| |
|

This overlay will guide you through the buttons:

उच्छिष्टे नाम रूपं चोच्छिष्टे लोक आहितः ।उच्छिष्ट इन्द्रश्चाग्निश्च विश्वमन्तः समाहितम् ॥१॥
उच्छिष्टे नाम रूपम् च उच्छिष्टे लोकः आहितः ।उच्छिष्टः इन्द्रः च अग्निः च विश्वम् अन्तर् समाहितम् ॥१॥
ucchiṣṭe nāma rūpam ca ucchiṣṭe lokaḥ āhitaḥ .ucchiṣṭaḥ indraḥ ca agniḥ ca viśvam antar samāhitam ..1..

उच्छिष्टे द्यावापृथिवी विश्वं भूतं समाहितम् ।आपः समुद्र उच्छिष्टे चन्द्रमा वात आहितः ॥२॥
उच्छिष्टे द्यावापृथिवी विश्वम् भूतम् समाहितम् ।आपः समुद्रे उच्छिष्टे चन्द्रमाः वाते आहितः ॥२॥
ucchiṣṭe dyāvāpṛthivī viśvam bhūtam samāhitam .āpaḥ samudre ucchiṣṭe candramāḥ vāte āhitaḥ ..2..

सन्न् उच्छिष्टे असंश्चोभौ मृत्युर्वाजः प्रजापतिः ।लौक्या उच्छिष्ट आयत्ता व्रश्च द्रश्चापि श्रीर्मयि ॥३॥
सन् उच्छिष्टे असन् च उभौ मृत्युः वाजः प्रजापतिः ।लौक्याः उच्छिष्टे आयत्ताः श्रीः मयि ॥३॥
san ucchiṣṭe asan ca ubhau mṛtyuḥ vājaḥ prajāpatiḥ .laukyāḥ ucchiṣṭe āyattāḥ śrīḥ mayi ..3..

दृढो दृंह स्थिरो न्यो ब्रह्म विश्वसृजो दश ।नाभिमिव सर्वतश्चक्रमुच्छिष्टे देवताः श्रिताः ॥४॥
दृढः दृंह स्थिरः ब्रह्म विश्व-सृजः दश ।नाभिम् इव सर्वतस् चक्रम् उच्छिष्टे देवताः श्रिताः ॥४॥
dṛḍhaḥ dṛṃha sthiraḥ brahma viśva-sṛjaḥ daśa .nābhim iva sarvatas cakram ucchiṣṭe devatāḥ śritāḥ ..4..

ऋक्साम यजुरुच्छिष्ट उद्गीथः प्रस्तुतं स्तुतम् ।हिङ्कार उच्छिष्टे स्वरः साम्नो मेडिश्च तन् मयि ॥५॥
ऋक्-साम यजुः-उच्छिष्टः उद्गीथः प्रस्तुतम् स्तुतम् ।हिङ्कारः उच्छिष्टे स्वरः साम्नः मा इडिः च तत् मयि ॥५॥
ṛk-sāma yajuḥ-ucchiṣṭaḥ udgīthaḥ prastutam stutam .hiṅkāraḥ ucchiṣṭe svaraḥ sāmnaḥ mā iḍiḥ ca tat mayi ..5..

ऐन्द्राग्नं पावमानं महानाम्नीर्महाव्रतम् ।उच्छिष्टे यज्ञस्याङ्गान्यन्तर्गर्भ इव मातरि ॥६॥
ऐन्द्राग्नम् पावमानम् महानाम्नीः महाव्रतम् ।उच्छिष्टे यज्ञस्य अङ्गानि अन्तर् गर्भे इव मातरि ॥६॥
aindrāgnam pāvamānam mahānāmnīḥ mahāvratam .ucchiṣṭe yajñasya aṅgāni antar garbhe iva mātari ..6..

राजसूयं वाजपेयमग्निष्टोमष्तदध्वरः ।अर्काश्वमेधावुच्छिष्टे जीवबर्हिर्मदिन्तमः ॥७॥
राजसूयम् वाजपेयम् अग्निष्टोमः तद्-अध्वरः ।अर्क-अश्वमेधौ उच्छिष्टे जीवबर्हिः-मदिन्तमः ॥७॥
rājasūyam vājapeyam agniṣṭomaḥ tad-adhvaraḥ .arka-aśvamedhau ucchiṣṭe jīvabarhiḥ-madintamaḥ ..7..

अग्न्याधेयमथो दीक्षा कामप्रश्छन्दसा सह ।उत्सन्ना यज्ञाः सत्राण्युच्छिष्टेऽधि समाहिताः ॥८॥
अग्न्याधेयम् अथो दीक्षा कामप्रः छन्दसा सह ।उत्सन्नाः यज्ञाः सत्राणि उच्छिष्टे अधि समाहिताः ॥८॥
agnyādheyam atho dīkṣā kāmapraḥ chandasā saha .utsannāḥ yajñāḥ satrāṇi ucchiṣṭe adhi samāhitāḥ ..8..

अग्निहोत्रं च श्रद्धा च वषट्कारो व्रतं तपः ।दक्षिणेष्टं पूर्तं चोच्छिष्टेऽधि समाहिताः ॥९॥
अग्निहोत्रम् च श्रद्धा च वषट्कारः व्रतम् तपः ।दक्षिणा-इष्टम् पूर्तम् च उच्छिष्टे अधि समाहिताः ॥९॥
agnihotram ca śraddhā ca vaṣaṭkāraḥ vratam tapaḥ .dakṣiṇā-iṣṭam pūrtam ca ucchiṣṭe adhi samāhitāḥ ..9..

एकरात्रो द्विरात्रः सद्यःक्रीः प्रक्रीरुक्थ्यः ।ओतं निहितमुच्छिष्टे यज्ञस्याणूनि विद्यया ॥१०॥ {१९}
एक-रात्रः द्वि-रात्रः सद्यःक्रीः प्रक्रीः उक्थ्यः ।ओतम् निहितम् उच्छिष्टे यज्ञस्य अणूनि विद्यया ॥१०॥
eka-rātraḥ dvi-rātraḥ sadyaḥkrīḥ prakrīḥ ukthyaḥ .otam nihitam ucchiṣṭe yajñasya aṇūni vidyayā ..10..

चतूरात्रः पञ्चरात्रः षड्रात्रश्चोभयः सह ।षोडशी सप्तरात्रश्चोच्छिष्टाज्जज्ञिरे सर्वे ये यज्ञा अमृते हिताः ॥११॥
चतुर्-रात्रः पञ्च-रात्रः षष्-रात्रः च उभयः सह ।षोडशी सप्तरात्रः च उच्छिष्टात् जज्ञिरे सर्वे ये यज्ञाः अमृते हिताः ॥११॥
catur-rātraḥ pañca-rātraḥ ṣaṣ-rātraḥ ca ubhayaḥ saha .ṣoḍaśī saptarātraḥ ca ucchiṣṭāt jajñire sarve ye yajñāḥ amṛte hitāḥ ..11..

प्रतीहारो निधनं विश्वजिच्चाभिजिच्च यः ।साह्नातिरात्रावुच्छिष्टे द्वादशाहोऽपि तन् मयि ॥१२॥
प्रतीहारः निधनम् विश्वजित् च अभिजित् च यः ।स अह्ना अतिरात्रौ उच्छिष्टे द्वादश-अहः अपि तत् मयि ॥१२॥
pratīhāraḥ nidhanam viśvajit ca abhijit ca yaḥ .sa ahnā atirātrau ucchiṣṭe dvādaśa-ahaḥ api tat mayi ..12..

सूनृता संनतिः क्षेमः स्वधोर्जामृतं सहः ।उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥
सूनृता संनतिः क्षेमः स्वधा ऊर्जा अमृतम् सहः ।उच्छिष्टे सर्वे प्रत्यञ्चः कामाः कामेन तातृपुः ॥१३॥
sūnṛtā saṃnatiḥ kṣemaḥ svadhā ūrjā amṛtam sahaḥ .ucchiṣṭe sarve pratyañcaḥ kāmāḥ kāmena tātṛpuḥ ..13..

नव भूमीः समुद्रा उच्छिष्टेऽधि श्रिता दिवः ।आ सूर्यो भात्युच्छिष्टेऽहोरात्रे अपि तन् मयि ॥१४॥
नव भूमीः समुद्राः उच्छिष्टे अधि श्रिताः दिवः ।आ सूर्यः भाति उच्छिष्टे अहोरात्रे अपि तत् मयि ॥१४॥
nava bhūmīḥ samudrāḥ ucchiṣṭe adhi śritāḥ divaḥ .ā sūryaḥ bhāti ucchiṣṭe ahorātre api tat mayi ..14..

उपहव्यं विषूवन्तं ये च यज्ञा गुहा हिताः ।बिभर्ति भर्ता विश्वस्योच्छिष्टो जनितुः पिता ॥१५॥
उपहव्यम् विषूवन्तम् ये च यज्ञाः गुहा हिताः ।बिभर्ति भर्ता विश्वस्य उच्छिष्टः जनितुः पिता ॥१५॥
upahavyam viṣūvantam ye ca yajñāḥ guhā hitāḥ .bibharti bhartā viśvasya ucchiṣṭaḥ janituḥ pitā ..15..

पिता जनितुरुच्छिष्टोऽसोः पौत्रः पितामहः ।स क्षियति विश्वस्येशानो वृषा भूम्यामतिघ्न्यः ॥१६॥
पिता जनितुः उच्छिष्टः असोः पौत्रः पितामहः ।स क्षियति विश्वस्य ईशानः वृषा भूम्याम् अति घ्न्यः ॥१६॥
pitā janituḥ ucchiṣṭaḥ asoḥ pautraḥ pitāmahaḥ .sa kṣiyati viśvasya īśānaḥ vṛṣā bhūmyām ati ghnyaḥ ..16..

ऋतं सत्यं तपो राष्ट्रं श्रमो धर्मश्च कर्म च ।भूतं भविष्यदुच्छिष्टे वीर्यं लक्ष्मीर्बलं बले ॥१७॥
ऋतम् सत्यम् तपः राष्ट्रम् श्रमः धर्मः च कर्म च ।भूतम् भविष्यत्-उच्छिष्टे वीर्यम् लक्ष्मीः बलम् बले ॥१७॥
ṛtam satyam tapaḥ rāṣṭram śramaḥ dharmaḥ ca karma ca .bhūtam bhaviṣyat-ucchiṣṭe vīryam lakṣmīḥ balam bale ..17..

समृद्धिरोज आकूतिः क्षत्रं राष्ट्रं षडुर्व्यः ।संवत्सरोऽध्युच्छिष्ट इडा प्रैषा ग्रहा हविः ॥१८॥
समृद्धिः ओजः आकूतिः क्षत्रम् राष्ट्रम् षड् उर्व्यः ।संवत्सरः अध्युच्छिष्टः इडा प्रैषाः ग्रहाः हविः ॥१८॥
samṛddhiḥ ojaḥ ākūtiḥ kṣatram rāṣṭram ṣaḍ urvyaḥ .saṃvatsaraḥ adhyucchiṣṭaḥ iḍā praiṣāḥ grahāḥ haviḥ ..18..

चतुर्होतार आप्रियश्चातुर्मास्यानि नीविदः ।उच्छिष्टे यज्ञा होत्राः पशुबन्धास्तदिष्टयः ॥१९॥
चतुर्-होतारः आप्रियः चातुर्मास्यानि नीविदः ।उच्छिष्टे यज्ञाः होत्राः पशुबन्धाः तद्-इष्टयः ॥१९॥
catur-hotāraḥ āpriyaḥ cāturmāsyāni nīvidaḥ .ucchiṣṭe yajñāḥ hotrāḥ paśubandhāḥ tad-iṣṭayaḥ ..19..

अर्धमासाश्च मासाश्चार्तवा ऋतुभिः सह ।उच्छिष्टे घोषिणीराप स्तनयित्नुः श्रुतिर्मही ॥२०॥ {२०}
अर्ध-मासाः च मासाः च आर्तवाः ऋतुभिः सह ।उच्छिष्टे घोषिणीः आप स्तनयित्नुः श्रुतिः मही ॥२०॥
ardha-māsāḥ ca māsāḥ ca ārtavāḥ ṛtubhiḥ saha .ucchiṣṭe ghoṣiṇīḥ āpa stanayitnuḥ śrutiḥ mahī ..20..

शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा ।अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥२१॥
शर्कराः सिकताः अश्मानः ओषधयः वीरुधः तृणा ।अभ्राणि विद्युतः वर्षम् उच्छिष्टे संश्रिता श्रिता ॥२१॥
śarkarāḥ sikatāḥ aśmānaḥ oṣadhayaḥ vīrudhaḥ tṛṇā .abhrāṇi vidyutaḥ varṣam ucchiṣṭe saṃśritā śritā ..21..

राद्धिः प्राप्तिः समाप्तिर्व्याप्तिर्मह एधतुः ।अत्याप्तिरुच्छिष्टे भूतिश्चाहिता निहिता हिता ॥२२॥
राद्धिः प्राप्तिः समाप्तिः व्याप्तिः महः एधतुः ।अत्याप्तिः उच्छिष्टे भूतिः च अहिता निहिता हिता ॥२२॥
rāddhiḥ prāptiḥ samāptiḥ vyāptiḥ mahaḥ edhatuḥ .atyāptiḥ ucchiṣṭe bhūtiḥ ca ahitā nihitā hitā ..22..

यच्च प्राणति प्राणेन यच्च पश्यति चक्षुषा ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२३॥
यत् च प्राणति प्राणेन यत् च पश्यति चक्षुषा ।उच्छिष्टात् जज्ञिरे सर्वे दिवि देवाः दिविश्रितः ॥२३॥
yat ca prāṇati prāṇena yat ca paśyati cakṣuṣā .ucchiṣṭāt jajñire sarve divi devāḥ diviśritaḥ ..23..

ऋचः सामानि छन्दांसि पुराणं यजुषा सह ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२४॥
ऋचः सामानि छन्दांसि पुराणम् यजुषा सह ।उच्छिष्टात् जज्ञिरे सर्वे दिवि देवाः दिविश्रितः ॥२४॥
ṛcaḥ sāmāni chandāṃsi purāṇam yajuṣā saha .ucchiṣṭāt jajñire sarve divi devāḥ diviśritaḥ ..24..

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२५॥
प्राण-अपानौ चक्षुः श्रोत्रम् अक्षितिः च क्षितिः च या ।उच्छिष्टात् जज्ञिरे सर्वे दिवि देवाः दिविश्रितः ॥२५॥
prāṇa-apānau cakṣuḥ śrotram akṣitiḥ ca kṣitiḥ ca yā .ucchiṣṭāt jajñire sarve divi devāḥ diviśritaḥ ..25..

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२६॥
आनन्दाः मोदाः प्रमुदः अभीमोद-मुदः च ये ।उच्छिष्टात् जज्ञिरे सर्वे दिवि देवाः ॥२६॥
ānandāḥ modāḥ pramudaḥ abhīmoda-mudaḥ ca ye .ucchiṣṭāt jajñire sarve divi devāḥ ..26..

देवाः पितरो मनुष्या गन्धर्वाप्सरसश्च ये ।उच्छिष्टाज्जज्ञिरे सर्वे दिवि देवा दिविश्रितः ॥२७॥ {२१}
देवाः पितरः मनुष्याः गन्धर्व-अप्सरसः च ये ।उच्छिष्टात् जज्ञिरे सर्वे दिवि देवाः ॥२७॥
devāḥ pitaraḥ manuṣyāḥ gandharva-apsarasaḥ ca ye .ucchiṣṭāt jajñire sarve divi devāḥ ..27..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In