| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्योऽतिथिर्गृहान् आगछेत्॥१॥
तत् यस्य एवम् विद्वान् व्रात्यः अतिथिः गृहान् आगच्छेत्॥१॥
tat yasya evam vidvān vrātyaḥ atithiḥ gṛhān āgacchet..1..

स्वयमेनमभ्युदेत्य ब्रूयाद्व्रात्य क्वावात्सीर्व्रात्योदकं व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियं तथास्तु व्रात्य यथा ते वशस्तथास्तु व्रात्य यथा ते निकामस्तथास्त्विति ॥२॥
स्वयम् एनम् अभ्युदेत्य ब्रूयात् व्रात्य क्व अवात्सीः व्रात्य उदकम् व्रात्य तर्पयन्तु व्रात्य यथा ते प्रियम् तथा अस्तु व्रात्य यथा ते वशः तथा अस्तु व्रात्य यथा ते निकामः तथा अस्तु इति ॥२॥
svayam enam abhyudetya brūyāt vrātya kva avātsīḥ vrātya udakam vrātya tarpayantu vrātya yathā te priyam tathā astu vrātya yathā te vaśaḥ tathā astu vrātya yathā te nikāmaḥ tathā astu iti ..2..

यदेनमाह व्रात्य क्वावात्सीरिति पथ एव तेन देवयानान् अव रुन्धे ॥३॥
यत् एनम् आह व्रात्य क्व अवात्सीः इति पथः एव तेन देव-यानान् अव रुन्धे ॥३॥
yat enam āha vrātya kva avātsīḥ iti pathaḥ eva tena deva-yānān ava rundhe ..3..

यदेनमाह व्रात्योदकमित्यप एव तेनाव रुन्धे ॥४॥
यत् एनम् आह व्रात्य-उदकम् इति अपः एव तेन अव रुन्धे ॥४॥
yat enam āha vrātya-udakam iti apaḥ eva tena ava rundhe ..4..

यदेनमाह व्रात्य तर्पयन्त्विति प्राणमेव तेन वर्षीयांसं कुरुते ॥५॥
यत् एनम् आह व्रात्य तर्पयन्तु इति प्राणम् एव तेन वर्षीयांसम् कुरुते ॥५॥
yat enam āha vrātya tarpayantu iti prāṇam eva tena varṣīyāṃsam kurute ..5..

यदेनमाह व्रात्य यथा ते प्रियं तथास्त्विति प्रियमेव तेनाव रुन्धे ॥६॥
यत् एनम् आह व्रात्य यथा ते प्रियम् तथा अस्तु इति प्रियम् एव तेन अव रुन्धे ॥६॥
yat enam āha vrātya yathā te priyam tathā astu iti priyam eva tena ava rundhe ..6..

ऐनं प्रियं गच्छति प्रियः प्रियस्य भवति य एवं वेद ॥७॥
आ एनम् प्रियम् गच्छति प्रियः प्रियस्य भवति यः एवम् वेद ॥७॥
ā enam priyam gacchati priyaḥ priyasya bhavati yaḥ evam veda ..7..

यदेनमाह व्रात्य यथा ते वशस्तथास्त्विति वशमेव तेनाव रुन्धे ॥८॥
यत् एनम् आह व्रात्य यथा ते वशः तथा अस्तु इति वशम् एव तेन अव रुन्धे ॥८॥
yat enam āha vrātya yathā te vaśaḥ tathā astu iti vaśam eva tena ava rundhe ..8..

ऐनं वशो गच्छति वशी वशिनां भवति य एवं वेद ॥९॥
आ एनम् वशः गच्छति वशी वशिनाम् भवति यः एवम् वेद ॥९॥
ā enam vaśaḥ gacchati vaśī vaśinām bhavati yaḥ evam veda ..9..

यदेनमाह व्रात्य यथा ते निकामस्तथास्त्विति निकाममेव तेनाव रुन्धे ॥१०॥
यत् एनम् आह व्रात्य यथा ते निकामः तथा अस्तु इति निकामम् एव तेन अव रुन्धे ॥१०॥
yat enam āha vrātya yathā te nikāmaḥ tathā astu iti nikāmam eva tena ava rundhe ..10..

ऐनं निकामो गच्छति निकामे निकामस्य भवति य एवं वेद ॥११॥
आ एनम् निकामः गच्छति निकामे निकामस्य भवति यः एवम् वेद ॥११॥
ā enam nikāmaḥ gacchati nikāme nikāmasya bhavati yaḥ evam veda ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In