| |
|

This overlay will guide you through the buttons:

ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥
ब्रह्मचारीष्णन् चरति रोदसी उभे तस्मिन् देवाः संमनसः भवन्ति ।स दाधार पृथिवीम् दिवम् च सः आचार्यम् तपसा पिपर्ति ॥१॥
brahmacārīṣṇan carati rodasī ubhe tasmin devāḥ saṃmanasaḥ bhavanti .sa dādhāra pṛthivīm divam ca saḥ ācāryam tapasā piparti ..1..

ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥
ब्रह्मचारिणम् पितरः देव-जनाः पृथक् देवाः अनुसंयन्ति सर्वे ।गन्धर्वाः एनम् अन्वायन् त्रयस्त्रिंशत् त्रि-शताः षष्-सहस्राः सर्वान् स देवान् तपसा पिपर्ति ॥२॥
brahmacāriṇam pitaraḥ deva-janāḥ pṛthak devāḥ anusaṃyanti sarve .gandharvāḥ enam anvāyan trayastriṃśat tri-śatāḥ ṣaṣ-sahasrāḥ sarvān sa devān tapasā piparti ..2..

आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥
आचार्यः उपनयमानः ब्रह्मचारिणम् कृणुते गर्भम् अन्तर् ।तम् रात्रीः तिस्रः उदरे बिभर्ति तम् जातम् द्रष्टुम् अभिसंयन्ति देवाः ॥३॥
ācāryaḥ upanayamānaḥ brahmacāriṇam kṛṇute garbham antar .tam rātrīḥ tisraḥ udare bibharti tam jātam draṣṭum abhisaṃyanti devāḥ ..3..

इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥
इयम् समिध् पृथिवी द्यौः द्वितीया उत अन्तरिक्षम् समिधा पृणाति ।ब्रह्मचारी समिधा मेखलया श्रमेण लोकान् तपसा पिपर्ति ॥४॥
iyam samidh pṛthivī dyauḥ dvitīyā uta antarikṣam samidhā pṛṇāti .brahmacārī samidhā mekhalayā śrameṇa lokān tapasā piparti ..4..

पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥
पूर्वः जातः ब्रह्मणः ब्रह्मचारी घर्मम् वसानः तपसा उदतिष्ठत्।तस्मात् जातम् ब्राह्मणम् ब्रह्म ज्येष्ठम् देवाः च सर्वे अमृतेन साकम् ॥५॥
pūrvaḥ jātaḥ brahmaṇaḥ brahmacārī gharmam vasānaḥ tapasā udatiṣṭhat.tasmāt jātam brāhmaṇam brahma jyeṣṭham devāḥ ca sarve amṛtena sākam ..5..

ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥
ब्रह्मचार्य इति समिधा समिद्धः कार्ष्णम् वसानः दीक्षितः दीर्घ-श्मश्रुः ।स सद्यस् एति पूर्वस्मात् उत्तरम् समुद्रम् लोकान् संगृभ्य मुहुर् आचरिक्रत्॥६॥
brahmacārya iti samidhā samiddhaḥ kārṣṇam vasānaḥ dīkṣitaḥ dīrgha-śmaśruḥ .sa sadyas eti pūrvasmāt uttaram samudram lokān saṃgṛbhya muhur ācarikrat..6..

ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥
ब्रह्मचारी जनयन् ब्रह्म अपः लोकम् प्रजापतिम् परमेष्ठिनम् विराजम् ।गर्भः भूत्वा अमृतस्य योनौ इन्द्रः ह भूत्वा सुरान् ततर्ह ॥७॥
brahmacārī janayan brahma apaḥ lokam prajāpatim parameṣṭhinam virājam .garbhaḥ bhūtvā amṛtasya yonau indraḥ ha bhūtvā surān tatarha ..7..

आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥
आचार्यः ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीम् दिवम् च ।ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसः भवन्ति ॥८॥
ācāryaḥ tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīm divam ca .te rakṣati tapasā brahmacārī tasmin devāḥ saṃmanasaḥ bhavanti ..8..

इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥
इमाम् भूमिम् पृथिवीम् ब्रह्मचारी भिक्षाम् आ जभार प्रथमः दिवम् च ।ते कृत्वा समिधौ उपास्ते तयोः आ अर्पिता भुवनानि विश्वा ॥९॥
imām bhūmim pṛthivīm brahmacārī bhikṣām ā jabhāra prathamaḥ divam ca .te kṛtvā samidhau upāste tayoḥ ā arpitā bhuvanāni viśvā ..9..

अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}
अर्वाक् अन्यः परस् अन्यः दिवः पृष्ठात् गुहा निधी निहितौ ब्राह्मणस्य ।तौ रक्षति तपसा ब्रह्मचारी तत् केवलम् कृणुते ब्रह्म विद्वान् ॥१०॥
arvāk anyaḥ paras anyaḥ divaḥ pṛṣṭhāt guhā nidhī nihitau brāhmaṇasya .tau rakṣati tapasā brahmacārī tat kevalam kṛṇute brahma vidvān ..10..

अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
अर्वाक् अन्यः इतस् अन्यः पृथिव्याः अग्नी समेतः नभसी अन्तरा इमे ।तयोः श्रयन्ते रश्मयः अधि दृढाः तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥
arvāk anyaḥ itas anyaḥ pṛthivyāḥ agnī sametaḥ nabhasī antarā ime .tayoḥ śrayante raśmayaḥ adhi dṛḍhāḥ tān ā tiṣṭhati tapasā brahmacārī ..11..

अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥
अभिक्रन्दन् स्तनयन् अरुणः शितिङ्गः बृहत् शेपः अनु भूमौ जभार ।ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्याम् तेन जीवन्ति प्रदिशः चतस्रः ॥१२॥
abhikrandan stanayan aruṇaḥ śitiṅgaḥ bṛhat śepaḥ anu bhūmau jabhāra .brahmacārī siñcati sānau retaḥ pṛthivyām tena jīvanti pradiśaḥ catasraḥ ..12..

अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥
अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचारी अप्सु समिधम् आ दधाति ।तासाम् अर्चींषि पृथक् अभ्रे चरन्ति तासाम् आज्यम् पुरुषः वर्षम् आपः ॥१३॥
agnau sūrye candramasi mātariśvan brahmacārī apsu samidham ā dadhāti .tāsām arcīṃṣi pṛthak abhre caranti tāsām ājyam puruṣaḥ varṣam āpaḥ ..13..

आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥
आचार्यः मृत्युः वरुणः सोमः ओषधयः पयः ।जीमूताः आसन् सत्वानः तैः इदम् स्वराभृतम् ॥१४॥
ācāryaḥ mṛtyuḥ varuṇaḥ somaḥ oṣadhayaḥ payaḥ .jīmūtāḥ āsan satvānaḥ taiḥ idam svarābhṛtam ..14..

अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।यद्यदैच्छत्प्रजापतौ तद्ब्रह्मचारी प्रायच्छत्स्वान् मित्रो अध्यात्मनः ॥१५॥
अमा घृतम् कृणुते केवलम् आचार्यः भूत्वा वरुणः ।यत् यत् ऐच्छत् प्रजापतौ तत् ब्रह्मचारी प्रायच्छत् स्वात् मित्रः अध्यात्मनः ॥१५॥
amā ghṛtam kṛṇute kevalam ācāryaḥ bhūtvā varuṇaḥ .yat yat aicchat prajāpatau tat brahmacārī prāyacchat svāt mitraḥ adhyātmanaḥ ..15..

आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥
आचार्यः ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।प्रजापतिः वि राजति विराज् इन्द्रः अभवत् वशी ॥१६॥
ācāryaḥ brahmacārī brahmacārī prajāpatiḥ .prajāpatiḥ vi rājati virāj indraḥ abhavat vaśī ..16..

ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते ॥१७॥
ब्रह्मचर्येण तपसा राजा राष्ट्रम् वि रक्षति ।आचार्यः ब्रह्मचर्येण ब्रह्मचारिणम् इच्छते ॥१७॥
brahmacaryeṇa tapasā rājā rāṣṭram vi rakṣati .ācāryaḥ brahmacaryeṇa brahmacāriṇam icchate ..17..

ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥
ब्रह्मचर्येण कन्या युवानम् विन्दते पतिम् ।अनड्वान् ब्रह्मचर्येण अश्वः घासम् जिगीषति ॥१८॥
brahmacaryeṇa kanyā yuvānam vindate patim .anaḍvān brahmacaryeṇa aśvaḥ ghāsam jigīṣati ..18..

ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥
ब्रह्मचर्येण तपसा देवाः मृत्युम् अपाघ्नत ।इन्द्रः ह ब्रह्मचर्येण देवेभ्यः स्वर् आभरत्॥१९॥
brahmacaryeṇa tapasā devāḥ mṛtyum apāghnata .indraḥ ha brahmacaryeṇa devebhyaḥ svar ābharat..19..

ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}
ओषधयः भूत-भव्यम् अहोरात्रे वनस्पतिः ।संवत्सरः सह ऋतुभिः ते जाताः ब्रह्मचारिणः ॥२०॥
oṣadhayaḥ bhūta-bhavyam ahorātre vanaspatiḥ .saṃvatsaraḥ saha ṛtubhiḥ te jātāḥ brahmacāriṇaḥ ..20..

पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥
पार्थिवाः दिव्याः पशवः आरण्याः ग्राम्याः च ये ।अपक्षाः पक्षिणः च ये ते जाताः ब्रह्मचारिणः ॥२१॥
pārthivāḥ divyāḥ paśavaḥ āraṇyāḥ grāmyāḥ ca ye .apakṣāḥ pakṣiṇaḥ ca ye te jātāḥ brahmacāriṇaḥ ..21..

पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥
पृथक् सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।तान् सर्वान् ब्रह्म रक्षति ब्रह्मचारिणी आभृतम् ॥२२॥
pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati .tān sarvān brahma rakṣati brahmacāriṇī ābhṛtam ..22..

देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥
देवानाम् एतत् परिषूतम् अन् अभ्यारूढम् चरति रोचमानम् ।तस्मात् जातम् ब्राह्मणम् ब्रह्म ज्येष्ठम् देवाः च सर्वे अमृतेन साकम् ॥२३॥
devānām etat pariṣūtam an abhyārūḍham carati rocamānam .tasmāt jātam brāhmaṇam brahma jyeṣṭham devāḥ ca sarve amṛtena sākam ..23..

ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
ब्रह्मचारी ब्रह्म भ्राजत् बिभर्ति तस्मिन् देवाः अधि विश्वे समोताः ।प्राण-अपानौ जनयन् आत् व्यानम् वाचम् मनः हृदयम् ब्रह्म मेधाम् ॥२४॥
brahmacārī brahma bhrājat bibharti tasmin devāḥ adhi viśve samotāḥ .prāṇa-apānau janayan āt vyānam vācam manaḥ hṛdayam brahma medhām ..24..

प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥
प्राण-अपानौ जनयन् आत् व्यानम् वाचम् मनः हृदयम् ब्रह्म मेधाम् ॥२४॥
prāṇa-apānau janayan āt vyānam vācam manaḥ hṛdayam brahma medhām ..24..

चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥
चक्षुः श्रोत्रम् यशः अस्मासु धेहि अन्नम् रेतः लोहितम् उदरम् ॥२५॥
cakṣuḥ śrotram yaśaḥ asmāsu dhehi annam retaḥ lohitam udaram ..25..

तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}
तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपः अतिष्ठत् तप्यमानः समुद्रे ।स स्नातः बभ्रुः पिङ्गलः पृथिव्याम् बहु रोचते ॥२६॥
tāni kalpan brahmacārī salilasya pṛṣṭhe tapaḥ atiṣṭhat tapyamānaḥ samudre .sa snātaḥ babhruḥ piṅgalaḥ pṛthivyām bahu rocate ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In