| |
|

This overlay will guide you through the buttons:

ये बाहवो या इषवो धन्वनां वीर्याणि च ।असीन् परशून् आयुधं चित्ताकूतं च यद्धृदि ।सर्वं तदर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१॥
ये बाहवः याः इषवः धन्वनाम् वीर्याणि च ।असीन् परशून् आयुधम् चित्त-आकूतम् च यत् हृदि ।सर्वम् तत् अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥१॥
ye bāhavaḥ yāḥ iṣavaḥ dhanvanām vīryāṇi ca .asīn paraśūn āyudham citta-ākūtam ca yat hṛdi .sarvam tat arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..1..

उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम् ।संदृष्टा गुप्ता वः सन्तु या नो मित्राण्यर्बुदे ॥२॥
उत्तिष्ठत सम् नह्यध्वम् मित्राः देव-जनाः यूयम् ।संदृष्टाः गुप्ताः वः सन्तु या नः मित्राणि अर्बुदे ॥२॥
uttiṣṭhata sam nahyadhvam mitrāḥ deva-janāḥ yūyam .saṃdṛṣṭāḥ guptāḥ vaḥ santu yā naḥ mitrāṇi arbude ..2..

उत्तिष्ठतमा रभेतामादानसंदानाभ्याम् ।अमित्राणां सेना अभि धत्तमर्बुदे ॥३॥
उत्तिष्ठतमा रभेताम् आदान-संदानाभ्याम् ।अमित्राणाम् सेनाः अभि धत्तम् अर्बुदे ॥३॥
uttiṣṭhatamā rabhetām ādāna-saṃdānābhyām .amitrāṇām senāḥ abhi dhattam arbude ..3..

अर्बुदिर्नाम यो देव ईशानश्च न्यर्बुदिः ।याभ्यामन्तरिक्षमावृतमियं च पृथिवी मही ।ताभ्यामिन्द्रमेदिभ्यामहं जितमन्वेमि सेनया ॥४॥
अर्बुदिः नाम यः देवः ईशानः च न्यर्बुदिः ।याभ्याम् अन्तरिक्षम् आवृतम् इयम् च पृथिवी मही ।ताभ्याम् इन्द्र-मेदिभ्याम् अहम् जितम् अन्वेमि सेनया ॥४॥
arbudiḥ nāma yaḥ devaḥ īśānaḥ ca nyarbudiḥ .yābhyām antarikṣam āvṛtam iyam ca pṛthivī mahī .tābhyām indra-medibhyām aham jitam anvemi senayā ..4..

उत्तिष्ठ त्वं देवजनार्बुदे सेनया सह ।भञ्जन्न् अमित्राणां सेनां भोगेभिः परि वारय ॥५॥
उत्तिष्ठ त्वम् देव-जन अर्बुदे सेनया सह ।भञ्जन् अमित्राणाम् सेनाम् भोगेभिः परि वारय ॥५॥
uttiṣṭha tvam deva-jana arbude senayā saha .bhañjan amitrāṇām senām bhogebhiḥ pari vāraya ..5..

सप्त जातान् न्यर्बुद उदाराणां समीक्षयन् ।तेभिष्ट्वमाज्ये हुते सर्वैरुत्तिष्ठ सेनया ॥६॥
सप्त जातान् न्यर्बुदः उदाराणाम् समीक्षयन् ।तेभिः त्वम् आज्ये हुते सर्वैः उत्तिष्ठ सेनया ॥६॥
sapta jātān nyarbudaḥ udārāṇām samīkṣayan .tebhiḥ tvam ājye hute sarvaiḥ uttiṣṭha senayā ..6..

प्रतिघ्नानाश्रुमुखी कृधुकर्णी च क्रोशतु ।विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
च क्रोशतु ।विकेशी पुरुषे हते रदिते अर्बुदे तव ॥७॥
ca krośatu .vikeśī puruṣe hate radite arbude tava ..7..

संकर्षन्ती करूकरं मनसा पुत्रमिच्छन्ती ।पतिं भ्रातरमात्स्वान् रदिते अर्बुदे तव ॥८॥
संकर्षन्ती करूकरम् मनसा पुत्रम् इच्छन्ती ।पतिम् भ्रातर् अमात्स्वान् रदिते अर्बुदे तव ॥८॥
saṃkarṣantī karūkaram manasā putram icchantī .patim bhrātar amātsvān radite arbude tava ..8..

अलिक्लवा जाष्कमदा गृध्राः श्येनाः पतत्रिणः ।ध्वाङ्क्षाः शकुनयस्तृप्यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
अलिक्लवाः जाष्कमदाः गृध्राः श्येनाः पतत्रिणः ।ध्वाङ्क्षाः शकुनयः तृप्यन्तु अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥९॥
aliklavāḥ jāṣkamadāḥ gṛdhrāḥ śyenāḥ patatriṇaḥ .dhvāṅkṣāḥ śakunayaḥ tṛpyantu amitreṣu samīkṣayan radite arbude tava ..9..

अथो सर्वं श्वापदं मक्षिका तृप्यतु क्रिमिः ।पौरुषेयेऽधि कुणपे रदिते अर्बुदे तव ॥१०॥ {२५}
अथो सर्वम् श्वापदम् मक्षिका तृप्यतु क्रिमिः ।पौरुषेये अधि कुणपे रदिते अर्बुदे तव ॥१०॥
atho sarvam śvāpadam makṣikā tṛpyatu krimiḥ .pauruṣeye adhi kuṇape radite arbude tava ..10..

आ गृह्णीतं सं बृहतं प्राणापानान् न्यर्बुदे ।निवाशा घोषाः सं यन्त्वमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
आ गृह्णीतम् सम् बृहतम् प्राण-अपानान् न्यर्बुदे ।निवाशाः घोषाः सम् यन्तु अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥११॥
ā gṛhṇītam sam bṛhatam prāṇa-apānān nyarbude .nivāśāḥ ghoṣāḥ sam yantu amitreṣu samīkṣayan radite arbude tava ..11..

उद्वेपय सं विजन्तां भियामित्रान्त्सं सृज ।उरुग्राहैर्बाह्वङ्कैर्विध्यामित्रान् न्यर्बुदे ॥१२॥
उद्वेपय सम् विजन्ताम् भिया अमित्रान् सम् सृज ।उरु-ग्राहैः बाहु-अङ्कैः विध्य अमित्रान् न्यर्बुदे ॥१२॥
udvepaya sam vijantām bhiyā amitrān sam sṛja .uru-grāhaiḥ bāhu-aṅkaiḥ vidhya amitrān nyarbude ..12..

मुह्यन्त्वेषां बाहवश्चित्ताकूतं च यद्धृदि ।मैषामुच्छेषि किं चन रदिते अर्बुदे तव ॥१३॥
मुह्यन्तु एषाम् बाहवः चित्त-आकूतम् च यत् हृदि ।मा एषाम् उच्छेषि किम् चन रदिते अर्बुदे तव ॥१३॥
muhyantu eṣām bāhavaḥ citta-ākūtam ca yat hṛdi .mā eṣām uccheṣi kim cana radite arbude tava ..13..

प्रतिघ्नानाः सं धावन्तूरः पटौरावाघ्नानाः ।अघारिणीर्विकेश्यो रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
प्रतिघ्नानाः सम् पटौरौ आघ्नानाः ।अघारिणीः विकेश्यः रुदत्यः पुरुषे हते रदिते अर्बुदे तव ॥१४॥
pratighnānāḥ sam paṭaurau āghnānāḥ .aghāriṇīḥ vikeśyaḥ rudatyaḥ puruṣe hate radite arbude tava ..14..

श्वन्वतीरप्सरसो रूपका उतार्बुदे ।अन्तःपात्रे रेरिहतीं रिशां दुर्णिहितैषिणीम् ।सर्वास्ता अर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥१५॥
श्वन्वतीः अप्सरसः रूपकाः उत अर्बुदे ।अन्तःपात्रे रेरिहतीम् रिशाम् दुर्णिहित-एषिणीम् ।सर्वाः ताः अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥१५॥
śvanvatīḥ apsarasaḥ rūpakāḥ uta arbude .antaḥpātre rerihatīm riśām durṇihita-eṣiṇīm .sarvāḥ tāḥ arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..15..

खडूरेऽधिचङ्क्रमां खर्विकां खर्ववासिनीम् ।य उदारा अन्तर्हिता गन्धर्वाप्सरसश्च ये ।सर्पा इतरजना रक्षांसि ॥१६॥
खडूरे अधिचङ्क्रमाम् खर्विकाम् खर्ववासिनीम् ।ये उदाराः अन्तर्हिताः गन्धर्व-अप्सरसः च ये ।सर्पाः इतरजनाः रक्षांसि ॥१६॥
khaḍūre adhicaṅkramām kharvikām kharvavāsinīm .ye udārāḥ antarhitāḥ gandharva-apsarasaḥ ca ye .sarpāḥ itarajanāḥ rakṣāṃsi ..16..

चतुर्दंष्ट्रां छ्यावदतः कुम्भमुष्कामसृङ्मुखान् ।स्वभ्यसा ये चोद्भ्यसाः ॥१७॥
चतुर्-दंष्ट्राम् श्याव-दतः कुम्भ-मुष्काम् असृज्-मुखान् ।सु अभ्यसाः ये च उद्भ्यसाः ॥१७॥
catur-daṃṣṭrām śyāva-dataḥ kumbha-muṣkām asṛj-mukhān .su abhyasāḥ ye ca udbhyasāḥ ..17..

उद्वेपय त्वमर्बुदेऽमित्राणाममूः सिचः ।जयंश्च जिष्णुश्चामित्रां जयतामिन्द्रमेदिनौ ॥१८॥
उद्वेपय त्वम् अर्बुदे अमित्राणाम् अमूः सिचः ।जयन् च जिष्णुः च अमित्राम् जयताम् इन्द्र-मेदिनौ ॥१८॥
udvepaya tvam arbude amitrāṇām amūḥ sicaḥ .jayan ca jiṣṇuḥ ca amitrām jayatām indra-medinau ..18..

प्रब्लीनो मृदितः शयां हतोऽमित्रो न्यर्बुदे ।अग्निजिह्वा धूमशिखा जयन्तीर्यन्तु सेनया ॥१९॥
प्रब्लीनः मृदितः शयाम् हतः अमित्रः न्यर्बुदे ।अग्नि-जिह्वाः धूम-शिखाः जयन्तीः यन्तु सेनया ॥१९॥
prablīnaḥ mṛditaḥ śayām hataḥ amitraḥ nyarbude .agni-jihvāḥ dhūma-śikhāḥ jayantīḥ yantu senayā ..19..

तयार्बुदे प्रणुत्तानामिन्द्रो हन्तु वरंवरम् ।अमित्राणां शचीपतिर्मामीषां मोचि कश्चन ॥२०॥ {२६}
तया अर्बुदे प्रणुत्तानाम् इन्द्रः हन्तु वरंवरम् ।अमित्राणाम् शचीपतिः मा अमीषाम् मोचि कश्चन ॥२०॥
tayā arbude praṇuttānām indraḥ hantu varaṃvaram .amitrāṇām śacīpatiḥ mā amīṣām moci kaścana ..20..

उत्कसन्तु हृदयान्यूर्ध्वः प्राण उदीषतु ।शौष्कास्यमनु वर्तताममित्रान् मोत मित्रिणः ॥२१॥
उत्कसन्तु हृदयानि ऊर्ध्वः प्राणः उदीषतु ।शौष्कास्यम् अनु वर्तताम् अमित्रान् मा उत मित्रिणः ॥२१॥
utkasantu hṛdayāni ūrdhvaḥ prāṇaḥ udīṣatu .śauṣkāsyam anu vartatām amitrān mā uta mitriṇaḥ ..21..

ये च धीरा ये चाधीराः पराञ्चो बधिराश्च ये ।तमसा ये च तूपरा अथो बस्ताभिवासिनः ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२२॥
ये च धीराः ये च अधीराः पराञ्चः बधिराः च ये ।तमसाः ये च तूपराः अथो बस्त-अभिवासिनः ।सर्वान् ताम् अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥२२॥
ye ca dhīrāḥ ye ca adhīrāḥ parāñcaḥ badhirāḥ ca ye .tamasāḥ ye ca tūparāḥ atho basta-abhivāsinaḥ .sarvān tām arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..22..

अर्बुदिश्च त्रिषन्धिश्चामित्रान् नो वि विध्यताम् ।यथैषामिन्द्र वृत्रहन् हनाम शचीपतेऽमित्राणां सहस्रशः ॥२३॥
अर्बुदिः च त्रिषन्धिः च अमित्रान् नः वि विध्यताम् ।यथा एषाम् इन्द्र वृत्रहन् हनाम शचीपते अमित्राणाम् सहस्रशस् ॥२३॥
arbudiḥ ca triṣandhiḥ ca amitrān naḥ vi vidhyatām .yathā eṣām indra vṛtrahan hanāma śacīpate amitrāṇām sahasraśas ..23..

वनस्पतीन् वानस्पत्यान् ओषधीरुत वीरुधः ।गन्धर्वाप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।सर्वांस्तामर्बुदे त्वममित्रेभ्यो दृशे कुरूदारांश्च प्र दर्शय ॥२४॥
वनस्पतीन् वानस्पत्यान् ओषधीः उत वीरुधः ।गन्धर्व-अप्सरसः सर्पान् देवान् पुण्यजनान् पितॄन् ।सर्वान् ताम् अर्बुदे त्वम् अमित्रेभ्यः दृशे कुरु-उदारान् च प्र दर्शय ॥२४॥
vanaspatīn vānaspatyān oṣadhīḥ uta vīrudhaḥ .gandharva-apsarasaḥ sarpān devān puṇyajanān pitṝn .sarvān tām arbude tvam amitrebhyaḥ dṛśe kuru-udārān ca pra darśaya ..24..

ईशां वो मरुतो देव आदित्यो ब्रह्मणस्पतिः ।ईशां व इन्द्रश्चाग्निश्च धाता मित्रः प्रजापतिः ।ईशां व ऋषयश्चक्रुरमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
ईशाम् वः मरुतः देवः आदित्यः ब्रह्मणस्पतिः ।ईशाम् वः इन्द्रः च अग्निः च धाता मित्रः प्रजापतिः ।ईशाम् वः ऋषयः चक्रुः अमित्रेषु समीक्षयन् रदिते अर्बुदे तव ॥२५॥
īśām vaḥ marutaḥ devaḥ ādityaḥ brahmaṇaspatiḥ .īśām vaḥ indraḥ ca agniḥ ca dhātā mitraḥ prajāpatiḥ .īśām vaḥ ṛṣayaḥ cakruḥ amitreṣu samīkṣayan radite arbude tava ..25..

तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वम् ।मित्रा देवजना यूयमिमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥२६॥ {२७}
तेषाम् सर्वेषाम् ईशानाः उत्तिष्ठत सम् नह्यध्वम् ।मित्राः देव-जनाः यूयम् इमम् संग्रामम् संजित्य यथालोकम् वि तिष्ठध्वम् ॥२६॥
teṣām sarveṣām īśānāḥ uttiṣṭhata sam nahyadhvam .mitrāḥ deva-janāḥ yūyam imam saṃgrāmam saṃjitya yathālokam vi tiṣṭhadhvam ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In