| |
|

This overlay will guide you through the buttons:

श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता र्ते श्रिता ॥१॥
श्रमेण तपसा सृष्टा ब्रह्मणा वित्ता ऋते श्रिता ॥१॥
śrameṇa tapasā sṛṣṭā brahmaṇā vittā ṛte śritā ..1..

सत्येनावृता श्रिया प्रावृता यशसा परीवृता ॥२॥
सत्येन आवृता श्रिया प्रावृता यशसा परीवृता ॥२॥
satyena āvṛtā śriyā prāvṛtā yaśasā parīvṛtā ..2..

स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोको निधनम् ॥३॥
स्वधया परिहिता श्रद्धया पर्यूढा दीक्षया गुप्ता यज्ञे प्रतिष्ठिता लोकः निधनम् ॥३॥
svadhayā parihitā śraddhayā paryūḍhā dīkṣayā guptā yajñe pratiṣṭhitā lokaḥ nidhanam ..3..

ब्रह्म पदवायं ब्राह्मणोऽधिपतिः ॥४॥
ब्रह्म पदवायम् ब्राह्मणः अधिपतिः ॥४॥
brahma padavāyam brāhmaṇaḥ adhipatiḥ ..4..

तामाददानस्य ब्रह्मगवीं जिनतो ब्राह्मणं क्षत्रियस्य ॥५॥
ताम् आददानस्य ब्रह्म-गवीम् जिनतः ब्राह्मणम् क्षत्रियस्य ॥५॥
tām ādadānasya brahma-gavīm jinataḥ brāhmaṇam kṣatriyasya ..5..

अप क्रामति सूनृता वीर्यं पुन्या लक्ष्मीः ॥६॥ {२४}
अप क्रामति सूनृता वीर्यम् पुन्या लक्ष्मीः ॥६॥
apa krāmati sūnṛtā vīryam punyā lakṣmīḥ ..6..

ओजश्च तेजश्च सहश्च बलं च वाक्चेन्द्रियं च श्रीश्च धर्मश्च ॥७॥
ओजः च तेजः च सहः च बलम् च वाच् च इन्द्रियम् च श्रीः च धर्मः च ॥७॥
ojaḥ ca tejaḥ ca sahaḥ ca balam ca vāc ca indriyam ca śrīḥ ca dharmaḥ ca ..7..

ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥८॥
ब्रह्म च क्षत्रम् च राष्ट्रम् च विशः च त्विषिः च यशः च वर्चः च द्रविणम् च ॥८॥
brahma ca kṣatram ca rāṣṭram ca viśaḥ ca tviṣiḥ ca yaśaḥ ca varcaḥ ca draviṇam ca ..8..

आयुश्च रूपं च नाम च कीर्तिश्च प्राणश्चापानश्च चक्षुश्च श्रोत्रं च ॥९॥
आयुः च रूपम् च नाम च कीर्तिः च प्राणः च अपानः च चक्षुः च श्रोत्रम् च ॥९॥
āyuḥ ca rūpam ca nāma ca kīrtiḥ ca prāṇaḥ ca apānaḥ ca cakṣuḥ ca śrotram ca ..9..

पयश्च रसश्चान्नं चान्नाद्यं च र्तं च सत्यं चेष्टं च पूर्तं च प्रजा च पशवश्च ॥१०॥
पयः च रसः च अन्नम् च अन्नाद्यम् च ऋतम् च सत्यम् च इष्टम् च पूर्तम् च प्रजा च पशवः च ॥१०॥
payaḥ ca rasaḥ ca annam ca annādyam ca ṛtam ca satyam ca iṣṭam ca pūrtam ca prajā ca paśavaḥ ca ..10..

तानि सर्वाण्यप क्रामन्ति ब्रह्मगवीमाददानस्य जिनतो ब्राह्मणं क्षत्रियस्य ॥११॥ {२५}
तानि सर्वाणि अप क्रामन्ति ब्रह्म-गवीम् आददानस्य जिनतः ब्राह्मणम् क्षत्रियस्य ॥११॥
tāni sarvāṇi apa krāmanti brahma-gavīm ādadānasya jinataḥ brāhmaṇam kṣatriyasya ..11..

सैषा भीमा ब्रह्मगव्यघविषा साक्षात्कृत्या कूल्बजमावृता ॥१२॥
सा एषा भीमा ब्रह्म-गव्य-घ-विषा साक्षात् कृत्या कूल्बजम् आवृता ॥१२॥
sā eṣā bhīmā brahma-gavya-gha-viṣā sākṣāt kṛtyā kūlbajam āvṛtā ..12..

सर्वाण्यस्यां घोराणि सर्वे च मृत्यवः ॥१३॥
सर्वाणि अस्याम् घोराणि सर्वे च मृत्यवः ॥१३॥
sarvāṇi asyām ghorāṇi sarve ca mṛtyavaḥ ..13..

सर्वाण्यस्यां क्रूराणि सर्वे पुरुषवधाः ॥१४॥
सर्वाणि अस्याम् क्रूराणि सर्वे पुरुष-वधाः ॥१४॥
sarvāṇi asyām krūrāṇi sarve puruṣa-vadhāḥ ..14..

सा ब्रह्मज्यं देवपीयुं ब्रह्मगव्यादीयमाना मृत्योः पद्वीष आ द्यति ॥१५॥
सा ब्रह्मज्यम् देव-पीयुम् ब्रह्म-गव्या आदीयमाना मृत्योः पद्वीषे आ द्यति ॥१५॥
sā brahmajyam deva-pīyum brahma-gavyā ādīyamānā mṛtyoḥ padvīṣe ā dyati ..15..

मेनिः शतवधा हि सा ब्रह्मज्यस्य क्षितिर्हि सा ॥१६॥
मेनिः शत-वधा हि सा ब्रह्मज्यस्य क्षितिः हि सा ॥१६॥
meniḥ śata-vadhā hi sā brahmajyasya kṣitiḥ hi sā ..16..

तस्माद्वै ब्राह्मणानां गौर्दुराधर्षा विजानता ॥१७॥
तस्मात् वै ब्राह्मणानाम् गौः दुराधर्षा विजानता ॥१७॥
tasmāt vai brāhmaṇānām gauḥ durādharṣā vijānatā ..17..

वज्रो धावन्ती वैश्वानर उद्वीता ॥१८॥
वज्रः धावन्ती वैश्वानरः उद्वीता ॥१८॥
vajraḥ dhāvantī vaiśvānaraḥ udvītā ..18..

हेतिः शफान् उत्खिदन्ती महादेवोऽपेक्षमाणा ॥१९॥
हेतिः शफान् उत्खिदन्ती महादेवः अपेक्षमाणा ॥१९॥
hetiḥ śaphān utkhidantī mahādevaḥ apekṣamāṇā ..19..

क्षुरपविरीक्षमाणा वाश्यमानाभि स्फूर्जति ॥२०॥
क्षुर-पविः ईक्षमाणा वाश्यमाना अभि स्फूर्जति ॥२०॥
kṣura-paviḥ īkṣamāṇā vāśyamānā abhi sphūrjati ..20..

मृत्युर्हिङ्कृण्वत्युग्रो देवः पुछं पर्यस्यन्ती ॥२१॥
मृत्युः हिङ्कृण्वती उग्रः देवः पुछम् पर्यस्यन्ती ॥२१॥
mṛtyuḥ hiṅkṛṇvatī ugraḥ devaḥ pucham paryasyantī ..21..

सर्वज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मो मेहन्ती ॥२२॥
सर्व-ज्यानिः कर्णौ वरीवर्जयन्ती राजयक्ष्मः मेहन्ती ॥२२॥
sarva-jyāniḥ karṇau varīvarjayantī rājayakṣmaḥ mehantī ..22..

मेनिर्दुह्यमाना शीर्षक्तिर्दुग्धा ॥२३॥
मेनिः दुह्यमाना शीर्षक्तिः दुग्धा ॥२३॥
meniḥ duhyamānā śīrṣaktiḥ dugdhā ..23..

सेदिरुपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
सेदिः उपतिष्ठन्ती मिथोयोधः परामृष्टा ॥२४॥
sediḥ upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā ..24..

शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥२५॥
शरव्या मुखे अपिनह्यमानः ऋतिः हन्यमाना ॥२५॥
śaravyā mukhe apinahyamānaḥ ṛtiḥ hanyamānā ..25..

अघविषा निपतन्ती तमो निपतिता ॥२६॥
अघ-विषा निपतन्ती तमः निपतिता ॥२६॥
agha-viṣā nipatantī tamaḥ nipatitā ..26..

अनुगच्छन्ती प्राणान् उप दासयति ब्रह्मगवी ब्रह्मज्यस्य ॥२७॥ {२६}
अनुगच्छन्ती प्राणान् उप दासयति ब्रह्म-गवी ब्रह्मज्यस्य ॥२७॥
anugacchantī prāṇān upa dāsayati brahma-gavī brahmajyasya ..27..

वैरं विकृत्यमाना पौत्राद्यं विभाज्यमाना ॥२८॥
वैरम् विकृत्यमाना पौत्र-अद्यम् विभाज्यमाना ॥२८॥
vairam vikṛtyamānā pautra-adyam vibhājyamānā ..28..

देवहेतिर्ह्रियमाणा व्यृद्धिर्हृता ॥२९॥
देव-हेतिः ह्रियमाणा व्यृद्धिः हृता ॥२९॥
deva-hetiḥ hriyamāṇā vyṛddhiḥ hṛtā ..29..

पाप्माधिधीयमाना पारुष्यमवधीयमाना ॥३०॥
पाप्मा अधिधीयमाना पारुष्यम् अवधीयमाना ॥३०॥
pāpmā adhidhīyamānā pāruṣyam avadhīyamānā ..30..

विषं प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
विषम् प्रयस्यन्ती तक्मा प्रयस्ता ॥३१॥
viṣam prayasyantī takmā prayastā ..31..

अघं प्रच्यमाना दुष्वप्न्यं पक्वा ॥३२॥
अघम् प्रच्यमाना दुष्वप्न्यम् पक्वा ॥३२॥
agham pracyamānā duṣvapnyam pakvā ..32..

मूलबर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
मूल-बर्हणी पर्याक्रियमाणा क्षितिः पर्याकृता ॥३३॥
mūla-barhaṇī paryākriyamāṇā kṣitiḥ paryākṛtā ..33..

असंज्ञा गन्धेन शुगुद्ध्रियमाणाशीविष उद्धृता ॥३४॥
असंज्ञा गन्धेन शुच् उद्ध्रियमाणा आशीविषः उद्धृता ॥३४॥
asaṃjñā gandhena śuc uddhriyamāṇā āśīviṣaḥ uddhṛtā ..34..

अभूतिरुपह्रियमाणा पराभूतिरुपहृता ॥३५॥
अभूतिः उपह्रियमाणा पराभूतिः उपहृता ॥३५॥
abhūtiḥ upahriyamāṇā parābhūtiḥ upahṛtā ..35..

शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥३६॥
śarvaḥ kruddhaḥ piśyamānā śimidā piśitā ..36..

अवर्तिरश्यमाना निर्ऋतिरशिता ॥३७॥
अवर्तिः अश्यमाना निरृतिः अशिता ॥३७॥
avartiḥ aśyamānā nirṛtiḥ aśitā ..37..

अशिता लोकाच्छिनत्ति ब्रह्मगवी ब्रह्मज्यमस्माच्चामुष्माच्च ॥३८॥ {२७}
अशिता लोकात् छिनत्ति ब्रह्म-गवी ब्रह्मज्यम् अस्मात् च अमुष्मात् च ॥३८॥
aśitā lokāt chinatti brahma-gavī brahmajyam asmāt ca amuṣmāt ca ..38..

तस्या आहननं कृत्या मेनिराशसनं वलग ऊबध्यम् ॥३९॥
तस्याः आहननम् कृत्या मेनिः आशसनम् वलगः ऊबध्यम् ॥३९॥
tasyāḥ āhananam kṛtyā meniḥ āśasanam valagaḥ ūbadhyam ..39..

अस्वगता परिह्णुता ॥४०॥
अस्वगता परिह्णुता ॥४०॥
asvagatā parihṇutā ..40..

अग्निः क्रव्याद्भूत्वा ब्रह्मगवी ब्रह्मज्यं प्रविश्यात्ति ॥४१॥
अग्निः क्रव्याद् भूत्वा ब्रह्म-गवी ब्रह्मज्यम् प्रविश्य अत्ति ॥४१॥
agniḥ kravyād bhūtvā brahma-gavī brahmajyam praviśya atti ..41..

सर्वास्याङ्गा पर्वा मूलानि वृश्चति ॥४२॥
सर्वा अस्य अङ्गा पर्वा मूलानि वृश्चति ॥४२॥
sarvā asya aṅgā parvā mūlāni vṛścati ..42..

छिनत्त्यस्य पितृबन्धु परा भावयति मातृबन्धु ॥४३॥
छिनत्ति अस्य पितृ-बन्धु परा भावयति मातृ-बन्धु ॥४३॥
chinatti asya pitṛ-bandhu parā bhāvayati mātṛ-bandhu ..43..

विवाहां ज्ञातीन्त्सर्वान् अपि क्षापयति ब्रह्मगवी ब्रह्मज्यस्य क्षत्रियेणापुनर्दीयमाना ॥४४॥
ज्ञातीन् सर्वान् अपि क्षापयति ब्रह्म-गवी ब्रह्मज्यस्य क्षत्रियेण अपुनर्दीयमाना ॥४४॥
jñātīn sarvān api kṣāpayati brahma-gavī brahmajyasya kṣatriyeṇa apunardīyamānā ..44..

अवास्तुमेनमस्वगमप्रजसं करोत्यपरापरणो भवति क्षीयते ॥४५॥
अवास्तुम् एनम् अस्वगम् अप्रजसम् करोति अपरापरणः भवति क्षीयते ॥४५॥
avāstum enam asvagam aprajasam karoti aparāparaṇaḥ bhavati kṣīyate ..45..

य एवं विदुषो ब्राह्मणस्य क्षत्रियो गामादत्ते ॥४६॥ {२८}
यः एवम् विदुषः ब्राह्मणस्य क्षत्रियः गाम् आदत्ते ॥४६॥
yaḥ evam viduṣaḥ brāhmaṇasya kṣatriyaḥ gām ādatte ..46..

क्षिप्रं वै तस्याहनने गृध्राः कुर्वत ऐलबम् ॥४७॥
क्षिप्रम् वै तस्य आहनने गृध्राः कुर्वते ऐलबम् ॥४७॥
kṣipram vai tasya āhanane gṛdhrāḥ kurvate ailabam ..47..

क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥४८॥
क्षिप्रम् वै तस्य आदहनम् परि नृत्यन्ति केशिनीः आघ्नानाः पाणिना उरसि कुर्वाणाः पाप-मैलबम् ॥४८॥
kṣipram vai tasya ādahanam pari nṛtyanti keśinīḥ āghnānāḥ pāṇinā urasi kurvāṇāḥ pāpa-mailabam ..48..

क्षिप्रं वै तस्य वास्तुषु वृकाः कुर्वत ऐलबम् ॥४९॥
क्षिप्रम् वै तस्य वास्तुषु वृकाः कुर्वते ऐलबम् ॥४९॥
kṣipram vai tasya vāstuṣu vṛkāḥ kurvate ailabam ..49..

क्षिप्रं वै तस्य पृच्छन्ति यत्तदासी३ इदं नु ता३ इति ॥५०॥
क्षिप्रम् वै तस्य पृच्छन्ति यत् तत् आसीत् इदम् नु ते इति ॥५०॥
kṣipram vai tasya pṛcchanti yat tat āsīt idam nu te iti ..50..

छिन्ध्या छिन्धि प्र छिन्ध्यपि क्षापय क्षापय ॥५१॥
छिन्धि आ छिन्धि प्र छिन्धि अपि क्षापय क्षापय ॥५१॥
chindhi ā chindhi pra chindhi api kṣāpaya kṣāpaya ..51..

आददानमाङ्गिरसि ब्रह्मज्यमुप दासय ॥५२॥
आददानम् आङ्गिरसि ब्रह्मज्यम् उप दासय ॥५२॥
ādadānam āṅgirasi brahmajyam upa dāsaya ..52..

वैश्वदेवी ह्युच्यसे कृत्या कूल्बजमावृता ॥५३॥
वैश्वदेवी हि उच्यसे कृत्या कूल्बजम् आवृता ॥५३॥
vaiśvadevī hi ucyase kṛtyā kūlbajam āvṛtā ..53..

ओषन्ती समोषन्ती ब्रह्मणो वज्रः ॥५४॥
ओषन्ती समोषन्ती ब्रह्मणः वज्रः ॥५४॥
oṣantī samoṣantī brahmaṇaḥ vajraḥ ..54..

क्षुरपविर्मृत्युर्भूत्वा वि धाव त्वम् ॥५५॥
क्षुर-पविः मृत्युः भूत्वा वि धाव त्वम् ॥५५॥
kṣura-paviḥ mṛtyuḥ bhūtvā vi dhāva tvam ..55..

आ दत्से जिनतां वर्च इष्टं पूर्तं चाशिषः ॥५६॥
आ दत्से जिनताम् वर्चः इष्टम् पूर्तम् च आशिषः ॥५६॥
ā datse jinatām varcaḥ iṣṭam pūrtam ca āśiṣaḥ ..56..

आदाय जीतं जीताय लोकेऽमुष्मिन् प्र यच्छसि ॥५७॥
आदाय जीतम् जीताय लोके अमुष्मिन् प्र यच्छसि ॥५७॥
ādāya jītam jītāya loke amuṣmin pra yacchasi ..57..

अघ्न्ये पदवीर्भव ब्राह्मणस्याभिशस्त्या ॥५८॥
अघ्न्ये पदवीः भव ब्राह्मणस्य अभिशस्त्या ॥५८॥
aghnye padavīḥ bhava brāhmaṇasya abhiśastyā ..58..

मेनिः शरव्या भवाघादघविषा भव ॥५९॥
मेनिः शरव्या भव अघात् अघ-विषा भव ॥५९॥
meniḥ śaravyā bhava aghāt agha-viṣā bhava ..59..

अघ्न्ये प्र शिरो जहि ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६०॥
अघ्न्ये प्र शिरः जहि ब्रह्मज्यस्य कृत-आगसः देव-पीयोः अराधसः ॥६०॥
aghnye pra śiraḥ jahi brahmajyasya kṛta-āgasaḥ deva-pīyoḥ arādhasaḥ ..60..

त्वया प्रमूर्णं मृदितमग्निर्दहतु दुश्चितम् ॥६१॥ {२९}
त्वया प्रमूर्णम् मृदितम् अग्निः दहतु दुश्चितम् ॥६१॥
tvayā pramūrṇam mṛditam agniḥ dahatu duścitam ..61..

वृश्च प्र वृश्च सं वृश्च दह प्र दह सं दह ॥६२॥
वृश्च प्र वृश्च सम् वृश्च दह प्र दह सम् दह ॥६२॥
vṛśca pra vṛśca sam vṛśca daha pra daha sam daha ..62..

ब्रह्मज्यं देव्यघ्न्य आ मूलादनुसंदह ॥६३॥
ब्रह्मज्यम् देवि-अघ्न्ये आ मूलात् अनुसंदह ॥६३॥
brahmajyam devi-aghnye ā mūlāt anusaṃdaha ..63..

यथायाद्यमसादनात्पापलोकान् परावतः ॥६४॥
यथा यात् यम-सादनात् पाप-लोकान् परावतः ॥६४॥
yathā yāt yama-sādanāt pāpa-lokān parāvataḥ ..64..

एवा त्वं देव्यघ्न्ये ब्रह्मज्यस्य कृतागसो देवपीयोरराधसः ॥६५॥
एव त्वम् देवि अघ्न्ये ब्रह्मज्यस्य कृत-आगसः देव-पीयोः अराधसः ॥६५॥
eva tvam devi aghnye brahmajyasya kṛta-āgasaḥ deva-pīyoḥ arādhasaḥ ..65..

वज्रेण शतपर्वणा तीक्ष्णेन क्षुरभृष्टिना ॥६६॥
वज्रेण शत-पर्वणा तीक्ष्णेन क्षुर-भृष्टिना ॥६६॥
vajreṇa śata-parvaṇā tīkṣṇena kṣura-bhṛṣṭinā ..66..

प्र स्कन्धान् प्र शिरो जहि ॥६७॥
प्र स्कन्धान् प्र शिरः जहि ॥६७॥
pra skandhān pra śiraḥ jahi ..67..

लोमान्यस्य सं छिन्धि त्वचमस्य वि वेष्टय ॥६८॥
लोमानि अस्य सम् छिन्द्धि त्वचम् अस्य वि वेष्टय ॥६८॥
lomāni asya sam chinddhi tvacam asya vi veṣṭaya ..68..

मांसान्यस्य शातय स्नावान्यस्य सं वृह ॥६९॥
मांसानि अस्य शातय स्नावानि अस्य सम् वृह ॥६९॥
māṃsāni asya śātaya snāvāni asya sam vṛha ..69..

अस्थीन्यस्य पीडय मज्जानमस्य निर्जहि ॥७०॥
अस्थीनि अस्य पीडय मज्जानम् अस्य निर्जहि ॥७०॥
asthīni asya pīḍaya majjānam asya nirjahi ..70..

सर्वास्याङ्गा पर्वाणि वि श्रथय ॥७१॥
सर्वा अस्य अङ्गा पर्वाणि वि श्रथय ॥७१॥
sarvā asya aṅgā parvāṇi vi śrathaya ..71..

अग्निरेनं क्रव्यात्पृथिव्या नुदतामुदोषतु वायुरन्तरिक्षान् महतो वरिम्णः ॥७२॥
अग्निः एनम् क्रव्याद् पृथिव्याः नुदताम् उदोषतु वायुः अन्तरिक्षात् महतः वरिम्णः ॥७२॥
agniḥ enam kravyād pṛthivyāḥ nudatām udoṣatu vāyuḥ antarikṣāt mahataḥ varimṇaḥ ..72..

सूर्य एनं दिवः प्र णुदतां न्योषतु ॥७३॥ {३०}
सूर्यः एनम् दिवः प्र नुदताम् न्योषतु ॥७३॥
sūryaḥ enam divaḥ pra nudatām nyoṣatu ..73..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In