| |
|

This overlay will guide you through the buttons:

उदस्य केतवो दिवि शुक्रा भ्राजन्त ईरते ।आदित्यस्य नृचक्षसो महिव्रतस्य मीढुषः ॥१॥
उदस्य केतवः दिवि शुक्राः भ्राजन्तः ईरते ।आदित्यस्य नृ-चक्षसः महि-व्रतस्य मीढुषः ॥१॥
udasya ketavaḥ divi śukrāḥ bhrājantaḥ īrate .ādityasya nṛ-cakṣasaḥ mahi-vratasya mīḍhuṣaḥ ..1..

दिशां प्रज्ञानां स्वरयन्तमर्चिषा सुपक्षमाशुं पतयन्तमर्णवे ।स्तवाम सूर्यं भुवनस्य गोपां यो रश्मिभिर्दिश आभाति सर्वाः ॥२॥
दिशाम् प्रज्ञानाम् स्वरयन्तम् अर्चिषा सु पक्षम् आशुम् पतयन्तम् अर्णवे ।स्तवाम सूर्यम् भुवनस्य गोपाम् यः रश्मिभिः दिशः आभाति सर्वाः ॥२॥
diśām prajñānām svarayantam arciṣā su pakṣam āśum patayantam arṇave .stavāma sūryam bhuvanasya gopām yaḥ raśmibhiḥ diśaḥ ābhāti sarvāḥ ..2..

यत्प्राङ्प्रत्यङ्स्वधया यासि शीभं नानारूपे अहनी कर्षि मायया ।तदादित्य महि तत्ते महि श्रवो यदेको विश्वं परि भूम जायसे ॥३॥
यत् प्राङ् प्रत्यङ् स्वधया यासि शीभम् नानारूपे अहनी कर्षि मायया ।तत् आदित्य महि तत् ते महि श्रवः यत् एकः विश्वम् परि भूम जायसे ॥३॥
yat prāṅ pratyaṅ svadhayā yāsi śībham nānārūpe ahanī karṣi māyayā .tat āditya mahi tat te mahi śravaḥ yat ekaḥ viśvam pari bhūma jāyase ..3..

विपश्चितं तरणिं भ्राजमानं वहन्ति यं हरितः सप्त बह्वीः ।स्रुताद्यमत्त्रिर्दिवमुन्निनाय तं त्वा पश्यन्ति परियान्तमाजिम् ॥४॥
विपश्चितम् तरणिम् भ्राजमानम् वहन्ति यम् हरितः सप्त बह्वीः ।स्रुतात् यमत् त्रिस् दिवम् उन्निनाय तम् त्वा पश्यन्ति परियान्तम् आजिम् ॥४॥
vipaścitam taraṇim bhrājamānam vahanti yam haritaḥ sapta bahvīḥ .srutāt yamat tris divam unnināya tam tvā paśyanti pariyāntam ājim ..4..

मा त्वा दभन् परियान्तमाजिं स्वस्ति दुर्गामति याहि शीभम् ।दिवं च सूर्य पृथिवीं च देवीमहोरात्रे विमिमानो यदेषि ॥५॥
मा त्वा दभन् परियान्तम् आजिम् स्वस्ति दुर्गाम् अति याहि शीभम् ।दिवम् च सूर्य पृथिवीम् च देवीम् अहोरात्रे विमिमानः यत् एषि ॥५॥
mā tvā dabhan pariyāntam ājim svasti durgām ati yāhi śībham .divam ca sūrya pṛthivīm ca devīm ahorātre vimimānaḥ yat eṣi ..5..

स्वस्ति ते सूर्य चरसे रथाय येनोभावन्तौ परियासि सद्यः ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥६॥
स्वस्ति ते सूर्य चरसे रथाय येन उभौ अन्तौ परियासि सद्यस् ।यम् ते वहन्ति हरितः वहिष्ठाः शतम् अश्वाः यदि वा सप्त बह्वीः ॥६॥
svasti te sūrya carase rathāya yena ubhau antau pariyāsi sadyas .yam te vahanti haritaḥ vahiṣṭhāḥ śatam aśvāḥ yadi vā sapta bahvīḥ ..6..

सुखं सूर्य रथमंशुमन्तं स्योनं सुवह्निमधि तिष्ठ वाजिनम् ।यं ते वहन्ति हरितो वहिष्ठाः शतमश्वा यदि वा सप्त बह्वीः ॥७॥
सुखम् सूर्य रथम् अंशुमन्तम् स्योनम् सु वह्निम् अधि तिष्ठ वाजिनम् ।यम् ते वहन्ति हरितः वहिष्ठाः शतम् अश्वाः यदि वा सप्त बह्वीः ॥७॥
sukham sūrya ratham aṃśumantam syonam su vahnim adhi tiṣṭha vājinam .yam te vahanti haritaḥ vahiṣṭhāḥ śatam aśvāḥ yadi vā sapta bahvīḥ ..7..

सप्त सूर्यो हरितो यातवे रथे हिरण्यत्वचसो बृहतीरयुक्त ।अमोचि शुक्रो रजसः परस्ताद्विधूय देवस्तमो दिवमारुहत्॥८॥
सप्त सूर्यः हरितः यातवे रथे हिरण्य-त्वचसः बृहतीः अयुक्त ।अमोचि शुक्रः रजसः परस्तात् विधूय देवः तमः दिवम् आरुहत्॥८॥
sapta sūryaḥ haritaḥ yātave rathe hiraṇya-tvacasaḥ bṛhatīḥ ayukta .amoci śukraḥ rajasaḥ parastāt vidhūya devaḥ tamaḥ divam āruhat..8..

उत्केतुना बृहता देव आगन्न् अपावृक्तमोऽभि ज्योतिरश्रैत्।दिव्यः सुपर्णः स वीरो व्यख्यददितेः पुत्रो भुवनानि विश्वा ॥९॥
उत्केतुना बृहता देवः आगन् अपावृक्तमः अभि ज्योतिः अश्रैत्।दिव्यः सुपर्णः स वीरः व्यख्यत् अदितेः पुत्रः भुवनानि विश्वा ॥९॥
utketunā bṛhatā devaḥ āgan apāvṛktamaḥ abhi jyotiḥ aśrait.divyaḥ suparṇaḥ sa vīraḥ vyakhyat aditeḥ putraḥ bhuvanāni viśvā ..9..

उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।उभा समुद्रौ क्रतुना वि भासि सर्वांल्लोकान् परिभूर्भ्राजमानः ॥१०॥ {७}
उद्यन् रश्मीन् आ तनुषे विश्वा रुपाणि पुष्यसि ।उभा समुद्रौ क्रतुना वि भासि सर्वान् लोकान् परिभूः भ्राजमानः ॥१०॥
udyan raśmīn ā tanuṣe viśvā rupāṇi puṣyasi .ubhā samudrau kratunā vi bhāsi sarvān lokān paribhūḥ bhrājamānaḥ ..10..

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्टे हैरण्यैरन्यं हरितो वहन्ति ॥११॥
पूर्व-अपरम् चरतः मायया एतौ शिशू क्रीडन्तौ परि यातः अर्णवम् ।विश्वा अन्यः भुवना विचष्टे हैरण्यैः अन्यम् हरितः वहन्ति ॥११॥
pūrva-aparam carataḥ māyayā etau śiśū krīḍantau pari yātaḥ arṇavam .viśvā anyaḥ bhuvanā vicaṣṭe hairaṇyaiḥ anyam haritaḥ vahanti ..11..

दिवि त्वात्त्रिरधारयत्सूर्या मासाय कर्तवे ।स एषि सुधृतस्तपन् विश्वा भूतावचाकशत्॥१२॥
दिवि त्वा अत्रिस् अधारयत् सूर्य मासाय कर्तवे ।सः एषि सु धृतः तपन् विश्वा भूता अवचाकशत्॥१२॥
divi tvā atris adhārayat sūrya māsāya kartave .saḥ eṣi su dhṛtaḥ tapan viśvā bhūtā avacākaśat..12..

उभावन्तौ समर्षसि वत्सः संमातराविव ।नन्वेतदितः पुरा ब्रह्म देवा अमी विदुः ॥१३॥
उभौ अन्तौ समर्षसि वत्सः सम् मातरौ इव ।ननु एतत् इतस् पुरा ब्रह्म देवाः अमी विदुः ॥१३॥
ubhau antau samarṣasi vatsaḥ sam mātarau iva .nanu etat itas purā brahma devāḥ amī viduḥ ..13..

यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः ।अध्वास्य विततो महान् पूर्वश्चापरश्च यः ॥१४॥
यत् समुद्रम् अनु श्रितम् तत् सिषासति सूर्यः ।अध्वा अस्य विततः महान् पूर्वः च अपरः च यः ॥१४॥
yat samudram anu śritam tat siṣāsati sūryaḥ .adhvā asya vitataḥ mahān pūrvaḥ ca aparaḥ ca yaḥ ..14..

तं समाप्नोति जूतिभिस्ततो नाप चिकित्सति ।तेनामृतस्य भक्षं देवानां नाव रुन्धते ॥१५॥
तम् समाप्नोति जूतिभिः ततस् न अप चिकित्सति ।तेन अमृतस्य भक्षम् देवानाम् न अव रुन्धते ॥१५॥
tam samāpnoti jūtibhiḥ tatas na apa cikitsati .tena amṛtasya bhakṣam devānām na ava rundhate ..15..

उदु त्यं जातवेदसं देवं वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१६॥
उदु त्यम् जातवेदसम् देवम् वहन्ति केतवः ।दृशे विश्वाय सूर्यम् ॥१६॥
udu tyam jātavedasam devam vahanti ketavaḥ .dṛśe viśvāya sūryam ..16..

अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।सूराय विश्वचक्षसे ॥१७॥
अप त्ये तायवः यथा नक्षत्राः यन्ति अक्तुभिः ।सूराय विश्व-चक्षसे ॥१७॥
apa tye tāyavaḥ yathā nakṣatrāḥ yanti aktubhiḥ .sūrāya viśva-cakṣase ..17..

अदृश्रन्न् अस्य केतवो वि रश्मयो जनामनु ।भ्राजन्तो अग्नयो यथा ॥१८॥
अदृश्रन् अस्य केतवः वि रश्मयः जनाम् अनु ।भ्राजन्तः अग्नयः यथा ॥१८॥
adṛśran asya ketavaḥ vi raśmayaḥ janām anu .bhrājantaḥ agnayaḥ yathā ..18..

तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।विश्वमा भासि रोचन ॥१९॥
तरणिः विश्व-दर्शतः ज्योतिष्कृत् असि सूर्य ।विश्वमा भासि रोचन ॥१९॥
taraṇiḥ viśva-darśataḥ jyotiṣkṛt asi sūrya .viśvamā bhāsi rocana ..19..

प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषीः ।प्रत्यङ्विश्वं स्वर्दृशे ॥२०॥ {८}
प्रत्यङ् देवानाम् विशः प्रत्यङ् उदेषि मानुषीः ।प्रत्यङ् विश्वम् स्वर् दृशे ॥२०॥
pratyaṅ devānām viśaḥ pratyaṅ udeṣi mānuṣīḥ .pratyaṅ viśvam svar dṛśe ..20..

येना पावक चक्षसा भुरण्यन्तं जनामनु ।त्वं वरुण पश्यसि ॥२१॥
येन पावक चक्षसा भुरण्यन्तम् जनाम् अनु ।त्वम् वरुण पश्यसि ॥२१॥
yena pāvaka cakṣasā bhuraṇyantam janām anu .tvam varuṇa paśyasi ..21..

वि द्यामेषि रजस्पृथ्वहर्मिमानो अक्तुभिः ।पश्यन् जन्मानि सूर्य ॥२२॥
वि द्याम इषि रजस्पृथु अहर् मिमानः अक्तुभिः ।पश्यन् जन्मानि सूर्य ॥२२॥
vi dyāma iṣi rajaspṛthu ahar mimānaḥ aktubhiḥ .paśyan janmāni sūrya ..22..

सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।शोचिष्केशं विचक्षणम् ॥२३॥
सप्त त्वा हरितः रथे वहन्ति देव सूर्य ।शोचिष्केशम् विचक्षणम् ॥२३॥
sapta tvā haritaḥ rathe vahanti deva sūrya .śociṣkeśam vicakṣaṇam ..23..

अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।ताभिर्याति स्वयुक्तिभिः ॥२४॥
अयुक्त सप्त शुन्ध्युवः सूरः रथस्य नप्त्यः ।ताभिः याति स्व-युक्तिभिः ॥२४॥
ayukta sapta śundhyuvaḥ sūraḥ rathasya naptyaḥ .tābhiḥ yāti sva-yuktibhiḥ ..24..

रोहितो दिवमारुहत्तपसा तपस्वी ।स योनिमैति स उ जायते पुनः स देवानामधिपतिर्बभूव ॥२५॥
रोहितः दिवम् आरुहत् तपसा तपस्वी ।स योनिम् ऐति सः उ जायते पुनर् स देवानाम् अधिपतिः बभूव ॥२५॥
rohitaḥ divam āruhat tapasā tapasvī .sa yonim aiti saḥ u jāyate punar sa devānām adhipatiḥ babhūva ..25..

यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः ।सं बाहुभ्यां भरति सं पतत्रैर्द्यावापृथिवी जनयन् देव एकः ॥२६॥
यः विश्वचर्षणिः उत विश्वतोमुखः यः विश्वतस्पाणिः उत विश्वतस्पृथः ।सम् बाहुभ्याम् भरति सम् पतत्रैः द्यावापृथिवी जनयन् देवः एकः ॥२६॥
yaḥ viśvacarṣaṇiḥ uta viśvatomukhaḥ yaḥ viśvataspāṇiḥ uta viśvataspṛthaḥ .sam bāhubhyām bharati sam patatraiḥ dyāvāpṛthivī janayan devaḥ ekaḥ ..26..

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।द्विपाद्ध षट्पदो भूयो वि चक्रमे त एकपदस्तन्वं समासते ॥२७॥
एकपाद् द्विपदः भूयस् वि चक्रमे द्विपाद् त्रिपादम् अभ्येति पश्चात्।द्विपाद् ह षष्-पदः भूयस् वि चक्रमे ते एक-पदः तन्वम् समासते ॥२७॥
ekapād dvipadaḥ bhūyas vi cakrame dvipād tripādam abhyeti paścāt.dvipād ha ṣaṣ-padaḥ bhūyas vi cakrame te eka-padaḥ tanvam samāsate ..27..

अतन्द्रो यास्यन् हरितो यदास्थाद्द्वे रूपे कृणुते रोचमानः ।केतुमान् उद्यन्त्सहमानो रजांसि विश्वा आदित्य प्रवतो वि भासि ॥२८॥
अतन्द्रः यास्यन् हरितः यत् आस्थात् द्वे रूपे कृणुते रोचमानः ।केतुमान् उद्यन् सहमानः रजांसि विश्वा आदित्य प्रवतः वि भासि ॥२८॥
atandraḥ yāsyan haritaḥ yat āsthāt dve rūpe kṛṇute rocamānaḥ .ketumān udyan sahamānaḥ rajāṃsi viśvā āditya pravataḥ vi bhāsi ..28..

बण्महामसि सूर्य बडादित्य महामसि ।महांस्ते महतो महिमा त्वमादित्य महामसि ॥२९॥
बट् महामसि सूर्य बट् आदित्य महामसि ।महान् ते महतः महिमा त्वम् आदित्य महाम् असि ॥२९॥
baṭ mahāmasi sūrya baṭ āditya mahāmasi .mahān te mahataḥ mahimā tvam āditya mahām asi ..29..

रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्यां रोचसे रोचसे अप्स्वन्तः ।उभा समुद्रौ रुच्या व्यापिथ देवो देवासि महिषः स्वर्जित्॥३०॥ {९}
रोचसे दिवि रोचसे अन्तरिक्षे पतङ्ग पृथिव्याम् रोचसे रोचसे अप्सु अन्तर् ।उभा समुद्रौ रुच्या व्यापिथ देवः देव असि महिषः स्वर्-जित्॥३०॥
rocase divi rocase antarikṣe pataṅga pṛthivyām rocase rocase apsu antar .ubhā samudrau rucyā vyāpitha devaḥ deva asi mahiṣaḥ svar-jit..30..

अर्वाङ्परस्तात्प्रयतो व्यध्व आशुर्विपश्चित्पतयन् पतङ्गः ।विष्णुर्विचित्तः शवसाधितिष्ठन् प्र केतुना सहते विश्वमेजत्॥३१॥
अर्वाङ् परस्तात् प्रयतः व्यध्वे आशुः विपश्चित् पतयन् पतङ्गः ।विष्णुः विचित्तः शवसा अधितिष्ठन् प्र केतुना सहते विश्वम् एजत्॥३१॥
arvāṅ parastāt prayataḥ vyadhve āśuḥ vipaścit patayan pataṅgaḥ .viṣṇuḥ vicittaḥ śavasā adhitiṣṭhan pra ketunā sahate viśvam ejat..31..

चित्राश्चिकित्वान् महिषः सुपर्ण आरोचयन् रोदसी अन्तरिक्षम् ।अहोरात्रे परि सूर्यं वसाने प्रास्य विश्वा तिरतो वीर्याणि ॥३२॥
चित्राः चिकित्वान् महिषः सुपर्णः आरोचयन् रोदसी अन्तरिक्षम् ।अहोरात्रे परि सूर्यम् वसाने प्र अस्य विश्वा तिरतः वीर्याणि ॥३२॥
citrāḥ cikitvān mahiṣaḥ suparṇaḥ ārocayan rodasī antarikṣam .ahorātre pari sūryam vasāne pra asya viśvā tirataḥ vīryāṇi ..32..

तिग्मो विभ्राजन् तन्वं शिशानोऽरंगमासः प्रवतो रराणः ।ज्योतिष्मान् पक्षी महिषो वयोधा विश्वा आस्थात्प्रदिशः कल्पमानः ॥३३॥
तिग्मः विभ्राजन् तन्वम् शिशानः अरंगमासः प्रवतः रराणः ।ज्योतिष्मान् पक्षी महिषः वयोधाः विश्वाः आस्थात् प्रदिशः कल्पमानः ॥३३॥
tigmaḥ vibhrājan tanvam śiśānaḥ araṃgamāsaḥ pravataḥ rarāṇaḥ .jyotiṣmān pakṣī mahiṣaḥ vayodhāḥ viśvāḥ āsthāt pradiśaḥ kalpamānaḥ ..33..

चित्रं देवानां केतुरनीकं ज्योतिष्मान् प्रदिशः सूर्य उद्यन् ।दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥३४॥
चित्रम् देवानाम् केतुः अनीकम् ज्योतिष्मान् प्रदिशः सूर्यः उद्यन् ।दिवाकरः अति द्युम्नैः तमांसि विश्वा अतारीत् दुरितानि शुक्रः ॥३४॥
citram devānām ketuḥ anīkam jyotiṣmān pradiśaḥ sūryaḥ udyan .divākaraḥ ati dyumnaiḥ tamāṃsi viśvā atārīt duritāni śukraḥ ..34..

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।आप्राद्द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥३५॥
चित्रम् देवानाम् उदगात् अनीकम् चक्षुः मित्रस्य वरुणस्य अग्नेः ।आप्रात् द्यावापृथिवी अन्तरिक्षम् सूर्यः आत्मा जगतः तस्थुषः च ॥३५॥
citram devānām udagāt anīkam cakṣuḥ mitrasya varuṇasya agneḥ .āprāt dyāvāpṛthivī antarikṣam sūryaḥ ātmā jagataḥ tasthuṣaḥ ca ..35..

उच्चा पतन्तमरुणं सुपर्णं मध्ये दिवस्तरणिं भ्राजमानम् ।पश्यम त्वा सवितारं यमाहुरजस्रं ज्योतिर्यदविन्ददत्त्रिः ॥३६॥
उच्चा पतन्तम् अरुणम् सुपर्णम् मध्ये दिवः तरणिम् भ्राजमानम् ।पश्यम त्वा सवितारम् यम् आहुः अजस्रम् ज्योतिः यत् अविन्दत् अत्त्रिः ॥३६॥
uccā patantam aruṇam suparṇam madhye divaḥ taraṇim bhrājamānam .paśyama tvā savitāram yam āhuḥ ajasram jyotiḥ yat avindat attriḥ ..36..

दिवस्पृष्ठे धावमानं सुपर्णमदित्याः पुत्रं नाथकाम उप यामि भीतः ।स नः सूर्य प्र तिर दीर्घमायुर्मा रिषाम सुमतौ ते स्याम ॥३७॥
दिव-स्पृष्ठे धावमानम् सुपर्णम् अदित्याः पुत्रम् नाथ-कामः उप यामि भीतः ।स नः सूर्य प्र तिर दीर्घम् आयुः मा रिषाम सुमतौ ते स्याम ॥३७॥
diva-spṛṣṭhe dhāvamānam suparṇam adityāḥ putram nātha-kāmaḥ upa yāmi bhītaḥ .sa naḥ sūrya pra tira dīrgham āyuḥ mā riṣāma sumatau te syāma ..37..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥
सहस्राह्ण्यम् वियतौ अस्य पक्षौ हरेः हंसस्य पततः स्वर्गम् ।स देवान् सर्वान् उरसि उपदद्य संपश्यन् याति भुवनानि विश्वा ॥३८॥
sahasrāhṇyam viyatau asya pakṣau hareḥ haṃsasya patataḥ svargam .sa devān sarvān urasi upadadya saṃpaśyan yāti bhuvanāni viśvā ..38..

रोहितः कालो अभवद्रोहितोऽग्रे प्रजापतिः ।रोहितो यज्ञानां मुखं रोहितः स्वराभरत्॥३९॥
रोहितः कालः अभवत् रोहितः अग्रे प्रजापतिः ।रोहितः यज्ञानाम् मुखम् रोहितः स्वर् आभरत्॥३९॥
rohitaḥ kālaḥ abhavat rohitaḥ agre prajāpatiḥ .rohitaḥ yajñānām mukham rohitaḥ svar ābharat..39..

रोहितो लोको अभवद्रोहितोऽत्यतपद्दिवम् ।रोहितो रश्मिभिर्भूमिं समुद्रमनु सं चरत्॥४०॥ {१०}
रोहितः लोकः अभवत् रोहितः अत्यतपत् दिवम् ।रोहितः रश्मिभिः भूमिम् समुद्रम् अनु सम् चरत्॥४०॥
rohitaḥ lokaḥ abhavat rohitaḥ atyatapat divam .rohitaḥ raśmibhiḥ bhūmim samudram anu sam carat..40..

सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः ।दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥४१॥
सर्वाः दिशः समचरत् रोहितः अधिपतिः दिवः ।दिवम् समुद्रम् आत् भूमिम् सर्वम् भूतम् वि रक्षति ॥४१॥
sarvāḥ diśaḥ samacarat rohitaḥ adhipatiḥ divaḥ .divam samudram āt bhūmim sarvam bhūtam vi rakṣati ..41..

आरोहन् छुक्रो बृहतीरतन्द्रो द्वे रूपे कृणुते रोचमानः ।चित्रश्चिकित्वान् महिषो वातमाया यावतो लोकान् अभि यद्विभाति ॥४२॥
आरोहन् शुक्रः बृहतीः अतन्द्रः द्वे रूपे कृणुते रोचमानः ।चित्रः चिकित्वान् महिषः वात-मायाः यावतः लोकान् अभि यत् विभाति ॥४२॥
ārohan śukraḥ bṛhatīḥ atandraḥ dve rūpe kṛṇute rocamānaḥ .citraḥ cikitvān mahiṣaḥ vāta-māyāḥ yāvataḥ lokān abhi yat vibhāti ..42..

अभ्यन्यदेति पर्यन्यदस्यतेऽहोरात्राभ्यां महिषः कल्पमानः ।सूर्यं वयं रजसि क्षियन्तं गातुविदं हवामहे नाधमानाः ॥४३॥
अभ्यन्यत् एति पर्यन्यत् अस्यते अहर्-रात्राभ्याम् महिषः कल्पमानः ।सूर्यम् वयम् रजसि क्षियन्तम् गातु-विदम् हवामहे नाधमानाः ॥४३॥
abhyanyat eti paryanyat asyate ahar-rātrābhyām mahiṣaḥ kalpamānaḥ .sūryam vayam rajasi kṣiyantam gātu-vidam havāmahe nādhamānāḥ ..43..

पृथिवीप्रो महिषो नाधमानस्य गातुरदब्धचक्षुः परि विश्वं बभूव ।विश्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४४॥
पृथिवीप्रः महिषः नाधमानस्य गातुः अदब्ध-चक्षुः परि विश्वम् बभूव ।विश्वम् संपश्यन् सुविदत्रः यजत्रः इदम् शृणोतु यत् अहम् ब्रवीमि ॥४४॥
pṛthivīpraḥ mahiṣaḥ nādhamānasya gātuḥ adabdha-cakṣuḥ pari viśvam babhūva .viśvam saṃpaśyan suvidatraḥ yajatraḥ idam śṛṇotu yat aham bravīmi ..44..

पर्यस्य महिमा पृथिवीं समुद्रं ज्योतिषा विभ्राजन् परि द्यामन्तरिक्षम् ।सर्वं संपश्यन्त्सुविदत्रो यजत्र इदं शृणोतु यदहं ब्रवीमि ॥४५॥
पर्यस्य महिमा पृथिवीम् समुद्रम् ज्योतिषा विभ्राजन् परि द्याम् अन्तरिक्षम् ।सर्वम् संपश्यन् सुविदत्रः यजत्रः इदम् शृणोतु यत् अहम् ब्रवीमि ॥४५॥
paryasya mahimā pṛthivīm samudram jyotiṣā vibhrājan pari dyām antarikṣam .sarvam saṃpaśyan suvidatraḥ yajatraḥ idam śṛṇotu yat aham bravīmi ..45..

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासम् ।यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सिस्रते नाकमच्छ ॥४६॥ {११}
अबोधि अग्निः समिधा जनानाम् प्रति धेनुम् इव आयतीम् उषासम् ।यह्वाः इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥४६॥
abodhi agniḥ samidhā janānām prati dhenum iva āyatīm uṣāsam .yahvāḥ iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam accha ..46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In