| |
|

This overlay will guide you through the buttons:

सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता द्यौः ।ऋतेनादित्यास्तिष्ठन्ति दिवि सोमो अधि श्रितः ॥१॥
सत्येन उत्तभिता भूमिः सूर्येण उत्तभिता द्यौः ।ऋतेन आदित्याः तिष्ठन्ति दिवि सोमः अधि श्रितः ॥१॥
satyena uttabhitā bhūmiḥ sūryeṇa uttabhitā dyauḥ .ṛtena ādityāḥ tiṣṭhanti divi somaḥ adhi śritaḥ ..1..

सोमेनादित्या बलिनः सोमेन पृथिवी मही ।अथो नक्षत्राणामेषामुपस्थे सोम आहितः ॥२॥
सोमेन आदित्याः बलिनः सोमेन पृथिवी मही ।अथ उ नक्षत्राणाम् एषाम् उपस्थे सोमः आहितः ॥२॥
somena ādityāḥ balinaḥ somena pṛthivī mahī .atha u nakṣatrāṇām eṣām upasthe somaḥ āhitaḥ ..2..

सोमं मन्यते पपिवान् यत्संपिंषन्त्योषधिम् ।सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति पार्थिवः ॥३॥
सोमम् मन्यते पपिवान् यत् संपिंषन्ति ओषधिम् ।सोमम् यम् ब्रह्माणः विदुः न तस्य अश्नाति पार्थिवः ॥३॥
somam manyate papivān yat saṃpiṃṣanti oṣadhim .somam yam brahmāṇaḥ viduḥ na tasya aśnāti pārthivaḥ ..3..

यत्त्वा सोम प्रपिबन्ति तत आ प्यायसे पुनः ।वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥४॥
यत् त्वा सोम प्रपिबन्ति ततस् आ प्यायसे पुनर् ।वायुः सोमस्य रक्षिता समानाम् मासः आकृतिः ॥४॥
yat tvā soma prapibanti tatas ā pyāyase punar .vāyuḥ somasya rakṣitā samānām māsaḥ ākṛtiḥ ..4..

आच्छद्विधानैर्गुपितो बार्हतैः सोम रक्षितः ।ग्राव्णामिच्छृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥
आच्छद्-विधानैः गुपितः बार्हतैः सोम रक्षितः ।ग्राव्णाम् इद् शृण्वन् तिष्ठसि न ते अश्नाति पार्थिवः ॥५॥
ācchad-vidhānaiḥ gupitaḥ bārhataiḥ soma rakṣitaḥ .grāvṇām id śṛṇvan tiṣṭhasi na te aśnāti pārthivaḥ ..5..

चित्तिरा उपबर्हणं चक्षुरा अभ्यञ्जनम् ।द्यौर्भूमिः कोश आसीद्यदयात्सूर्या पतिम् ॥६॥
चित्तिः आः उपबर्हणम् चक्षुः आः अभ्यञ्जनम् ।द्यौः भूमिः कोशः आसीत् यत् अयात् सूर्या पतिम् ॥६॥
cittiḥ āḥ upabarhaṇam cakṣuḥ āḥ abhyañjanam .dyauḥ bhūmiḥ kośaḥ āsīt yat ayāt sūryā patim ..6..

रैभ्यासीदनुदेयी नाराशंसी न्योचनी ।सूर्याया भद्रमिद्वासो गाथयैति परिष्कृता ॥७॥
रैभी आसीत् अनुदेयी नाराशंसी न्योचनी ।सूर्यायाः भद्रम् इद् वासः गाथया एति परिष्कृता ॥७॥
raibhī āsīt anudeyī nārāśaṃsī nyocanī .sūryāyāḥ bhadram id vāsaḥ gāthayā eti pariṣkṛtā ..7..

स्तोमा आसन् प्रतिधयः कुरीरं छन्द ओपशः ।सूर्याया अश्विना वराग्निरासीत्पुरोगवः ॥८॥
स्तोमाः आसन् प्रतिधयः कुरीरम् छन्दः ओपशः ।सूर्यायाः अश्विना वरा अग्निः आसीत् पुरोगवः ॥८॥
stomāḥ āsan pratidhayaḥ kurīram chandaḥ opaśaḥ .sūryāyāḥ aśvinā varā agniḥ āsīt purogavaḥ ..8..

सोमो वधूयुरभवदश्विनास्तामुभा वरा ।सूर्यां यत्पत्ये शंसन्तीं मनसा सविताददात्॥९॥
सोमः वधूयुः अभवत् अश्विना आस्ताम् उभा वरा ।सूर्याम् यत् पत्ये शंसन्तीम् मनसा सविता अददात्॥९॥
somaḥ vadhūyuḥ abhavat aśvinā āstām ubhā varā .sūryām yat patye śaṃsantīm manasā savitā adadāt..9..

मनो अस्या अन आसीद्द्यौरासीदुत च्छदिः ।शुक्रावनड्वाहावास्तां यदयात्सूर्या पतिम् ॥१०॥ {१}
मनः अस्याः अनः आसीत् द्यौः आसीत् उत छदिः ।शुक्रौ अनड्वाहौ आस्ताम् यत् अयात् सूर्या पतिम् ॥१०॥
manaḥ asyāḥ anaḥ āsīt dyauḥ āsīt uta chadiḥ .śukrau anaḍvāhau āstām yat ayāt sūryā patim ..10..

ऋक्सामाभ्यामभिहितौ गावौ ते सामनावैताम् ।श्रोत्रे ते चक्रे आस्तां दिवि पन्थाश्चराचरः ॥११॥
ऋक्-सामाभ्याम् अभिहितौ गावौ ते सामना अवैताम् ।श्रोत्रे ते चक्रे आस्ताम् दिवि पन्थाः चर-अचरः ॥११॥
ṛk-sāmābhyām abhihitau gāvau te sāmanā avaitām .śrotre te cakre āstām divi panthāḥ cara-acaraḥ ..11..

शुची ते चक्रे यात्या व्यानो अक्ष आहतः ।अनो मनस्मयं सूर्यारोहत्प्रयती पतिम् ॥१२॥
शुची ते चक्रे यात्याः व्यानः अक्षः आहतः ।अनः मनस्मयम् सूर्या आरोहत् प्रयती पतिम् ॥१२॥
śucī te cakre yātyāḥ vyānaḥ akṣaḥ āhataḥ .anaḥ manasmayam sūryā ārohat prayatī patim ..12..

सूर्याया वहतुः प्रागात्सविता यमवासृजत्।मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥
सूर्यायाः वहतुः प्रागात् सविता यम् अवासृजत्।मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते ॥१३॥
sūryāyāḥ vahatuḥ prāgāt savitā yam avāsṛjat.maghāsu hanyante gāvaḥ phalgunīṣu vyuhyate ..13..

यदश्विना पृच्छमानावयातं त्रिचक्रेण वहतुं सूर्यायाः ।क्वैकं चक्रं वामासीत्क्व देष्ट्राय तस्थथुः ॥१४॥
यत् अश्विना पृच्छमानौ अयातम् त्रि-चक्रेण वहतुम् सूर्यायाः ।क्व एकम् चक्रम् वाम् आसीत् क्व देष्ट्राय तस्थथुः ॥१४॥
yat aśvinā pṛcchamānau ayātam tri-cakreṇa vahatum sūryāyāḥ .kva ekam cakram vām āsīt kva deṣṭrāya tasthathuḥ ..14..

यदयातं शुभस्पती वरेयं सूर्यामुप ।विश्वे देवा अनु तद्वामजानन् पुत्रः पितरमवृणीत पूषा ॥१५॥
यत् अयातम् शुभस्पती वरेयम् सूर्याम् उप ।विश्वे देवाः अनु तत् वाम् अजानन् पुत्रः पितरम् अवृणीत पूषा ॥१५॥
yat ayātam śubhaspatī vareyam sūryām upa .viśve devāḥ anu tat vām ajānan putraḥ pitaram avṛṇīta pūṣā ..15..

द्वे ते चक्रे सूर्ये ब्रह्माण ऋतुथा विदुः ।अथैकं चक्रं यद्गुहा तदद्धातय इद्विदुः ॥१६॥
द्वे ते चक्रे सूर्ये ब्रह्माणः ऋतुथा विदुः ।अथ एकम् चक्रम् यत् गुहा तत् अद्धातयः इद् विदुः ॥१६॥
dve te cakre sūrye brahmāṇaḥ ṛtuthā viduḥ .atha ekam cakram yat guhā tat addhātayaḥ id viduḥ ..16..

अर्यमणं यजामहे सुबन्धुं पतिवेदनम् ।उर्वारुकमिव बन्धनात्प्रेतो मुञ्चामि नामुतः ॥१७॥
अर्यमणम् यजामहे सु बन्धुम् पति-वेदनम् ।उर्वारुकम् इव बन्धनात् प्रेतः मुञ्चामि ना अमुतस् ॥१७॥
aryamaṇam yajāmahe su bandhum pati-vedanam .urvārukam iva bandhanāt pretaḥ muñcāmi nā amutas ..17..

प्रेतो मुञ्चामि नामुतः सुबद्धाममुतस्करम् ।यथेयमिन्द्र मीढ्वः सुपुत्रा सुभगासति ॥१८॥
प्रेतः मुञ्चामि न अमुतस् सु बद्धाम् अमुतस्करम् ।यथा इयम् इन्द्र मीढ्वः सु पुत्रा सुभगा असति ॥१८॥
pretaḥ muñcāmi na amutas su baddhām amutaskaram .yathā iyam indra mīḍhvaḥ su putrā subhagā asati ..18..

प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।ऋतस्य योनौ सुकृतस्य लोके स्योनं ते अस्तु सहसंभलायै ॥१९॥
प्र त्वा मुञ्चामि वरुणस्य पाशात् येन त्वा अबध्नात् सविता सुशेवाः ।ऋतस्य योनौ सुकृतस्य लोके स्योनम् ते अस्तु सह संभलायै ॥१९॥
pra tvā muñcāmi varuṇasya pāśāt yena tvā abadhnāt savitā suśevāḥ .ṛtasya yonau sukṛtasya loke syonam te astu saha saṃbhalāyai ..19..

भगस्त्वेतो नयतु हस्तगृह्याश्विना त्वा प्र वहतां रथेन ।गृहान् गच्छ गृहपत्नी यथासो वशिनी त्वं विदथमा वदासि ॥२०॥ {२}
भगः त्वा इतस् नयतु हस्त-गृह्य अश्विना त्वा प्र वहताम् रथेन ।गृहान् गच्छ गृह-पत्नी यथा असः वशिनी त्वम् विदथमा वदासि ॥२०॥
bhagaḥ tvā itas nayatu hasta-gṛhya aśvinā tvā pra vahatām rathena .gṛhān gaccha gṛha-patnī yathā asaḥ vaśinī tvam vidathamā vadāsi ..20..

इह प्रियं प्रजायै ते समृध्यतामस्मिन् गृहे गार्हपत्याय जागृहि ।एना पत्या तन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥२१॥
इह प्रियम् प्रजायै ते समृध्यताम् अस्मिन् गृहे गार्हपत्याय जागृहि ।एना पत्या तन्वम् सम् स्पृशस्व अथ वदासि ॥२१॥
iha priyam prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi .enā patyā tanvam sam spṛśasva atha vadāsi ..21..

इहैव स्तं मा वि यौष्टं विश्वमायुर्व्यश्नुतम् ।क्रीडन्तौ पुत्रैर्नप्तृभिर्मोदमानौ स्वस्तकौ ॥२२॥
इह एव स्तम् मा वि विश्वम् आयुः व्यश्नुतम् ।क्रीडन्तौ पुत्रैः नप्तृभिः मोदमानौ स्वस्तकौ ॥२२॥
iha eva stam mā vi viśvam āyuḥ vyaśnutam .krīḍantau putraiḥ naptṛbhiḥ modamānau svastakau ..22..

पूर्वापरं चरतो माययैतौ शिशू क्रीडन्तौ परि यातोऽर्णवम् ।विश्वान्यो भुवना विचष्ट ऋतूंरन्यो विदधज्जायसे नवः ॥२३॥
पूर्व-अपरम् चरतः मायया एतौ शिशू क्रीडन्तौ परि यातः अर्णवम् ।विश्वा अन्यः भुवना विचष्टे ऋतूंर् अन्यः विदधत् जायसे नवः ॥२३॥
pūrva-aparam carataḥ māyayā etau śiśū krīḍantau pari yātaḥ arṇavam .viśvā anyaḥ bhuvanā vicaṣṭe ṛtūṃr anyaḥ vidadhat jāyase navaḥ ..23..

नवोनवो भवसि जायमानोऽह्नां केतुरुषसामेष्यग्रम् ।भागं देवेभ्यो वि दधास्यायन् प्र चन्द्रमस्तिरसे दीर्घमायुः ॥२४॥
नवः नवः भवसि जायमानः अह्नाम् केतुः उषसाम् एषि अग्रम् ।भागम् देवेभ्यः वि दधासि आयन् प्र चन्द्रमः तिरसे दीर्घम् आयुः ॥२४॥
navaḥ navaḥ bhavasi jāyamānaḥ ahnām ketuḥ uṣasām eṣi agram .bhāgam devebhyaḥ vi dadhāsi āyan pra candramaḥ tirase dīrgham āyuḥ ..24..

परा देहि शामुल्यं ब्रह्मभ्यो वि भजा वसु ।कृत्यैषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥
परा देहि शामुल्यम् ब्रह्मभ्यः वि भजा वसु ।कृत्या एषा पद्वती भूत्वा जाया विशते पतिम् ॥२५॥
parā dehi śāmulyam brahmabhyaḥ vi bhajā vasu .kṛtyā eṣā padvatī bhūtvā jāyā viśate patim ..25..

नीललोहितं भवति कृत्यासक्तिर्व्यज्यते ।एधन्ते अस्या ज्ञातयः पतिर्बन्धेषु बध्यते ॥२६॥
नील-लोहितम् भवति कृत्या-आसक्तिः व्यज्यते ।एधन्ते अस्याः ज्ञातयः पतिः बन्धेषु बध्यते ॥२६॥
nīla-lohitam bhavati kṛtyā-āsaktiḥ vyajyate .edhante asyāḥ jñātayaḥ patiḥ bandheṣu badhyate ..26..

अश्लीला तनूर्भवति रुशती पापयामुया ।पतिर्यद्वध्वो वाससः स्वमङ्गमभ्यूर्णुते ॥२७॥
अश्लीला तनूः भवति रुशती पापया अमुया ।पतिः यत् वध्वः वाससः स्वम् अङ्गम् अभ्यूर्णुते ॥२७॥
aślīlā tanūḥ bhavati ruśatī pāpayā amuyā .patiḥ yat vadhvaḥ vāsasaḥ svam aṅgam abhyūrṇute ..27..

आशसनं विशसनमथो अधिविकर्तनम् ।सूर्यायाः पश्य रूपाणि तानि ब्रह्मोत शुम्भति ॥२८॥
आशसनम् विशसनम् अथो अधिविकर्तनम् ।सूर्यायाः पश्य रूपाणि तानि ब्रह्मा उत शुम्भति ॥२८॥
āśasanam viśasanam atho adhivikartanam .sūryāyāḥ paśya rūpāṇi tāni brahmā uta śumbhati ..28..

तृष्टमेतत्कटुकमपाष्ठवद्विषवन् नैतदत्तवे ।सूर्यां यो ब्रह्मा वेद स इद्वाधूयमर्हति ॥२९॥
तृष्टम् एतत् कटुकम् अपाष्ठ-वत् विषवत् न एतत् अत्तवे ।सूर्याम् यः ब्रह्मा वेद सः इद् वाधूयम् अर्हति ॥२९॥
tṛṣṭam etat kaṭukam apāṣṭha-vat viṣavat na etat attave .sūryām yaḥ brahmā veda saḥ id vādhūyam arhati ..29..

स इत्तत्स्योनं हरति ब्रह्मा वासः सुमङ्गलम् ।प्रायश्चित्तिं यो अध्येति येन जाया न रिष्यति ॥३०॥ {३}
सः इद् तत् स्योनम् हरति ब्रह्मा वासः सु मङ्गलम् ।प्रायश्चित्तिम् यः अध्येति येन जाया न रिष्यति ॥३०॥
saḥ id tat syonam harati brahmā vāsaḥ su maṅgalam .prāyaścittim yaḥ adhyeti yena jāyā na riṣyati ..30..

युवं भगं सं भरतं समृद्धमृतं वदन्तावृतोद्येषु ।ब्रह्मणस्पते पतिमस्यै रोचय चारु संभलो वदतु वाचमेताम् ॥३१॥
युवम् भगम् सम् भरतम् समृद्धम् ऋतम् वदन्तौ ऋतोद्येषु ।ब्रह्मणस्पते पतिम् अस्यै रोचय चारु संभलः वदतु वाचम् एताम् ॥३१॥
yuvam bhagam sam bharatam samṛddham ṛtam vadantau ṛtodyeṣu .brahmaṇaspate patim asyai rocaya cāru saṃbhalaḥ vadatu vācam etām ..31..

इहेदसाथ न परो गमाथेमं गावः प्रजया वर्धयाथ ।शुभं यतीरुस्रियाः सोमवर्चसो विश्वे देवाः क्रन्न् इह वो मनांसि ॥३२॥
इह इदसा अथ न परस् गमाथ इमम् गावः प्रजया वर्धय अथ ।शुभम् यतीः उस्रियाः सोम-वर्चसः विश्वे देवाः क्रन् इह वः मनांसि ॥३२॥
iha idasā atha na paras gamātha imam gāvaḥ prajayā vardhaya atha .śubham yatīḥ usriyāḥ soma-varcasaḥ viśve devāḥ kran iha vaḥ manāṃsi ..32..

इमं गावः प्रजया सं विशाथायं देवानां न मिनाति भागम् ।अस्मै वः पूषा मरुतश्च सर्वे अस्मै वो धाता सविता सुवाति ॥३३॥
इमम् गावः प्रजया सम् विशाथ अयम् देवानाम् न मिनाति भागम् ।अस्मै वः पूषा मरुतः च सर्वे अस्मै वः धाता सविता सुवाति ॥३३॥
imam gāvaḥ prajayā sam viśātha ayam devānām na mināti bhāgam .asmai vaḥ pūṣā marutaḥ ca sarve asmai vaḥ dhātā savitā suvāti ..33..

अनृक्षरा ऋजवः सन्तु पन्थानो येभिः सखायो यन्ति नो वरेयम् ।सं भगेन समर्यम्णा सं धाता सृजतु वर्चसा ॥३४॥
अनृक्षराः ऋजवः सन्तु पन्थानः येभिः सखायः यन्ति नः वरेयम् ।सम् भगेन सम् अर्यम्णा सम् धाता सृजतु वर्चसा ॥३४॥
anṛkṣarāḥ ṛjavaḥ santu panthānaḥ yebhiḥ sakhāyaḥ yanti naḥ vareyam .sam bhagena sam aryamṇā sam dhātā sṛjatu varcasā ..34..

यच्च वर्चो अक्षेषु सुरायां च यदाहितम् ।यद्गोष्वश्विना वर्चस्तेनेमां वर्चसावतम् ॥३५॥
यत् च वर्चः अक्षेषु सुरायाम् च यत् आहितम् ।यत् गोषु अश्विना वर्चः तेन इमाम् वर्चसा अवतम् ॥३५॥
yat ca varcaḥ akṣeṣu surāyām ca yat āhitam .yat goṣu aśvinā varcaḥ tena imām varcasā avatam ..35..

येन महानघ्न्या जघनमश्विना येन वा सुरा ।येनाक्षा अभ्यषिच्यन्त तेनेमां वर्चसावतम् ॥३६॥
येन महान् अघ्न्या जघनम् अश्विना येन वा सुरा ।येन अक्षाः अभ्यषिच्यन्त तेन इमाम् वर्चसा अवतम् ॥३६॥
yena mahān aghnyā jaghanam aśvinā yena vā surā .yena akṣāḥ abhyaṣicyanta tena imām varcasā avatam ..36..

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईडते अध्वरेषु ।अपां नपान् मधुमतीरपो दा याभिरिन्द्रो वावृधे वीर्यावान् ॥३७॥
यः अनिध्मः दीदयत् अप्सु अन्तर्यम् विप्रासः ईडते अध्वरेषु ।अपाम् नपात् मधुमतीः अपः दाः याभिः इन्द्रः वावृधे वीर्यावान् ॥३७॥
yaḥ anidhmaḥ dīdayat apsu antaryam viprāsaḥ īḍate adhvareṣu .apām napāt madhumatīḥ apaḥ dāḥ yābhiḥ indraḥ vāvṛdhe vīryāvān ..37..

इदमहं रुशन्तं ग्राभं तनूदूषिमपोहामि ।यो भद्रो रोचनस्तमुदचामि ॥३८॥
इदम् अहम् रुशन्तम् ग्राभम् तनू-दूषिम् अपोहामि ।यः भद्रः रोचनः तम् उदचामि ॥३८॥
idam aham ruśantam grābham tanū-dūṣim apohāmi .yaḥ bhadraḥ rocanaḥ tam udacāmi ..38..

आस्यै ब्राह्मणाः स्नपनीर्हरन्त्ववीरघ्नीरुदजन्त्वापः ।अर्यम्णो अग्निं पर्येतु पूषन् प्रतीक्षन्ते श्वशुरो देवरश्च ॥३९॥
आ अस्यै ब्राह्मणाः स्नपनीः हरन्तु अ वीर-घ्नीः उदजन्तु अपः ।अर्यम्णः अग्निम् पर्येतु पूषन् प्रतीक्षन्ते श्वशुरः देवरः च ॥३९॥
ā asyai brāhmaṇāḥ snapanīḥ harantu a vīra-ghnīḥ udajantu apaḥ .aryamṇaḥ agnim paryetu pūṣan pratīkṣante śvaśuraḥ devaraḥ ca ..39..

शं ते हिरण्यं शमु सन्त्वापः शं मेथिर्भवतु शं युगस्य तर्द्म ।शं त आपः शतपवित्रा भवन्तु शमु पत्या तन्वं सं स्पृशस्व ॥४०॥ {४}
शम् ते हिरण्यम् शमु सन्तु आपः शम् मेथिः भवतु शम् युगस्य तर्द्म ।शम् ते आपः शत-पवित्राः भवन्तु शमु पत्या तन्वम् सम् स्पृशस्व ॥४०॥
śam te hiraṇyam śamu santu āpaḥ śam methiḥ bhavatu śam yugasya tardma .śam te āpaḥ śata-pavitrāḥ bhavantu śamu patyā tanvam sam spṛśasva ..40..

खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।अपालामिन्द्र त्रिष्पूत्वाकृणोः सूर्यत्वचम् ॥४१॥
खे रथस्य खे अनसः खे युगस्य शतक्रतो ।अपालाम् इन्द्र त्रिस् पूत्वा अकृणोः सूर्य-त्वचम् ॥४१॥
khe rathasya khe anasaḥ khe yugasya śatakrato .apālām indra tris pūtvā akṛṇoḥ sūrya-tvacam ..41..

आशासाना सौमनसं प्रजां सौभाग्यं रयिम् ।पत्युरनुव्रता भूत्वा सं नह्यस्वामृताय कम् ॥४२॥
आशासाना सौमनसम् प्रजाम् सौभाग्यम् रयिम् ।पत्युः अनुव्रता भूत्वा सम् नह्यस्व अमृताय कम् ॥४२॥
āśāsānā saumanasam prajām saubhāgyam rayim .patyuḥ anuvratā bhūtvā sam nahyasva amṛtāya kam ..42..

यथा सिन्धुर्नदीनां साम्राज्यं सुषुवे वृषा ।एवा त्वं सम्राज्ञ्येधि पत्युरस्तं परेत्य ॥४३॥
यथा सिन्धुः नदीनाम् साम्राज्यम् सुषुवे वृषा ।एव त्वम् सम्राज्ञी एधि पत्युः अस्तम् परेत्य ॥४३॥
yathā sindhuḥ nadīnām sāmrājyam suṣuve vṛṣā .eva tvam samrājñī edhi patyuḥ astam paretya ..43..

सम्राज्ञ्येधि श्वशुरेषु सम्राज्ञ्युत देवृषु ।ननान्दुः सम्राज्ञ्येधि सम्राज्ञ्युत श्वश्र्वाः ॥४४॥
सम्राज्ञी एधि श्वशुरेषु सम्राज्ञी उत देवृषु ।ननान्दुः सम्राज्ञी एधि सम्राज्ञी उत श्वश्र्वाः ॥४४॥
samrājñī edhi śvaśureṣu samrājñī uta devṛṣu .nanānduḥ samrājñī edhi samrājñī uta śvaśrvāḥ ..44..

या अकृन्तन्न् अवयन् याश्च तत्निरे या देवीरन्तामभितोऽददन्त ।तास्त्वा जरसे सं व्ययन्त्वायुष्मतीदं परि धत्स्व वासः ॥४५॥
याः अकृन्तन् अवयन् याः च तत्निरे याः देवीः अन्ताम् अभितस् अददन्त ।ताः त्वा जरसे सम् व्ययन्तु आयुष्मती इदम् परि धत्स्व वासः ॥४५॥
yāḥ akṛntan avayan yāḥ ca tatnire yāḥ devīḥ antām abhitas adadanta .tāḥ tvā jarase sam vyayantu āyuṣmatī idam pari dhatsva vāsaḥ ..45..

जीवं रुदन्ति वि नयन्त्यध्वरं दीर्घामनु प्रसितिं दीध्युर्नरः ।वामं पितृभ्यो य इदं समीरिरे मयः पतिभ्यो जनये परिष्वजे ॥४६॥
जीवम् रुदन्ति वि नयन्ति अध्वरम् दीर्घाम् अनु प्रसितिम् दीध्युः नरः ।वामम् पितृभ्यः ये इदम् समीरिरे मयः पतिभ्यः जनये परिष्वजे ॥४६॥
jīvam rudanti vi nayanti adhvaram dīrghām anu prasitim dīdhyuḥ naraḥ .vāmam pitṛbhyaḥ ye idam samīrire mayaḥ patibhyaḥ janaye pariṣvaje ..46..

स्योनं ध्रुवं प्रजायै धारयामि तेऽश्मानं देव्याः पृथिव्या उपस्थे ।तमा तिष्ठानुमाद्या सुवर्चा दीर्घं त आयुः सविता कृणोतु ॥४७॥
स्योनम् ध्रुवम् प्रजायै धारयामि ते अश्मानम् देव्याः पृथिव्याः उपस्थे ।तिष्ठ अनुमाद्या सु वर्चाः दीर्घम् ते आयुः सविता कृणोतु ॥४७॥
syonam dhruvam prajāyai dhārayāmi te aśmānam devyāḥ pṛthivyāḥ upasthe .tiṣṭha anumādyā su varcāḥ dīrgham te āyuḥ savitā kṛṇotu ..47..

येनाग्निरस्या भूम्या हस्तं जग्राह दक्षिणम् ।तेन गृह्णामि ते हस्तं मा व्यथिष्ठा मया सह प्रजया च धनेन च ॥४८॥
येन अग्निः अस्याः भूम्याः हस्तम् जग्राह दक्षिणम् ।तेन गृह्णामि ते हस्तम् मा व्यथिष्ठाः मया सह प्रजया च धनेन च ॥४८॥
yena agniḥ asyāḥ bhūmyāḥ hastam jagrāha dakṣiṇam .tena gṛhṇāmi te hastam mā vyathiṣṭhāḥ mayā saha prajayā ca dhanena ca ..48..

देवस्ते सविता हस्तं गृह्णातु सोमो राजा सुप्रजसं कृणोतु ।अग्निः सुभगां जतवेदाः पत्ये पत्नीं जरदष्टिं कृणोतु ॥४९॥
देवः ते सविता हस्तम् गृह्णातु सोमः राजा सुप्रजसम् कृणोतु ।अग्निः सुभगाम् जत-वेदाः पत्ये पत्नीम् जरदष्टिम् कृणोतु ॥४९॥
devaḥ te savitā hastam gṛhṇātu somaḥ rājā suprajasam kṛṇotu .agniḥ subhagām jata-vedāḥ patye patnīm jaradaṣṭim kṛṇotu ..49..

गृह्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः ।भगो अर्यमा सविता पुरंधिर्मह्यं त्वादुर्गार्हपत्याय देवाः ॥५०॥ {५}
गृह्णामि ते सौभग-त्वाय हस्तम् मया पत्या जरदष्टिः यथा असः ।भगः अर्यमा सविता पुरंधिः मह्यम् त्वा अ दुस् गार्हपत्याय देवाः ॥५०॥
gṛhṇāmi te saubhaga-tvāya hastam mayā patyā jaradaṣṭiḥ yathā asaḥ .bhagaḥ aryamā savitā puraṃdhiḥ mahyam tvā a dus gārhapatyāya devāḥ ..50..

भगस्ते हस्तमग्रहीत्सविता हस्तमग्रहीत्।पत्नी त्वमसि धर्मणाहं गृहपतिस्तव ॥५१॥
भगः ते हस्तम् अग्रहीत् सविता हस्तम् अग्रहीत्।पत्नी त्वम् असि धर्मणा अहम् गृहपतिः तव ॥५१॥
bhagaḥ te hastam agrahīt savitā hastam agrahīt.patnī tvam asi dharmaṇā aham gṛhapatiḥ tava ..51..

ममेयमस्तु पोष्या मह्यं त्वादाद्बृहस्पतिः ।मया पत्या प्रजावति सं जीव शरदः शतम् ॥५२॥
मम इयम् अस्तु पोष्या मह्यम् त्वा अदात् बृहस्पतिः ।मया पत्या प्रजावति सम् जीव शरदः शतम् ॥५२॥
mama iyam astu poṣyā mahyam tvā adāt bṛhaspatiḥ .mayā patyā prajāvati sam jīva śaradaḥ śatam ..52..

त्वष्टा वासो व्यदधाच्छुभे कं बृहस्पतेः प्रशिषा कवीनाम् ।तेनेमां नारीं सविता भगश्च सूर्यामिव परि धत्तां प्रजया ॥५३॥
त्वष्टा वासः व्यदधात् शुभे कम् बृहस्पतेः प्रशिषा कवीनाम् ।तेन इमाम् नारीम् सविता भगः च सूर्याम् इव परि धत्ताम् प्रजया ॥५३॥
tvaṣṭā vāsaḥ vyadadhāt śubhe kam bṛhaspateḥ praśiṣā kavīnām .tena imām nārīm savitā bhagaḥ ca sūryām iva pari dhattām prajayā ..53..

इन्द्राग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगो अश्विनोभा ।बृहस्पतिर्मरुतो ब्रह्म सोम इमां नारिं प्रजया वर्धयन्तु ॥५४॥
इन्द्र-अग्नी द्यावापृथिवी मातरिश्वा मित्रावरुणा भगः अश्विना उभा ।बृहस्पतिः मरुतः ब्रह्म सोमः इमाम् नारिम् प्रजया वर्धयन्तु ॥५४॥
indra-agnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhagaḥ aśvinā ubhā .bṛhaspatiḥ marutaḥ brahma somaḥ imām nārim prajayā vardhayantu ..54..

बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशाँ अकल्पयत्।तेनेमामश्विना नारीं पत्ये सं शोभयामसि ॥५५॥
बृहस्पतिः प्रथमः सूर्यायाः शीर्षे केशान् अकल्पयत्।तेन इमाम् अश्विना नारीम् पत्ये सम् शोभयामसि ॥५५॥
bṛhaspatiḥ prathamaḥ sūryāyāḥ śīrṣe keśān akalpayat.tena imām aśvinā nārīm patye sam śobhayāmasi ..55..

इदं तद्रूपं यदवस्त योषा जायां जिज्ञासे मनसा चरन्तीम् ।तामन्वर्तिष्ये सखिभिर्नवग्वैः क इमान् विद्वान् वि चचर्त पाशान् ॥५६॥
इदम् तत् रूपम् यत् अवस्त योषा जायाम् जिज्ञासे मनसा चरन्तीम् ।ताम् अन्वर्तिष्ये सखिभिः नवग्वैः कः इमान् विद्वान् वि चचर्त पाशान् ॥५६॥
idam tat rūpam yat avasta yoṣā jāyām jijñāse manasā carantīm .tām anvartiṣye sakhibhiḥ navagvaiḥ kaḥ imān vidvān vi cacarta pāśān ..56..

अहं वि ष्यामि मयि रूपमस्या वेददित्पश्यन् मनसः कुलायम् ।न स्तेयमद्मि मनसोदमुच्ये स्वयं श्रथ्नानो वरुणस्य पाशान् ॥५७॥
अहम् वि स्यामि मयि रूपम् अस्याः वेददित् पश्यन् मनसः कुलायम् ।न स्तेयम् अद्मि मनसा उदमुच्ये स्वयम् श्रथ्नानः वरुणस्य पाशान् ॥५७॥
aham vi syāmi mayi rūpam asyāḥ vedadit paśyan manasaḥ kulāyam .na steyam admi manasā udamucye svayam śrathnānaḥ varuṇasya pāśān ..57..

प्र त्वा मुञ्चामि वरुणस्य पाशाद्येन त्वाबध्नात्सविता सुशेवाः ।उरुं लोकं सुगमत्र पन्थां कृणोमि तुभ्यं सहपत्न्यै वधु ॥५८॥
प्र त्वा मुञ्चामि वरुणस्य पाशात् येन त्वा अबध्नात् सविता सुशेवाः ।उरुम् लोकम् सुगम् अत्र पन्थाम् कृणोमि तुभ्यम् सह पत्न्यै वधु ॥५८॥
pra tvā muñcāmi varuṇasya pāśāt yena tvā abadhnāt savitā suśevāḥ .urum lokam sugam atra panthām kṛṇomi tubhyam saha patnyai vadhu ..58..

उद्यच्छध्वमप रक्षो हनाथेमं नारीं सुकृते दधात ।धाता विपश्चित्पतिमस्यै विवेद भगो राजा पुर एतु प्रजानन् ॥५९॥
उद्यच्छध्वम् अप रक्षः हनाथ इमम् नारीम् सु कृते दधात ।धाता विपश्चित्-पतिम् अस्यै विवेद भगः राजा पुरस् एतु प्रजानन् ॥५९॥
udyacchadhvam apa rakṣaḥ hanātha imam nārīm su kṛte dadhāta .dhātā vipaścit-patim asyai viveda bhagaḥ rājā puras etu prajānan ..59..

भगस्ततक्ष चतुरः पादान् भगस्ततक्ष चत्वार्युष्पलानि ।त्वष्टा पिपेश मध्यतोऽनु वर्ध्रान्त्सा नो अस्तु सुमङ्गली ॥६०॥
भगः ततक्ष चतुरः पादान् भगः ततक्ष चत्वारि उष्पलानि ।त्वष्टा पिपेश मध्यतस् अनु वर्ध्रान् सा नः अस्तु सु मङ्गली ॥६०॥
bhagaḥ tatakṣa caturaḥ pādān bhagaḥ tatakṣa catvāri uṣpalāni .tvaṣṭā pipeśa madhyatas anu vardhrān sā naḥ astu su maṅgalī ..60..

सुकिंशुकं वहतुं विश्वरूपं हिरण्यवर्णं सुवृतं सुचक्रम् ।आ रोह सूर्ये अमृतस्य लोकं स्योनं पतिभ्यो वहतुं कृणु त्वम् ॥६१॥
सु किंशुकम् वहतुम् विश्व-रूपम् हिरण्य-वर्णम् सुवृतम् सु चक्रम् ।आ रोह सूर्ये अमृतस्य लोकम् स्योनम् पतिभ्यः वहतुम् कृणु त्वम् ॥६१॥
su kiṃśukam vahatum viśva-rūpam hiraṇya-varṇam suvṛtam su cakram .ā roha sūrye amṛtasya lokam syonam patibhyaḥ vahatum kṛṇu tvam ..61..

अभ्रातृघ्नीं वरुणापशुघ्नीं बृहस्पते ।इन्द्रापतिघ्नीं पुत्रिणीमास्मभ्यं सवितर्वह ॥६२॥
अ भ्रातृ-घ्नीम् वरुण अ पशु-घ्नीम् बृहस्पते ।इन्द्र अ पति-घ्नीम् पुत्रिणीम् आ अस्मभ्यम् सवितर् वह ॥६२॥
a bhrātṛ-ghnīm varuṇa a paśu-ghnīm bṛhaspate .indra a pati-ghnīm putriṇīm ā asmabhyam savitar vaha ..62..

मा हिंसिष्टं कुमार्यं स्थूणे देवकृते पथि ।शालाया देव्या द्वारं स्योनं कृण्मो वधूपथम् ॥६३॥
मा हिंसिष्टम् कुमार्यम् स्थूणे देव-कृते पथि ।शालायाः देव्याः द्वारम् स्योनम् कृण्मः वधू-पथम् ॥६३॥
mā hiṃsiṣṭam kumāryam sthūṇe deva-kṛte pathi .śālāyāḥ devyāḥ dvāram syonam kṛṇmaḥ vadhū-patham ..63..

ब्रह्मापरं युज्यतां ब्रह्म पूर्वं ब्रह्मान्ततो मध्यतो ब्रह्म सर्वतः ।अनाव्याधां देवपुरां प्रपद्य शिवा स्योना पतिलोके वि राज ॥६४॥ {६}
ब्रह्म अपरम् युज्यताम् ब्रह्म पूर्वम् ब्रह्म अन्ततस् मध्यतस् ब्रह्म सर्वतस् ।अन् आव्याधाम् देव-पुराम् प्रपद्य शिवा स्योना पति-लोके वि राज ॥६४॥
brahma aparam yujyatām brahma pūrvam brahma antatas madhyatas brahma sarvatas .an āvyādhām deva-purām prapadya śivā syonā pati-loke vi rāja ..64..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In