| |
|

This overlay will guide you through the buttons:

यन् मन्युर्जायामावहत्संकल्पस्य गृहादधि ।क आसं जन्याः के वराः क उ ज्येष्ठवरोऽभवत्॥१॥
यत् मन्युः जायाम् आवहत् संकल्पस्य गृहात् अधि ।कः आसम् जन्याः के वराः कः उ ज्येष्ठ-वरः अभवत्॥१॥
yat manyuḥ jāyām āvahat saṃkalpasya gṛhāt adhi .kaḥ āsam janyāḥ ke varāḥ kaḥ u jyeṣṭha-varaḥ abhavat..1..

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।त आसं जन्यास्ते वरा ब्रह्म ज्येष्ठवरोऽभवत्॥२॥
तपः च एव आस्ताम् कर्म च अन्तर् महति अर्णवे ।ते आसम् जन्याः ते वराः ब्रह्म ज्येष्ठ-वरः अभवत्॥२॥
tapaḥ ca eva āstām karma ca antar mahati arṇave .te āsam janyāḥ te varāḥ brahma jyeṣṭha-varaḥ abhavat..2..

दश साकमजायन्त देवा देवेभ्यः पुरा ।यो वै तान् विद्यात्प्रत्यक्षं स वा अद्य महद्वदेत्॥३॥
दश साकम् अजायन्त देवाः देवेभ्यः पुरा ।यः वै तान् विद्यात् प्रत्यक्षम् स वै अद्य महत् वदेत्॥३॥
daśa sākam ajāyanta devāḥ devebhyaḥ purā .yaḥ vai tān vidyāt pratyakṣam sa vai adya mahat vadet..3..

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।व्यानोदानौ वाङ्मनस्ते वा आकूतिमावहन् ॥४॥
प्राण-अपानौ चक्षुः श्रोत्रम् अक्षितिः च क्षितिः च या ।व्यान-उदानौ वाच्-मनः ते वै आकूतिम् आवहन् ॥४॥
prāṇa-apānau cakṣuḥ śrotram akṣitiḥ ca kṣitiḥ ca yā .vyāna-udānau vāc-manaḥ te vai ākūtim āvahan ..4..

अजाता आसन्न् ऋतवोऽथो धाता बृहस्पतिः ।इन्द्राग्नी अश्विना तर्हि कं ते ज्येष्ठमुपासत ॥५॥
अ जाताः आसन् ऋतवः अथ उ धाता बृहस्पतिः ।इन्द्र-अग्नी अश्विना तर्हि कम् ते ज्येष्ठम् उपासत ॥५॥
a jātāḥ āsan ṛtavaḥ atha u dhātā bṛhaspatiḥ .indra-agnī aśvinā tarhi kam te jyeṣṭham upāsata ..5..

तपश्चैवास्तां कर्म चान्तर्महत्यर्णवे ।तपो ह जज्ञे कर्मणस्तत्ते ज्येष्ठमुपासत ॥६॥
तपः च एव आस्ताम् कर्म च अन्तर् महति अर्णवे ।तपः ह जज्ञे कर्मणः तत् ते ज्येष्ठम् उपासत ॥६॥
tapaḥ ca eva āstām karma ca antar mahati arṇave .tapaḥ ha jajñe karmaṇaḥ tat te jyeṣṭham upāsata ..6..

येत आसीद्भूमिः पूर्वा यामद्धातय इद्विदुः ।यो वै तां विद्यान् नामथा स मन्येत पुराणवित्॥७॥
या इतस् आसीत् भूमिः पूर्वा याम् अद्धातयः इद् विदुः ।यः वै ताम् विद्यात् न अमथा स मन्येत पुराण-विद्॥७॥
yā itas āsīt bhūmiḥ pūrvā yām addhātayaḥ id viduḥ .yaḥ vai tām vidyāt na amathā sa manyeta purāṇa-vid..7..

कुत इन्द्रः कुतः सोमः कुतो अग्निरजायत ।कुतस्त्वष्टा समभवत्कुतो धाताजायत ॥८॥
कुतस् इन्द्रः कुतस् सोमः कुतस् अग्निः अजायत ।कुतस् त्वष्टा समभवत् कुतस् धाता अजायत ॥८॥
kutas indraḥ kutas somaḥ kutas agniḥ ajāyata .kutas tvaṣṭā samabhavat kutas dhātā ajāyata ..8..

इन्द्रादिन्द्रः सोमात्सोमो अग्नेरग्निरजायत ।त्वष्टा ह जज्ञे त्वष्टुर्धातुर्धाताजायत ॥९॥
इन्द्रात् इन्द्रः सोमात् सोमः अग्नेः अग्निः अजायत ।त्वष्टा ह जज्ञे त्वष्टुः धातुः धाता अजायत ॥९॥
indrāt indraḥ somāt somaḥ agneḥ agniḥ ajāyata .tvaṣṭā ha jajñe tvaṣṭuḥ dhātuḥ dhātā ajāyata ..9..

ये त आसन् दश जाता देवा देवेभ्यः पुरा ।पुत्रेभ्यो लोकं दत्त्वा कस्मिंस्ते लोक आसते ॥१०॥ {२२}
ये ते आसन् दश जाताः देवाः देवेभ्यः पुरा ।पुत्रेभ्यः लोकम् दत्त्वा कस्मिन् ते लोके आसते ॥१०॥
ye te āsan daśa jātāḥ devāḥ devebhyaḥ purā .putrebhyaḥ lokam dattvā kasmin te loke āsate ..10..

यदा केशान् अस्थि स्नाव मांसं मज्जानमाभरत्।शरीरं कृत्वा पादवत्कं लोकमनु प्राविशत्॥११॥
यदा केशान् अस्थि स्नाव मांसम् मज्जानम् आभरत्।शरीरम् कृत्वा पाद-वत्कम् लोकम् अनु प्राविशत्॥११॥
yadā keśān asthi snāva māṃsam majjānam ābharat.śarīram kṛtvā pāda-vatkam lokam anu prāviśat..11..

कुतः केशान् कुतः स्नाव कुतो अस्थीन्याभरत्।अङ्गा पर्वाणि मज्जानं को मांसं कुत आभरत्॥१२॥
कुतस् केशान् कुतस् स्नाव कुतस् अस्थीनि आभरत्।अङ्गा पर्वाणि मज्जानम् कः मांसम् कुतस् आभरत्॥१२॥
kutas keśān kutas snāva kutas asthīni ābharat.aṅgā parvāṇi majjānam kaḥ māṃsam kutas ābharat..12..

संसिचो नाम ते देवा ये संभारान्त्समभरन् ।सर्वं संसिच्य मर्त्यं देवाः पुरुषमाविशन् ॥१३॥
संसिचः नाम ते देवाः ये संभारान् समभरन् ।सर्वम् संसिच्य मर्त्यम् देवाः पुरुषम् आविशन् ॥१३॥
saṃsicaḥ nāma te devāḥ ye saṃbhārān samabharan .sarvam saṃsicya martyam devāḥ puruṣam āviśan ..13..

ऊरू पादावष्ठीवन्तौ शिरो हस्तावथो मुखम् ।पृष्टीर्बर्जह्ये पार्श्वे कस्तत्समदधादृषिः ॥१४॥
ऊरू पादौ अष्ठीवन्तौ शिरः हस्तौ अथो मुखम् ।पृष्टीः बर्जह्ये पार्श्वे कः तत् समदधात् ऋषिः ॥१४॥
ūrū pādau aṣṭhīvantau śiraḥ hastau atho mukham .pṛṣṭīḥ barjahye pārśve kaḥ tat samadadhāt ṛṣiḥ ..14..

शिरो हस्तावथो मुखं जिह्वां ग्रीवाश्च कीकसाः ।त्वचा प्रावृत्य सर्वं तत्संधा समदधान् मही ॥१५॥
शिरः हस्तौ अथो मुखम् जिह्वाम् ग्रीवाः च कीकसाः ।त्वचा प्रावृत्य सर्वम् तत् संधा समदधात् मही ॥१५॥
śiraḥ hastau atho mukham jihvām grīvāḥ ca kīkasāḥ .tvacā prāvṛtya sarvam tat saṃdhā samadadhāt mahī ..15..

यत्तच्छरीरमशयत्संधया संहितं महत्।येनेदमद्य रोचते को अस्मिन् वर्णमाभरत्॥१६॥
यत् तत् शरीरम् अशयत् संधया संहितम् महत्।येन इदम् अद्य रोचते कः अस्मिन् वर्णम् आभरत्॥१६॥
yat tat śarīram aśayat saṃdhayā saṃhitam mahat.yena idam adya rocate kaḥ asmin varṇam ābharat..16..

सर्वे देवा उपाशिक्षन् तदजानाद्वधूः सती ।ईशा वशस्य या जाया सास्मिन् वर्णमाभरत्॥१७॥
सर्वे देवाः उपाशिक्षन् तत् अजानात् वधूः सती ।ईशा वशस्य या जाया सा अस्मिन् वर्णम् आभरत्॥१७॥
sarve devāḥ upāśikṣan tat ajānāt vadhūḥ satī .īśā vaśasya yā jāyā sā asmin varṇam ābharat..17..

यदा त्वष्टा व्यतृणत्पिता त्वष्टुर्य उत्तरः ।गृहं कृत्वा मर्त्यं देवाः पुरुषमाविशन् ॥१८॥
यदा त्वष्टा व्यतृणत् पिता त्वष्टुः यः उत्तरः ।गृहम् कृत्वा मर्त्यम् देवाः पुरुषम् आविशन् ॥१८॥
yadā tvaṣṭā vyatṛṇat pitā tvaṣṭuḥ yaḥ uttaraḥ .gṛham kṛtvā martyam devāḥ puruṣam āviśan ..18..

स्वप्नो वै तन्द्रीर्निर्ऋतिः पाप्मानो नाम देवताः ।जरा खालत्यं पालित्यं शरीरमनु प्राविशन् ॥१९॥
स्वप्नः वै तन्द्रीः निरृतिः पाप्मानः नाम देवताः ।जरा खालत्यम् पालित्यम् शरीरम् अनु प्राविशन् ॥१९॥
svapnaḥ vai tandrīḥ nirṛtiḥ pāpmānaḥ nāma devatāḥ .jarā khālatyam pālityam śarīram anu prāviśan ..19..

स्तेयं दुष्कृतं वृजिनं सत्यं यज्ञो यशो बृहत्।बलं च क्षत्रमोजश्च शरीरमनु प्राविशन् ॥२०॥ {२३}
स्तेयम् दुष्कृतम् वृजिनम् सत्यम् यज्ञः यशः बृहत्।बलम् च क्षत्रम् ओजः च शरीरम् अनु प्राविशन् ॥२०॥
steyam duṣkṛtam vṛjinam satyam yajñaḥ yaśaḥ bṛhat.balam ca kṣatram ojaḥ ca śarīram anu prāviśan ..20..

भूतिश्च वा अभूतिश्च रातयोऽरातयश्च याः ।क्षुधश्च सर्वास्तृष्णाश्च शरीरमनु प्राविशन् ॥२१॥
भूतिः च वै अभूतिः च रातयः अ रातयः च याः ।क्षुधः च सर्वाः तृष्णाः च शरीरम् अनु प्राविशन् ॥२१॥
bhūtiḥ ca vai abhūtiḥ ca rātayaḥ a rātayaḥ ca yāḥ .kṣudhaḥ ca sarvāḥ tṛṣṇāḥ ca śarīram anu prāviśan ..21..

निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च ।शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥२२॥
निन्दाः च वै अनिन्दाः च यत् च हन्ता इति न इति च ।शरीरम् श्रद्धा दक्षिणा अश्रद्धा च अनु प्राविशन् ॥२२॥
nindāḥ ca vai anindāḥ ca yat ca hantā iti na iti ca .śarīram śraddhā dakṣiṇā aśraddhā ca anu prāviśan ..22..

विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम् ।शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥२३॥
विद्याः च वै अविद्याः च यत् च अन्यत् उपदेश्यम् ।शरीरम् ब्रह्म प्राविशत् ऋचः साम अथ उ यजुः ॥२३॥
vidyāḥ ca vai avidyāḥ ca yat ca anyat upadeśyam .śarīram brahma prāviśat ṛcaḥ sāma atha u yajuḥ ..23..

आनन्दा मोदाः प्रमुदोऽभीमोदमुदश्च ये ।हसो नरिष्टा नृत्तानि शरीरमनु प्राविशन् ॥२४॥
आनन्दाः मोदाः प्रमुदः अभीमोद-मुदः च ये ।हसः नरिष्टाः नृत्तानि शरीरम् अनु प्राविशन् ॥२४॥
ānandāḥ modāḥ pramudaḥ abhīmoda-mudaḥ ca ye .hasaḥ nariṣṭāḥ nṛttāni śarīram anu prāviśan ..24..

आलापाश्च प्रलापाश्चाभीलापलपश्च ये ।शरीरं सर्वे प्राविशन्न् आयुजः प्रयुजो युजः ॥२५॥
आलापाः च प्रलापाः च अभीलाप-लपः च ये ।शरीरम् सर्वे प्राविशन् आयुजः प्रयुजः युजः ॥२५॥
ālāpāḥ ca pralāpāḥ ca abhīlāpa-lapaḥ ca ye .śarīram sarve prāviśan āyujaḥ prayujaḥ yujaḥ ..25..

प्राणापानौ चक्षुः श्रोत्रमक्षितिश्च क्षितिश्च या ।व्यानोदानौ वाङ्मनः शरीरेण त ईयन्ते ॥२६॥
प्राण-अपानौ चक्षुः श्रोत्रम् अक्षितिः च क्षितिः च या ।व्यान-उदानौ वाच्-मनः शरीरेण ते ईयन्ते ॥२६॥
prāṇa-apānau cakṣuḥ śrotram akṣitiḥ ca kṣitiḥ ca yā .vyāna-udānau vāc-manaḥ śarīreṇa te īyante ..26..

आशिषश्च प्रशिषश्च संशिषो विशिषश्च याः ।चित्तानि सर्वे संकल्पाः शरीरमनु प्राविशन् ॥२७॥
आशिषः च प्रशिषः च संशिषः विशिषः च याः ।चित्तानि सर्वे संकल्पाः शरीरम् अनु प्राविशन् ॥२७॥
āśiṣaḥ ca praśiṣaḥ ca saṃśiṣaḥ viśiṣaḥ ca yāḥ .cittāni sarve saṃkalpāḥ śarīram anu prāviśan ..27..

आस्तेयीश्च वास्तेयीश्च त्वरणाः कृपणाश्च याः ।गुह्याः शुक्रा स्थूला अपस्ता बीभत्सावसादयन् ॥२८॥
आस्तेयीः च वास्तेयीः च त्वरणाः कृपणाः च याः ।गुह्याः शुक्रा स्थूलाः अपः ताः बीभत्सा अवसादयन् ॥२८॥
āsteyīḥ ca vāsteyīḥ ca tvaraṇāḥ kṛpaṇāḥ ca yāḥ .guhyāḥ śukrā sthūlāḥ apaḥ tāḥ bībhatsā avasādayan ..28..

अस्थि कृत्वा समिधं तदष्टापो असादयन् ।रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥२९॥
अस्थि कृत्वा समिधम् तत् अष्टौ अपः असादयन् ।रेतः कृत्वा आज्यम् देवाः पुरुषम् आविशन् ॥२९॥
asthi kṛtvā samidham tat aṣṭau apaḥ asādayan .retaḥ kṛtvā ājyam devāḥ puruṣam āviśan ..29..

या आपो याश्च देवता या विराड्ब्रह्मणा सह ।शरीरं ब्रह्म प्राविशच्छरीरेऽधि प्रजापतिः ॥३०॥
याः आपः याः च देवताः या विराज् ब्रह्मणा सह ।शरीरम् ब्रह्म प्राविशत् शरीरे अधि प्रजापतिः ॥३०॥
yāḥ āpaḥ yāḥ ca devatāḥ yā virāj brahmaṇā saha .śarīram brahma prāviśat śarīre adhi prajāpatiḥ ..30..

सूर्यश्चक्षुर्वातः प्राणं पुरुषस्य वि भेजिरे ।अथास्येतरमात्मानं देवाः प्रायच्छन्न् अग्नये ॥३१॥
सूर्यः चक्षुः वातः प्राणम् पुरुषस्य वि भेजिरे ।अथ अस्य इतरम् आत्मानम् देवाः प्रायच्छन् अग्नये ॥३१॥
sūryaḥ cakṣuḥ vātaḥ prāṇam puruṣasya vi bhejire .atha asya itaram ātmānam devāḥ prāyacchan agnaye ..31..

तस्माद्वै विद्वान् पुरुषमिदं ब्रह्मेति मन्यते ।सर्वा ह्यस्मिन् देवता गावो गोष्ठ इवासते ॥३२॥
तस्मात् वै विद्वान् पुरुषम् इदम् ब्रह्म इति मन्यते ।सर्वाः हि अस्मिन् देवताः गावः गोष्ठे इव आसते ॥३२॥
tasmāt vai vidvān puruṣam idam brahma iti manyate .sarvāḥ hi asmin devatāḥ gāvaḥ goṣṭhe iva āsate ..32..

प्रथमेन प्रमारेण त्रेधा विष्वङ्वि गच्छति ।अद एकेन गच्छत्यद एकेन गच्छतीहैकेन नि षेवते ॥३३॥
प्रथमेन प्रमारेण त्रेधा विष्वङ् वि गच्छति ।अदः एकेन गच्छति अदः एकेन गच्छति इह एकेन नि सेवते ॥३३॥
prathamena pramāreṇa tredhā viṣvaṅ vi gacchati .adaḥ ekena gacchati adaḥ ekena gacchati iha ekena ni sevate ..33..

अप्सु स्तीमासु वृद्धासु शरीरमन्तरा हितम् ।तस्मिं छवोऽध्यन्तरा तस्माच्छवोऽध्युच्यते ॥३४॥ {२४}
अप्सु स्तीमासु वृद्धासु शरीरम् अन्तरा हितम् ।तस्मिन् छवः अध्यन्तरा तस्मात् शवः अधि उच्यते ॥३४॥
apsu stīmāsu vṛddhāsu śarīram antarā hitam .tasmin chavaḥ adhyantarā tasmāt śavaḥ adhi ucyate ..34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In