| |
|

This overlay will guide you through the buttons:

ददामीत्येव ब्रूयादनु चैनामभुत्सत ।वशां ब्रह्मभ्यो याचद्भ्यस्तत्प्रजावदपत्यवत्॥१॥
ददामि इति एव ब्रूयात् अनु च एनाम् अभुत्सत ।वशाम् ब्रह्मभ्यः याचद्भ्यः तत् प्रजावत् अपत्यवत्॥१॥
dadāmi iti eva brūyāt anu ca enām abhutsata .vaśām brahmabhyaḥ yācadbhyaḥ tat prajāvat apatyavat..1..

प्रजया स वि क्रीणीते पशुभिश्चोप दस्यति ।य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ॥२॥
प्रजया स वि क्रीणीते पशुभिः च उप दस्यति ।यः आर्षेयेभ्यः याचद्भ्यः देवानाम् गाम् न दित्सति ॥२॥
prajayā sa vi krīṇīte paśubhiḥ ca upa dasyati .yaḥ ārṣeyebhyaḥ yācadbhyaḥ devānām gām na ditsati ..2..

कूटयास्य सं शीर्यन्ते श्लोणया काटमर्दति ।बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
कूटया अस्य सम् शीर्यन्ते श्लोणया ।बण्डया दह्यन्ते गृहाः काणया दीयते स्वम् ॥३॥
kūṭayā asya sam śīryante śloṇayā .baṇḍayā dahyante gṛhāḥ kāṇayā dīyate svam ..3..

विलोहितो अधिष्ठानाच्छक्नो विन्दति गोपतिम् ।तथा वशायाः संविद्यं दुरदभ्ना ह्युच्यसे ॥४॥
विलोहितः अधिष्ठानात् शक्नः विन्दति गोपतिम् ।तथा वशायाः संविद् यम् दुरदभ्ना हि उच्यसे ॥४॥
vilohitaḥ adhiṣṭhānāt śaknaḥ vindati gopatim .tathā vaśāyāḥ saṃvid yam duradabhnā hi ucyase ..4..

पदोरस्या अधिष्ठानाद्विक्लिन्दुर्नाम विन्दति ।अनामनात्सं शीर्यन्ते या मुखेनोपजिघ्रति ॥५॥
पदोः अस्याः अधिष्ठानात् विक्लिन्दुः नाम विन्दति ।अन् आमनात् सम् शीर्यन्ते या मुखेन उपजिघ्रति ॥५॥
padoḥ asyāḥ adhiṣṭhānāt viklinduḥ nāma vindati .an āmanāt sam śīryante yā mukhena upajighrati ..5..

यो अस्याः कर्णावास्कुनोत्या स देवेषु वृश्चते ।लक्ष्म कुर्व इति मन्यते कनीयः कृणुते स्वम् ॥६॥
यः अस्याः कर्णौ आस्कुनोति आ स देवेषु वृश्चते ।लक्ष्म कुर्वे इति मन्यते कनीयः कृणुते स्वम् ॥६॥
yaḥ asyāḥ karṇau āskunoti ā sa deveṣu vṛścate .lakṣma kurve iti manyate kanīyaḥ kṛṇute svam ..6..

यदस्याः कस्मै चिद्भोगाय बालान् कश्चित्प्रकृन्तति ।ततः किशोरा म्रियन्ते वत्सांश्च घातुको वृकः ॥७॥
यत् अस्याः कस्मै चित्-भोगाय बालान् कश्चिद् प्रकृन्तति ।ततस् किशोराः म्रियन्ते वत्सान् च घातुकः वृकः ॥७॥
yat asyāḥ kasmai cit-bhogāya bālān kaścid prakṛntati .tatas kiśorāḥ mriyante vatsān ca ghātukaḥ vṛkaḥ ..7..

यदस्या गोपतौ सत्या लोम ध्वाङ्क्षो अजीहिडत्।ततः कुमारा म्रियन्ते यक्ष्मो विन्दत्यनामनात्॥८॥
यत् अस्याः गो-पतौ सत्याः लोम ध्वाङ्क्षः अजीहिडत्।ततस् कुमाराः म्रियन्ते यक्ष्मः विन्दति अनामनात्॥८॥
yat asyāḥ go-patau satyāḥ loma dhvāṅkṣaḥ ajīhiḍat.tatas kumārāḥ mriyante yakṣmaḥ vindati anāmanāt..8..

यदस्याः पल्पूलनं शकृद्दासी समस्यति ।ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥९॥
यत् अस्याः पल्पूलनम् शकृत् दासी समस्यति ।ततस् अपरूपम् जायते तस्मात् अ व्येष्यत्-देनसः ॥९॥
yat asyāḥ palpūlanam śakṛt dāsī samasyati .tatas aparūpam jāyate tasmāt a vyeṣyat-denasaḥ ..9..

जायमानाभि जायते देवान्त्सब्राह्मणान् वशा ।तस्माद्ब्रह्मभ्यो देयैषा तदाहुः स्वस्य गोपनम् ॥१०॥ {१९}
जायमाना अभि जायते देवान् स ब्राह्मणान् वशा ।तस्मात् ब्रह्मभ्यः देया एषा तत् आहुः स्वस्य गोपनम् ॥१०॥
jāyamānā abhi jāyate devān sa brāhmaṇān vaśā .tasmāt brahmabhyaḥ deyā eṣā tat āhuḥ svasya gopanam ..10..

य एनां वनिमायन्ति तेषां देवकृता वशा ।ब्रह्मज्येयं तदब्रुवन् य एनां निप्रियायते ॥११॥
ये एनाम् वनिमायन्ति तेषाम् देव-कृता वशा ।ब्रह्मज्येयम् तत् अब्रुवन् यः एनाम् निप्रियायते ॥११॥
ye enām vanimāyanti teṣām deva-kṛtā vaśā .brahmajyeyam tat abruvan yaḥ enām nipriyāyate ..11..

य आर्षेयेभ्यो याचद्भ्यो देवानां गां न दित्सति ।आ स देवेषु वृश्चते ब्राह्मणानां च मन्यवे ॥१२॥
यः आर्षेयेभ्यः याचद्भ्यः देवानाम् गाम् न दित्सति ।आ स देवेषु वृश्चते ब्राह्मणानाम् च मन्यवे ॥१२॥
yaḥ ārṣeyebhyaḥ yācadbhyaḥ devānām gām na ditsati .ā sa deveṣu vṛścate brāhmaṇānām ca manyave ..12..

यो अस्य स्याद्वशाभोगो अन्यामिछेत तर्हि सः ।हिंस्ते अदत्ता पुरुषं याचितां च न दित्सति ॥१३॥
यः अस्य स्यात् वश-आभोगः अन्याम् इछेत तर्हि सः ।हिंस्ते अदत्ता पुरुषम् याचिताम् च न दित्सति ॥१३॥
yaḥ asya syāt vaśa-ābhogaḥ anyām icheta tarhi saḥ .hiṃste adattā puruṣam yācitām ca na ditsati ..13..

यथा शेवधिर्निहितो ब्राह्मणानां तथा वशा ।तामेतदछायन्ति यस्मिन् कस्मिंश्च जायते ॥१४॥
यथा शेवधिः निहितः ब्राह्मणानाम् तथा वशा ।ताम् एतत् अछायन्ति यस्मिन् कस्मिन् च जायते ॥१४॥
yathā śevadhiḥ nihitaḥ brāhmaṇānām tathā vaśā .tām etat achāyanti yasmin kasmin ca jāyate ..14..

स्वमेतदछायन्ति यद्वशां ब्राह्मणा अभि ।यथैनान् अन्यस्मिन् जिनीयादेवास्या निरोधनम् ॥१५॥
स्वम् एतत् अछायन्ति यत् वशाम् ब्राह्मणाः अभि ।यथा एनान् अन्यस्मिन् जिनीयात् एव अस्याः निरोधनम् ॥१५॥
svam etat achāyanti yat vaśām brāhmaṇāḥ abhi .yathā enān anyasmin jinīyāt eva asyāḥ nirodhanam ..15..

चरेदेवा त्रैहायणादविज्ञातगदा सती ।वशां च विद्यान् नारद ब्राह्मणास्तर्ह्येष्याः ॥१६॥
चरेत् एवा त्रैहायणात् अविज्ञात-गदा सती ।वशाम् च विद्यात् नारद ब्राह्मणाः तर्हि एष्याः ॥१६॥
caret evā traihāyaṇāt avijñāta-gadā satī .vaśām ca vidyāt nārada brāhmaṇāḥ tarhi eṣyāḥ ..16..

य एनामवशामाह देवानां निहितं निधिम् ।उभौ तस्मै भवाशर्वौ परिक्रम्येषुमस्यतः ॥१७॥
यः एनाम् अवशाम् आह देवानाम् निहितम् निधिम् ।उभौ तस्मै भवाशर्वौ परिक्रम्य इषुम् अस्यतः ॥१७॥
yaḥ enām avaśām āha devānām nihitam nidhim .ubhau tasmai bhavāśarvau parikramya iṣum asyataḥ ..17..

यो अस्या ऊधो न वेदाथो अस्या स्तनान् उत ।उभयेनैवास्मै दुहे दातुं चेदशकद्वशाम् ॥१८॥
यः अस्याः ऊधः न वेद अथ उ अस्याः स्तनान् उत ।उभयेन एव अस्मै दुहे दातुम् चेद् अशकत् वशाम् ॥१८॥
yaḥ asyāḥ ūdhaḥ na veda atha u asyāḥ stanān uta .ubhayena eva asmai duhe dātum ced aśakat vaśām ..18..

दुरदभ्नैनमा शये याचितां च न दित्सति ।नास्मै कामाः समृध्यन्ते यामदत्त्वा चिकीर्षति ॥१९॥
शये याचिताम् च न दित्सति ।न अस्मै कामाः समृध्यन्ते याम् अ दत्त्वा चिकीर्षति ॥१९॥
śaye yācitām ca na ditsati .na asmai kāmāḥ samṛdhyante yām a dattvā cikīrṣati ..19..

देवा वशामयाचन् मुखं कृत्वा ब्राह्मणम् ।तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥२०॥ {२०}
देवाः वशाम् अयाचन् मुखम् कृत्वा ब्राह्मणम् ।तेषाम् सर्वेषाम् अददत् ह इडम् न्येति मानुषः ॥२०॥
devāḥ vaśām ayācan mukham kṛtvā brāhmaṇam .teṣām sarveṣām adadat ha iḍam nyeti mānuṣaḥ ..20..

हेडं पशूनां न्येति ब्राह्मणेभ्योऽददद्वशाम् ।देवानां निहितं भागं मर्त्यश्चेन् निप्रियायते ॥२१॥
हेडम् पशूनाम् न्येति ब्राह्मणेभ्यः अददत् वशाम् ।देवानाम् निहितम् भागम् मर्त्यः चेद् निप्रियायते ॥२१॥
heḍam paśūnām nyeti brāhmaṇebhyaḥ adadat vaśām .devānām nihitam bhāgam martyaḥ ced nipriyāyate ..21..

यदन्ये शतं याचेयुर्ब्राह्मणा गोपतिं वशाम् ।अथैनां देवा अब्रुवन्न् एवं ह विदुषो वशा ॥२२॥
यत् अन्ये शतम् याचेयुः ब्राह्मणाः गोपतिम् वशाम् ।अथ एनाम् देवाः अब्रुवन् एवम् ह विदुषः वशा ॥२२॥
yat anye śatam yāceyuḥ brāhmaṇāḥ gopatim vaśām .atha enām devāḥ abruvan evam ha viduṣaḥ vaśā ..22..

य एवं विदुषेऽदत्त्वाथान्येभ्यो ददद्वशाम् ।दुर्गा तस्मा अधिष्ठाने पृथिवी सहदेवता ॥२३॥
यः एवम् विदुषे अ दत्त्वा अथ अन्येभ्यः ददत् वशाम् ।दुर्गा तस्मै अधिष्ठाने पृथिवी सह देवता ॥२३॥
yaḥ evam viduṣe a dattvā atha anyebhyaḥ dadat vaśām .durgā tasmai adhiṣṭhāne pṛthivī saha devatā ..23..

देवा वशामयाचन् यस्मिन्न् अग्रे अजायत ।तामेतां विद्यान् नारदः सह देवैरुदाजत ॥२४॥
देवाः वशाम् अयाचन् यस्मिन् अग्रे अजायत ।ताम् एताम् विद्यात् नारदः सह देवैः उदाजत ॥२४॥
devāḥ vaśām ayācan yasmin agre ajāyata .tām etām vidyāt nāradaḥ saha devaiḥ udājata ..24..

अनपत्यमल्पपशुं वशा कृणोति पूरुषम् ।ब्राह्मणैश्च याचितामथैनां निप्रियायते ॥२५॥
अनपत्यम् अल्प-पशुम् वशा कृणोति पूरुषम् ।ब्राह्मणैः च याचिताम् अथ एनाम् निप्रियायते ॥२५॥
anapatyam alpa-paśum vaśā kṛṇoti pūruṣam .brāhmaṇaiḥ ca yācitām atha enām nipriyāyate ..25..

अग्नीषोमाभ्यां कामाय मित्राय वरुणाय च ।तेभ्यो याचन्ति ब्राह्मणास्तेष्वा वृश्चतेऽददत्॥२६॥
अग्नीषोमाभ्याम् कामाय मित्राय वरुणाय च ।तेभ्यः याचन्ति ब्राह्मणाः ते इष्वा वृश्चते अ ददत्॥२६॥
agnīṣomābhyām kāmāya mitrāya varuṇāya ca .tebhyaḥ yācanti brāhmaṇāḥ te iṣvā vṛścate a dadat..26..

यावदस्या गोपतिर्नोपशृणुयादृचः स्वयम् ।चरेदस्य तावद्गोषु नास्य श्रुत्वा गृहे वसेत्॥२७॥
यावत् अस्याः गोपतिः न उपशृणुयात् ऋचः स्वयम् ।चरेत् अस्य तावत् गोषु न अस्य श्रुत्वा गृहे वसेत्॥२७॥
yāvat asyāḥ gopatiḥ na upaśṛṇuyāt ṛcaḥ svayam .caret asya tāvat goṣu na asya śrutvā gṛhe vaset..27..

यो अस्या ऋच उपश्रुत्याथ गोष्वचीचरत्।आयुश्च तस्य भूतिं च देवा वृश्चन्ति हीडिताः ॥२८॥
यः अस्याः ऋचः उपश्रुत्य अथ गोषु अचीचरत्।आयुः च तस्य भूतिम् च देवाः वृश्चन्ति हीडिताः ॥२८॥
yaḥ asyāḥ ṛcaḥ upaśrutya atha goṣu acīcarat.āyuḥ ca tasya bhūtim ca devāḥ vṛścanti hīḍitāḥ ..28..

वशा चरन्ती बहुधा देवानां निहितो निधिः ।आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
वशा चरन्ती बहुधा देवानाम् निहितः निधिः ।आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥२९॥
vaśā carantī bahudhā devānām nihitaḥ nidhiḥ .āviṣkṛṇuṣva rūpāṇi yadā sthāma jighāṃsati ..29..

आविरात्मानं कृणुते यदा स्थाम जिघांसति ।अथो ह ब्रह्मभ्यो वशा याञ्च्याय कृणुते मनः ॥३०॥ {२१}
आविस् आत्मानम् कृणुते यदा स्थाम जिघांसति ।अथ उ ह ब्रह्मभ्यः वशा कृणुते मनः ॥३०॥
āvis ātmānam kṛṇute yadā sthāma jighāṃsati .atha u ha brahmabhyaḥ vaśā kṛṇute manaḥ ..30..

मनसा सं कल्पयति तद्देवामपि गच्छति ।ततो ह ब्रह्माणो वशामुपप्रयन्ति याचितुम् ॥३१॥
मनसा सम् कल्पयति तत् देवाम् अपि गच्छति ।ततस् ह ब्रह्माणः वशाम् उपप्रयन्ति याचितुम् ॥३१॥
manasā sam kalpayati tat devām api gacchati .tatas ha brahmāṇaḥ vaśām upaprayanti yācitum ..31..

स्वधाकारेण पितृभ्यो यज्ञेन देवताभ्यः ।दानेन राजन्यो वशाया मातुर्हेडं न गच्छति ॥३२॥
स्वधाकारेण पितृभ्यः यज्ञेन देवताभ्यः ।दानेन राजन्यः वशायाः मातुः हेडम् न गच्छति ॥३२॥
svadhākāreṇa pitṛbhyaḥ yajñena devatābhyaḥ .dānena rājanyaḥ vaśāyāḥ mātuḥ heḍam na gacchati ..32..

वशा माता राजन्यस्य तथा संभूतमग्रशः ।तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥३३॥
वशा माता राजन्यस्य तथा संभूतम् अग्रशस् ।तस्याः आहुः अनर्पणम् यत् ब्रह्मभ्यः प्रदीयते ॥३३॥
vaśā mātā rājanyasya tathā saṃbhūtam agraśas .tasyāḥ āhuḥ anarpaṇam yat brahmabhyaḥ pradīyate ..33..

यथाज्यं प्रगृहीतमालुम्पेत्स्रुचो अग्नये ।एवा ह ब्रह्मभ्यो वशामग्नय आ वृश्चतेऽददत्॥३४॥
यथा आज्यम् प्रगृहीतम् आलुम्पेत् स्रुचः अग्नये ।एव ह ब्रह्मभ्यः वशाम् अग्नये आ वृश्चते अददत्॥३४॥
yathā ājyam pragṛhītam ālumpet srucaḥ agnaye .eva ha brahmabhyaḥ vaśām agnaye ā vṛścate adadat..34..

पुरोडाशवत्सा सुदुघा लोकेऽस्मा उप तिष्ठति ।सास्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
पुरोडाश-वत् सा सुदुघा लोके अस्मै उप तिष्ठति ।सा अस्मै सर्वान् कामान् वशा प्रददुषे दुहे ॥३५॥
puroḍāśa-vat sā sudughā loke asmai upa tiṣṭhati .sā asmai sarvān kāmān vaśā pradaduṣe duhe ..35..

सर्वान् कामान् यमराज्ये वशा प्रददुषे दुहे ।अथाहुर्नारकं लोकं निरुन्धानस्य याचिताम् ॥३६॥
सर्वान् कामान् यम-राज्ये वशा प्रददुषे दुहे ।अथ आहुः नारकम् लोकम् निरुन्धानस्य याचिताम् ॥३६॥
sarvān kāmān yama-rājye vaśā pradaduṣe duhe .atha āhuḥ nārakam lokam nirundhānasya yācitām ..36..

प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।वेहतं मा मन्यमानो मृत्योः पाशेषु बध्यताम् ॥३७॥
प्रवीयमाना चरति क्रुद्धा गोपतये वशा ।वेहतम् मा मन्यमानः मृत्योः पाशेषु बध्यताम् ॥३७॥
pravīyamānā carati kruddhā gopataye vaśā .vehatam mā manyamānaḥ mṛtyoḥ pāśeṣu badhyatām ..37..

यो वेहतं मन्यमानोऽमा च पचते वशाम् ।अप्यस्य पुत्रान् पौत्रांश्च याचयते बृहस्पतिः ॥३८॥
यः वेहतम् मन्यमानः अमा च पचते वशाम् ।अपि अस्य पुत्रान् पौत्रान् च याचयते बृहस्पतिः ॥३८॥
yaḥ vehatam manyamānaḥ amā ca pacate vaśām .api asya putrān pautrān ca yācayate bṛhaspatiḥ ..38..

महदेषाव तपति चरन्ती गोषु गौरपि ।अथो ह गोपतये वशाददुषे विषं दुहे ॥३९॥
महत् एषा अव तपति चरन्ती गोषु गौः अपि ।अथ उ ह गोपतये वशा-ददुषे विषम् दुहे ॥३९॥
mahat eṣā ava tapati carantī goṣu gauḥ api .atha u ha gopataye vaśā-daduṣe viṣam duhe ..39..

प्रियं पशूनां भवति यद्ब्रह्मभ्यः प्रदीयते ।अथो वशायास्तत्प्रियं यद्देवत्रा हविः स्यात्॥४०॥ {२२}
प्रियम् पशूनाम् भवति यत् ब्रह्मभ्यः प्रदीयते ।अथ उ वशायाः तत् प्रियम् यत् देवत्रा हविः स्यात्॥४०॥
priyam paśūnām bhavati yat brahmabhyaḥ pradīyate .atha u vaśāyāḥ tat priyam yat devatrā haviḥ syāt..40..

या वशा उदकल्पयन् देवा यज्ञादुदेत्य ।तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥४१॥
याः वशाः उदकल्पयन् देवाः यज्ञात् उदेत्य ।तासाम् विलिप्त्यम् भीमाम् उदाकुरुत नारदः ॥४१॥
yāḥ vaśāḥ udakalpayan devāḥ yajñāt udetya .tāsām viliptyam bhīmām udākuruta nāradaḥ ..41..

तां देवा अमीमांसन्त वशेया३ अवशेति ।तामब्रवीन् नारद एषा वशानां वशतमेति ॥४२॥
ताम् देवाः अमीमांसन्त वशेया अवशा इति ।ताम् अब्रवीत् नारदः एषा वशानाम् वशतम् एति ॥४२॥
tām devāḥ amīmāṃsanta vaśeyā avaśā iti .tām abravīt nāradaḥ eṣā vaśānām vaśatam eti ..42..

कति नु वशा नारद यास्त्वं वेत्थ मनुष्यजाः ।तास्त्वा पृछामि विद्वांसं कस्या नाश्नीयादब्राह्मणः ॥४३॥
कति नु वशाः नारद याः त्वम् वेत्थ मनुष्य-जाः ।ताः त्वा पृच्छामि विद्वांसम् कस्याः न अश्नीयात् अब्राह्मणः ॥४३॥
kati nu vaśāḥ nārada yāḥ tvam vettha manuṣya-jāḥ .tāḥ tvā pṛcchāmi vidvāṃsam kasyāḥ na aśnīyāt abrāhmaṇaḥ ..43..

विलिप्त्या बृहस्पते या च सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४४॥
विलिप्त्याः बृहस्पते या च सूत-वशा वशा ।तस्याः न अश्नीयात् अब्राह्मणः यः आशंसेत भूत्याम् ॥४४॥
viliptyāḥ bṛhaspate yā ca sūta-vaśā vaśā .tasyāḥ na aśnīyāt abrāhmaṇaḥ yaḥ āśaṃseta bhūtyām ..44..

नमस्ते अस्तु नारदानुष्ठु विदुषे वशा ।कतमासां भीमतमा यामदत्त्वा पराभवेत्॥४५॥
नमः ते अस्तु नारद अनुष्ठु विदुषे वशा ।कतमासाम् भीमतमा याम् अ दत्त्वा पराभवेत्॥४५॥
namaḥ te astu nārada anuṣṭhu viduṣe vaśā .katamāsām bhīmatamā yām a dattvā parābhavet..45..

विलिप्ती या बृहस्पतेऽथो सूतवशा वशा ।तस्या नाश्नीयादब्राह्मणो य आशंसेत भूत्याम् ॥४६॥
विलिप्ती या बृहस्पते अथ उ सूत-वशा वशा ।तस्याः न अश्नीयात् अब्राह्मणः यः आशंसेत भूत्याम् ॥४६॥
viliptī yā bṛhaspate atha u sūta-vaśā vaśā .tasyāḥ na aśnīyāt abrāhmaṇaḥ yaḥ āśaṃseta bhūtyām ..46..

त्रीणि वै वशाजातानि विलिप्ती सूतवशा वशा ।ताः प्र यछेद्ब्रह्मभ्यः सोऽनाव्रस्कः प्रजापतौ ॥४७॥
त्रीणि वै वशा-जातानि विलिप्ती सूत-वशा वशा ।ताः प्र यच्छेत् ब्रह्मभ्यः सः अन् आव्रस्कः प्रजापतौ ॥४७॥
trīṇi vai vaśā-jātāni viliptī sūta-vaśā vaśā .tāḥ pra yacchet brahmabhyaḥ saḥ an āvraskaḥ prajāpatau ..47..

एतद्वो ब्राह्मणा हविरिति मन्वीत याचितः ।वशां चेदेनं याचेयुर्या भीमाददुषो गृहे ॥४८॥
एतत् वः ब्राह्मणाः हविः इति मन्वीत याचितः ।वशाम् चेद् एनम् याचेयुः या भीम-अददुषः गृहे ॥४८॥
etat vaḥ brāhmaṇāḥ haviḥ iti manvīta yācitaḥ .vaśām ced enam yāceyuḥ yā bhīma-adaduṣaḥ gṛhe ..48..

देवा वशां पर्यवदन् न नोऽदादिति हीडिताः ।एताभिर्ऋग्भिर्भेदं तस्माद्वै स पराभवत्॥४९॥
देवाः वशाम् पर्यवदन् न नः अदात् इति हीडिताः ।एताभिः ऋग्भिः भेदम् तस्मात् वै स पराभवत्॥४९॥
devāḥ vaśām paryavadan na naḥ adāt iti hīḍitāḥ .etābhiḥ ṛgbhiḥ bhedam tasmāt vai sa parābhavat..49..

उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः ।तस्मात्तं देवा आगसोऽवृश्चन्न् अहमुत्तरे ॥५०॥
उत एनाम् भेदः न अददात् वशाम् इन्द्रेण याचितः ।तस्मात् तम् देवाः आगसः अवृश्चन् अहम् उत्तरे ॥५०॥
uta enām bhedaḥ na adadāt vaśām indreṇa yācitaḥ .tasmāt tam devāḥ āgasaḥ avṛścan aham uttare ..50..

ये वशाया अदानाय वदन्ति परिरापिणः ।इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ये वशायाः अ दानाय वदन्ति परिरापिणः ।इन्द्रस्य मन्यवे जाल्मा आ वृश्चन्ते अचित्त्या ॥५१॥
ye vaśāyāḥ a dānāya vadanti parirāpiṇaḥ .indrasya manyave jālmā ā vṛścante acittyā ..51..

ये गोपतिं पराणीयाथाहुर्मा ददा इति ।रुद्रस्यास्तां ते हेतीं परि यन्त्यचित्त्या ॥५२॥
ये गोपतिम् पराणीय अथ आहुः मा ददै इति ।रुद्रस्य अस्ताम् ते हेतीम् परि यन्ति अचित्त्या ॥५२॥
ye gopatim parāṇīya atha āhuḥ mā dadai iti .rudrasya astām te hetīm pari yanti acittyā ..52..

यदि हुतं यद्यहुताममा च पचते वशाम् ।देवान्त्सब्राह्मणान् ऋत्वा जिह्मो लोकान् निर्ऋच्छति ॥५३॥ {२३}
यदि हुतम् यदि अ हुता अमा च पचते वशाम् ।देवान् स ब्राह्मणान् ऋत्वा जिह्मः लोकात् निरृच्छति ॥५३॥
yadi hutam yadi a hutā amā ca pacate vaśām .devān sa brāhmaṇān ṛtvā jihmaḥ lokāt nirṛcchati ..53..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In