| |
|

This overlay will guide you through the buttons:

य इमे द्यावापृथिवी जजान यो द्रापिं कृत्वा भुवनानि वस्ते ।यस्मिन् क्षियन्ति प्रदिशः षडुर्वीर्याः पतङ्गो अनु विचाकशीति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ॥ १ ॥
यः इमे द्यावापृथिवी जजान यः द्रापिम् कृत्वा भुवनानि वस्ते ।यस्मिन् क्षियन्ति प्रदिशः षष् उर्वीर्याः पतङ्गः अनु विचाकशीति ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ॥ १ ॥
yaḥ ime dyāvāpṛthivī jajāna yaḥ drāpim kṛtvā bhuvanāni vaste .yasmin kṣiyanti pradiśaḥ ṣaṣ urvīryāḥ pataṅgaḥ anu vicākaśīti .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .. 1 ..

यस्माद्वाता ऋतुथा पवन्ते यस्मात्समुद्रा अधि विक्षरन्ति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥
यस्मात् वाताः ऋतुथा पवन्ते यस्मात् समुद्राः अधि विक्षरन्ति ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२॥
yasmāt vātāḥ ṛtuthā pavante yasmāt samudrāḥ adhi vikṣaranti .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..2..

यो मारयति प्राणयति यस्मात्प्राणन्ति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥
यः मारयति प्राणयति यस्मात् प्राणन्ति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥३॥
yaḥ mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..3..

यः प्राणेन द्यावापृथिवी तर्पयत्यपानेन समुद्रस्य जठरं यः पिपर्ति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥
यः प्राणेन द्यावापृथिवी तर्पयति अपानेन समुद्रस्य जठरम् यः पिपर्ति ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥४॥
yaḥ prāṇena dyāvāpṛthivī tarpayati apānena samudrasya jaṭharam yaḥ piparti .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..4..

यस्मिन् विराट्परमेष्ठी प्रजापतिरग्निर्वैश्वानरः सह पङ्क्त्या श्रितः ।यः परस्य प्राणं परमस्य तेज आददे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥५॥
यस्मिन् विराज् परमेष्ठी प्रजापतिः अग्निः वैश्वानरः सह पङ्क्त्या श्रितः ।यः परस्य प्राणम् परमस्य तेजः आददे ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥५॥
yasmin virāj parameṣṭhī prajāpatiḥ agniḥ vaiśvānaraḥ saha paṅktyā śritaḥ .yaḥ parasya prāṇam paramasya tejaḥ ādade .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..5..

यस्मिन् षडुर्वीः पञ्च दिशो अधिश्रिताश्चतस्र आपो यज्ञस्य त्रयोऽक्षराः ।यो अन्तरा रोदसी क्रुद्धश्चक्षुषैक्षत ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥६॥
यस्मिन् षड् उर्वीः पञ्च दिशः अधिश्रिताः चतस्रः आपः यज्ञस्य त्रयः अक्षराः ।यः अन्तरा रोदसी क्रुद्धः चक्षुषा ऐक्षत ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥६॥
yasmin ṣaḍ urvīḥ pañca diśaḥ adhiśritāḥ catasraḥ āpaḥ yajñasya trayaḥ akṣarāḥ .yaḥ antarā rodasī kruddhaḥ cakṣuṣā aikṣata .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..6..

यो अन्नादो अन्नपतिर्बभूव ब्रह्मणस्पतिरुत यः ।भूतो भविष्यत्भुवनस्य यस्पतिः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥७॥
यः अन्न-आदः अन्न-पतिः बभूव ब्रह्मणस्पतिः उत यः ।भूतः भविष्यत्-भुवनस्य यस्पतिः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥७॥
yaḥ anna-ādaḥ anna-patiḥ babhūva brahmaṇaspatiḥ uta yaḥ .bhūtaḥ bhaviṣyat-bhuvanasya yaspatiḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..7..

अहोरात्रैर्विमितं त्रिंशदङ्गं त्रयोदशं मासं यो निर्मिमीते ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥
अहोरात्रैः विमितम् त्रिंशत्-अङ्गम् त्रयोदशम् मासम् यः निर्मिमीते ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥८॥
ahorātraiḥ vimitam triṃśat-aṅgam trayodaśam māsam yaḥ nirmimīte .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..8..

कृस्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।त आववृत्रन्त्सदनादृतस्य ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥९॥
कृस्णम् नियानम् हरयः सुपर्णाः अपः वसानाः दिवम् उत्पतन्ति ।ते आववृत्रन् सदन-आदृतस्य ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥९॥
kṛsṇam niyānam harayaḥ suparṇāḥ apaḥ vasānāḥ divam utpatanti .te āvavṛtran sadana-ādṛtasya .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..9..

यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु यस्मिन्त्सूर्या आर्पिताः सप्त साकम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥ {१२}
यत् ते चन्द्रम् कश्यप रोचनावत् यत् संहितम् पुष्कलम् चित्र-भानु यस्मिन् सूर्याः आर्पिताः सप्त साकम् ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥१०॥
yat te candram kaśyapa rocanāvat yat saṃhitam puṣkalam citra-bhānu yasmin sūryāḥ ārpitāḥ sapta sākam .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..10..

बृहदेनमनु वस्ते पुरस्ताद्रथंतरं प्रति गृह्णाति पश्चात्।ज्योतिर्वसाने सदमप्रमादम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥११॥
बृहत् एनम् अनु वस्ते पुरस्तात् रथंतरम् प्रति गृह्णाति पश्चात्।ज्योतिः वसाने सदम् अप्रमादम् ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥११॥
bṛhat enam anu vaste purastāt rathaṃtaram prati gṛhṇāti paścāt.jyotiḥ vasāne sadam apramādam .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..11..

बृहदन्यतः पक्ष आसीद्रथंतरमन्यतः सबले सध्रीची ।यद्रोहितमजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१२॥
बृहत् अन्यतस् पक्षः आसीत् रथंतरम् अन्यतस् सबले सध्रीची ।यत् रोहितम् अजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१२॥
bṛhat anyatas pakṣaḥ āsīt rathaṃtaram anyatas sabale sadhrīcī .yat rohitam ajanayanta devāḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..12..

स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन् ।स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम् ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१३॥
स वरुणः सायम् अग्निः भवति स मित्रः भवति प्रातर् उद्यन् ।स सविता भूत्वा अन्तरिक्षेण याति सः इन्द्रः भूत्वा तपति मध्यतस् दिवम् ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१३॥
sa varuṇaḥ sāyam agniḥ bhavati sa mitraḥ bhavati prātar udyan .sa savitā bhūtvā antarikṣeṇa yāti saḥ indraḥ bhūtvā tapati madhyatas divam .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..13..

सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१४॥
सहस्राह्ण्यम् वियतौ अस्य पक्षौ हरेः हंसस्य पततः स्वर्गम् ।स देवान् सर्वान् उरसि उपदद्य संपश्यन् याति भुवनानि विश्वा ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१४॥
sahasrāhṇyam viyatau asya pakṣau hareḥ haṃsasya patataḥ svargam .sa devān sarvān urasi upadadya saṃpaśyan yāti bhuvanāni viśvā .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..14..

अयं स देवो अप्स्वन्तः सहस्रमूलः परुशाको अत्त्रिः ।य इदं विश्वं भुवनं जजान ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१५॥
अयम् स देवः अप्स्वन्तर् सहस्र-मूलः परु-शाकः अत्त्रिः ।यः इदम् विश्वम् भुवनम् जजान ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१५॥
ayam sa devaḥ apsvantar sahasra-mūlaḥ paru-śākaḥ attriḥ .yaḥ idam viśvam bhuvanam jajāna .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..15..

शुक्रं वहन्ति हरयो रघुष्यदो देवं दिवि वर्चसा भ्राजमानम् ।यस्योर्ध्वा दिवं तन्वस्तपन्त्यर्वाङ्सुवर्णैः पटरैर्वि भाति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१६॥
शुक्रम् वहन्ति हरयः रघुष्यदः देवम् दिवि वर्चसा भ्राजमानम् ।यस्य ऊर्ध्वाः दिवम् तन्वः तपन्ति अर्वाङ् सुवर्णैः पटरैः वि भाति ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१६॥
śukram vahanti harayaḥ raghuṣyadaḥ devam divi varcasā bhrājamānam .yasya ūrdhvāḥ divam tanvaḥ tapanti arvāṅ suvarṇaiḥ paṭaraiḥ vi bhāti .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..16..

येनादित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः ।यदेकं ज्योतिर्बहुधा विभाति ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१७॥
येन आदित्यान् हरितः सम्वहन्ति येन यज्ञेन बहवः यन्ति प्रजानन्तः ।यत् एकम् ज्योतिः बहुधा विभाति ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१७॥
yena ādityān haritaḥ samvahanti yena yajñena bahavaḥ yanti prajānantaḥ .yat ekam jyotiḥ bahudhā vibhāti .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..17..

सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१८॥
सप्त युञ्जन्ति रथम् एक-चक्रम् एकः अश्वः वहति सप्त-नामा ।त्रि-नाभि चक्रम् अजरम् अनर्वम् यत्र इमा विश्वा भुवना अधि तस्थुः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१८॥
sapta yuñjanti ratham eka-cakram ekaḥ aśvaḥ vahati sapta-nāmā .tri-nābhi cakram ajaram anarvam yatra imā viśvā bhuvanā adhi tasthuḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..18..

अष्टधा युक्तो वहति वह्निरुग्रः पिता देवानां जनिता मतीनाम् ।ऋतस्य तन्तुं मनसा मिमानः सर्वा दिशः पवते मातरिश्वा ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥१९॥
अष्टधा युक्तः वहति वह्निः उग्रः पिता देवानाम् जनिता मतीनाम् ।ऋतस्य तन्तुम् मनसा मिमानः सर्वाः दिशः पवते मातरिश्वा ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥१९॥
aṣṭadhā yuktaḥ vahati vahniḥ ugraḥ pitā devānām janitā matīnām .ṛtasya tantum manasā mimānaḥ sarvāḥ diśaḥ pavate mātariśvā .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..19..

संयञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥ {१३}
संयञ्चम् तन्तुम् प्रदिशः अनु सर्वाः अन्तर् गायत्र्याम् अमृतस्य गर्भे ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२०॥
saṃyañcam tantum pradiśaḥ anu sarvāḥ antar gāyatryām amṛtasya garbhe .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..20..

निम्रुचस्तिस्रो व्युषो ह तिस्रस्त्रीणि रजांसि दिवो अङ्ग तिस्रः ।विद्मा ते अग्ने त्रेधा जनित्रं त्रेधा देवानां जनिमानि विद्म ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२१॥
निम्रुचः तिस्रः व्युषः ह तिस्रः त्रीणि रजांसि दिवः अङ्ग तिस्रः ।विद्म ते अग्ने त्रेधा जनित्रम् त्रेधा देवानाम् जनिमानि विद्म ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥२१॥
nimrucaḥ tisraḥ vyuṣaḥ ha tisraḥ trīṇi rajāṃsi divaḥ aṅga tisraḥ .vidma te agne tredhā janitram tredhā devānām janimāni vidma .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..21..

वि य और्णोत्पृथिवीं जायमान आ समुद्रमदधातन्तरिक्षे ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥
वि यः और्णोत् पृथिवीम् जायमानः आ समुद्रम् अदधात् अन्तरिक्षे ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति ।उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥२२॥
vi yaḥ aurṇot pṛthivīm jāyamānaḥ ā samudram adadhāt antarikṣe .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti .udvepaya rohita pra kṣiṇīhi brahmajyasya prati muñca pāśān ..22..

त्वमग्ने क्रतुभिः केतुभिर्हितोऽर्कः समिद्ध उदरोचथा दिवि ।किमभ्यार्चन् मरुतः पृश्निमातरो यद्रोहितमजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२३॥
त्वम् अग्ने क्रतुभिः केतुभिः हितः अर्कः समिद्धः उदरोचथाः दिवि ।किम् अभ्यार्चन् मरुतः पृश्नि-मातरः यत् रोहितम् अजनयन्त देवाः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥२३॥
tvam agne kratubhiḥ ketubhiḥ hitaḥ arkaḥ samiddhaḥ udarocathāḥ divi .kim abhyārcan marutaḥ pṛśni-mātaraḥ yat rohitam ajanayanta devāḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..23..

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।योऽस्येशे द्विपदो यश्चतुष्पदः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२४॥
यः आत्म-दाः बल-दाः यस्य विश्वे उपासते प्रशिषम् यस्य देवाः ।यः अस्य ईशे द्विपदः यः चतुष्पदः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥२४॥
yaḥ ātma-dāḥ bala-dāḥ yasya viśve upāsate praśiṣam yasya devāḥ .yaḥ asya īśe dvipadaḥ yaḥ catuṣpadaḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..24..

एकपाद्द्विपदो भूयो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात्।चतुष्पाच्चक्रे द्विपदामभिस्वरे संपश्यन् पङ्क्तिमुपतिष्ठमानः ।तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति । ॥२५॥
एकपाद् द्विपदः भूयस् वि चक्रमे द्विपाद् त्रिपादम् अभ्येति पश्चात्।चतुष्पाद् चक्रे द्विपदाम् अभिस्वरे संपश्यन् पङ्क्तिम् उपतिष्ठमानः ।तस्य देवस्य क्रुद्धस्य एतत् आगः यः एवम् विद्वांसम् ब्राह्मणम् जिनाति । ॥२५॥
ekapād dvipadaḥ bhūyas vi cakrame dvipād tripādam abhyeti paścāt.catuṣpād cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ .tasya devasya kruddhasya etat āgaḥ yaḥ evam vidvāṃsam brāhmaṇam jināti . ..25..

कृष्णायः पुत्रो अर्जुनो रात्र्या वत्सोऽजायत ।स ह द्यामधि रोहति रुहो रुरोह रोहितः ॥२६॥ {१४}
कृष्णायः पुत्रः अर्जुनः रात्र्याः वत्सः अजायत ।स ह द्याम् अधि रोहति रुहः रुरोह रोहितः ॥२६॥
kṛṣṇāyaḥ putraḥ arjunaḥ rātryāḥ vatsaḥ ajāyata .sa ha dyām adhi rohati ruhaḥ ruroha rohitaḥ ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In