| |
|

This overlay will guide you through the buttons:

प्राणाय नमो यस्य सर्वमिदं वशे ।यो भूतः सर्वस्येश्वरो यस्मिन्त्सर्वं प्रतिष्ठितम् ॥१॥
प्राणाय नमः यस्य सर्वम् इदम् वशे ।यः भूतः सर्वस्य ईश्वरः यस्मिन् सर्वम् प्रतिष्ठितम् ॥१॥
prāṇāya namaḥ yasya sarvam idam vaśe .yaḥ bhūtaḥ sarvasya īśvaraḥ yasmin sarvam pratiṣṭhitam ..1..

नमस्ते प्राण क्रन्दाय नमस्ते स्तनयित्नवे ।नमस्ते प्राण विद्युते नमस्ते प्राण वर्षते ॥२॥
नमः ते प्राण-क्रन्दाय नमः ते स्तनयित्नवे ।नमः ते प्राण-विद्युते नमः ते प्राण वर्षते ॥२॥
namaḥ te prāṇa-krandāya namaḥ te stanayitnave .namaḥ te prāṇa-vidyute namaḥ te prāṇa varṣate ..2..

यत्प्राण स्तनयित्नुनाभिक्रन्दत्योषधीः ।प्र वीयन्ते गर्भान् दधतेऽथो बह्वीर्वि जायन्ते ॥३॥
यत् प्राणः स्तनयित्नुना अभिक्रन्दति ओषधीः ।प्र वीयन्ते गर्भान् दधते अथ उ बह्वीः वि जायन्ते ॥३॥
yat prāṇaḥ stanayitnunā abhikrandati oṣadhīḥ .pra vīyante garbhān dadhate atha u bahvīḥ vi jāyante ..3..

यत्प्राण ऋतावागतेऽभिक्रन्दत्योषधीः ।सर्वं तदा प्र मोदते यत्किं च भूम्यामधि ॥४॥
यत् प्राणे ऋतौ आगते अभिक्रन्दति ओषधीः ।सर्वम् तदा प्र मोदते यत् किम् च भूम्याम् अधि ॥४॥
yat prāṇe ṛtau āgate abhikrandati oṣadhīḥ .sarvam tadā pra modate yat kim ca bhūmyām adhi ..4..

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।पशवस्तत्प्र मोदन्ते महो वै नो भविष्यति ॥५॥
यदा प्राणः अभ्यवर्षीत् वर्षेण पृथिवीम् महीम् ।पशवः तत् प्र मोदन्ते महः वै नः भविष्यति ॥५॥
yadā prāṇaḥ abhyavarṣīt varṣeṇa pṛthivīm mahīm .paśavaḥ tat pra modante mahaḥ vai naḥ bhaviṣyati ..5..

अभिवृष्टा ओषधयः प्राणेन समवादिरन् ।आयुर्वै नः प्रातीतरः सर्वा नः सुरभीरकः ॥६॥
अभिवृष्टाः ओषधयः प्राणेन समवादिरन् ।आयुः वै नः प्रातीतरः सर्वाः नः सुरभीरकः ॥६॥
abhivṛṣṭāḥ oṣadhayaḥ prāṇena samavādiran .āyuḥ vai naḥ prātītaraḥ sarvāḥ naḥ surabhīrakaḥ ..6..

नमस्ते अस्त्वायते नमो अस्तु परायते ।नमस्ते प्राण तिष्ठत आसीनायोत ते नमः ॥७॥
नमः ते अस्तु आयते नमः अस्तु परायते ।नमः ते प्राण तिष्ठते आसीनाय उत ते नमः ॥७॥
namaḥ te astu āyate namaḥ astu parāyate .namaḥ te prāṇa tiṣṭhate āsīnāya uta te namaḥ ..7..

नमस्ते प्राण प्राणते नमो अस्त्वपानते ।पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै त इदं नमः ॥८॥
नमः ते प्राण प्राणते नमः अस्तु अपानते ।पराचीनाय ते नमः प्रतीचीनाय ते नमः सर्वस्मै ते इदम् नमः ॥८॥
namaḥ te prāṇa prāṇate namaḥ astu apānate .parācīnāya te namaḥ pratīcīnāya te namaḥ sarvasmai te idam namaḥ ..8..

या ते प्राण प्रिया तनूर्यो ते प्राण प्रेयसी ।अथो यद्भेषजं तव तस्य नो धेहि जीवसे ॥९॥
या ते प्राण प्रिया तनूः या उ ते प्राण प्रेयसी ।अथ उ यत् भेषजम् तव तस्य नः धेहि जीवसे ॥९॥
yā te prāṇa priyā tanūḥ yā u te prāṇa preyasī .atha u yat bheṣajam tava tasya naḥ dhehi jīvase ..9..

प्राणः प्रजा अनु वस्ते पिता पुत्रमिव प्रियम् ।प्राणो ह सर्वस्येश्वरो यच्च प्राणति यच्च न ॥१०॥ {११}
प्राणः प्रजाः अनु वस्ते पिता पुत्रम् इव प्रियम् ।प्राणः ह सर्वस्य ईश्वरः यत् च प्राणति यत् च न ॥१०॥
prāṇaḥ prajāḥ anu vaste pitā putram iva priyam .prāṇaḥ ha sarvasya īśvaraḥ yat ca prāṇati yat ca na ..10..

प्राणो मृत्युः प्राणस्तक्मा प्राणं देवा उपासते ।प्राणो ह सत्यवादिनमुत्तमे लोक आ दधत्॥११॥
प्राणः मृत्युः प्राणः तक्मा प्राणम् देवाः उपासते ।प्राणः ह सत्य-वादिनम् उत्तमे लोके आ दधत्॥११॥
prāṇaḥ mṛtyuḥ prāṇaḥ takmā prāṇam devāḥ upāsate .prāṇaḥ ha satya-vādinam uttame loke ā dadhat..11..

प्राणो विराट्प्राणो देष्ट्री प्राणं सर्व उपासते ।प्राणो ह सूर्यश्चन्द्रमाः प्राणमाहुः प्रजापतिम् ॥१२॥
प्राणः विराज् प्राणः देष्ट्री प्राणम् सर्वे उपासते ।प्राणः ह सूर्यः चन्द्रमाः प्राणम् आहुः प्रजापतिम् ॥१२॥
prāṇaḥ virāj prāṇaḥ deṣṭrī prāṇam sarve upāsate .prāṇaḥ ha sūryaḥ candramāḥ prāṇam āhuḥ prajāpatim ..12..

प्राणापानौ व्रीहियवावनड्वान् प्राण उच्यते ।यवे ह प्राण आहितोऽपानो व्रीहिरुच्यते ॥१३॥
प्राण-अपानौ व्रीहि-यवौ अनड्वान् प्राणः उच्यते ।यवे ह प्राणः आहितः अपानः व्रीहिः उच्यते ॥१३॥
prāṇa-apānau vrīhi-yavau anaḍvān prāṇaḥ ucyate .yave ha prāṇaḥ āhitaḥ apānaḥ vrīhiḥ ucyate ..13..

अपानति प्राणति पुरुषो गर्भे अन्तरा ।यदा त्वं प्राण जिन्वस्यथ स जायते पुनः ॥१४॥
अपानति प्राणति पुरुषः गर्भे अन्तरा ।यदा त्वम् प्राण जिन्वसि अथ स जायते पुनर् ॥१४॥
apānati prāṇati puruṣaḥ garbhe antarā .yadā tvam prāṇa jinvasi atha sa jāyate punar ..14..

प्राणमाहुर्मातरिश्वानं वातो ह प्राण उच्यते ।प्राणे ह भूतं भव्यं च प्राणे सर्वं प्रतिष्ठितम् ॥१५॥
प्राणम् आहुः मातरिश्वानम् वातः ह प्राणः उच्यते ।प्राणे ह भूतम् भव्यम् च प्राणे सर्वम् प्रतिष्ठितम् ॥१५॥
prāṇam āhuḥ mātariśvānam vātaḥ ha prāṇaḥ ucyate .prāṇe ha bhūtam bhavyam ca prāṇe sarvam pratiṣṭhitam ..15..

आथर्वणीराङ्गिरसीर्दैवीर्मनुष्यजा उत ।ओषधयः प्र जायन्ते यदा त्वं प्राण जिन्वसि ॥१६॥
आथर्वणीः आङ्गिरसीः दैवीः मनुष्य-जाः उत ।ओषधयः प्र जायन्ते यदा त्वम् प्राण जिन्वसि ॥१६॥
ātharvaṇīḥ āṅgirasīḥ daivīḥ manuṣya-jāḥ uta .oṣadhayaḥ pra jāyante yadā tvam prāṇa jinvasi ..16..

यदा प्राणो अभ्यवर्षीद्वर्षेण पृथिवीं महीम् ।ओषधयः प्र जायन्तेऽथो याः काश्च वीरुधः ॥१७॥
यदा प्राणः अभ्यवर्षीत् वर्षेण पृथिवीम् महीम् ।ओषधयः प्र जायन्ते अथ उ याः काः च वीरुधः ॥१७॥
yadā prāṇaḥ abhyavarṣīt varṣeṇa pṛthivīm mahīm .oṣadhayaḥ pra jāyante atha u yāḥ kāḥ ca vīrudhaḥ ..17..

यस्ते प्राणेदं वेद यस्मिंश्चासि प्रतिष्ठितः ।सर्वे तस्मै बलिं हरान् अमुष्मिंल्लोक उत्तमे ॥१८॥
यः ते प्राण इदम् वेद यस्मिन् च असि प्रतिष्ठितः ।सर्वे तस्मै बलिम् हरान् अमुष्मिन् लोके उत्तमे ॥१८॥
yaḥ te prāṇa idam veda yasmin ca asi pratiṣṭhitaḥ .sarve tasmai balim harān amuṣmin loke uttame ..18..

यथा प्राण बलिहृतस्तुभ्यं सर्वाः प्रजा इमाः ।एवा तस्मै बलिं हरान् यस्त्वा शृणवत्सुश्रवः ॥१९॥
यथा प्राण बलि-हृतः तुभ्यम् सर्वाः प्रजाः इमाः ।एव तस्मै बलिम् हरान् यः त्वा शृणवत् सु श्रवः ॥१९॥
yathā prāṇa bali-hṛtaḥ tubhyam sarvāḥ prajāḥ imāḥ .eva tasmai balim harān yaḥ tvā śṛṇavat su śravaḥ ..19..

अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः ।स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥२०॥ {१२}
अन्तर् गर्भः चरति देवतासु आभूतः भूतः सः उ जायते पुनर् ।स भूतः भव्यम् भविष्यत्-पिता पुत्रम् प्र विवेश शचीभिः ॥२०॥
antar garbhaḥ carati devatāsu ābhūtaḥ bhūtaḥ saḥ u jāyate punar .sa bhūtaḥ bhavyam bhaviṣyat-pitā putram pra viveśa śacībhiḥ ..20..

एकं पादं नोत्खिदति सलिलाद्धंस उच्चरन् ।यदङ्ग स तमुत्खिदेन् नैवाद्य न श्वः स्यात्। न रात्री नाहः स्यान् न व्युछेत्कदा चन ॥२१॥
एकम् पादम् न उत्खिदति सलिलात् हंसः उच्चरन् ।यत् अङ्ग स तम् उत्खिदेत् न एव अद्य न श्वस् स्यात्। न रात्री न अहर् स्यात् न व्युछेत् कदा चन ॥२१॥
ekam pādam na utkhidati salilāt haṃsaḥ uccaran .yat aṅga sa tam utkhidet na eva adya na śvas syāt. na rātrī na ahar syāt na vyuchet kadā cana ..21..

अष्टाचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥२२॥
अष्टाचक्रम् वर्तते एक-नेमि सहस्र-अक्षरम् प्र पुरस् नि पश्चा ।अर्धेन विश्वम् भुवनम् जजान यत् अस्य अर्धम् कतमः स केतुः ॥२२॥
aṣṭācakram vartate eka-nemi sahasra-akṣaram pra puras ni paścā .ardhena viśvam bhuvanam jajāna yat asya ardham katamaḥ sa ketuḥ ..22..

यो अस्य विश्वजन्मन ईशे विश्वस्य चेष्टतः ।अन्येषु क्षिप्रधन्वने तस्मै प्राण नमोऽस्तु ते ॥२३॥
यः अस्य विश्व-जन्मनः ईशे विश्वस्य चेष्टतः ।अन्येषु क्षिप्र-धन्वने तस्मै प्राण नमः अस्तु ते ॥२३॥
yaḥ asya viśva-janmanaḥ īśe viśvasya ceṣṭataḥ .anyeṣu kṣipra-dhanvane tasmai prāṇa namaḥ astu te ..23..

यो अस्य सर्वजन्मन ईशे सर्वस्य चेष्टतः ।अतन्द्रो ब्रह्मणा धीरः प्राणो मानु तिष्ठतु ॥२४॥
यः अस्य सर्व-जन्मनः ईशे सर्वस्य चेष्टतः ।अतन्द्रः ब्रह्मणा धीरः प्राणः मा अनु तिष्ठतु ॥२४॥
yaḥ asya sarva-janmanaḥ īśe sarvasya ceṣṭataḥ .atandraḥ brahmaṇā dhīraḥ prāṇaḥ mā anu tiṣṭhatu ..24..

ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ्नि पद्यते ।न सुप्तमस्य सुप्तेष्वनु शुश्राव कश्चन ॥२५॥
ऊर्ध्वः सुप्तेषु जागार ननु तिर्यङ् नि पद्यते ।न सुप्तम् अस्य सुप्तेषु अनु शुश्राव कश्चन ॥२५॥
ūrdhvaḥ supteṣu jāgāra nanu tiryaṅ ni padyate .na suptam asya supteṣu anu śuśrāva kaścana ..25..

प्राण मा मत्पर्यावृतो न मदन्यो भविष्यसि ।अपां गर्भमिव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥ {१३}
प्राण मा मद्-पर्यावृतः न मद्-अन्यः भविष्यसि ।अपाम् गर्भम् इव जीवसे प्राण बध्नामि त्वा मयि ॥२६॥
prāṇa mā mad-paryāvṛtaḥ na mad-anyaḥ bhaviṣyasi .apām garbham iva jīvase prāṇa badhnāmi tvā mayi ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In