| |
|

This overlay will guide you through the buttons:

अग्निं ब्रूमो वनस्पतीन् ओषधीरुत वीरुधः ।इन्द्रं बृहस्पतिं सूर्यं ते नो मुञ्चन्त्वंहसः ॥१॥
अग्निम् ब्रूमः वनस्पतीन् ओषधीः उत वीरुधः ।इन्द्रम् बृहस्पतिम् सूर्यम् ते नः मुञ्चन्तु अंहसः ॥१॥
agnim brūmaḥ vanaspatīn oṣadhīḥ uta vīrudhaḥ .indram bṛhaspatim sūryam te naḥ muñcantu aṃhasaḥ ..1..

ब्रूमो राजानं वरुणं मित्रं विष्णुमथो भगम् ।अंशं विवस्वन्तं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥२॥
ब्रूमः राजानम् वरुणम् मित्रम् विष्णुम् अथो भगम् ।अंशम् विवस्वन्तम् ब्रूमः ते नः मुञ्चन्तु अंहसः ॥२॥
brūmaḥ rājānam varuṇam mitram viṣṇum atho bhagam .aṃśam vivasvantam brūmaḥ te naḥ muñcantu aṃhasaḥ ..2..

ब्रूमो देवं सवितारं धातारमुत पूषणम् ।त्वष्टारमग्रियं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥३॥
ब्रूमः देवम् सवितारम् धातारम् उत पूषणम् ।त्वष्टारम् अग्रियम् ब्रूमः ते नः मुञ्चन्तु अंहसः ॥३॥
brūmaḥ devam savitāram dhātāram uta pūṣaṇam .tvaṣṭāram agriyam brūmaḥ te naḥ muñcantu aṃhasaḥ ..3..

गन्धर्वाप्सरसो ब्रूमो अश्विना ब्रह्मणस्पतिम् ।अर्यमा नाम यो देवस्ते नो मुञ्चन्त्वंहसः ॥४॥
गन्धर्व-अप्सरसः ब्रूमः अश्विना ब्रह्मणस्पतिम् ।अर्यमा नाम यः देवः ते नः मुञ्चन्तु अंहसः ॥४॥
gandharva-apsarasaḥ brūmaḥ aśvinā brahmaṇaspatim .aryamā nāma yaḥ devaḥ te naḥ muñcantu aṃhasaḥ ..4..

अहोरात्रे इदं ब्रूमः सूर्याचन्द्रमसावुभा ।विश्वान् आदित्यान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥५॥
अहोरात्रे इदम् ब्रूमः सूर्याचन्द्रमसौ उभा ।विश्वान् आदित्यान् ब्रूमः ते नः मुञ्चन्तु अंहसः ॥५॥
ahorātre idam brūmaḥ sūryācandramasau ubhā .viśvān ādityān brūmaḥ te naḥ muñcantu aṃhasaḥ ..5..

वातं ब्रूमः पर्जन्यमन्तरिक्षमथो दिशः ।आशाश्च सर्वा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥६॥
वातम् ब्रूमः पर्जन्यम् अन्तरिक्षम् अथो दिशः ।आशाः च सर्वाः ब्रूमः ते नः मुञ्चन्तु अंहसः ॥६॥
vātam brūmaḥ parjanyam antarikṣam atho diśaḥ .āśāḥ ca sarvāḥ brūmaḥ te naḥ muñcantu aṃhasaḥ ..6..

मुञ्चन्तु मा शपथ्यादहोरात्रे अथो उषाः ।सोमो मा देवो मुञ्चतु यमाहुश्चन्द्रमा इति ॥७॥
मुञ्चन्तु मा शपथ्यात् अहर्-रात्रे अथ उ उषाः ।सोमः मा देवः मुञ्चतु यम् आहुः चन्द्रमाः इति ॥७॥
muñcantu mā śapathyāt ahar-rātre atha u uṣāḥ .somaḥ mā devaḥ muñcatu yam āhuḥ candramāḥ iti ..7..

पार्थिवा दिव्याः पशव आरण्या उत ये मृगाः ।शकुन्तान् पक्षिणो ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥८॥
पार्थिवाः दिव्याः पशवः आरण्याः उत ये मृगाः ।शकुन्तान् पक्षिणः ब्रूमः ते नः मुञ्चन्तु अंहसः ॥८॥
pārthivāḥ divyāḥ paśavaḥ āraṇyāḥ uta ye mṛgāḥ .śakuntān pakṣiṇaḥ brūmaḥ te naḥ muñcantu aṃhasaḥ ..8..

भवाशर्वाविदं ब्रूमो रुद्रं पशुपतिश्च यः ।इषूर्या एषां संविद्म ता नः सन्तु सदा शिवाः ॥९॥
भवाशर्वौ इदम् ब्रूमः रुद्रम् पशुपतिः च यः ।इषूर्याः एषाम् संविद्म ताः नः सन्तु सदा शिवाः ॥९॥
bhavāśarvau idam brūmaḥ rudram paśupatiḥ ca yaḥ .iṣūryāḥ eṣām saṃvidma tāḥ naḥ santu sadā śivāḥ ..9..

दिवं ब्रूमो नक्षत्राणि भूमिं यक्षाणि पर्वतान् ।समुद्रा नद्यो वेशन्तास्ते नो मुञ्चन्त्वंहसः ॥१०॥ {१७}
दिवम् ब्रूमः नक्षत्राणि भूमिम् यक्षाणि पर्वतान् ।समुद्राः नद्यः वेशन्ताः ते नः मुञ्चन्तु अंहसः ॥१०॥
divam brūmaḥ nakṣatrāṇi bhūmim yakṣāṇi parvatān .samudrāḥ nadyaḥ veśantāḥ te naḥ muñcantu aṃhasaḥ ..10..

सप्तऋषीन् वा इदं ब्रूमोऽपो देवीः प्रजापतिम् ।पितॄन् यमश्रेष्ठान् ब्रूमस्ते नो मुञ्चन्त्वंहसः ।११॥
सप्त-ऋषीन् वै इदम् ब्रूमः अपः देवीः प्रजापतिम् ।पितॄन् यम-श्रेष्ठान् ब्रूमः ते नः मुञ्चन्तु अंहसः ।११॥
sapta-ṛṣīn vai idam brūmaḥ apaḥ devīḥ prajāpatim .pitṝn yama-śreṣṭhān brūmaḥ te naḥ muñcantu aṃhasaḥ .11..

ये देवा दिविषदो अन्तरिक्षसदश्च ये ।पृथिव्यां शक्रा ये श्रितास्ते नो मुञ्चन्त्वंहसः ॥१२॥
ये देवाः दिविषदः अन्तरिक्ष-सदः च ये ।पृथिव्याम् शक्राः ये श्रिताः ते नः मुञ्चन्तु अंहसः ॥१२॥
ye devāḥ diviṣadaḥ antarikṣa-sadaḥ ca ye .pṛthivyām śakrāḥ ye śritāḥ te naḥ muñcantu aṃhasaḥ ..12..

आदित्या रुद्रा वसवो दिवि देवा अथर्वाणः ।अङ्गिरसो मनीषिणस्ते नो मुञ्चन्त्वंहसः ॥१३॥
आदित्याः रुद्राः वसवः दिवि देवाः अथर्वाणः ।अङ्गिरसः मनीषिणः ते नः मुञ्चन्तु अंहसः ॥१३॥
ādityāḥ rudrāḥ vasavaḥ divi devāḥ atharvāṇaḥ .aṅgirasaḥ manīṣiṇaḥ te naḥ muñcantu aṃhasaḥ ..13..

यज्ञं ब्रूमो यजमानमृचः सामानि भेषजा ।यजूंषि होत्रा ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१४॥
यज्ञम् ब्रूमः यजमानम् ऋचः सामानि भेषजा ।यजूंषि होत्रा ब्रूमः ते नः मुञ्चन्तु अंहसः ॥१४॥
yajñam brūmaḥ yajamānam ṛcaḥ sāmāni bheṣajā .yajūṃṣi hotrā brūmaḥ te naḥ muñcantu aṃhasaḥ ..14..

पञ्च राज्यानि वीरुधां सोमश्रेष्ठानि ब्रूमः ।दर्भो भङ्गो यवः सहस्ते नो मुञ्चन्त्वंहसः ॥१५॥
पञ्च राज्यानि वीरुधाम् सोम-श्रेष्ठानि ब्रूमः ।दर्भः भङ्गः यवः सहस्ते नः मुञ्चन्तु अंहसः ॥१५॥
pañca rājyāni vīrudhām soma-śreṣṭhāni brūmaḥ .darbhaḥ bhaṅgaḥ yavaḥ sahaste naḥ muñcantu aṃhasaḥ ..15..

अरायान् ब्रूमो रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।मृत्यून् एकशतं ब्रूमस्ते नो मुञ्चन्त्वंहसः ॥१६॥
अरायान् ब्रूमः रक्षांसि सर्पान् पुण्यजनान् पितॄन् ।मृत्यून् एक-शतम् ब्रूमः ते नः मुञ्चन्तु अंहसः ॥१६॥
arāyān brūmaḥ rakṣāṃsi sarpān puṇyajanān pitṝn .mṛtyūn eka-śatam brūmaḥ te naḥ muñcantu aṃhasaḥ ..16..

ऋतून् ब्रूम ऋतुपतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासांस्ते नो मुञ्चन्त्वंहसः ॥१७॥
ऋतून् ब्रूमः ऋतु-पतीन् आर्तवान् उत हायनान् ।समाः संवत्सरान् मासान् ते नः मुञ्चन्तु अंहसः ॥१७॥
ṛtūn brūmaḥ ṛtu-patīn ārtavān uta hāyanān .samāḥ saṃvatsarān māsān te naḥ muñcantu aṃhasaḥ ..17..

एत देवा दक्षिणतः पश्चात्प्राञ्च उदेत ।पुरस्तादुत्तराच्छक्रा विश्वे देवाः समेत्य ते नो मुञ्चन्त्वंहसः ॥१८॥
एत देवाः दक्षिणतस् पश्चात् प्राञ्चः उदेत ।पुरस्तात् उत्तरात् शक्राः विश्वे देवाः समेत्य ते नः मुञ्चन्तु अंहसः ॥१८॥
eta devāḥ dakṣiṇatas paścāt prāñcaḥ udeta .purastāt uttarāt śakrāḥ viśve devāḥ sametya te naḥ muñcantu aṃhasaḥ ..18..

विश्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।विश्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥१९॥
विश्वान् देवान् इदम् ब्रूमः सत्य-सन्धान् ऋतावृधः ।विश्वाभिः पत्नीभिः सह ते नः मुञ्चन्तु अंहसः ॥१९॥
viśvān devān idam brūmaḥ satya-sandhān ṛtāvṛdhaḥ .viśvābhiḥ patnībhiḥ saha te naḥ muñcantu aṃhasaḥ ..19..

सर्वान् देवान् इदं ब्रूमः सत्यसन्धान् ऋतावृधः ।सर्वाभिः पत्नीभिः सह ते नो मुञ्चन्त्वंहसः ॥२०॥
सर्वान् देवान् इदम् ब्रूमः सत्य-सन्धान् ऋतावृधः ।सर्वाभिः पत्नीभिः सह ते नः मुञ्चन्तु अंहसः ॥२०॥
sarvān devān idam brūmaḥ satya-sandhān ṛtāvṛdhaḥ .sarvābhiḥ patnībhiḥ saha te naḥ muñcantu aṃhasaḥ ..20..

भूतं ब्रूमो भूतपतिं भूतानामुत यो वशी ।भूतानि सर्वा संगत्य ते नो मुञ्चन्त्वंहसः ॥२१॥
भूतम् ब्रूमः भूतपतिम् भूतानाम् उत यः वशी ।भूतानि सर्वा संगत्य ते नः मुञ्चन्तु अंहसः ॥२१॥
bhūtam brūmaḥ bhūtapatim bhūtānām uta yaḥ vaśī .bhūtāni sarvā saṃgatya te naḥ muñcantu aṃhasaḥ ..21..

या देवीः पञ्च प्रदिशो ये देवा द्वादश ऋतवः ।संवत्सरस्य ये दंष्ट्रास्ते नः सन्तु सदा शिवाः ॥२२॥
याः देवीः पञ्च प्रदिशः ये देवाः द्वादश ऋतवः ।संवत्सरस्य ये दंष्ट्राः ते नः सन्तु सदा शिवाः ॥२२॥
yāḥ devīḥ pañca pradiśaḥ ye devāḥ dvādaśa ṛtavaḥ .saṃvatsarasya ye daṃṣṭrāḥ te naḥ santu sadā śivāḥ ..22..

यन् मातली रथक्रीतममृतं वेद भेषजम् ।तदिन्द्रो अप्सु प्रावेशयत्तदापो दत्त भेषजम् ॥२३॥ {१८}
यत् मातली रथ-क्रीतम् अमृतम् वेद भेषजम् ।तत् इन्द्रः अप्सु प्रावेशयत् तत् आपः दत्त भेषजम् ॥२३॥
yat mātalī ratha-krītam amṛtam veda bheṣajam .tat indraḥ apsu prāveśayat tat āpaḥ datta bheṣajam ..23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In