| |
|

This overlay will guide you through the buttons:

व्रात्य आसीदीयमान एव स प्रजापतिं समैरयत्॥१॥
व्रात्यः आसीत् ईयमानः एव स प्रजापतिम् समैरयत्॥१॥
vrātyaḥ āsīt īyamānaḥ eva sa prajāpatim samairayat..1..

स प्रजापतिः सुवर्णमात्मन्न् अपश्यत्तत्प्राजनयत्॥२॥
स प्रजापतिः सुवर्णम् आत्मन् अपश्यत् तत् प्राजनयत्॥२॥
sa prajāpatiḥ suvarṇam ātman apaśyat tat prājanayat..2..

तदेकमभवत्तल्ललाममभवत्तन् महदभवत्तज्ज्येष्ठमभवत् तद्ब्रह्माभवत्तत्तपोऽभवत् तत्सत्यमभवत् तेन प्राजायत ॥ ३॥
तत् एकम् अभवत् तत् ललामम् अभवत् तत् महत् अभवत् तत् ज्येष्ठम् अभवत् तत् ब्रह्म अभवत् तत् तपः अभवत् तत् सत्यम् अभवत् तेन प्राजायत ॥ ३॥
tat ekam abhavat tat lalāmam abhavat tat mahat abhavat tat jyeṣṭham abhavat tat brahma abhavat tat tapaḥ abhavat tat satyam abhavat tena prājāyata .. 3..

सोऽवर्धत स महान् अभवत्स महादेवोऽभवत्॥४॥
सः अवर्धत स महान् अभवत् स महादेवः अभवत्॥४॥
saḥ avardhata sa mahān abhavat sa mahādevaḥ abhavat..4..

स देवानामीशां पर्यैत्स ईशानोऽभवत्॥५॥
स देवानाम् ईशाम् पर्यैत् सः ईशानः अभवत्॥५॥
sa devānām īśām paryait saḥ īśānaḥ abhavat..5..

स एकव्रात्योऽभवत्स धनुरादत्त तदेवेन्द्रधनुः ॥६॥
सः एक-व्रात्यः अभवत् स धनुः आदत्त तत् एव इन्द्रधनुः ॥६॥
saḥ eka-vrātyaḥ abhavat sa dhanuḥ ādatta tat eva indradhanuḥ ..6..

नीलमस्योदरं लोहितं पृष्ठम् ॥७॥
नीलम् अस्य उदरम् लोहितम् पृष्ठम् ॥७॥
nīlam asya udaram lohitam pṛṣṭham ..7..

नीलेनैवाप्रियं भ्रातृव्यं प्रोर्णोति लोहितेन द्विषन्तं विध्यतीति ब्रह्मवादिनो वदन्ति ॥ ८ ॥
नीलेन एव अप्रियम् भ्रातृव्यम् प्रोर्णोति लोहितेन द्विषन्तम् विध्यति इति ब्रह्म-वादिनः वदन्ति ॥ ८ ॥
nīlena eva apriyam bhrātṛvyam prorṇoti lohitena dviṣantam vidhyati iti brahma-vādinaḥ vadanti .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In