याम् अक्षीभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।अन्धः भविष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सूर्याचन्द्रमसाभ्याम् अक्षीभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३४॥ [३]
tatas ca enam anyābhyām akṣībhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .andhaḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .sūryācandramasābhyām akṣībhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..34.. [3]

ततश्चैनमन्येन मुखेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।मुखतस्ते प्रजा मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३५॥ [४]
ततस् च एनम् अन्येन मुखेन प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।मुखतः ते प्रजा मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।ब्रह्मणा मुखेन ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३५॥ [४]
tatas ca enam anyena mukhena prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .mukhataḥ te prajā mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .brahmaṇā mukhena .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..35.. [4]

ततश्चैनमन्यया जिह्वया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अग्नेर्जिह्वया ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३६॥ [५]
ततस् च एनम् अन्यया जिह्वया प्राशीः यया च एतम् पूर्वे ऋषयः प्राश्नन् ।जिह्वा ते मरिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।अग्नेः जिह्वया ।तया एनम् प्राशिषम् तया एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३६॥ [५]
tatas ca enam anyayā jihvayā prāśīḥ yayā ca etam pūrve ṛṣayaḥ prāśnan .jihvā te mariṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .agneḥ jihvayā .tayā enam prāśiṣam tayā enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..36.. [5]

ततश्चैनमन्यैर्दन्तैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।दन्तास्ते शत्स्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतुभिर्दन्तैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३७॥ [६]
ततस् च एनम् अन्यैः दन्तैः प्राशीः यैः च एतम् पूर्वे ऋषयः प्राश्नन् ।दन्ताः ते शत्स्यन्ति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।ऋतुभिः दन्तैः ।तैः एनम् प्राशिषम् तैः एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३७॥ [६]
tatas ca enam anyaiḥ dantaiḥ prāśīḥ yaiḥ ca etam pūrve ṛṣayaḥ prāśnan .dantāḥ te śatsyanti iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .ṛtubhiḥ dantaiḥ .taiḥ enam prāśiṣam taiḥ enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..37.. [6]

ततश्चैनमन्यैः प्राणापानैः प्राशीर्यैश्चैतं पूर्व ऋषयः प्राश्नन् ।प्राणापानास्त्वा हास्यन्तीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सप्तऋषिभिः प्राणापानैः ।तैरेनं प्राशिषं तैरेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३८॥ [७]
ततस् च एनम् अन्यैः प्राण-अपानैः प्राशीः यैः च एतम् पूर्वे ऋषयः प्राश्नन् ।प्राण-अपानाः त्वा हास्यन्ति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सप्त-ऋषिभिः प्राण-अपानैः ।तैः एनम् प्राशिषम् तैः एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३८॥ [७]
tatas ca enam anyaiḥ prāṇa-apānaiḥ prāśīḥ yaiḥ ca etam pūrve ṛṣayaḥ prāśnan .prāṇa-apānāḥ tvā hāsyanti iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .sapta-ṛṣibhiḥ prāṇa-apānaiḥ .taiḥ enam prāśiṣam taiḥ enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..38.. [7]

ततश्चैनमन्येन व्यचसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।राजयक्ष्मस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अन्तरिक्षेण व्यचसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥३९॥ [८]
ततस् च एनम् अन्येन व्यचसा प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।राजयक्ष्मः त्वा हनिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।अन्तरिक्षेण व्यचसा ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥३९॥ [८]
tatas ca enam anyena vyacasā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .rājayakṣmaḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .antarikṣeṇa vyacasā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..39.. [8]

ततश्चैनमन्येन पृष्ठेन प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।विद्युत्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।दिवा पृष्ठेन ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४०॥ [९]
ततस् च एनम् अन्येन पृष्ठेन प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।विद्युत् त्वा हनिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।दिवा पृष्ठेन ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४०॥ [९]
tatas ca enam anyena pṛṣṭhena prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .vidyut tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .divā pṛṣṭhena .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..40.. [9]

ततश्चैनमन्येनोरसा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।कृष्या न रात्स्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।पृथिव्योरसा ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४१॥ [१०]
ततस् च एनम् अन्येन उरसा प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।कृष्या न रात्स्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।पृथिव्या उरसा ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४१॥ [१०]
tatas ca enam anyena urasā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .kṛṣyā na rātsyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .pṛthivyā urasā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..41.. [10]

ततश्चैनमन्येनोदरेण प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।उदरदारस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्येनोदरेण ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४२॥ [११]
ततस् च एनम् अन्येन उदरेण प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।उदरदारः त्वा हनिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सत्येन उदरेण ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४२॥ [११]
tatas ca enam anyena udareṇa prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .udaradāraḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .satyena udareṇa .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..42.. [11]

ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन् ।अप्सु मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।समुद्रेण वस्तिना ।तेनैनं प्राशिषं तेनैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४३॥ [१२]
ततस् च एनम् अन्येन वस्तिना प्राशीः येन च एतम् पूर्वे ऋषयः प्राश्नन् ।अप्सु मरिष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।समुद्रेण वस्तिना ।तेन एनम् प्राशिषम् तेन एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४३॥ [१२]
tatas ca enam anyena vastinā prāśīḥ yena ca etam pūrve ṛṣayaḥ prāśnan .apsu mariṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .samudreṇa vastinā .tena enam prāśiṣam tena enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..43.. [12]

ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ऊरू ते मरिष्यत इत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।मित्रावरुणयोरूरुभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४४॥ [१३]
ततस् च एनम् अन्याभ्याम् ऊरुभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।ऊरू ते मरिष्यतः इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।मित्रावरुणयोः ऊरुभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४४॥ [१३]
tatas ca enam anyābhyām ūrubhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .ūrū te mariṣyataḥ iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .mitrāvaruṇayoḥ ūrubhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..44.. [13]

ततश्चैनमन्याभ्यामष्ठीवद्भ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।स्रामो भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।त्वष्टुरष्ठीवद्भ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४५॥ [१४]
ततस् च एनम् अन्याभ्याम् अष्ठीवद्भ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।स्रामः भविष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।त्वष्टुः अष्ठीवद्भ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४५॥ [१४]
tatas ca enam anyābhyām aṣṭhīvadbhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .srāmaḥ bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .tvaṣṭuḥ aṣṭhīvadbhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..45.. [14]

ततश्चैनमन्याभ्यां पादाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।बहुचारी भविष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।अश्विनोः पादाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४६॥ [१५]
ततस् च एनम् अन्याभ्याम् पादाभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।बहु-चारी भविष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।अश्विनोः पादाभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४६॥ [१५]
tatas ca enam anyābhyām pādābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .bahu-cārī bhaviṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .aśvinoḥ pādābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..46.. [15]

ततश्चैनमन्याभ्यां प्रपदाभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।सर्पस्त्वा हनिष्यतीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सवितुः प्रपदाभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४७॥ [१६]
ततस् च एनम् अन्याभ्याम् प्रपदाभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।सर्पः त्वा हनिष्यति इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सवितुः प्रपदाभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४७॥ [१६]
tatas ca enam anyābhyām prapadābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .sarpaḥ tvā haniṣyati iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .savituḥ prapadābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..47.. [16]

ततश्चैनमन्याभ्यां हस्ताभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन् ।ब्राह्मणं हनिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।ऋतस्य हस्ताभ्याम् ।ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४८॥ [१७]
ततस् च एनम् अन्याभ्याम् हस्ताभ्याम् प्राशीः याभ्याम् च एतम् पूर्वे ऋषयः प्राश्नन् ।ब्राह्मणम् हनिष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।ऋतस्य हस्ताभ्याम् ।ताभ्याम् एनम् प्राशिषम् ताभ्याम् एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४८॥ [१७]
tatas ca enam anyābhyām hastābhyām prāśīḥ yābhyām ca etam pūrve ṛṣayaḥ prāśnan .brāhmaṇam haniṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .ṛtasya hastābhyām .tābhyām enam prāśiṣam tābhyām enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..48.. [17]

ततश्चैनमन्यया प्रतिष्ठया प्राशीर्यया चैतं पूर्व ऋषयः प्राश्नन् ।अप्रतिष्ठानोऽनायतनो मरिष्यसीत्येनमाह ।तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तयैनं प्राशिषं तयैनमजीगमम् ।एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः ।सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥४९॥ [१८] {९}
ततस् च एनम् अन्यया प्रतिष्ठया प्राशीः यया च एतम् पूर्वे ऋषयः प्राश्नन् ।अप्रतिष्ठानः अनायतनः मरिष्यसि इति एनम् आह ।तम् वै अहम् न अर्वाञ्चम् न पराञ्चम् न प्रत्यञ्चम् ।सत्ये प्रतिष्ठाय ।तया एनम् प्राशिषम् तया एनम् अजीगमम् ।एष वै ओदनः सर्व-अङ्गः सर्व-परुः सर्व-तनूः ।सर्व-अङ्गः एव सर्व-परुः सर्व-तनूः सम् भवति यः एवम् वेद ॥४९॥ [१८]
tatas ca enam anyayā pratiṣṭhayā prāśīḥ yayā ca etam pūrve ṛṣayaḥ prāśnan .apratiṣṭhānaḥ anāyatanaḥ mariṣyasi iti enam āha .tam vai aham na arvāñcam na parāñcam na pratyañcam .satye pratiṣṭhāya .tayā enam prāśiṣam tayā enam ajīgamam .eṣa vai odanaḥ sarva-aṅgaḥ sarva-paruḥ sarva-tanūḥ .sarva-aṅgaḥ eva sarva-paruḥ sarva-tanūḥ sam bhavati yaḥ evam veda ..49.. [18]

एतद्वै ब्रध्नस्य विष्टपं यदोदनः ॥५०॥ [१]
एतत् वै ब्रध्नस्य विष्टपम् यत् ओदनः ॥५०॥ [१]
etat vai bradhnasya viṣṭapam yat odanaḥ ..50.. [1]

ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद ॥५१॥ [२]
ब्रध्न-लोकः भवति ब्रध्नस्य विष्टपि श्रयते यः एवम् वेद ॥५१॥ [२]
bradhna-lokaḥ bhavati bradhnasya viṣṭapi śrayate yaḥ evam veda ..51.. [2]

एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
एतस्मात् वै ओदनात् त्रयस्त्रिंशतम् लोकान् निरमिमीत प्रजापतिः ॥५२॥ [३]
etasmāt vai odanāt trayastriṃśatam lokān niramimīta prajāpatiḥ ..52.. [3]

तेषां प्रज्ञानाय यज्ञमसृजत ॥५३॥ [४]
तेषाम् प्रज्ञानाय यज्ञम् असृजत ॥५३॥ [४]
teṣām prajñānāya yajñam asṛjata ..53.. [4]

स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥५४॥ [५]
स यः एवम् विदुषः उपद्रष्टा भवति प्राणम् रुणद्धि ॥५४॥ [५]
sa yaḥ evam viduṣaḥ upadraṣṭā bhavati prāṇam ruṇaddhi ..54.. [5]

न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥५५॥ [६]
न च प्राणम् रुणद्धि सर्व-ज्यानिम् जीयते ॥५५॥ [६]
na ca prāṇam ruṇaddhi sarva-jyānim jīyate ..55.. [6]

न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति ॥५६॥ [७] {१०}
न च सर्व-ज्यानिम् जीयते पुरा एनम् जरसः प्राणः जहाति ॥५६॥ [७]
na ca sarva-jyānim jīyate purā enam jarasaḥ prāṇaḥ jahāti ..56.. [7]

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In