| |
|

This overlay will guide you through the buttons:

सत्यं बृहदृतमुग्रं दीक्षा तपो ब्रह्म यज्ञः पृथिवीं धारयन्ति ।सा नो भूतस्य भव्यस्य पत्न्युरुं लोकं पृथिवी नः कृणोतु ॥१॥
सत्यम् बृहत् ऋतम् उग्रम् दीक्षा तपः ब्रह्म यज्ञः पृथिवीम् धारयन्ति ।सा नः भूतस्य भव्यस्य पत्नी उरुम् लोकम् पृथिवी नः कृणोतु ॥१॥
satyam bṛhat ṛtam ugram dīkṣā tapaḥ brahma yajñaḥ pṛthivīm dhārayanti .sā naḥ bhūtasya bhavyasya patnī urum lokam pṛthivī naḥ kṛṇotu ..1..

असंबाधं मध्यतो मानवानां यस्या उद्वतः प्रवतः समं बहु ।नानावीर्या ओषधीर्या बिभर्ति पृथिवी नः प्रथतां राध्यतां नः ॥२॥
असंबाधम् मध्यतस् मानवानाम् यस्याः उद्वतः प्रवतः समम् बहु ।नाना वीर्याः ओषधीः या बिभर्ति पृथिवी नः प्रथताम् राध्यताम् नः ॥२॥
asaṃbādham madhyatas mānavānām yasyāḥ udvataḥ pravataḥ samam bahu .nānā vīryāḥ oṣadhīḥ yā bibharti pṛthivī naḥ prathatām rādhyatām naḥ ..2..

यस्यां समुद्र उत सिन्धुरापो यस्यामन्नं कृष्टयः संबभूवुः ।यस्यामिदं जिन्वति प्राणदेजत्सा नो भूमिः पूर्वपेये दधातु ॥३॥
यस्याम् समुद्रः उत सिन्धुः आपः यस्याम् अन्नम् कृष्टयः संबभूवुः ।यस्याम् इदम् जिन्वति प्राणत् एजत् सा नः भूमिः पूर्वपेये दधातु ॥३॥
yasyām samudraḥ uta sindhuḥ āpaḥ yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ .yasyām idam jinvati prāṇat ejat sā naḥ bhūmiḥ pūrvapeye dadhātu ..3..

यस्याश्चतस्रः प्रदिशः पृथिव्या यस्यामन्नं कृष्टयः संबभूवुः ।या बिभर्ति बहुधा प्राणदेजत्सा नो भूमिर्गोष्वप्यन्ने दधातु ॥४॥
यस्याः चतस्रः प्रदिशः पृथिव्याः यस्याम् अन्नम् कृष्टयः संबभूवुः ।या बिभर्ति बहुधा प्राणत् एजत् सा नः भूमिः गोषु अपि अन्ने दधातु ॥४॥
yasyāḥ catasraḥ pradiśaḥ pṛthivyāḥ yasyām annam kṛṣṭayaḥ saṃbabhūvuḥ .yā bibharti bahudhā prāṇat ejat sā naḥ bhūmiḥ goṣu api anne dadhātu ..4..

यस्यां पूर्वे पूर्वजना विचक्रिरे यस्यां देवा असुरान् अभ्यवर्तयन् ।गवामश्वानां वयसश्च विष्ठा भगं वर्चः पृथिवी नो दधातु ॥५॥
यस्याम् पूर्वे पूर्व-जनाः विचक्रिरे यस्याम् देवाः असुरान् अभ्यवर्तयन् ।गवाम् अश्वानाम् वयसः च विष्ठा भगम् वर्चः पृथिवी नः दधातु ॥५॥
yasyām pūrve pūrva-janāḥ vicakrire yasyām devāḥ asurān abhyavartayan .gavām aśvānām vayasaḥ ca viṣṭhā bhagam varcaḥ pṛthivī naḥ dadhātu ..5..

विश्वंभरा वसुधानी प्रतिष्ठा हिरण्यवक्षा जगतो निवेशनी ।वैश्वानरं बिभ्रती भूमिरग्निमिन्द्रऋषभा द्रविणे नो दधातु ॥६॥
विश्वंभराः वसु-धानी प्रतिष्ठा हिरण्य-वक्षाः जगतः निवेशनी ।वैश्वानरम् बिभ्रती भूमिः अग्निम् इन्द्र-ऋषभा द्रविणे नः दधातु ॥६॥
viśvaṃbharāḥ vasu-dhānī pratiṣṭhā hiraṇya-vakṣāḥ jagataḥ niveśanī .vaiśvānaram bibhratī bhūmiḥ agnim indra-ṛṣabhā draviṇe naḥ dadhātu ..6..

यां रक्षन्त्यस्वप्ना विश्वदानीं देवा भूमिं पृथिवीमप्रमादम् ।सा नो मधु प्रियं दुहामथो उक्षतु वर्चसा ॥७॥
याम् रक्षन्ति अस्वप्नाः विश्वदानीम् देवाः भूमिम् पृथिवीम् अप्रमादम् ।सा नः मधु प्रियम् दुहाम् अथ उ उक्षतु वर्चसा ॥७॥
yām rakṣanti asvapnāḥ viśvadānīm devāḥ bhūmim pṛthivīm apramādam .sā naḥ madhu priyam duhām atha u ukṣatu varcasā ..7..

यार्णवेऽधि सलिलमग्र आसीत्यां मायाभिरन्वचरन् मनीषिणः ।यस्या हृदयं परमे व्योमन्त्सत्येनावृतममृतं पृथिव्याः ।सा नो भूमिस्त्विषिं बलं राष्ट्रे दधातूत्तमे ॥८॥
या अर्णवे अधि सलिलम् अग्रे आसि इत्याम् मायाभिः अन्वचरन् मनीषिणः ।यस्याः हृदयम् परमे व्योमन् सत्येन आवृतम् अमृतम् पृथिव्याः ।सा नः भूमिः त्विषिम् बलम् राष्ट्रे दधातु उत्तमे ॥८॥
yā arṇave adhi salilam agre āsi ityām māyābhiḥ anvacaran manīṣiṇaḥ .yasyāḥ hṛdayam parame vyoman satyena āvṛtam amṛtam pṛthivyāḥ .sā naḥ bhūmiḥ tviṣim balam rāṣṭre dadhātu uttame ..8..

यस्यामापः परिचराः समानीरहोरात्रे अप्रमादं क्षरन्ति ।सा नो भूमिर्भूरिधारा पयो दुहामथो उक्षतु वर्चसा ॥९॥
यस्याम् आपः परिचराः समानीः अहोरात्रे अप्रमादम् क्षरन्ति ।सा नः भूमिः भूरि-धारा पयः दुहाम् अथ उ उक्षतु वर्चसा ॥९॥
yasyām āpaḥ paricarāḥ samānīḥ ahorātre apramādam kṣaranti .sā naḥ bhūmiḥ bhūri-dhārā payaḥ duhām atha u ukṣatu varcasā ..9..

यामश्विनावमिमातां विष्णुर्यस्यां विचक्रमे ।इन्द्रो यां चक्र आत्मनेऽनमित्रां शचीपतिः ।सा नो भूमिर्वि सृजतां माता पुत्राय मे पयः ॥१०॥ {१}
याम् अश्विनौ अमिमाताम् विष्णुः यस्याम् विचक्रमे ।इन्द्रः याम् चक्रे आत्मने अनमित्राम् शचीपतिः ।सा नः भूमिः वि सृजताम् माता पुत्राय मे पयः ॥१०॥
yām aśvinau amimātām viṣṇuḥ yasyām vicakrame .indraḥ yām cakre ātmane anamitrām śacīpatiḥ .sā naḥ bhūmiḥ vi sṛjatām mātā putrāya me payaḥ ..10..

गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु ।बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम् ।अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥११॥
गिरयः ते पर्वताः हिमवन्तः अरण्यम् ते पृथिवि स्योनम् अस्तु ।बभ्रुम् कृष्णाम् रोहिणीम् विश्व-रूपाम् ध्रुवाम् भूमिम् पृथिवीम् इन्द्र-गुप्ताम् ।अ जीतः अ हतः अ क्षतः अध्यष्ठाम् पृथिवीम् अहम् ॥११॥
girayaḥ te parvatāḥ himavantaḥ araṇyam te pṛthivi syonam astu .babhrum kṛṣṇām rohiṇīm viśva-rūpām dhruvām bhūmim pṛthivīm indra-guptām .a jītaḥ a hataḥ a kṣataḥ adhyaṣṭhām pṛthivīm aham ..11..

यत्ते मध्यं पृथिवि यच्च नभ्यं यास्त ऊर्जस्तन्वः संबभूवुः ।तासु नो धेह्यभि नः पवस्व माता भूमिः पुत्रो अहं पृथिव्याः पर्जन्यः पिता स उ नः पिपर्तु ॥१२॥
यत् ते मध्यम् पृथिवि यत् च नभ्यम् याः ते ऊर्जः तन्वः संबभूवुः ।तासु नः धेहि अभि नः पवस्व माता भूमिः पुत्रः अहम् पृथिव्याः पर्जन्यः पिता सः उ नः पिपर्तु ॥१२॥
yat te madhyam pṛthivi yat ca nabhyam yāḥ te ūrjaḥ tanvaḥ saṃbabhūvuḥ .tāsu naḥ dhehi abhi naḥ pavasva mātā bhūmiḥ putraḥ aham pṛthivyāḥ parjanyaḥ pitā saḥ u naḥ pipartu ..12..

यस्यां वेदिं परिगृह्णन्ति भूम्यां यस्यां यज्ञं तन्वते विश्वकर्माणः ।यस्यां मीयन्ते स्वरवः पृथिव्यामूर्ध्वाः शुक्रा आहुत्याः पुरस्तात्।सा नो भूमिर्वर्धयद्वर्धमाना ॥१३॥
यस्याम् वेदिम् परिगृह्णन्ति भूम्याम् यस्याम् यज्ञम् तन्वते विश्व-कर्माणः ।यस्याम् मीयन्ते स्वरवः पृथिव्याम् ऊर्ध्वाः शुक्राः आहुत्याः पुरस्तात्।सा नः भूमिः वर्धयत् वर्धमाना ॥१३॥
yasyām vedim parigṛhṇanti bhūmyām yasyām yajñam tanvate viśva-karmāṇaḥ .yasyām mīyante svaravaḥ pṛthivyām ūrdhvāḥ śukrāḥ āhutyāḥ purastāt.sā naḥ bhūmiḥ vardhayat vardhamānā ..13..

यो नो द्वेषत्पृथिवि यः पृतन्याद्योऽभिदासान् मनसा यो वधेन ।तं नो भूमे रन्धय पूर्वकृत्वरि ॥१४॥
यः नः द्वेषत् पृथिवि यः पृतन्यात् यः अभिदासात् मनसा यः वधेन ।तम् नः भूमे रन्धय पूर्व-कृत्वरि ॥१४॥
yaḥ naḥ dveṣat pṛthivi yaḥ pṛtanyāt yaḥ abhidāsāt manasā yaḥ vadhena .tam naḥ bhūme randhaya pūrva-kṛtvari ..14..

त्वज्जातास्त्वयि चरन्ति मर्त्यास्त्वं बिभर्षि द्विपदस्त्वं चतुष्पदः ।तवेमे पृथिवि पञ्च मानवा येभ्यो ज्योतिरमृतं मर्त्येभ्य उद्यन्त्सूर्यो रश्मिभिरातनोति ॥१५॥
त्वद्-जाताः त्वयि चरन्ति मर्त्याः त्वम् बिभर्षि द्विपदः त्वम् चतुष्पदः ।तव इमे पृथिवि पञ्च मानवाः येभ्यः ज्योतिः अमृतम् मर्त्येभ्यः उद्यन् सूर्यः रश्मिभिः आतनोति ॥१५॥
tvad-jātāḥ tvayi caranti martyāḥ tvam bibharṣi dvipadaḥ tvam catuṣpadaḥ .tava ime pṛthivi pañca mānavāḥ yebhyaḥ jyotiḥ amṛtam martyebhyaḥ udyan sūryaḥ raśmibhiḥ ātanoti ..15..

ता नः प्रजाः सं दुह्रतां समग्रा वाचो मधु पृथिवि धेहि मह्यम् ॥१६॥
ताः नः प्रजाः सम् दुह्रताम् समग्राः वाचः मधु पृथिवि धेहि मह्यम् ॥१६॥
tāḥ naḥ prajāḥ sam duhratām samagrāḥ vācaḥ madhu pṛthivi dhehi mahyam ..16..

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम् ।शिवां स्योनामनु चरेम विश्वहा ॥१७॥
विश्वस्वम् मातरम् ओषधीनाम् ध्रुवाम् भूमिम् पृथिवीम् धर्मणा धृताम् ।शिवाम् स्योनाम् अनु चरेम विश्वहा ॥१७॥
viśvasvam mātaram oṣadhīnām dhruvām bhūmim pṛthivīm dharmaṇā dhṛtām .śivām syonām anu carema viśvahā ..17..

महत्सधस्थं महती बभूविथ महान् वेग एजथुर्वेपथुष्टे ।महांस्त्वेन्द्रो रक्षत्यप्रमादम् ।सा नो भूमे प्र रोचय हिरण्यस्येव संदृशि मा नो द्विक्षत कश्चन ॥१८॥
महत्-सधस्थम् महती बभूविथ महान् वेगः एजथुः वेपथुष्टे ।महान् त्वा इन्द्रः रक्षति अप्रमादम् ।सा नः भूमे प्र रोचय हिरण्यस्य इव संदृशि मा नः द्विक्षत कश्चन ॥१८॥
mahat-sadhastham mahatī babhūvitha mahān vegaḥ ejathuḥ vepathuṣṭe .mahān tvā indraḥ rakṣati apramādam .sā naḥ bhūme pra rocaya hiraṇyasya iva saṃdṛśi mā naḥ dvikṣata kaścana ..18..

अग्निर्भूम्यामोषधीष्वग्निमापो बिभ्रत्यग्निरश्मसु ।अग्निरन्तः पुरुषेषु गोष्वश्वेष्वग्नयः ॥१९॥
अग्निः भूम्याम् ओषधीषु अग्निम् आपः बिभ्रति अग्निः अश्मसु ।अग्निः अन्तर् पुरुषेषु गोषु अश्वेषु अग्नयः ॥१९॥
agniḥ bhūmyām oṣadhīṣu agnim āpaḥ bibhrati agniḥ aśmasu .agniḥ antar puruṣeṣu goṣu aśveṣu agnayaḥ ..19..

अग्निर्दिव आ तपत्यग्नेर्देवस्योर्वन्तरिक्षम् ।अग्निं मर्तास इन्धते हव्यवाहं घृतप्रियम् ॥२०॥ {२}
अग्निः दिवः आ तपति अग्नेः देवस्य उरु अन्तरिक्षम् ।अग्निम् मर्तासः इन्धते हव्यवाहम् घृत-प्रियम् ॥२०॥
agniḥ divaḥ ā tapati agneḥ devasya uru antarikṣam .agnim martāsaḥ indhate havyavāham ghṛta-priyam ..20..

अग्निवासाः पृथिव्यसितज्ञूस्त्विषीमन्तं संशितं मा कृणोतु ॥२१॥
अग्नि-वासाः पृथिवी असितज्ञूः त्विषीमन्तम् संशितम् मा कृणोतु ॥२१॥
agni-vāsāḥ pṛthivī asitajñūḥ tviṣīmantam saṃśitam mā kṛṇotu ..21..

भूम्यां देवेभ्यो ददति यज्ञं हव्यमरंकृतम् ।भूम्यां मनुष्या जीवन्ति स्वधयान्नेन मर्त्याः ।सा नो भूमिः प्राणमायुर्दधातु जरदष्टिं मा पृथिवी कृणोतु ॥२२॥
भूम्याम् देवेभ्यः ददति यज्ञम् हव्यम् अरंकृतम् ।भूम्याम् मनुष्याः जीवन्ति स्वधया अन्नेन मर्त्याः ।सा नः भूमिः प्राणम् आयुः दधातु जरदष्टिम् मा पृथिवी कृणोतु ॥२२॥
bhūmyām devebhyaḥ dadati yajñam havyam araṃkṛtam .bhūmyām manuṣyāḥ jīvanti svadhayā annena martyāḥ .sā naḥ bhūmiḥ prāṇam āyuḥ dadhātu jaradaṣṭim mā pṛthivī kṛṇotu ..22..

यस्ते गन्धः पृथिवि संबभूव यं बिभ्रत्योषधयो यमापः ।यं गन्धर्वा अप्सरसश्च भेजिरे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२३॥
यः ते गन्धः पृथिवि संबभूव यम् बिभ्रति ओषधयः यम् आपः ।यम् गन्धर्वाः अप्सरसः च भेजिरे तेन मा सुरभिम् कृणु मा नः द्विक्षत कश्चन ॥२३॥
yaḥ te gandhaḥ pṛthivi saṃbabhūva yam bibhrati oṣadhayaḥ yam āpaḥ .yam gandharvāḥ apsarasaḥ ca bhejire tena mā surabhim kṛṇu mā naḥ dvikṣata kaścana ..23..

यस्ते गन्धः पुष्करमाविवेश यं संजभ्रुः सूर्याया विवाहे ।अमर्त्याः पृथिवि गन्धमग्रे तेन मा सुरभिं कृणु मा नो द्विक्षत कश्चन ॥२४॥
यः ते गन्धः पुष्करम् आविवेश यम् संजभ्रुः सूर्यायाः विवाहे ।अमर्त्याः पृथिवि गन्धम् अग्रे तेन मा सुरभिम् कृणु मा नः द्विक्षत कश्चन ॥२४॥
yaḥ te gandhaḥ puṣkaram āviveśa yam saṃjabhruḥ sūryāyāḥ vivāhe .amartyāḥ pṛthivi gandham agre tena mā surabhim kṛṇu mā naḥ dvikṣata kaścana ..24..

यस्ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगो रुचिः ।यो अश्वेषु वीरेषु यो मृगेषूत हस्तिषु ।कन्यायां वर्चो यद्भूमे तेनास्मामपि सं सृज मा नो द्विक्षत कश्चन ॥२५॥
यः ते गन्धः पुरुषेषु स्त्रीषु पुंसु भगः रुचिः ।यः अश्वेषु वीरेषु यः मृगेषु उत हस्तिषु ।कन्यायाम् वर्चः यत् भूमे तेन अस्माम् अपि सम् सृज मा नः द्विक्षत कश्चन ॥२५॥
yaḥ te gandhaḥ puruṣeṣu strīṣu puṃsu bhagaḥ ruciḥ .yaḥ aśveṣu vīreṣu yaḥ mṛgeṣu uta hastiṣu .kanyāyām varcaḥ yat bhūme tena asmām api sam sṛja mā naḥ dvikṣata kaścana ..25..

शिला भूमिरश्मा पांसुः सा भूमिः संधृता धृता ।तस्यै हिरण्यवक्षसे पृथिव्या अकरं नमः ॥२६॥
शिला भूमिः अश्मा पांसुः सा भूमिः संधृता धृता ।तस्यै हिरण्य-वक्षसे पृथिव्यै अकरम् नमः ॥२६॥
śilā bhūmiḥ aśmā pāṃsuḥ sā bhūmiḥ saṃdhṛtā dhṛtā .tasyai hiraṇya-vakṣase pṛthivyai akaram namaḥ ..26..

यस्यां वृक्षा वानस्पत्या ध्रुवास्तिष्ठन्ति विश्वहा ।पृथिवीं विश्वधायसं धृतामछावदामसि ॥२७॥
यस्याम् वृक्षाः वानस्पत्याः ध्रुवाः तिष्ठन्ति विश्वहा ।पृथिवीम् विश्व-धायसम् धृताम् अछावदामसि ॥२७॥
yasyām vṛkṣāḥ vānaspatyāḥ dhruvāḥ tiṣṭhanti viśvahā .pṛthivīm viśva-dhāyasam dhṛtām achāvadāmasi ..27..

उदीराणा उतासीनास्तिष्ठन्तः प्रक्रामन्तः ।पद्भ्यां दक्षिणसव्याभ्यां मा व्यथिष्महि भूम्याम् ॥२८॥
उदीराणाः उत आसीनाः तिष्ठन्तः प्रक्रामन्तः ।पद्भ्याम् दक्षिण-सव्याभ्याम् मा व्यथिष्महि भूम्याम् ॥२८॥
udīrāṇāḥ uta āsīnāḥ tiṣṭhantaḥ prakrāmantaḥ .padbhyām dakṣiṇa-savyābhyām mā vyathiṣmahi bhūmyām ..28..

विमृग्वरीं पृथिवीमा वदामि क्षमां भूमिं ब्रह्मणा वावृधानाम् ।ऊर्जं पुष्टं बिभ्रतीमन्नभागं घृतं त्वाभि नि षीदेम भूमे ॥२९॥
विमृग्वरीम् पृथिवीम् आ वदामि क्षमाम् भूमिम् ब्रह्मणा वावृधानाम् ।ऊर्जम् पुष्टम् बिभ्रतीम् अन्न-भागम् घृतम् त्वा अभि नि सीदेम भूमे ॥२९॥
vimṛgvarīm pṛthivīm ā vadāmi kṣamām bhūmim brahmaṇā vāvṛdhānām .ūrjam puṣṭam bibhratīm anna-bhāgam ghṛtam tvā abhi ni sīdema bhūme ..29..

शुद्धा न आपस्तन्वे क्षरन्तु यो नः सेदुरप्रिये तं नि दध्मः ।पवित्रेण पृथिवि मोत्पुनामि ॥३०॥ {३}
शुद्धाः नः आपः तन्वे क्षरन्तु यः नः सेदुः अप्रिये तम् नि दध्मः ।पवित्रेण पृथिवि मा उत्पुनामि ॥३०॥
śuddhāḥ naḥ āpaḥ tanve kṣarantu yaḥ naḥ seduḥ apriye tam ni dadhmaḥ .pavitreṇa pṛthivi mā utpunāmi ..30..

यास्ते प्राचीः प्रदिशो या उदीचीर्यास्ते भूमे अधराद्याश्च पश्चात्।स्योनास्ता मह्यं चरते भवन्तु मा नि पप्तं भुवने शिश्रियाणः ॥३१॥
याः ते प्राचीः प्रदिशः याः उदीचीः याः ते भूमे अधर-आद्याः च पश्चात्।स्योनाः ताः मह्यम् चरते भवन्तु मा नि पप्तम् भुवने शिश्रियाणः ॥३१॥
yāḥ te prācīḥ pradiśaḥ yāḥ udīcīḥ yāḥ te bhūme adhara-ādyāḥ ca paścāt.syonāḥ tāḥ mahyam carate bhavantu mā ni paptam bhuvane śiśriyāṇaḥ ..31..

मा नः पश्चान् मा पुरस्तान् नुदिष्ठा मोत्तरादधरादुत ।स्वस्ति भूमे नो भव मा विदन् परिपन्थिनो वरीयो यावया वधम् ॥३२॥
मा नः पश्चात् मा पुरस्तात् नुदिष्ठाः मा उत्तरात् अधरात् उत ।स्वस्ति भूमे नः भव मा विदन् परिपन्थिनः वरीयः यावय वधम् ॥३२॥
mā naḥ paścāt mā purastāt nudiṣṭhāḥ mā uttarāt adharāt uta .svasti bhūme naḥ bhava mā vidan paripanthinaḥ varīyaḥ yāvaya vadham ..32..

यावत्तेऽभि विपश्यामि भूमे सूर्येण मेदिना ।तावन् मे चक्षुर्मा मेष्टोत्तरामुत्तरां समाम् ॥३३॥
यावत् ते अभि विपश्यामि भूमे सूर्येण मेदिना ।तावत् मे चक्षुः मा मेष्ट उत्तराम् उत्तराम् समाम् ॥३३॥
yāvat te abhi vipaśyāmi bhūme sūryeṇa medinā .tāvat me cakṣuḥ mā meṣṭa uttarām uttarām samām ..33..

यच्छयानः पर्यावर्ते दक्षिणं सख्यमभि भूमे पार्श्वमुत्तानास्त्वा प्रतीचीं यत्पृष्टीभिरधिशेमहे ।मा हिंसीस्तत्र नो भूमे सर्वस्य प्रतिशीवरि ॥३४॥
यत् शयानः पर्यावर्ते दक्षिणम् सख्यम् अभि भूमे पार्श्वम् उत्तानाः त्वा प्रतीचीम् यत् पृष्टीभिः अधिशेमहे ।मा हिंसीः तत्र नः भूमे सर्वस्य प्रतिशीवरि ॥३४॥
yat śayānaḥ paryāvarte dakṣiṇam sakhyam abhi bhūme pārśvam uttānāḥ tvā pratīcīm yat pṛṣṭībhiḥ adhiśemahe .mā hiṃsīḥ tatra naḥ bhūme sarvasya pratiśīvari ..34..

यत्ते भूमे विखनामि क्षिप्रं तदपि रोहतु ।मा ते मर्म विमृग्वरि मा ते हृदयमर्पिपम् ॥३५॥
यत् ते भूमे विखनामि क्षिप्रम् तत् अपि रोहतु ।मा ते मर्म विमृग्वरि मा ते हृदयम् अर्पिपम् ॥३५॥
yat te bhūme vikhanāmi kṣipram tat api rohatu .mā te marma vimṛgvari mā te hṛdayam arpipam ..35..

ग्रीष्मस्ते भूमे वर्षाणि शरद्धेमन्तः शिशिरो वसन्तः ।ऋतवस्ते विहिता हायनीरहोरात्रे पृथिवि नो दुहाताम् ॥३६॥
ग्रीष्मः ते भूमे वर्षाणि शरद् हेमन्तः शिशिरः वसन्तः ।ऋतवः ते विहिताः हायनीः अहोरात्रे पृथिवि नः दुहाताम् ॥३६॥
grīṣmaḥ te bhūme varṣāṇi śarad hemantaḥ śiśiraḥ vasantaḥ .ṛtavaḥ te vihitāḥ hāyanīḥ ahorātre pṛthivi naḥ duhātām ..36..

याप सर्पं विजमाना विमृग्वरी यस्यामासन्न् अग्नयो ये अप्स्वन्तः ।परा दस्यून् ददती देवपीयून् इन्द्रं वृणाना पृथिवी न वृत्रं शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
या अप सर्पम् विजमाना विमृग्वरी यस्याम् आसन् अग्नयः ये अप्स्वन्तः ।परा दस्यून् ददती देव-पीयून् इन्द्रम् वृणाना पृथिवी न वृत्रम् शक्राय दध्रे वृषभाय वृष्णे ॥३७॥
yā apa sarpam vijamānā vimṛgvarī yasyām āsan agnayaḥ ye apsvantaḥ .parā dasyūn dadatī deva-pīyūn indram vṛṇānā pṛthivī na vṛtram śakrāya dadhre vṛṣabhāya vṛṣṇe ..37..

यस्यां सदोहविर्धाने यूपो यस्यां निमीयते ।ब्रह्माणो यस्यामर्चन्त्यृग्भिः साम्ना यजुर्विदः युज्यन्ते यस्यामृत्विजः सोममिन्द्राय पातवे ॥३८॥
यस्याम् सदः-हविर्धाने यूपः यस्याम् निमीयते ।ब्रह्माणः यस्याम् अर्चन्ति ऋग्भिः साम्ना यजुः-विदः युज्यन्ते यस्याम् ऋत्विजः सोमम् इन्द्राय पातवे ॥३८॥
yasyām sadaḥ-havirdhāne yūpaḥ yasyām nimīyate .brahmāṇaḥ yasyām arcanti ṛgbhiḥ sāmnā yajuḥ-vidaḥ yujyante yasyām ṛtvijaḥ somam indrāya pātave ..38..

यस्यां पूर्वे भूतकृत ऋषयो गा उदानृचुः ।सप्त सत्रेण वेधसो यज्ञेन तपसा सह ॥३९॥
यस्याम् पूर्वे भूत-कृतः ऋषयः गाः उदानृचुः ।सप्त सत्रेण वेधसः यज्ञेन तपसा सह ॥३९॥
yasyām pūrve bhūta-kṛtaḥ ṛṣayaḥ gāḥ udānṛcuḥ .sapta satreṇa vedhasaḥ yajñena tapasā saha ..39..

सा नो भूमिरा दिशतु यद्धनं कामयामहे ।भगो अनुप्रयुङ्क्तामिन्द्र एतु पुरोगवः ॥४०॥ {४}
सा नः भूमिः आ दिशतु यत् धनम् कामयामहे ।भगः अनुप्रयुङ्क्ताम् इन्द्रः एतु पुरोगवः ॥४०॥
sā naḥ bhūmiḥ ā diśatu yat dhanam kāmayāmahe .bhagaḥ anuprayuṅktām indraḥ etu purogavaḥ ..40..

यस्यां गायन्ति नृत्यन्ति भूम्यां मर्त्या व्यैलबाः ।युध्यन्ते यस्यामाक्रन्दो यस्यां वदति दुन्दुभिः ।सा नो भूमिः प्र णुदतां सपत्नान् असपत्नं मा पृथिवी कृणोतु ॥४१॥
यस्याम् गायन्ति नृत्यन्ति भूम्याम् मर्त्याः व्यैलबाः ।युध्यन्ते यस्याम् आक्रन्दः यस्याम् वदति दुन्दुभिः ।सा नः भूमिः प्र नुदताम् सपत्नान् असपत्नम् मा पृथिवी कृणोतु ॥४१॥
yasyām gāyanti nṛtyanti bhūmyām martyāḥ vyailabāḥ .yudhyante yasyām ākrandaḥ yasyām vadati dundubhiḥ .sā naḥ bhūmiḥ pra nudatām sapatnān asapatnam mā pṛthivī kṛṇotu ..41..

यस्यामन्नं व्रीहियवौ यस्या इमाः पञ्च कृष्टयः ।भूम्यै पर्जन्यपत्न्यै नमोऽस्तु वर्षमेदसे ॥४२॥
यस्याम् अन्नम् व्रीहि-यवौ यस्याः इमाः पञ्च कृष्टयः ।भूम्यै पर्जन्य-पत्न्यै नमः अस्तु वर्ष-मेदसे ॥४२॥
yasyām annam vrīhi-yavau yasyāḥ imāḥ pañca kṛṣṭayaḥ .bhūmyai parjanya-patnyai namaḥ astu varṣa-medase ..42..

यस्याः पुरो देवकृताः क्षेत्रे यस्या विकुर्वते ।प्रजापतिः पृथिवीं विश्वगर्भामाशामाशां रण्यां नः कृणोतु ॥४३॥
यस्याः पुरः देव-कृताः क्षेत्रे यस्याः विकुर्वते ।प्रजापतिः पृथिवीम् विश्व-गर्भाम् आशाम् आशाम् रण्याम् नः कृणोतु ॥४३॥
yasyāḥ puraḥ deva-kṛtāḥ kṣetre yasyāḥ vikurvate .prajāpatiḥ pṛthivīm viśva-garbhām āśām āśām raṇyām naḥ kṛṇotu ..43..

निधिं बिभ्रती बहुधा गुहा वसु मणिं हिरण्यं पृथिवी ददातु मे ।वसूनि नो वसुदा रासमाना देवी दधातु सुमनस्यमाना ॥४४॥
निधिम् बिभ्रती बहुधा गुहा वसु मणिम् हिरण्यम् पृथिवी ददातु मे ।वसूनि नः वसु-दाः देवी दधातु सुमनस्यमाना ॥४४॥
nidhim bibhratī bahudhā guhā vasu maṇim hiraṇyam pṛthivī dadātu me .vasūni naḥ vasu-dāḥ devī dadhātu sumanasyamānā ..44..

जनं बिभ्रती बहुधा विवाचसं नानाधर्माणं पृथिवी यथौकसम् ।सहस्रं धारा द्रविणस्य मे दुहां ध्रुवेव धेनुरनपस्फुरन्ती ॥४५॥
जनम् बिभ्रती बहुधा विवाचसम् नाना धर्माणम् पृथिवी यथौकसम् ।सहस्रम् धाराः द्रविणस्य मे दुहाम् ध्रुवा इव धेनुः अन् अपस्फुरन्ती ॥४५॥
janam bibhratī bahudhā vivācasam nānā dharmāṇam pṛthivī yathaukasam .sahasram dhārāḥ draviṇasya me duhām dhruvā iva dhenuḥ an apasphurantī ..45..

यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा हेमन्तजब्धो भृमलो गुहा शये ।क्रिमिर्जिन्वत्पृथिवि यद्यदेजति प्रावृषि तन् नः सर्पन् मोप सृपद्यच्छिवं तेन नो मृड ॥४६॥
यः ते सर्पः वृश्चिकः तृष्ट-दंश्मा हेमन्त-जब्धः भृमलः गुहा शये ।क्रिमिः जिन्वत् पृथिवि यत् यत् एजति प्रावृषि तत् नः सर्पत् मा उप सृपत् यत् शिवम् तेन नः मृड ॥४६॥
yaḥ te sarpaḥ vṛścikaḥ tṛṣṭa-daṃśmā hemanta-jabdhaḥ bhṛmalaḥ guhā śaye .krimiḥ jinvat pṛthivi yat yat ejati prāvṛṣi tat naḥ sarpat mā upa sṛpat yat śivam tena naḥ mṛḍa ..46..

ये ते पन्थानो बहवो जनायना रथस्य वर्त्मानसश्च यातवे ।यैः संचरन्त्युभये भद्रपापास्तं पन्थानं जयेमानमित्रमतस्करं यच्छिवं तेन नो मृड ॥४७॥
ये ते पन्थानः बहवः जनायनाः रथस्य वर्त्म अनसः च यातवे ।यैः संचरन्ति उभये भद्र-पापाः तम् पन्थानम् जयेम अनमित्रम् अतस्करम् यत् शिवम् तेन नः मृड ॥४७॥
ye te panthānaḥ bahavaḥ janāyanāḥ rathasya vartma anasaḥ ca yātave .yaiḥ saṃcaranti ubhaye bhadra-pāpāḥ tam panthānam jayema anamitram ataskaram yat śivam tena naḥ mṛḍa ..47..

मल्वं बिभ्रती गुरुभृद्भद्रपापस्य निधनं तितिक्षुः ।वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
मल्वम् बिभ्रती गुरु-भृत् भद्र-पापस्य निधनम् तितिक्षुः ।वराहेण पृथिवी संविदाना सूकराय वि जिहीते मृगाय ॥४८॥
malvam bibhratī guru-bhṛt bhadra-pāpasya nidhanam titikṣuḥ .varāheṇa pṛthivī saṃvidānā sūkarāya vi jihīte mṛgāya ..48..

ये त आरण्याः पशवो मृगा वने हिताः सिंहा व्याघ्राः पुरुषादश्चरन्ति ।उलं वृकं पृथिवि दुछुनामित ऋक्षीकां रक्षो अप बाधयास्मत्॥४९॥
ये ते आरण्याः पशवः मृगाः वने हिताः सिंहाः व्याघ्राः पुरुष-अदः चरन्ति ।उलम् वृकम् पृथिवि दुछुनाम् इतस् ऋक्षीकाम् रक्षः अप बाधय अस्मत्॥४९॥
ye te āraṇyāḥ paśavaḥ mṛgāḥ vane hitāḥ siṃhāḥ vyāghrāḥ puruṣa-adaḥ caranti .ulam vṛkam pṛthivi duchunām itas ṛkṣīkām rakṣaḥ apa bādhaya asmat..49..

ये गन्धर्वा अप्सरसो ये चारायाः किमीदिनः ।पिशाचान्त्सर्वा रक्षांसि तान् अस्मद्भूमे यावय ॥५०॥ {५}
ये गन्धर्वाः अप्सरसः ये च अरायाः किमीदिनः ।पिशाचान् सर्वा रक्षांसि तान् अस्मद्-भूमे यावय ॥५०॥
ye gandharvāḥ apsarasaḥ ye ca arāyāḥ kimīdinaḥ .piśācān sarvā rakṣāṃsi tān asmad-bhūme yāvaya ..50..

यां द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुना वयांसि ।यस्यां वातो मातरिश्वेयते रजांसि कृण्वंश्च्यावयंश्च वृक्षान् । वातस्य प्रवामुपवामनु वात्यर्चिः ॥५१॥
याम् द्विपादः पक्षिणः संपतन्ति हंसाः सुपर्णाः शकुनाः वयांसि ।यस्याम् वातः मातरिश्वा ईयते रजांसि कृण्वन् च्यावयन् च वृक्षान् । वातस्य प्रवाम् उपवाम् अनु वाति अर्चिः ॥५१॥
yām dvipādaḥ pakṣiṇaḥ saṃpatanti haṃsāḥ suparṇāḥ śakunāḥ vayāṃsi .yasyām vātaḥ mātariśvā īyate rajāṃsi kṛṇvan cyāvayan ca vṛkṣān . vātasya pravām upavām anu vāti arciḥ ..51..

यस्यां कृष्णमरुणं च संहिते अहोरात्रे विहिते भूम्यामधि ।वर्षेण भूमिः पृथिवी वृतावृता सा नो दधातु भद्रया प्रिये धामनिधामनि ॥५२॥
यस्याम् कृष्णम् अरुणम् च संहिते अहोरात्रे विहिते भूम्याम् अधि ।वर्षेण भूमिः पृथिवी वृता आवृता सा नः दधातु भद्रया प्रिये धामनि धामनि ॥५२॥
yasyām kṛṣṇam aruṇam ca saṃhite ahorātre vihite bhūmyām adhi .varṣeṇa bhūmiḥ pṛthivī vṛtā āvṛtā sā naḥ dadhātu bhadrayā priye dhāmani dhāmani ..52..

द्यौश्च म इदं पृथिवी चान्तरिक्षं च मे व्यचः ।अग्निः सूर्य आपो मेधां विश्वे देवाश्च सं ददुः ॥५३॥
द्यौः च मे इदम् पृथिवी च अन्तरिक्षम् च मे व्यचः ।अग्निः सूर्यः आपः मेधाम् विश्वे देवाः च सम् ददुः ॥५३॥
dyauḥ ca me idam pṛthivī ca antarikṣam ca me vyacaḥ .agniḥ sūryaḥ āpaḥ medhām viśve devāḥ ca sam daduḥ ..53..

अहमस्मि सहमान उत्तरो नाम भूम्याम् ।अभीषाडस्मि विश्वाषाडाशामाशां विषासहिः ॥५४॥
अहम् अस्मि सहमानः उत्तरः नाम भूम्याम् ।अभीषाह् अस्मि विश्वाषाह् आशाम् आशाम् विषासहिः ॥५४॥
aham asmi sahamānaḥ uttaraḥ nāma bhūmyām .abhīṣāh asmi viśvāṣāh āśām āśām viṣāsahiḥ ..54..

अदो यद्देवि प्रथमाना पुरस्ताद्देवैरुक्ता व्यसर्पो महित्वम् ।आ त्वा सुभूतमविशत्तदानीमकल्पयथाः प्रदिशश्चतस्रः ॥५५॥
अदः यत् देवि प्रथमाना पुरस्तात् देवैः उक्ता व्यसर्पः महि-त्वम् ।आ त्वा सुभूतम् अविशत् तदानीम् अकल्पयथाः प्रदिशः चतस्रः ॥५५॥
adaḥ yat devi prathamānā purastāt devaiḥ uktā vyasarpaḥ mahi-tvam .ā tvā subhūtam aviśat tadānīm akalpayathāḥ pradiśaḥ catasraḥ ..55..

ये ग्रामा यदरण्यं याः सभा अधि भूम्याम् ।ये संग्रामाः समितयस्तेषु चारु वदेम ते ॥५६॥
ये ग्रामाः यत् अरण्यम् याः सभाः अधि भूम्याम् ।ये संग्रामाः समितयः तेषु चारु वदेम ते ॥५६॥
ye grāmāḥ yat araṇyam yāḥ sabhāḥ adhi bhūmyām .ye saṃgrāmāḥ samitayaḥ teṣu cāru vadema te ..56..

अश्व इव रजो दुधुवे वि तान् जनान् य आक्षियन् पृथिवीं यादजायत ।मन्द्राग्रेत्वरी भुवनस्य गोपा वनस्पतीनां गृभिरोषधीनाम् ॥५७॥
अश्वः इव रजः दुधुवे वि तान् जनान् ये आक्षियन् पृथिवीम् यात् अजायत ।मन्द्रा अग्रा इत्वरी भुवनस्य गोपाः वनस्पतीनाम् गृभिः ओषधीनाम् ॥५७॥
aśvaḥ iva rajaḥ dudhuve vi tān janān ye ākṣiyan pṛthivīm yāt ajāyata .mandrā agrā itvarī bhuvanasya gopāḥ vanaspatīnām gṛbhiḥ oṣadhīnām ..57..

यद्वदामि मधुमत्तद्वदामि यदीक्षे तद्वनन्ति मा ।त्विषीमान् अस्मि जूतिमान् अवान्यान् हन्मि दोधतः ॥५८॥
यत् वदामि मधुमत् तत् वदामि यत् ईक्षे तत् वनन्ति मा ।त्विषीमान् अस्मि जूतिमान् अव अन्यान् हन्मि दोधतः ॥५८॥
yat vadāmi madhumat tat vadāmi yat īkṣe tat vananti mā .tviṣīmān asmi jūtimān ava anyān hanmi dodhataḥ ..58..

शन्तिवा सुरभिः स्योना कीलालोध्नी पयस्वती ।भूमिरधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
शन्तिवा सुरभिः स्योना कीलाल-उध्नी पयस्वती ।भूमिः अधि ब्रवीतु मे पृथिवी पयसा सह ॥५९॥
śantivā surabhiḥ syonā kīlāla-udhnī payasvatī .bhūmiḥ adhi bravītu me pṛthivī payasā saha ..59..

यामन्वैच्छद्धविषा विश्वकर्मान्तरर्णवे रजसि प्रविष्टाम् ।भुजिष्यं पात्रं निहितं गुहा यदाविर्भोगे अभवन् मातृमद्भ्यः ॥६०॥
याम् अन्वैच्छत् हविषा विश्वकर्मा अन्तर् अर्णवे रजसि प्रविष्टाम् ।भुजिष्यम् पात्रम् निहितम् गुहा यत् आविस् भोगे अभवत् मातृमद्भ्यः ॥६०॥
yām anvaicchat haviṣā viśvakarmā antar arṇave rajasi praviṣṭām .bhujiṣyam pātram nihitam guhā yat āvis bhoge abhavat mātṛmadbhyaḥ ..60..

त्वमस्यावपनी जनानामदितिः कामदुघा पप्रथाना ।यत्त ऊनं तत्त आ पूरयाति प्रजापतिः प्रथमजा ऋतस्य ॥६१॥
त्वम् अस्य अवपनी जनानाम् अदितिः कामदुघा पप्रथाना ।यत् ते ऊनम् तत् ते आ पूरयाति प्रजापतिः प्रथम-जाः ऋतस्य ॥६१॥
tvam asya avapanī janānām aditiḥ kāmadughā paprathānā .yat te ūnam tat te ā pūrayāti prajāpatiḥ prathama-jāḥ ṛtasya ..61..

उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः ।दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥६२॥
उपस्थाः ते अनमीवाः अयक्ष्माः अस्मभ्यम् सन्तु पृथिवि प्रसूताः ।दीर्घम् नः आयुः प्रतिबुध्यमानाः वयम् तुभ्यम् बलि-हृतः स्याम ॥६२॥
upasthāḥ te anamīvāḥ ayakṣmāḥ asmabhyam santu pṛthivi prasūtāḥ .dīrgham naḥ āyuḥ pratibudhyamānāḥ vayam tubhyam bali-hṛtaḥ syāma ..62..

भूमे मातर्नि धेहि मा भद्रया सुप्रतिष्ठितम् ।संविदाना दिवा कवे श्रियां मा धेहि भूत्याम् ॥६३॥ {६}
भूमे मातर्नि धेहि मा भद्रया सु प्रतिष्ठितम् ।संविदाना दिवा कवे श्रियाम् मा धेहि भूत्याम् ॥६३॥
bhūme mātarni dhehi mā bhadrayā su pratiṣṭhitam .saṃvidānā divā kave śriyām mā dhehi bhūtyām ..63..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In