| |
|

This overlay will guide you through the buttons:

पुमान् पुंसोऽधि तिष्ठ चर्मेहि तत्र ह्वयस्व यतमा प्रिया ते ।यावन्तावग्रे प्रथमं समेयथुस्तद्वां वयो यमराज्ये समानम् ॥१॥
पुमान् पुंसः अधि तिष्ठ चर्म इहि तत्र ह्वयस्व यतमा प्रिया ते ।यावन्तौ अग्रे प्रथमम् समेयथुः तत् वाम् वयः यम-राज्ये समानम् ॥१॥
pumān puṃsaḥ adhi tiṣṭha carma ihi tatra hvayasva yatamā priyā te .yāvantau agre prathamam sameyathuḥ tat vām vayaḥ yama-rājye samānam ..1..

तावद्वां चक्षुस्तति वीर्याणि तावत्तेजस्ततिधा वाजिनानि ।अग्निः शरीरं सचते यदैधोऽधा पक्वान् मिथुना सं भवाथः ॥२॥
तावत् वाम् चक्षुः तति वीर्याणि तावत् तेजः ततिधा वाजिनानि ।अग्निः शरीरम् सचते यदा एधः-अधा पक्वात् मिथुना सम् भवाथः ॥२॥
tāvat vām cakṣuḥ tati vīryāṇi tāvat tejaḥ tatidhā vājināni .agniḥ śarīram sacate yadā edhaḥ-adhā pakvāt mithunā sam bhavāthaḥ ..2..

समस्मिंल्लोके समु देवयाने सं स्मा समेतं यमराज्येषु ।पूतौ पवित्रैरुप तद्ध्वयेथां यद्यद्रेतो अधि वां संबभूव ॥३॥
समस्मिन् लोके समु देव-याने सम् स्मा समेतम् यम-राज्येषु ।पूतौ पवित्रैः उप तत् ह्वयेथाम् यत् यत् रेतः अधि वाम् संबभूव ॥३॥
samasmin loke samu deva-yāne sam smā sametam yama-rājyeṣu .pūtau pavitraiḥ upa tat hvayethām yat yat retaḥ adhi vām saṃbabhūva ..3..

आपस्पुत्रासो अभि सं विशध्वमिमं जीवं जीवधन्याः समेत्य ।तासां भजध्वममृतं यमाहुरोदनं पचति वां जनित्री ॥४॥
आपस्पुत्रासः अभि सम् विशध्वम् इमम् जीवम् जीव-धन्याः समेत्य ।तासाम् भजध्वम् अमृतम् यम् आहुः ओदनम् पचति वाम् जनित्री ॥४॥
āpasputrāsaḥ abhi sam viśadhvam imam jīvam jīva-dhanyāḥ sametya .tāsām bhajadhvam amṛtam yam āhuḥ odanam pacati vām janitrī ..4..

यं वां पिता पचति यं च माता रिप्रान् निर्मुक्त्यै शमलाच्च वाचः ।स ओदनः शतधारः स्वर्ग उभे व्याप नभसी महित्वा ॥५॥
यम् वाम् पिता पचति यम् च माता रिप्रात् निर्मुक्त्यै शमलात् च वाचः ।सः ओदनः शत-धारः स्वर्-गः उभे व्याप नभसी महित्वा ॥५॥
yam vām pitā pacati yam ca mātā riprāt nirmuktyai śamalāt ca vācaḥ .saḥ odanaḥ śata-dhāraḥ svar-gaḥ ubhe vyāpa nabhasī mahitvā ..5..

उभे नभसी उभयांश्च लोकान् ये यज्वनामभिजिताः स्वर्गाः ।तेषां ज्योतिष्मान् मधुमान् यो अग्रे तस्मिन् पुत्रैर्जरसि सं श्रयेथाम् ॥६॥
उभे नभसी उभयान् च लोकान् ये यज्वनाम् अभिजिताः स्वर्गाः ।तेषाम् ज्योतिष्मान् मधुमान् यः अग्रे तस्मिन् पुत्रैः जरसि सम् श्रयेथाम् ॥६॥
ubhe nabhasī ubhayān ca lokān ye yajvanām abhijitāḥ svargāḥ .teṣām jyotiṣmān madhumān yaḥ agre tasmin putraiḥ jarasi sam śrayethām ..6..

प्राचींप्राचीं प्रदिशमा रभेथामेतं लोकं श्रद्दधानाः सचन्ते ।यद्वां पक्वं परिविष्टमग्नौ तस्य गुप्तये दंपती सं श्रयेथाम् ॥७॥
प्राचीम् प्राचीम् प्रदिशम् आ रभेथाम् एतम् लोकम् श्रद्दधानाः सचन्ते ।यत् वाम् पक्वम् परिविष्टम् अग्नौ तस्य गुप्तये दंपती सम् श्रयेथाम् ॥७॥
prācīm prācīm pradiśam ā rabhethām etam lokam śraddadhānāḥ sacante .yat vām pakvam pariviṣṭam agnau tasya guptaye daṃpatī sam śrayethām ..7..

दक्षिणां दिशमभि नक्षमाणौ पर्यावर्तेथामभि पात्रमेतत्।तस्मिन् वां यमः पितृभिः संविदानः पक्वाय शर्म बहुलं नि यछात्॥८॥
दक्षिणाम् दिशम् अभि नक्षमाणौ पर्यावर्तेथाम् अभि पात्रम् एतत्।तस्मिन् वाम् यमः पितृभिः संविदानः पक्वाय शर्म बहुलम् नि यच्छात्॥८॥
dakṣiṇām diśam abhi nakṣamāṇau paryāvartethām abhi pātram etat.tasmin vām yamaḥ pitṛbhiḥ saṃvidānaḥ pakvāya śarma bahulam ni yacchāt..8..

प्रतीची दिशामियमिद्वरं यस्यां सोमो अधिपा मृडिता च ।तस्यां श्रयेथां सुकृतः सचेथामधा पक्वान् मिथुना सं भवाथः ॥९॥
प्रतीची दिशाम् इयम् इद् वरम् यस्याम् सोमः अधिपाः मृडिता च ।तस्याम् श्रयेथाम् सु कृतः सचेथाम् अधा पक्वात् मिथुना सम् भवाथः ॥९॥
pratīcī diśām iyam id varam yasyām somaḥ adhipāḥ mṛḍitā ca .tasyām śrayethām su kṛtaḥ sacethām adhā pakvāt mithunā sam bhavāthaḥ ..9..

उत्तरं राष्ट्रं प्रजयोत्तरावद्दिशामुदीची कृणवन् नो अग्रम् ।पाङ्क्तं छन्दः पुरुषो बभूव विश्वैर्विश्वाङ्गैः सह सं भवेम ॥१०॥ {१३}
उत्तरम् राष्ट्रम् प्रजया उत्तरावत् दिशाम् उदीची कृणवत् नः अग्रम् ।पाङ्क्तम् छन्दः पुरुषः बभूव विश्वैः विश्व-अङ्गैः सह सम् भवेम ॥१०॥
uttaram rāṣṭram prajayā uttarāvat diśām udīcī kṛṇavat naḥ agram .pāṅktam chandaḥ puruṣaḥ babhūva viśvaiḥ viśva-aṅgaiḥ saha sam bhavema ..10..

ध्रुवेयं विराण्नमो अस्त्वस्यै शिवा पुत्रेभ्य उत मह्यमस्तु ।सा नो देव्यदिते विश्ववार इर्य इव गोपा अभि रक्ष पक्वम् ॥११॥
ध्रुवा इयम् विराज् नमः अस्तु अस्यै शिवा पुत्रेभ्यः उत मह्यम् अस्तु ।सा नः देवि अदिते विश्व-वारे इर्यः इव गोपाः अभि रक्ष पक्वम् ॥११॥
dhruvā iyam virāj namaḥ astu asyai śivā putrebhyaḥ uta mahyam astu .sā naḥ devi adite viśva-vāre iryaḥ iva gopāḥ abhi rakṣa pakvam ..11..

पितेव पुत्रान् अभि सं स्वजस्व नः शिवा नो वाता इह वान्तु भूमौ ।यमोदनं पचतो देवते इह तं नस्तप उत सत्यं च वेत्तु ॥१२॥
पिता इव पुत्रान् अभि सम् स्वजस्व नः शिवाः नः वाताः इह वान्तु भूमौ ।यम् ओदनम् पचतः देवते इह तम् नः तपः उत सत्यम् च वेत्तु ॥१२॥
pitā iva putrān abhi sam svajasva naḥ śivāḥ naḥ vātāḥ iha vāntu bhūmau .yam odanam pacataḥ devate iha tam naḥ tapaḥ uta satyam ca vettu ..12..

यद्यद्कृष्णः शकुन एह गत्वा त्सरन् विषक्तं बिल आससाद ।यद्वा दास्यार्द्रहस्ता समङ्क्त उलूखलं मुसलं शुम्भतापः ॥१३॥
यत् यत् कृष्णः शकुनः आ इह गत्वा त्सरन् विषक्तम् बिले आससाद ।यत् वा दासी आर्द्र-हस्ता समङ्क्ते उलूखलम् मुसलम् शुम्भत अपः ॥१३॥
yat yat kṛṣṇaḥ śakunaḥ ā iha gatvā tsaran viṣaktam bile āsasāda .yat vā dāsī ārdra-hastā samaṅkte ulūkhalam musalam śumbhata apaḥ ..13..

अयं ग्रावा पृथुबुध्नो वयोधाः पूतः पवित्रैरप हन्तु रक्षः ।आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रमघं नि गाताम् ॥१४॥
अयम् ग्रावा पृथु-बुध्नः वयोधाः पूतः पवित्रैः अप हन्तु रक्षः ।आ रोह चर्म महि शर्म यच्छ मा दंपती पौत्रम् अघम् नि गाताम् ॥१४॥
ayam grāvā pṛthu-budhnaḥ vayodhāḥ pūtaḥ pavitraiḥ apa hantu rakṣaḥ .ā roha carma mahi śarma yaccha mā daṃpatī pautram agham ni gātām ..14..

वनस्पतिः सह देवैर्न आगन् रक्षः पिशाचामपबाधमानः ।स उच्छ्रयातै प्र वदाति वाचं तेन लोकामभि सर्वान् जयेम ॥१५॥
वनस्पतिः सह देवैः नः आगन् रक्षः पिशाचाम् अपबाधमानः ।सः उच्छ्रयातै प्र वदाति वाचम् तेन लोकान् अभि सर्वान् जयेम ॥१५॥
vanaspatiḥ saha devaiḥ naḥ āgan rakṣaḥ piśācām apabādhamānaḥ .saḥ ucchrayātai pra vadāti vācam tena lokān abhi sarvān jayema ..15..

सप्त मेधान् पशवः पर्यगृह्णन् य एषां ज्योतिष्माँ उत यश्चकर्श ।त्रयस्त्रिंशद्देवतास्तान्त्सचन्ते स नः स्वर्गमभि नेष लोकम् ॥१६॥
सप्त मेधान् पशवः पर्यगृह्णन् ये एषाम् ज्योतिष्मान् उत यः चकर्श ।त्रयस्त्रिंशत् देवताः तान् सचन्ते स नः स्वर्गम् अभि लोकम् ॥१६॥
sapta medhān paśavaḥ paryagṛhṇan ye eṣām jyotiṣmān uta yaḥ cakarśa .trayastriṃśat devatāḥ tān sacante sa naḥ svargam abhi lokam ..16..

स्वर्गं लोकमभि नो नयासि सं जायया सह पुत्रैः स्याम ।गृह्णामि हस्तमनु मैत्वत्र मा नस्तारीन् निर्ऋतिर्मो अरातिः ॥१७॥
स्वर्गम् लोकम् अभि नः नयासि सम् जायया सह पुत्रैः स्याम ।गृह्णामि हस्तम् अनु मा एतु अत्र मा नः तारीत् निरृतिः मा उ अरातिः ॥१७॥
svargam lokam abhi naḥ nayāsi sam jāyayā saha putraiḥ syāma .gṛhṇāmi hastam anu mā etu atra mā naḥ tārīt nirṛtiḥ mā u arātiḥ ..17..

ग्राहिं पाप्मानमति तामयाम तमो व्यस्य प्र वदासि वल्गु ।वानस्पत्य उद्यतो मा जिहिंसीर्मा तण्डुलं वि शरीर्देवयन्तम् ॥१८॥
ग्राहिम् पाप्मानम् अति तामयाम तमः व्यस्य प्र वदासि वल्गु ।वानस्पत्यः उद्यतः मा जिहिंसीः मा तण्डुलम् वि शरीः देवयन्तम् ॥१८॥
grāhim pāpmānam ati tāmayāma tamaḥ vyasya pra vadāsi valgu .vānaspatyaḥ udyataḥ mā jihiṃsīḥ mā taṇḍulam vi śarīḥ devayantam ..18..

विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ।वर्षवृद्धमुप यच्छ शूर्पं तुषं पलावान् अप तद्विनक्तु ॥१९॥
विश्व-व्यचाः घृत-पृष्ठः भविष्यन् स योनिः लोकम् उप याहि एतम् ।वर्ष-वृद्धम् उप यच्छ शूर्पम् तुषम् पलावान् अप तत् विनक्तु ॥१९॥
viśva-vyacāḥ ghṛta-pṛṣṭhaḥ bhaviṣyan sa yoniḥ lokam upa yāhi etam .varṣa-vṛddham upa yaccha śūrpam tuṣam palāvān apa tat vinaktu ..19..

त्रयो लोकाः संमिता ब्राह्मणेन द्यौरेवासौ पृथिव्यन्तरिक्षम् ।अंशून् गृभीत्वान्वारभेथामा प्यायन्तां पुनरा यन्तु शूर्पम् ॥२०॥ {१४}
त्रयः लोकाः संमिताः ब्राह्मणेन द्यौः एव असौ पृथिवी अन्तरिक्षम् ।अंशून् गृभीत्वा अन्वारभेथाम् आ प्यायन्ताम् पुनर् आ यन्तु शूर्पम् ॥२०॥
trayaḥ lokāḥ saṃmitāḥ brāhmaṇena dyauḥ eva asau pṛthivī antarikṣam .aṃśūn gṛbhītvā anvārabhethām ā pyāyantām punar ā yantu śūrpam ..20..

पृथग्रूपाणि बहुधा पशूनामेकरूपो भवसि सं समृद्ध्या ।एतां त्वचं लोहिनीं तां नुदस्व ग्रावा शुम्भाति मलग इव वस्त्रा ॥२१॥
पृथक् रूपाणि बहुधा पशूनाम् एक-रूपः भवसि सम् समृद्ध्या ।एताम् त्वचम् लोहिनीम् ताम् नुदस्व ग्रावा शुम्भाति मलगः इव वस्त्रा ॥२१॥
pṛthak rūpāṇi bahudhā paśūnām eka-rūpaḥ bhavasi sam samṛddhyā .etām tvacam lohinīm tām nudasva grāvā śumbhāti malagaḥ iva vastrā ..21..

पृथिवीं त्वा पृथिव्यामा वेशयामि तनूः समानी विकृता त एषा ।यद्यद्द्युत्तं लिखितमर्पणेन तेन मा सुस्रोर्ब्रह्मणापि तद्वपामि ॥२२॥
पृथिवीम् त्वा पृथिव्याम् आ वेशयामि तनूः समानी विकृता ते एषा ।यत् यत् द्युत्तम् लिखितम् अर्पणेन तेन मा सुस्रोः ब्रह्मणा अपि तत् वपामि ॥२२॥
pṛthivīm tvā pṛthivyām ā veśayāmi tanūḥ samānī vikṛtā te eṣā .yat yat dyuttam likhitam arpaṇena tena mā susroḥ brahmaṇā api tat vapāmi ..22..

जनित्रीव प्रति हर्यासि सूनुं सं त्वा दधामि पृथिवीं पृथिव्या ।उखा कुम्भी वेद्यां मा व्यथिष्ठा यज्ञायुधैराज्येनातिषक्ता ॥२३॥
जनित्री इव प्रति हर्यासि सूनुम् सम् त्वा दधामि पृथिवीम् पृथिव्या ।उखा कुम्भी वेद्याम् मा व्यथिष्ठाः यज्ञायुधैः आज्येन अतिषक्ता ॥२३॥
janitrī iva prati haryāsi sūnum sam tvā dadhāmi pṛthivīm pṛthivyā .ukhā kumbhī vedyām mā vyathiṣṭhāḥ yajñāyudhaiḥ ājyena atiṣaktā ..23..

अग्निः पचन् रक्षतु त्वा पुरस्तादिन्द्रो रक्षतु दक्षिणतो मरुत्वान् ।वरुणस्त्वा दृंहाद्धरुणे प्रतीच्या उत्तरात्त्वा सोमः सं ददातै ॥२४॥
अग्निः पचन् रक्षतु त्वा पुरस्तात् इन्द्रः रक्षतु दक्षिणतस् मरुत्वान् ।वरुणः त्वा दृंहात् धरुणे प्रतीच्यै उत्तरात् त्वा सोमः सम् ददातै ॥२४॥
agniḥ pacan rakṣatu tvā purastāt indraḥ rakṣatu dakṣiṇatas marutvān .varuṇaḥ tvā dṛṃhāt dharuṇe pratīcyai uttarāt tvā somaḥ sam dadātai ..24..

पूताः पवित्रैः पवन्ते अभ्राद्दिवं च यन्ति पृथिवीं च लोकान् ।ता जीवला जीवधन्याः प्रतिष्ठाः पात्र आसिक्ताः पर्यग्निरिन्धाम् ॥२५॥
पूताः पवित्रैः पवन्ते अभ्रात् दिवम् च यन्ति पृथिवीम् च लोकान् ।ताः जीवलाः जीव-धन्याः प्रतिष्ठाः पात्रे आसिक्ताः परि अग्निः इन्धाम् ॥२५॥
pūtāḥ pavitraiḥ pavante abhrāt divam ca yanti pṛthivīm ca lokān .tāḥ jīvalāḥ jīva-dhanyāḥ pratiṣṭhāḥ pātre āsiktāḥ pari agniḥ indhām ..25..

आ यन्ति दिवः पृथिवीं सचन्ते भूम्याः सचन्ते अध्यन्तरिक्षम् ।शुद्धाः सतीस्ता उ शुम्भन्त एव ता नः स्वर्गमभि लोकं नयन्तु ॥२६॥
आ यन्ति दिवः पृथिवीम् सचन्ते भूम्याः सचन्ते अधि अन्तरिक्षम् ।शुद्धाः सतीः ताः उ शुम्भन्ते एव ताः नः स्वर्गम् अभि लोकम् नयन्तु ॥२६॥
ā yanti divaḥ pṛthivīm sacante bhūmyāḥ sacante adhi antarikṣam .śuddhāḥ satīḥ tāḥ u śumbhante eva tāḥ naḥ svargam abhi lokam nayantu ..26..

उतेव प्रभ्वीरुत संमितास उत शुक्राः शुचयश्चामृतासः ।ता ओदनं दंपतिभ्यां प्रशिष्टा आपः शिक्षन्तीः पचता सुनाथाः ॥२७॥
उत इव प्रभ्वीः उत संमितासः उत शुक्राः शुचयः च अमृतासः ।ताः ओदनम् दंपतिभ्याम् प्रशिष्टाः आपः शिक्षन्तीः पचत सु नाथाः ॥२७॥
uta iva prabhvīḥ uta saṃmitāsaḥ uta śukrāḥ śucayaḥ ca amṛtāsaḥ .tāḥ odanam daṃpatibhyām praśiṣṭāḥ āpaḥ śikṣantīḥ pacata su nāthāḥ ..27..

संख्याता स्तोकाः पृथिवीं सचन्ते प्राणापानैः संमिता ओषधीभिः ।असंख्याता ओप्यमानाः सुवर्णाः सर्वं व्यापुः शुचयः शुचित्वम् ॥२८॥
संख्याताः स्तोकाः पृथिवीम् सचन्ते प्राण-अपानैः संमिताः ओषधीभिः ।अ संख्याताः ओप्यमानाः सु वर्णाः सर्वम् व्यापुः शुचयः शुचि-त्वम् ॥२८॥
saṃkhyātāḥ stokāḥ pṛthivīm sacante prāṇa-apānaiḥ saṃmitāḥ oṣadhībhiḥ .a saṃkhyātāḥ opyamānāḥ su varṇāḥ sarvam vyāpuḥ śucayaḥ śuci-tvam ..28..

उद्योधन्त्यभि वल्गन्ति तप्ताः फेनमस्यन्ति बहुलांश्च बिन्दून् ।योषेव दृष्ट्वा पतिमृत्वियायैतैस्तण्डुलैर्भवता समापः ॥२९॥
उद्योधन्ति अभि वल्गन्ति तप्ताः फेनम् अस्यन्ति बहुलान् च बिन्दून् ।योषा इव दृष्ट्वा पतिम् ऋत्वियाय एतैः तण्डुलैः भवत समापः ॥२९॥
udyodhanti abhi valganti taptāḥ phenam asyanti bahulān ca bindūn .yoṣā iva dṛṣṭvā patim ṛtviyāya etaiḥ taṇḍulaiḥ bhavata samāpaḥ ..29..

उत्थापय सीदतो बुध्न एनान् अद्भिरात्मानमभि सं स्पृशन्ताम् ।अमासि पात्रैरुदकं यदेतन् मितास्तण्डुलाः प्रदिशो यदीमाः ॥३०॥ {१५}
उत्थापय सीदतः बुध्ने एनान् अद्भिः आत्मानम् अभि सम् स्पृशन्ताम् ।अमासि पात्रैः उदकम् यत् एतत् मिताः तण्डुलाः प्रदिशः यदि इमाः ॥३०॥
utthāpaya sīdataḥ budhne enān adbhiḥ ātmānam abhi sam spṛśantām .amāsi pātraiḥ udakam yat etat mitāḥ taṇḍulāḥ pradiśaḥ yadi imāḥ ..30..

प्र यच्छ पर्शुं त्वरया हरौसमहिंसन्त ओषधीर्दान्तु पर्वन् ।वासां सोमः परि राज्यं बभूवामन्युता नो वीरुधो भवन्तु ॥३१॥
प्र यच्छ पर्शुम् त्वरया हरौसम् अ हिंसन्तः ओषधीः दान्तु पर्वन् ।वासाम् सोमः परि राज्यम् बभूव अमन्युताः नः वीरुधः भवन्तु ॥३१॥
pra yaccha parśum tvarayā harausam a hiṃsantaḥ oṣadhīḥ dāntu parvan .vāsām somaḥ pari rājyam babhūva amanyutāḥ naḥ vīrudhaḥ bhavantu ..31..

नवं बर्हिरोदनाय स्तृणीत प्रियं हृदश्चक्षुषो वल्ग्वस्तु ।तस्मिन् देवाः सह दैवीर्विशन्त्विमं प्राश्नन्त्वृतुभिर्निषद्य ॥३२॥
नवम् बर्हिः ओदनाय स्तृणीत प्रियम् हृदः चक्षुषः वल्गु अस्तु ।तस्मिन् देवाः सह दैवीः विशन्तु इमम् प्र अश्नन्तु ऋतुभिः निषद्य ॥३२॥
navam barhiḥ odanāya stṛṇīta priyam hṛdaḥ cakṣuṣaḥ valgu astu .tasmin devāḥ saha daivīḥ viśantu imam pra aśnantu ṛtubhiḥ niṣadya ..32..

वनस्पते स्तीर्णमा सीद बर्हिरग्निष्टोभैः संमितो देवताभिः ।त्वष्ट्रेव रूपं सुकृतं स्वधित्यैना एहाः परि पात्रे ददृश्राम् ॥३३॥
वनस्पते स्तीर्णम् आ सीद बर्हिः अग्निष्टोभैः संमितः देवताभिः ।त्वष्ट्रा इव रूपम् सु कृतम् स्वधित्या एना आ ईहाः परि पात्रे ददृश्राम् ॥३३॥
vanaspate stīrṇam ā sīda barhiḥ agniṣṭobhaiḥ saṃmitaḥ devatābhiḥ .tvaṣṭrā iva rūpam su kṛtam svadhityā enā ā īhāḥ pari pātre dadṛśrām ..33..

षष्ट्यां शरत्सु निधिपा अभीछात्स्वः पक्वेनाभ्यश्नवातै ।उपैनं जीवान् पितरश्च पुत्रा एतं स्वर्गं गमयान्तमग्नेः ॥३४॥
षष्ट्याम् शरत्सु निधि-पाः पक्वेन अभ्यश्नवातै ।उप एनम् जीवान् पितरः च पुत्राः एतम् स्वर्गम् गमय अन्तम् अग्नेः ॥३४॥
ṣaṣṭyām śaratsu nidhi-pāḥ pakvena abhyaśnavātai .upa enam jīvān pitaraḥ ca putrāḥ etam svargam gamaya antam agneḥ ..34..

धर्ता ध्रियस्व धरुणे पृथिव्या अच्युतं त्वा देवताश्च्यावयन्तु ।तं त्वा दंपती जीवन्तौ जीवपुत्रावुद्वासयातः पर्यग्निधानात्॥३५॥
धर्ता ध्रियस्व धरुणे पृथिव्याः अच्युतम् त्वा देवताः च्यावयन्तु ।तम् त्वा दंपती जीवन्तौ जीव-पुत्रौ उद्वासयातः पर्यग्निधानात्॥३५॥
dhartā dhriyasva dharuṇe pṛthivyāḥ acyutam tvā devatāḥ cyāvayantu .tam tvā daṃpatī jīvantau jīva-putrau udvāsayātaḥ paryagnidhānāt..35..

सर्वान्त्समागा अभिजित्य लोकान् यावन्तः कामाः समतीतृपस्तान् ।वि गाहेथामायवनं च दर्विरेकस्मिन् पात्रे अध्युद्धरैनम् ॥३६॥
सर्वान् समागाः अभिजित्य लोकान् यावन्तः कामाः समतीतृपः तान् ।वि गाहेथाम् आयवनम् च दर्विः एकस्मिन् पात्रे अध्युद्धर एनम् ॥३६॥
sarvān samāgāḥ abhijitya lokān yāvantaḥ kāmāḥ samatītṛpaḥ tān .vi gāhethām āyavanam ca darviḥ ekasmin pātre adhyuddhara enam ..36..

उप स्तृणीहि प्रथय पुरस्ताद्घृतेन पात्रमभि घारयैतत्।वाश्रेवोस्रा तरुणं स्तनस्युमिमं देवासो अभिहिङ्कृणोत ॥३७॥
उप स्तृणीहि प्रथय पुरस्तात् घृतेन पात्रम् अभि घारय एतत्।वाश्रा इव उस्रा तरुणम् स्तनस्युम् इमम् देवासः अभिहिङ्कृणोत ॥३७॥
upa stṛṇīhi prathaya purastāt ghṛtena pātram abhi ghāraya etat.vāśrā iva usrā taruṇam stanasyum imam devāsaḥ abhihiṅkṛṇota ..37..

उपास्तरीरकरो लोकमेतमुरुः प्रथतामसमः स्वर्गः ।तस्मिं छ्रयातै महिषः सुपर्णो देवा एनं देवताभ्यः प्र यछान् ॥३८॥
लोकम् एतम् उरुः प्रथताम् असमः स्वर्गः ।तस्मिन् श्रयातै महिषः सुपर्णः देवाः एनम् देवताभ्यः प्र यच्छान् ॥३८॥
lokam etam uruḥ prathatām asamaḥ svargaḥ .tasmin śrayātai mahiṣaḥ suparṇaḥ devāḥ enam devatābhyaḥ pra yacchān ..38..

यद्यज्जाया पचति त्वत्परःपरः पतिर्वा जाये त्वत्तिरः ।सं तत्सृजेथां सह वां तदस्तु संपादयन्तौ सह लोकमेकम् ॥३९॥
यत् यत् जाया पचति त्वत् परस् परस् पतिः वा जाये त्वत् तिरस् ।सम् तत् सृजेथाम् सह वाम् तत् अस्तु संपादयन्तौ सह लोकम् एकम् ॥३९॥
yat yat jāyā pacati tvat paras paras patiḥ vā jāye tvat tiras .sam tat sṛjethām saha vām tat astu saṃpādayantau saha lokam ekam ..39..

यावन्तो अस्याः पृथिवीं सचन्ते अस्मत्पुत्राः परि ये संबभूवुः ।सर्वांस्तामुप पात्रे ह्वयेथां नाभिं जानानाः शिशवः समायान् ॥४०॥ {१६}
यावन्तः अस्याः पृथिवीम् सचन्ते अस्मद्-पुत्राः परि ये संबभूवुः ।सर्वान् ताम् उप पात्रे ह्वयेथाम् नाभिम् जानानाः शिशवः समायान् ॥४०॥
yāvantaḥ asyāḥ pṛthivīm sacante asmad-putrāḥ pari ye saṃbabhūvuḥ .sarvān tām upa pātre hvayethām nābhim jānānāḥ śiśavaḥ samāyān ..40..

वसोर्या धारा मधुना प्रपीना घृतेन मिश्रा अमृतस्य नाभयः ।सर्वास्ता अव रुन्धे स्वर्गः षष्ट्यां शरत्सु निधिपा अभीछात्॥४१॥
वसोर्याः धाराः मधुना प्रपीनाः घृतेन मिश्राः अमृतस्य नाभयः ।सर्वाः ताः अव रुन्धे स्वर्-गः षष्ट्याम् शरत्सु निधि-पाः अभीछात्॥४१॥
vasoryāḥ dhārāḥ madhunā prapīnāḥ ghṛtena miśrāḥ amṛtasya nābhayaḥ .sarvāḥ tāḥ ava rundhe svar-gaḥ ṣaṣṭyām śaratsu nidhi-pāḥ abhīchāt..41..

निधिं निधिपा अभ्येनमिछादनीश्वरा अभितः सन्तु येऽन्ये ।अस्माभिर्दत्तो निहितः स्वर्गस्त्रिभिः काण्डैस्त्रीन्त्स्वर्गान् अरुक्षत्॥४२॥
निधिम् निधि-पाः अभि एनम् इछादनी ईश्वराः अभितस् सन्तु ये अन्ये ।अस्माभिः दत्तः निहितः स्वर्-गः त्रिभिः काण्डैः त्रीन् स्वर्गान् अरुक्षत्॥४२॥
nidhim nidhi-pāḥ abhi enam ichādanī īśvarāḥ abhitas santu ye anye .asmābhiḥ dattaḥ nihitaḥ svar-gaḥ tribhiḥ kāṇḍaiḥ trīn svargān arukṣat..42..

अग्नी रक्षस्तपतु यद्विदेवं क्रव्याद्पिशाच इह मा प्र पास्त ।नुदाम एनमप रुध्मो अस्मदादित्या एनमङ्गिरसः सचन्ताम् ॥४३॥
अग्निः रक्षः तपतु यत् विदेवम् क्रव्याद्-पिशाचः इह मा प्र पास्त ।नुदामः एनम् अप रुध्मः अस्मत् आदित्याः एनम् अङ्गिरसः सचन्ताम् ॥४३॥
agniḥ rakṣaḥ tapatu yat videvam kravyād-piśācaḥ iha mā pra pāsta .nudāmaḥ enam apa rudhmaḥ asmat ādityāḥ enam aṅgirasaḥ sacantām ..43..

आदित्येभ्यो अङ्गिरोभ्यो मध्विदं घृतेन मिश्रं प्रति वेदयामि ।शुद्धहस्तौ ब्राह्मणस्यानिहत्यैतं स्वर्गं सुकृतावपीतम् ॥४४॥
आदित्येभ्यः अङ्गिरोभ्यः मधु इदम् घृतेन मिश्रम् प्रति वेदयामि ।शुद्ध-हस्तौ ब्राह्मणस्य अ निहत्य एतम् स्वर्गम् सु कृतौ अपीतम् ॥४४॥
ādityebhyaḥ aṅgirobhyaḥ madhu idam ghṛtena miśram prati vedayāmi .śuddha-hastau brāhmaṇasya a nihatya etam svargam su kṛtau apītam ..44..

इदं प्रापमुत्तमं काण्डमस्य यस्माल्लोकात्परमेष्ठी समाप ।आ सिञ्च सर्पिर्घृतवत्समङ्ग्ध्येष भागो अङ्गिरसो नो अत्र ॥४५॥
इदम् प्रापम् उत्तमम् काण्डम् अस्य यस्मात् लोकात् परमेष्ठी समाप ।आ सिञ्च सर्पिः घृतवत् समङ्ग्धि एष भागः अङ्गिरसः नः अत्र ॥४५॥
idam prāpam uttamam kāṇḍam asya yasmāt lokāt parameṣṭhī samāpa .ā siñca sarpiḥ ghṛtavat samaṅgdhi eṣa bhāgaḥ aṅgirasaḥ naḥ atra ..45..

सत्याय च तपसे देवताभ्यो निधिं शेवधिं परि दद्म एतम् ।मा नो द्यूतेऽव गान् मा समित्यां मा स्मान्यस्मा उत्सृजता पुरा मत्॥४६॥
सत्याय च तपसे देवताभ्यः निधिम् शेवधिम् परि दद्मः एतम् ।मा नः द्यूते अव गात् मा समित्याम् मा स्म अन्यस्मै उत्सृजत पुरा मत्॥४६॥
satyāya ca tapase devatābhyaḥ nidhim śevadhim pari dadmaḥ etam .mā naḥ dyūte ava gāt mā samityām mā sma anyasmai utsṛjata purā mat..46..

अहं पचाम्यहं ददामि ममेदु कर्मन् करुणेऽधि जाया ।कौमारो लोको अजनिष्ट पुत्रोऽन्वारभेथां वय उत्तरावत्॥४७॥
अहम् पचामि अहम् ददामि मम इदु कर्मन् करुणे अधि जाया ।कौमारः लोकः अजनिष्ट पुत्रः अन्वारभेथाम् वयः उत्तरावत्॥४७॥
aham pacāmi aham dadāmi mama idu karman karuṇe adhi jāyā .kaumāraḥ lokaḥ ajaniṣṭa putraḥ anvārabhethām vayaḥ uttarāvat..47..

न किल्बिषमत्र नाधारो अस्ति न यन् मित्रैः समममान एति ।अनूनं पात्रं निहितं न एतत्पक्तारं पक्वः पुनरा विशाति ॥४८॥
न किल्बिषम् अत्र न आधारः अस्ति न यत् मित्रैः समममानः एति ।अनूनम् पात्रम् निहितम् नः एतत् पक्तारम् पक्वः पुनर् आ विशाति ॥४८॥
na kilbiṣam atra na ādhāraḥ asti na yat mitraiḥ samamamānaḥ eti .anūnam pātram nihitam naḥ etat paktāram pakvaḥ punar ā viśāti ..48..

प्रियं प्रियाणां कृणवाम तमस्ते यन्तु यतमे द्विषन्ति ।धेनुरनड्वान् वयोवय आयदेव पौरुषेयमप मृत्युं नुदन्तु ॥४९॥
प्रियम् प्रियाणाम् कृणवाम तमः ते यन्तु यतमे द्विषन्ति ।धेनुः अनड्वान् वयः वयः आयत् एव पौरुषेयम् अप मृत्युम् नुदन्तु ॥४९॥
priyam priyāṇām kṛṇavāma tamaḥ te yantu yatame dviṣanti .dhenuḥ anaḍvān vayaḥ vayaḥ āyat eva pauruṣeyam apa mṛtyum nudantu ..49..

समग्नयः विदुरन्यो अन्यं य ओषधीः सचते यश्च सिन्धून् ।यावन्तो देवा दिव्यातपन्ति हिरण्यं ज्योतिः पचतो बभूव ॥५०॥ {१७}
सम् अग्नयः विदुः अन्यः अन्यम् यः ओषधीः सचते यः च सिन्धून् ।यावन्तः देवाः दिवि आतपन्ति हिरण्यम् ज्योतिः पचतः बभूव ॥५०॥
sam agnayaḥ viduḥ anyaḥ anyam yaḥ oṣadhīḥ sacate yaḥ ca sindhūn .yāvantaḥ devāḥ divi ātapanti hiraṇyam jyotiḥ pacataḥ babhūva ..50..

एषा त्वचां पुरुषे सं बभूवानग्नाः सर्वे पशवो ये अन्ये ।क्षत्रेणात्मानं परि धापयाथोऽमोतं वासो मुखमोदनस्य ॥५१॥
एषा त्वचाम् पुरुषे सम् बभूव अनग्नाः सर्वे पशवः ये अन्ये ।क्षत्रेण आत्मानम् परि धापय अथ उ अमा ऊतम् वासः मुखम् ओदनस्य ॥५१॥
eṣā tvacām puruṣe sam babhūva anagnāḥ sarve paśavaḥ ye anye .kṣatreṇa ātmānam pari dhāpaya atha u amā ūtam vāsaḥ mukham odanasya ..51..

यदक्षेषु वदा यत्समित्यां यद्वा वदा अनृतं वित्तकाम्या ।समानं तन्तुमभि सम्वसानौ तस्मिन्त्सर्वं शमलं सादयाथः ॥५२॥
यत् अक्षेषु वदाः यत् समित्याम् यत् वा वदाः अनृतम् वित्त-काम्या ।समानम् तन्तुम् अभि सम्वसानौ तस्मिन् सर्वम् शमलम् सादयाथः ॥५२॥
yat akṣeṣu vadāḥ yat samityām yat vā vadāḥ anṛtam vitta-kāmyā .samānam tantum abhi samvasānau tasmin sarvam śamalam sādayāthaḥ ..52..

वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि ।विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥५३॥
वर्षम् वनुष्व अपि गच्छ देवान् त्वचः धूमम् पर्युत्पातयासि ।विश्व-व्यचाः घृत-पृष्ठः भविष्यन् स योनिः लोकम् उप याहि एतम् ॥५३॥
varṣam vanuṣva api gaccha devān tvacaḥ dhūmam paryutpātayāsi .viśva-vyacāḥ ghṛta-pṛṣṭhaḥ bhaviṣyan sa yoniḥ lokam upa yāhi etam ..53..

तन्वं स्वर्गो बहुधा वि चक्रे यथा विद आत्मन्न् अन्यवर्णाम् ।अपाजैत्कृष्णां रुशतीं पुनानो या लोहिनी तां ते अग्नौ जुहोमि ॥५४॥
तन्वम् स्वर्-गः बहुधा वि चक्रे यथा विदे आत्मन् अन्य-वर्णाम् ।अपाजैत् कृष्णाम् रुशतीम् पुनानः या लोहिनी ताम् ते अग्नौ जुहोमि ॥५४॥
tanvam svar-gaḥ bahudhā vi cakre yathā vide ātman anya-varṇām .apājait kṛṣṇām ruśatīm punānaḥ yā lohinī tām te agnau juhomi ..54..

प्राच्यै त्वा दिशेऽग्नयेऽधिपतयेऽसिताय रक्षित्र आदित्यायेषुमते ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५५॥
प्राच्यै त्वा दिशे अग्नये अधिपतये असिताय रक्षित्रे आदित्याय इषुमते ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥५५॥
prācyai tvā diśe agnaye adhipataye asitāya rakṣitre ādityāya iṣumate .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..55..

दक्षिणायै त्वा दिश इन्द्रायाधिपतये तिरश्चिराजये रक्षित्रे यमायेषुमते ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५६॥
दक्षिणायै त्वा दिशे इन्द्राय अधिपतये तिरश्चिराजये रक्षित्रे यमाय इषुमते ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥५६॥
dakṣiṇāyai tvā diśe indrāya adhipataye tiraścirājaye rakṣitre yamāya iṣumate .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..56..

प्रतीच्यै त्वा दिशे वरुणायाधिपतये पृदाकवे रक्षित्रेऽन्नायेषुमते ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५७॥
प्रतीच्यै त्वा दिशे वरुणाय अधिपतये पृदाकवे रक्षित्रे अन्नाय इषुमते ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥५७॥
pratīcyai tvā diśe varuṇāya adhipataye pṛdākave rakṣitre annāya iṣumate .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..57..

उदीच्यै त्वा दिशे सोमायाधिपतये स्वजाय रक्षित्रेऽशन्या इषुमत्यै ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५८॥
उदीच्यै त्वा दिशे सोमाय अधिपतये स्वजाय रक्षित्रे अशन्यै इषुमत्यै ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥५८॥
udīcyai tvā diśe somāya adhipataye svajāya rakṣitre aśanyai iṣumatyai .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..58..

ध्रुवायै त्वा दिशे विष्णवेऽधिपतये कल्माषग्रीवाय रक्षित्र ओषधीभ्य इषुमतीभ्यः ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥५९॥
ध्रुवायै त्वा दिशे विष्णवे अधिपतये कल्माष-ग्रीवाय रक्षित्रे ओषधीभ्यः इषुमतीभ्यः ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥५९॥
dhruvāyai tvā diśe viṣṇave adhipataye kalmāṣa-grīvāya rakṣitre oṣadhībhyaḥ iṣumatībhyaḥ .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..59..

ऊर्ध्वायै त्वा दिशे बृहस्पतयेऽधिपतये श्वित्राय रक्षित्रे वर्षायेषुमते ।एतं परि दद्मस्तं नो गोपायतास्माकमैतोः ।दिष्टं नो अत्र जरसे नि नेषज्जरा मृत्यवे परि णो ददात्वथ पक्वेन सह सं भवेम ॥६०॥ {१८}
ऊर्ध्वायै त्वा दिशे बृहस्पतये अधिपतये श्वित्राय रक्षित्रे वर्षाय इषुमते ।एतम् परि दद्मः तम् नः गोपायत अस्माकम् ऐतोः ।दिष्टम् नः अत्र जरसे नि नेषत् जरा मृत्यवे परि नः ददातु अथ पक्वेन सह सम् भवेम ॥६०॥
ūrdhvāyai tvā diśe bṛhaspataye adhipataye śvitrāya rakṣitre varṣāya iṣumate .etam pari dadmaḥ tam naḥ gopāyata asmākam aitoḥ .diṣṭam naḥ atra jarase ni neṣat jarā mṛtyave pari naḥ dadātu atha pakvena saha sam bhavema ..60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In