| |
|

This overlay will guide you through the buttons:

तुभ्यमग्रे पर्यवहन्त्सूर्यां वहतुना सह ।स नः पतिभ्यो जायां दा अग्ने प्रजया सह ॥१॥
तुभ्यम् अग्रे पर्यवहन् सूर्याम् वहतुना सह ।स नः पतिभ्यः जायाम् दाः अग्ने प्रजया सह ॥१॥
tubhyam agre paryavahan sūryām vahatunā saha .sa naḥ patibhyaḥ jāyām dāḥ agne prajayā saha ..1..

पुनः पत्नीमग्निरदादायुषा सह वर्चसा ।दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् ॥२॥
पुनर् पत्नीम् अग्निः अदात् आयुषा सह वर्चसा ।दीर्घ-आयुः अस्याः यः पतिः जीवाति शरदः शतम् ॥२॥
punar patnīm agniḥ adāt āyuṣā saha varcasā .dīrgha-āyuḥ asyāḥ yaḥ patiḥ jīvāti śaradaḥ śatam ..2..

सोमस्य जाया प्रथमं गन्धर्वस्तेऽपरः पतिः ।तृतीयो अग्निष्टे पतिस्तुरीयस्ते मनुष्यजाः ॥३॥
सोमस्य जाया प्रथमम् गन्धर्वः ते अपरः पतिः ।तृतीयः अग्निः ते पतिः तुरीयः ते मनुष्य-जाः ॥३॥
somasya jāyā prathamam gandharvaḥ te aparaḥ patiḥ .tṛtīyaḥ agniḥ te patiḥ turīyaḥ te manuṣya-jāḥ ..3..

सोमो ददद्गन्धर्वाय गन्धर्वो दददग्नये ।रयिं च पुत्रांस्चादादग्निर्मह्यमथो इमाम् ॥४॥
सोमः ददत् गन्धर्वाय गन्धर्वः ददत् अग्नये ।रयिम् च पुत्रान् च अदात् अग्निः मह्यम् अथ उ इमाम् ॥४॥
somaḥ dadat gandharvāya gandharvaḥ dadat agnaye .rayim ca putrān ca adāt agniḥ mahyam atha u imām ..4..

आ वामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत ।अभूतं गोपा मिथुना शुभस्पती प्रिया अर्यम्णो दुर्यामशीमहि ॥५॥
आ वाम् अगन् सुमतिः वाजिनीवसू नि अश्विना हृत्सु कामाः अरंसत ।अभूतम् गोपाः मिथुना शुभस्पती प्रियाः अर्यम्णः दुर्याम् अशीमहि ॥५॥
ā vām agan sumatiḥ vājinīvasū ni aśvinā hṛtsu kāmāḥ araṃsata .abhūtam gopāḥ mithunā śubhaspatī priyāḥ aryamṇaḥ duryām aśīmahi ..5..

सा मन्दसाना मनसा शिवेन रयिं धेहि सर्ववीरं वचस्यम् ।सुगं तीर्थं सुप्रपाणं शुभस्पती स्थाणुं पथिष्ठामप दुर्मतिं हतम् ॥६॥
सा मन्दसाना मनसा शिवेन रयिम् धेहि सर्व-वीरम् वचस्यम् ।सु गम् तीर्थम् सु प्रपाणम् शुभस्पती स्थाणुम् पथिष्ठाम् अप दुर्मतिम् हतम् ॥६॥
sā mandasānā manasā śivena rayim dhehi sarva-vīram vacasyam .su gam tīrtham su prapāṇam śubhaspatī sthāṇum pathiṣṭhām apa durmatim hatam ..6..

या ओषधयो या नद्यो यानि क्षेत्राणि या वना ।तास्त्वा वधु प्रजावतीं पत्ये रक्षन्तु रक्षसः ॥७॥
याः ओषधयः याः नद्यः यानि क्षेत्राणि या वना ।ताः त्वा वधु प्रजावतीम् पत्ये रक्षन्तु रक्षसः ॥७॥
yāḥ oṣadhayaḥ yāḥ nadyaḥ yāni kṣetrāṇi yā vanā .tāḥ tvā vadhu prajāvatīm patye rakṣantu rakṣasaḥ ..7..

एमं पन्थामरुक्षाम सुगं स्वस्तिवाहनम् ।यस्मिन् वीरो न रिष्यत्यन्येषां विन्दते वसु ॥८॥
आ इमम् पन्थाम् अरुक्षाम सु गम् स्वस्ति-वाहनम् ।यस्मिन् वीरः न रिष्यति अन्येषाम् विन्दते वसु ॥८॥
ā imam panthām arukṣāma su gam svasti-vāhanam .yasmin vīraḥ na riṣyati anyeṣām vindate vasu ..8..

इदं सु मे नरः शृणुत ययाशिषा दंपती वाममश्नुतः ।ये गन्धर्वा अप्सरसश्च देवीरेषु वानस्पत्येषु येऽधि तस्थुः ।स्योनास्ते अस्यै वध्वै भवन्तु मा हिंसिषुर्वहतुमुह्यमानम् ॥९॥
इदम् सु मे नरः शृणुत यया आशिषा दंपती वामम् अश्नुतः ।ये गन्धर्वाः अप्सरसः च देवीरेषु वानस्पत्येषु ये अधि तस्थुः ।स्योनाः ते अस्यै वध्वै भवन्तु मा हिंसिषुः वहतुम् उह्यमानम् ॥९॥
idam su me naraḥ śṛṇuta yayā āśiṣā daṃpatī vāmam aśnutaḥ .ye gandharvāḥ apsarasaḥ ca devīreṣu vānaspatyeṣu ye adhi tasthuḥ .syonāḥ te asyai vadhvai bhavantu mā hiṃsiṣuḥ vahatum uhyamānam ..9..

ये वध्वश्चन्द्रं वहतुं यक्ष्मा यन्ति जनामनु ।पुनस्तान् यज्ञिया देवा नयन्तु यत आगताः ॥१०॥ {७}
ये वध्वः चन्द्रम् वहतुम् यक्ष्माः यन्ति जनाम् अनु ।पुनर् तान् यज्ञियाः देवाः नयन्तु यतस् आगताः ॥१०॥
ye vadhvaḥ candram vahatum yakṣmāḥ yanti janām anu .punar tān yajñiyāḥ devāḥ nayantu yatas āgatāḥ ..10..

मा विदन् परिपन्थिनो य आसीदन्ति दंपती ।सुगेन दुर्गमतीतामप द्रान्त्वरातयः ॥११॥
मा विदन् परिपन्थिनः ये आसीदन्ति दंपती ।सुगेन दुर्गम् अतीताम् अप द्रान्तु अरातयः ॥११॥
mā vidan paripanthinaḥ ye āsīdanti daṃpatī .sugena durgam atītām apa drāntu arātayaḥ ..11..

सं काशयामि वहतुं ब्रह्मणा गृहैरघोरेण चक्षुषा मित्रियेण ।पर्याणद्धं विश्वरूपं यदस्ति स्योनं पतिभ्यः सविता तत्कृणोतु ॥१२॥
सम् काशयामि वहतुम् ब्रह्मणा गृहैः अघोरेण चक्षुषा मित्रियेण ।पर्याणद्धम् विश्व-रूपम् यत् अस्ति स्योनम् पतिभ्यः सविता तत् कृणोतु ॥१२॥
sam kāśayāmi vahatum brahmaṇā gṛhaiḥ aghoreṇa cakṣuṣā mitriyeṇa .paryāṇaddham viśva-rūpam yat asti syonam patibhyaḥ savitā tat kṛṇotu ..12..

शिवा नारीयमस्तमागन्न् इमं धाता लोकमस्यै दिदेश ।तामर्यमा भगो अश्विनोभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
शिवा नारी इयम् अस्तम् आगन् इमम् धाता लोकम् अस्यै दिदेश ।ताम् अर्यमा भगः अश्विना उभा प्रजापतिः प्रजया वर्धयन्तु ॥१३॥
śivā nārī iyam astam āgan imam dhātā lokam asyai dideśa .tām aryamā bhagaḥ aśvinā ubhā prajāpatiḥ prajayā vardhayantu ..13..

आत्मन्वत्युर्वरा नारीयमागन् तस्यां नरो वपत बीजमस्याम् ।सा वः प्रजां जनयद्वक्षणाभ्यो बिभ्रती दुग्धमृषभस्य रेतः ॥१४॥
आत्मन्वती उर्वरा नारी इयम् आगन् तस्याम् नरः वपत बीजम् अस्याम् ।सा वः प्रजाम् जनयत् वक्षणाभ्यः बिभ्रती दुग्धम् ऋषभस्य रेतः ॥१४॥
ātmanvatī urvarā nārī iyam āgan tasyām naraḥ vapata bījam asyām .sā vaḥ prajām janayat vakṣaṇābhyaḥ bibhratī dugdham ṛṣabhasya retaḥ ..14..

प्रति तिष्ठ विराडसि विष्णुरिवेह सरस्वति ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥१५॥
प्रति तिष्ठ विराज् असि विष्णुः इव इह सरस्वति ।सिनीवालि प्र जायताम् भगस्य सुमता अवसत्॥१५॥
prati tiṣṭha virāj asi viṣṇuḥ iva iha sarasvati .sinīvāli pra jāyatām bhagasya sumatā avasat..15..

उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।मादुष्कृतौ व्येनसावघ्न्यावशुनमारताम् ॥१६॥
उद्वः ऊर्मिः शम्याः हन्त्वा अपः योक्त्राणि मुञ्चत ।मा अ दुष्कृतौ व्येनसौ अघ्न्यौ अशुनम् आरताम् ॥१६॥
udvaḥ ūrmiḥ śamyāḥ hantvā apaḥ yoktrāṇi muñcata .mā a duṣkṛtau vyenasau aghnyau aśunam āratām ..16..

अघोरचक्षुरपतिघ्नी स्योना शग्मा सुशेवा सुयमा गृहेभ्यः ।वीरसूर्देवृकामा सं त्वयैधिषीमहि सुमस्यमाना ॥१७॥
अघोर-चक्षुः अ पति-घ्नी स्योना शग्मा सु शेवा सु यमा गृहेभ्यः ।वीर-सूः देवृ-कामा सम् त्वया एधिषीमहि सुमस्यमाना ॥१७॥
aghora-cakṣuḥ a pati-ghnī syonā śagmā su śevā su yamā gṛhebhyaḥ .vīra-sūḥ devṛ-kāmā sam tvayā edhiṣīmahi sumasyamānā ..17..

अदेवृघ्न्यपतिघ्नीहैधि शिवा पशुभ्यः सुयमा सुवर्चाः ।प्रजावती वीरसूर्देवृकामा स्योनेममग्निं गार्हपत्यं सपर्य ॥१८॥
अ देवृ-घ्नी अ पति-घ्नी इह एधि शिवा पशुभ्यः सु यमा सुवर्चाः ।प्रजावती वीर-सूः देवृ-कामा स्योना इमम् अग्निम् गार्हपत्यम् सपर्य ॥१८॥
a devṛ-ghnī a pati-ghnī iha edhi śivā paśubhyaḥ su yamā suvarcāḥ .prajāvatī vīra-sūḥ devṛ-kāmā syonā imam agnim gārhapatyam saparya ..18..

उत्तिष्ठेतः किमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्।शून्यैषी निर्ऋते याजगन्थोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥१९॥
उत्तिष्ठ इतस् किम् इच्छन्ती इदम् आगाः अहम् त्वा ईडे अभिभूः स्वात् गृहात्।शून्यैषी निरृते या आजगन्थ उत्तिष्ठ अराते प्र पत मा इह रंस्थाः ॥१९॥
uttiṣṭha itas kim icchantī idam āgāḥ aham tvā īḍe abhibhūḥ svāt gṛhāt.śūnyaiṣī nirṛte yā ājagantha uttiṣṭha arāte pra pata mā iha raṃsthāḥ ..19..

यदा गार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम् ।अधा सरस्वत्यै नारि पितृभ्यश्च नमस्कुरु ॥२०॥ {८}
यदा गार्हपत्यम् असपर्यैत् पूर्वम् अग्निम् वधूः इयम् ।अध सरस्वत्यै नारि पितृभ्यः च नमस्कुरु ॥२०॥
yadā gārhapatyam asaparyait pūrvam agnim vadhūḥ iyam .adha sarasvatyai nāri pitṛbhyaḥ ca namaskuru ..20..

शर्म वर्मैतदा हरास्यै नार्या उपस्तिरे ।सिनीवालि प्र जायतां भगस्य सुमतावसत्॥२१॥
शर्म वर्म एतदा हर अस्यै नार्यै उपस्तिरे ।सिनीवालि प्र जायताम् भगस्य सुमता अवसत्॥२१॥
śarma varma etadā hara asyai nāryai upastire .sinīvāli pra jāyatām bhagasya sumatā avasat..21..

यं बल्बजं न्यस्यथ चर्म चोपस्तृणीथन ।तदा रोहतु सुप्रजा या कन्या विन्दते पतिम् ॥२२॥
यम् बल्बजम् न्यस्यथ चर्म च उपस्तृणीथन ।तदा रोहतु सु प्रजा या कन्या विन्दते पतिम् ॥२२॥
yam balbajam nyasyatha carma ca upastṛṇīthana .tadā rohatu su prajā yā kanyā vindate patim ..22..

उप स्तृणीहि बल्बजमधि चर्मणि रोहिते ।तत्रोपविश्य सुप्रजा इममग्निं सपर्यतु ॥२३॥
उप स्तृणीहि बल्बजम् अधि चर्मणि रोहिते ।तत्र उपविश्य सुप्रजाः इमम् अग्निम् सपर्यतु ॥२३॥
upa stṛṇīhi balbajam adhi carmaṇi rohite .tatra upaviśya suprajāḥ imam agnim saparyatu ..23..

आ रोह चर्मोप सीदाग्निमेष देवो हन्ति रक्षांसि सर्वा ।इह प्रजां जनय पत्ये अस्मै सुज्यैष्ठ्यो भवत्पुत्रस्त एषः ॥२४॥
आ रोह चर्म उप सीद अग्निम् एष देवः हन्ति रक्षांसि सर्वा ।इह प्रजाम् जनय पत्ये अस्मै सु ज्यैष्ठ्यः भवत्-पुत्रः ते एषः ॥२४॥
ā roha carma upa sīda agnim eṣa devaḥ hanti rakṣāṃsi sarvā .iha prajām janaya patye asmai su jyaiṣṭhyaḥ bhavat-putraḥ te eṣaḥ ..24..

वि तिष्ठन्तां मातुरस्या उपस्थान् नानारूपाः पशवो जायमानाः ।सुमङ्गल्युप सीदेममग्निं संपत्नी प्रति भूषेह देवान् ॥२५॥
वि तिष्ठन्ताम् मातुः अस्याः उपस्थात् नाना रूपाः पशवः जायमानाः ।सु मङ्गली उप सीद इमम् अग्निम् सं पत्नी प्रति भूष इह देवान् ॥२५॥
vi tiṣṭhantām mātuḥ asyāḥ upasthāt nānā rūpāḥ paśavaḥ jāyamānāḥ .su maṅgalī upa sīda imam agnim saṃ patnī prati bhūṣa iha devān ..25..

सुमङ्गली प्रतरणी गृहाणां सुशेवा पत्ये श्वशुराय शंभूः ।स्योना श्वश्र्वै प्र गृहान् विशेमान् ॥२६॥
सु मङ्गली प्रतरणी गृहाणाम् सु शेवा पत्ये श्वशुराय शंभूः ।स्योना श्वश्र्वै प्र गृहान् विश इमान् ॥२६॥
su maṅgalī prataraṇī gṛhāṇām su śevā patye śvaśurāya śaṃbhūḥ .syonā śvaśrvai pra gṛhān viśa imān ..26..

स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।स्योनास्यै सर्वस्यै विशे स्योना पुष्टायैषां भव ॥२७॥
स्योना भव श्वशुरेभ्यः स्योना पत्ये गृहेभ्यः ।स्योना अस्यै सर्वस्यै विशे स्योना पुष्टाय एषाम् भव ॥२७॥
syonā bhava śvaśurebhyaḥ syonā patye gṛhebhyaḥ .syonā asyai sarvasyai viśe syonā puṣṭāya eṣām bhava ..27..

सुमङ्गलीरियं वधूरिमां समेत पश्यत ।सौभाग्यमस्यै दत्त्वा दौर्भाग्यैर्विपरेतन ॥२८॥
सु मङ्गलीः इयम् वधूः इमाम् समेत पश्यत ।सौभाग्यम् अस्यै दत्त्वा दौर्भाग्यैः विपरेतन ॥२८॥
su maṅgalīḥ iyam vadhūḥ imām sameta paśyata .saubhāgyam asyai dattvā daurbhāgyaiḥ viparetana ..28..

या दुर्हार्दो युवतयो याश्चेह जरतीरपि ।वर्चो न्वस्यै सं दत्ताथास्तं विपरेतन ॥२९॥
याः दुर्हार्दः युवतयः याः च इह जरतीः अपि ।वर्चः नु अस्यै सम् दत्त अथ अस्तम् विपरेतन ॥२९॥
yāḥ durhārdaḥ yuvatayaḥ yāḥ ca iha jaratīḥ api .varcaḥ nu asyai sam datta atha astam viparetana ..29..

रुक्मप्रस्तरणं वह्यं विश्वा रूपाणि बिभ्रतम् ।आरोहत्सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥ {९}
रुक्म-प्रस्तरणम् वह्यम् विश्वा रूपाणि बिभ्रतम् ।आरोहत् सूर्या सावित्री बृहते सौभगाय कम् ॥३०॥
rukma-prastaraṇam vahyam viśvā rūpāṇi bibhratam .ārohat sūryā sāvitrī bṛhate saubhagāya kam ..30..

आ रोह तल्पं सुमनस्यमानेह प्रजां जनय पत्ये अस्मै ।इन्द्राणीव सुबुधा बुध्यमाना ज्योतिरग्रा उषसः प्रति जागरासि ॥३१॥
आ रोह तल्पम् सुमनस्यमाना इह प्रजाम् जनय पत्ये अस्मै ।इन्द्राणी इव सु बुधा बुध्यमाना ज्योतिः-अग्राः उषसः प्रति जागरासि ॥३१॥
ā roha talpam sumanasyamānā iha prajām janaya patye asmai .indrāṇī iva su budhā budhyamānā jyotiḥ-agrāḥ uṣasaḥ prati jāgarāsi ..31..

देवा अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वस्तनूभिः ।सूर्येव नारि विश्वरूपा महित्वा प्रजावती पत्या सं भवेह ॥३२॥
देवाः अग्रे न्यपद्यन्त पत्नीः समस्पृशन्त तन्वः तनूभिः ।सूर्या इव नारि विश्व-रूपा महित्वा प्रजावती पत्या सम् भव इह ॥३२॥
devāḥ agre nyapadyanta patnīḥ samaspṛśanta tanvaḥ tanūbhiḥ .sūryā iva nāri viśva-rūpā mahitvā prajāvatī patyā sam bhava iha ..32..

उत्तिष्ठेतो विश्वावसो नमसेडामहे त्वा ।जामिमिच्छ पितृषदं न्यक्तां स ते भागो जनुषा तस्य विद्धि ॥३३॥
उत्तिष्ठ इतस् विश्वावसो नमसा ईडामहे त्वा ।जामिम् इच्छ पितृषदम् न्यक्ताम् स ते भागः जनुषा तस्य विद्धि ॥३३॥
uttiṣṭha itas viśvāvaso namasā īḍāmahe tvā .jāmim iccha pitṛṣadam nyaktām sa te bhāgaḥ januṣā tasya viddhi ..33..

अप्सरसः सधमादं मदन्ति हविर्धानमन्तरा सूर्यं च ।तास्ते जनित्रमभि ताः परेहि नमस्ते गन्धर्वर्तुना कृणोमि ॥३४॥
अप्सरसः सधमादम् मदन्ति हविर्धानम् अन्तरा सूर्यम् च ।ताः ते जनित्रम् अभि ताः परेहि नमः ते गन्धर्व-ऋतुना कृणोमि ॥३४॥
apsarasaḥ sadhamādam madanti havirdhānam antarā sūryam ca .tāḥ te janitram abhi tāḥ parehi namaḥ te gandharva-ṛtunā kṛṇomi ..34..

नमो गन्धर्वस्य नमसे नमो भामाय चक्षुषे च कृण्मः ।विश्वावसो ब्रह्मणा ते नमोऽभि जाया अप्सरसः परेहि ॥३५॥
नमः गन्धर्वस्य नमसे नमः भामाय चक्षुषे च कृण्मः ।विश्वावसो ब्रह्मणा ते नमः अभि जायाः अप्सरसः परेहि ॥३५॥
namaḥ gandharvasya namase namaḥ bhāmāya cakṣuṣe ca kṛṇmaḥ .viśvāvaso brahmaṇā te namaḥ abhi jāyāḥ apsarasaḥ parehi ..35..

राया वयं सुमनसः स्यामोदितो गन्धर्वमावीवृताम ।अगन्त्स देवः परमं सधस्थमगन्म यत्र प्रतिरन्त आयुः ॥३६॥
राया वयम् सुमनसः स्याम उदितः गन्धर्वम् आवीवृताम ।अगन् स देवः परमम् सधस्थम् अगन्म यत्र प्रतिरन्ते आयुः ॥३६॥
rāyā vayam sumanasaḥ syāma uditaḥ gandharvam āvīvṛtāma .agan sa devaḥ paramam sadhastham aganma yatra pratirante āyuḥ ..36..

सं पितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः ।मर्य इव योषामधि रोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥३७॥
सम् पितरौ ऋत्विये सृजेथाम् माता पिता च रेतसः भवाथः ।मर्यः इव योषाम् अधि रोहय एनाम् प्रजाम् कृण्वाथाम् इह पुष्यतम् रयिम् ॥३७॥
sam pitarau ṛtviye sṛjethām mātā pitā ca retasaḥ bhavāthaḥ .maryaḥ iva yoṣām adhi rohaya enām prajām kṛṇvāthām iha puṣyatam rayim ..37..

तां पूषं छिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति ।या न ऊरू उशती विश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥३८॥
ताम् पूषम् शिवतमाम् एरयस्व यस्याम् बीजम् मनुष्याः वपन्ति ।या नः ऊरू उशती विश्रयाति यस्याम् उशन्तः प्रहरेम शेपः ॥३८॥
tām pūṣam śivatamām erayasva yasyām bījam manuṣyāḥ vapanti .yā naḥ ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ ..38..

आ रोहोरुमुप धत्स्व हस्तं परि ष्वजस्व जायां सुमनस्यमानः ।प्रजां कृण्वाथामिह मोदमानौ दीर्घं वामायुः सविता कृणोतु ॥३९॥
आ रोह ऊरुम् उप धत्स्व हस्तम् परि स्वजस्व जायाम् सुमनस्यमानः ।प्रजाम् कृण्वाथाम् इह मोदमानौ दीर्घम् वाम् आयुः सविता कृणोतु ॥३९॥
ā roha ūrum upa dhatsva hastam pari svajasva jāyām sumanasyamānaḥ .prajām kṛṇvāthām iha modamānau dīrgham vām āyuḥ savitā kṛṇotu ..39..

आ वां प्रजां जनयतु प्रजापतिरहोरात्राभ्यां समनक्त्वर्यमा ।अदुर्मङ्गली पतिलोकमा विशेमं शं नो भव द्विपदे शं चतुष्पदे ॥४०॥ {१०}
आ वाम् प्रजाम् जनयतु प्रजापतिः अहर्-रात्राभ्याम् समनक्तु अर्यमा ।अदुर्मङ्गली पति-लोकम् आ विश इमम् शम् नः भव द्विपदे शम् चतुष्पदे ॥४०॥
ā vām prajām janayatu prajāpatiḥ ahar-rātrābhyām samanaktu aryamā .adurmaṅgalī pati-lokam ā viśa imam śam naḥ bhava dvipade śam catuṣpade ..40..

देवैर्दत्तं मनुना साकमेतद्वाधूयं वासो वध्वश्च वस्त्रम् ।यो ब्रह्मणे चिकितुषे ददाति स इद्रक्षांसि तल्पानि हन्ति ॥४१॥
देवैः दत्तम् मनुना साकम् एतत् वाधूयम् वासः वध्वः च वस्त्रम् ।यः ब्रह्मणे चिकितुषे ददाति सः इद् रक्षांसि हन्ति ॥४१॥
devaiḥ dattam manunā sākam etat vādhūyam vāsaḥ vadhvaḥ ca vastram .yaḥ brahmaṇe cikituṣe dadāti saḥ id rakṣāṃsi hanti ..41..

यं मे दत्तो ब्रह्मभागं वधूयोर्वाधूयं वासो वध्वश्च वस्त्रम् ।युवं ब्रह्मणेऽनुमन्यमानौ बृहस्पते साकमिन्द्रश्च दत्तम् ॥४२॥
यम् मे दत्तः ब्रह्म-भागम् वधूयोः वाधूयम् वासः वध्वः च वस्त्रम् ।युवम् ब्रह्मणे अनुमन्यमानौ बृहस्पते साकम् इन्द्रः च दत्तम् ॥४२॥
yam me dattaḥ brahma-bhāgam vadhūyoḥ vādhūyam vāsaḥ vadhvaḥ ca vastram .yuvam brahmaṇe anumanyamānau bṛhaspate sākam indraḥ ca dattam ..42..

स्योनाद्योनेरधि बध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सुपुत्रौ सुगृहौ तराथो जीवावुषसो विभातीः ॥४३॥
स्योनात् योनेः अधि बध्यमानौ हसामुदौ महसा मोदमानौ ।सुगू सु पुत्रौ सु गृहौ तराथः जीवौ उषसः विभातीः ॥४३॥
syonāt yoneḥ adhi badhyamānau hasāmudau mahasā modamānau .sugū su putrau su gṛhau tarāthaḥ jīvau uṣasaḥ vibhātīḥ ..43..

नवं वसानः सुरभिः सुवासा उदागां जीव उषसो विभातीः ।आण्डात्पतत्रीवामुक्षि विश्वस्मादेनसस्परि ॥४४॥
नवम् वसानः सुरभिः सु वासाः उदागाम् जीवः उषसः विभातीः ।आण्डात् पतत्री इव अमुक्षि विश्वस्मात् एनसस्परि ॥४४॥
navam vasānaḥ surabhiḥ su vāsāḥ udāgām jīvaḥ uṣasaḥ vibhātīḥ .āṇḍāt patatrī iva amukṣi viśvasmāt enasaspari ..44..

शुम्भनी द्यावापृथिवी अन्तिसुम्ने महिव्रते ।आपः सप्त सुस्रुवुर्देवीस्ता नो मुञ्चन्त्वंहसः ॥४५॥
शुम्भनी द्यावापृथिवी अन्तिसुम्ने महि-व्रते ।आपः सप्त सुस्रुवुः देवीः ताः नः मुञ्चन्तु अंहसः ॥४५॥
śumbhanī dyāvāpṛthivī antisumne mahi-vrate .āpaḥ sapta susruvuḥ devīḥ tāḥ naḥ muñcantu aṃhasaḥ ..45..

सूर्यायै देवेभ्यो मित्राय वरुणाय च ।ये भूतस्य प्रचेतसस्तेभ्य इदमकरं नमः ॥४६॥
सूर्यायै देवेभ्यः मित्राय वरुणाय च ।ये भूतस्य प्रचेतसः तेभ्यः इदम् अकरम् नमः ॥४६॥
sūryāyai devebhyaḥ mitrāya varuṇāya ca .ye bhūtasya pracetasaḥ tebhyaḥ idam akaram namaḥ ..46..

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।संधाता संधिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥४७॥
यः ऋते चित् अभिश्रिषः पुरा जत्रुभ्यः आतृदः ।संधाता संधिम् मघवा पुरूवसुः निष्कर्ता विह्रुतम् पुनर् ॥४७॥
yaḥ ṛte cit abhiśriṣaḥ purā jatrubhyaḥ ātṛdaḥ .saṃdhātā saṃdhim maghavā purūvasuḥ niṣkartā vihrutam punar ..47..

अपास्मत्तम उच्छतु नीलं पिशङ्गमुत लोहितं यत्।निर्दहनी या पृषातक्यस्मिन् तां स्थाणावध्या सजामि ॥४८॥
अप अस्मत्तमः उच्छतु नीलम् पिशङ्गम् उत लोहितम् यत्।निर्दहनी या पृषातकी अस्मिन् ताम् स्थाण-अवध्या सजामि ॥४८॥
apa asmattamaḥ ucchatu nīlam piśaṅgam uta lohitam yat.nirdahanī yā pṛṣātakī asmin tām sthāṇa-avadhyā sajāmi ..48..

यावतीः कृत्या उपवासने यावन्तो राज्ञो वरुणस्य पाशाः ।व्यृद्धयो या असमृद्धयो या अस्मिन् ता स्थाणावधि सादयामि ॥४९॥
यावतीः कृत्याः उपवासने यावन्तः राज्ञः वरुणस्य पाशाः ।व्यृद्धयः याः असमृद्धयः याः अस्मिन् ता स्थाणौ अधि सादयामि ॥४९॥
yāvatīḥ kṛtyāḥ upavāsane yāvantaḥ rājñaḥ varuṇasya pāśāḥ .vyṛddhayaḥ yāḥ asamṛddhayaḥ yāḥ asmin tā sthāṇau adhi sādayāmi ..49..

या मे प्रियतमा तनूः सा मे बिभाय वाससः ।तस्याग्रे त्वं वनस्पते नीविं कृणुष्व मा वयं रिषाम ॥५०॥ {११}
या मे प्रियतमा तनूः सा मे बिभाय वाससः ।तस्य अग्रे त्वम् वनस्पते नीविम् कृणुष्व मा वयम् रिषाम ॥५०॥
yā me priyatamā tanūḥ sā me bibhāya vāsasaḥ .tasya agre tvam vanaspate nīvim kṛṇuṣva mā vayam riṣāma ..50..

ये अन्ता यावतीः सिचो य ओतवो ये च तन्तवः ।वासो यत्पत्नीभिरुतं तन् न स्योनमुप स्पृशात्॥५१॥
ये अन्ताः यावतीः सिचः ये ओतवः ये च तन्तवः ।वासः यत् पत्नीभिः उतम् तत् न स्योनम् उप स्पृशात्॥५१॥
ye antāḥ yāvatīḥ sicaḥ ye otavaḥ ye ca tantavaḥ .vāsaḥ yat patnībhiḥ utam tat na syonam upa spṛśāt..51..

उशतीः कन्यला इमाः पितृलोकात्पतिं यतीः ।अव दीक्षामसृक्षत स्वाहा ॥५२॥
उशतीः कन्यलाः इमाः पितृ-लोकात् पतिम् यतीः ।अव दीक्षाम् असृक्षत स्वाहा ॥५२॥
uśatīḥ kanyalāḥ imāḥ pitṛ-lokāt patim yatīḥ .ava dīkṣām asṛkṣata svāhā ..52..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।वर्चो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५३॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।वर्चः गोषु प्रविष्टम् यत् तेन इमाम् सम् सृजामसि ॥५३॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .varcaḥ goṣu praviṣṭam yat tena imām sam sṛjāmasi ..53..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।तेजो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५४॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।तेजः गोषु प्रविष्टम् यत् तेन इमाम् सम् सृजामसि ॥५४॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .tejaḥ goṣu praviṣṭam yat tena imām sam sṛjāmasi ..54..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।भजो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५५॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।भजः गोषु प्रविष्टः यः तेन इमाम् सम् सृजामसि ॥५५॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .bhajaḥ goṣu praviṣṭaḥ yaḥ tena imām sam sṛjāmasi ..55..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।यशो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५६॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।यशः गोषु प्रविष्टम् यत् तेन इमाम् सम् सृजामसि ॥५६॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .yaśaḥ goṣu praviṣṭam yat tena imām sam sṛjāmasi ..56..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।पयो गोषु प्रविष्टं यत्तेनेमां सं सृजामसि ॥५७॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।पयः गोषु प्रविष्टम् यत् तेन इमाम् सम् सृजामसि ॥५७॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .payaḥ goṣu praviṣṭam yat tena imām sam sṛjāmasi ..57..

बृहस्पतिनावसृष्टां विश्वे देवा अधारयन् ।रसो गोषु प्रविष्टो यस्तेनेमां सं सृजामसि ॥५८॥
बृहस्पतिना अवसृष्टाम् विश्वे देवाः अधारयन् ।रसः गोषु प्रविष्टः यः तेन इमाम् सम् सृजामसि ॥५८॥
bṛhaspatinā avasṛṣṭām viśve devāḥ adhārayan .rasaḥ goṣu praviṣṭaḥ yaḥ tena imām sam sṛjāmasi ..58..

यदीमे केशिनो जना गृहे ते समनर्तिषू रोदेन कृण्वन्तोऽघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥५९॥
यदि इमे केशिनः जनाः गृहे ते समनर्तिषुः रोदेन कृण्वन्तः अघम् ।अग्निः त्वा तस्मात् एनसः सविता च प्र मुञ्चताम् ॥५९॥
yadi ime keśinaḥ janāḥ gṛhe te samanartiṣuḥ rodena kṛṇvantaḥ agham .agniḥ tvā tasmāt enasaḥ savitā ca pra muñcatām ..59..

यदीयं दुहिता तव विकेश्यरुदद्गृहे रोदेन कृण्वत्यघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६०॥ {१२}
यदी इयम् दुहिता तव विकेशी अरुदत्-गृहे रोदेन कृण्वति अघम् ।अग्निः त्वा तस्मात् एनसः सविता च प्र मुञ्चताम् ॥६०॥
yadī iyam duhitā tava vikeśī arudat-gṛhe rodena kṛṇvati agham .agniḥ tvā tasmāt enasaḥ savitā ca pra muñcatām ..60..

यज्जामयो यद्युवतयो गृहे ते समनर्तिषू रोदेन कृण्वतीरघम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६१॥
यत् जामयः यत् युवतयः गृहे ते समनर्तिषुः रोदेन कृण्वतीः अघम् ।अग्निः त्वा तस्मात् एनसः सविता च प्र मुञ्चताम् ॥६१॥
yat jāmayaḥ yat yuvatayaḥ gṛhe te samanartiṣuḥ rodena kṛṇvatīḥ agham .agniḥ tvā tasmāt enasaḥ savitā ca pra muñcatām ..61..

यत्ते प्रजायां पशुषु यद्वा गृहेषु निष्ठितमघकृद्भिरघं कृतम् ।अग्निष्ट्वा तस्मादेनसः सविता च प्र मुञ्चताम् ॥६२॥
यत् ते प्रजायाम् पशुषु यत् वा गृहेषु निष्ठितम् अघ-कृद्भिः अघम् कृतम् ।अग्निः त्वा तस्मात् एनसः सविता च प्र मुञ्चताम् ॥६२॥
yat te prajāyām paśuṣu yat vā gṛheṣu niṣṭhitam agha-kṛdbhiḥ agham kṛtam .agniḥ tvā tasmāt enasaḥ savitā ca pra muñcatām ..62..

इयं नार्युप ब्रूते पूल्यान्यावपन्तिका ।दीर्घायुरस्तु मे पतिर्जीवाति शरदः शतम् ॥६३॥
इयम् नारी उप ब्रूते पूल्यानि आवपन्तिका ।दीर्घ-आयुः अस्तु मे पतिः जीवाति शरदः शतम् ॥६३॥
iyam nārī upa brūte pūlyāni āvapantikā .dīrgha-āyuḥ astu me patiḥ jīvāti śaradaḥ śatam ..63..

इहेमाविन्द्र सं नुद चक्रवाकेव दंपती ।प्रजयैनौ स्वस्तकौ विश्वमायुर्व्यश्नुताम् ॥६४॥
इह इमौ इन्द्र सम् नुद चक्रवाका इव दंपती ।प्रजया एनौ सु अस्तकौ विश्वम् आयुः व्यश्नुताम् ॥६४॥
iha imau indra sam nuda cakravākā iva daṃpatī .prajayā enau su astakau viśvam āyuḥ vyaśnutām ..64..

यदासन्द्यामुपधाने यद्वोपवासने कृतम् ।विवाहे कृत्यां यां चक्रुरास्नाने तां नि दध्मसि ॥६५॥
यत् आसन्द्याम् उपधाने यत् वा उपवासने कृतम् ।विवाहे कृत्याम् याम् चक्रुः आ स्नाने ताम् नि दध्मसि ॥६५॥
yat āsandyām upadhāne yat vā upavāsane kṛtam .vivāhe kṛtyām yām cakruḥ ā snāne tām ni dadhmasi ..65..

यद्दुष्कृतं यच्छमलं विवाहे वहतौ च यत्।तत्संभलस्य कम्बले मृज्महे दुरितं वयम् ॥६६॥
यत् दुष्कृतम् यत् शमलम् विवाहे वहतौ च यत्।तत् संभलस्य कम्बले मृज्महे दुरितम् वयम् ॥६६॥
yat duṣkṛtam yat śamalam vivāhe vahatau ca yat.tat saṃbhalasya kambale mṛjmahe duritam vayam ..66..

संभले मलं सादयित्वा कम्बले दुरितं वयम् ।अभूम यज्ञियाः शुद्धाः प्र ण आयूंषि तारिषत्॥६७॥
संभले मलम् सादयित्वा कम्बले दुरितम् वयम् ।अभूम यज्ञियाः शुद्धाः प्र नः आयूंषि तारिषत्॥६७॥
saṃbhale malam sādayitvā kambale duritam vayam .abhūma yajñiyāḥ śuddhāḥ pra naḥ āyūṃṣi tāriṣat..67..

कृत्रिमः कण्टकः शतदन् य एषः ।अपास्याः केश्यं मलमप शीर्षण्यं लिखात्॥६८॥
कृत्रिमः कण्टकः शतदन् यः एषः ।अप अस्याः केश्यम् मलम् अप शीर्षण्यम् लिखात्॥६८॥
kṛtrimaḥ kaṇṭakaḥ śatadan yaḥ eṣaḥ .apa asyāḥ keśyam malam apa śīrṣaṇyam likhāt..68..

अङ्गादङ्गाद्वयमस्या अप यक्ष्मं नि दध्मसि ।तन् मा प्रापत्पृथिवीं मोत देवान् दिवं मा प्रापदुर्वन्तरिक्षम् ।अपो मा प्रापन् मलमेतदग्ने यमं मा प्रापत्पितॄंश्च सर्वान् ॥६९॥
अङ्गात् अङ्गात् वयम् अस्याः अप यक्ष्मम् नि दध्मसि ।तत् मा प्रापत् पृथिवीम् मा उत देवान् दिवम् मा प्रापत् उरु अन्तरिक्षम् ।अपः मा प्रापत् मलम् एतत् अग्ने यमम् मा प्रापत् पितॄन् च सर्वान् ॥६९॥
aṅgāt aṅgāt vayam asyāḥ apa yakṣmam ni dadhmasi .tat mā prāpat pṛthivīm mā uta devān divam mā prāpat uru antarikṣam .apaḥ mā prāpat malam etat agne yamam mā prāpat pitṝn ca sarvān ..69..

सं त्वा नह्यामि पयसा पृथिव्याः सं त्वा नह्यामि पयसौषधीनाम् ।सं त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजमेमम् ॥७०॥ {१३}
सम् त्वा नह्यामि पयसा पृथिव्याः सम् त्वा नह्यामि पयसा ओषधीनाम् ।सम् त्वा नह्यामि प्रजया धनेन सा संनद्धा सनुहि वाजम् आ इमम् ॥७०॥
sam tvā nahyāmi payasā pṛthivyāḥ sam tvā nahyāmi payasā oṣadhīnām .sam tvā nahyāmi prajayā dhanena sā saṃnaddhā sanuhi vājam ā imam ..70..

अमोऽहमस्मि सा त्वं सामाहमस्म्यृक्त्वं द्यौरहं पृथिवी त्वम् ।ताविह सं भवाव प्रजामा जनयावहै ॥७१॥
अमः अहम् अस्मि सा त्वम् साम अहम् अस्मि ऋच् त्वम् द्यौः अहम् पृथिवी त्वम् ।तौ इह सम् भवाव प्रजामा जनयावहै ॥७१॥
amaḥ aham asmi sā tvam sāma aham asmi ṛc tvam dyauḥ aham pṛthivī tvam .tau iha sam bhavāva prajāmā janayāvahai ..71..

जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।अरिष्टासू सचेवहि बृहते वाजसातये ॥७२॥
जनियन्ति नावग्रवः पुत्रियन्ति सुदानवः ।अरिष्ट-असू सचेवहि बृहते वाजसातये ॥७२॥
janiyanti nāvagravaḥ putriyanti sudānavaḥ .ariṣṭa-asū sacevahi bṛhate vājasātaye ..72..

ये पितरो वधूदर्शा इमं वहतुमागमन् ।ते अस्यै वध्वै संपत्न्यै प्रजावच्छर्म यच्छन्तु ॥७३॥
ये पितरः वधू-दर्शाः इमम् वहतुम् आगमन् ।ते अस्यै वध्वै सं पत्न्यै प्रजावत् शर्म यच्छन्तु ॥७३॥
ye pitaraḥ vadhū-darśāḥ imam vahatum āgaman .te asyai vadhvai saṃ patnyai prajāvat śarma yacchantu ..73..

येदं पूर्वागन् रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा ।तां वहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत्॥७४॥
या इदम् पूर्वा आगन् रशनायमाना प्रजाम् अस्यै द्रविणम् च इह दत्त्वा ।ताम् वहन्तु अ गतस्य अनु पन्थाम् विराज् इयम् सुप्रजाः अति अजैषीत्॥७४॥
yā idam pūrvā āgan raśanāyamānā prajām asyai draviṇam ca iha dattvā .tām vahantu a gatasya anu panthām virāj iyam suprajāḥ ati ajaiṣīt..74..

प्र बुध्यस्व सुबुधा बुध्यमाना दीर्घायुत्वाय शतशारदाय ।गृहान् गच्छ गृहपत्नी यथासो दीर्घं त आयुः सविता कृणोतु ॥७५॥ {१४}
प्र बुध्यस्व सु बुधा बुध्यमाना दीर्घ-आयु-त्वाय शत-शारदाय ।गृहान् गच्छ गृह-पत्नी यथा असः दीर्घम् ते आयुः सविता कृणोतु ॥७५॥
pra budhyasva su budhā budhyamānā dīrgha-āyu-tvāya śata-śāradāya .gṛhān gaccha gṛha-patnī yathā asaḥ dīrgham te āyuḥ savitā kṛṇotu ..75..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In