| |
|

This overlay will guide you through the buttons:

तद्यस्यैवं विद्वान् व्रात्य एकां रात्रिमतिथिर्गृहे वसति ॥१॥
तत् यस्य एवम् विद्वान् व्रात्यः एकाम् रात्रिम् अतिथिः गृहे वसति ॥१॥
tat yasya evam vidvān vrātyaḥ ekām rātrim atithiḥ gṛhe vasati ..1..

ये पृथिव्यां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥२॥
ये पृथिव्याम् पुण्याः लोकाः तान् एव तेन अव रुन्धे ॥२॥
ye pṛthivyām puṇyāḥ lokāḥ tān eva tena ava rundhe ..2..

तद्यस्यैवं विद्वान् व्रात्यो द्वितीयां रात्रिमतिथिर्गृहे वसति ॥३॥
तत् यस्य एवम् विद्वान् व्रात्यः द्वितीयाम् रात्रिम् अतिथिः गृहे वसति ॥३॥
tat yasya evam vidvān vrātyaḥ dvitīyām rātrim atithiḥ gṛhe vasati ..3..

येऽन्तरिक्षे पुण्या लोकास्तान् एव तेनाव रुन्धे ॥४॥
ये अन्तरिक्षे पुण्याः लोकाः तान् एव तेन अव रुन्धे ॥४॥
ye antarikṣe puṇyāḥ lokāḥ tān eva tena ava rundhe ..4..

तद्यस्यैवं विद्वान् व्रात्यस्तृतीयां रात्रिमतिथिर्गृहे वसति ॥५॥
तत् यस्य एवम् विद्वान् व्रात्यः तृतीयाम् रात्रिम् अतिथिः गृहे वसति ॥५॥
tat yasya evam vidvān vrātyaḥ tṛtīyām rātrim atithiḥ gṛhe vasati ..5..

ये दिवि पुण्या लोकास्तान् एव तेनाव रुन्धे ॥६॥
ये दिवि पुण्याः लोकाः तान् एव तेन अव रुन्धे ॥६॥
ye divi puṇyāḥ lokāḥ tān eva tena ava rundhe ..6..

तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति ॥७॥
तत् यस्य एवम् विद्वान् व्रात्यः चतुर्थीम् रात्रिम् अतिथिः गृहे वसति ॥७॥
tat yasya evam vidvān vrātyaḥ caturthīm rātrim atithiḥ gṛhe vasati ..7..

ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥८॥
ये पुण्यानाम् पुण्याः लोकाः तान् एव तेन अव रुन्धे ॥८॥
ye puṇyānām puṇyāḥ lokāḥ tān eva tena ava rundhe ..8..

तद्यस्यैवं विद्वान् व्रात्योऽपरिमिता रात्रीरतिथिर्गृहे वसति ॥९॥
तत् यस्य एवम् विद्वान् व्रात्यः अपरिमिताः रात्रीः अतिथिः गृहे वसति ॥९॥
tat yasya evam vidvān vrātyaḥ aparimitāḥ rātrīḥ atithiḥ gṛhe vasati ..9..

य एवापरिमिताः पुण्या लोकास्तान् एव तेनाव रुन्धे ॥१०॥
ये एव अपरिमिताः पुण्याः लोकाः तान् एव तेन अव रुन्धे ॥१०॥
ye eva aparimitāḥ puṇyāḥ lokāḥ tān eva tena ava rundhe ..10..

अथ यस्याव्रात्यो व्रात्यब्रुवो नामबिभ्रत्यतिथिर्गृहान् आगछेत् ॥११॥
अथ यस्य अ व्रात्यः व्रात्यब्रुवः नाम-बिभ्रति अतिथिः गृहान् आगच्छेत् ॥११॥
atha yasya a vrātyaḥ vrātyabruvaḥ nāma-bibhrati atithiḥ gṛhān āgacchet ..11..

कर्षेदेनं न चैनं कर्षेत् ॥१२॥
कर्षेत् एनम् न च एनम् कर्षेत् ॥१२॥
karṣet enam na ca enam karṣet ..12..

अस्यै देवताया उदकं याचामीमां देवतां वासय इमामिमां देवतां परि वेवेष्मी परि वेविष्यात् ॥१३॥
अस्यै देवतायै उदकम् याचामि इमाम् देवताम् वासये इमाम् इमाम् देवताम् परि वेवेष्मी परि वेविष्यात् ॥१३॥
asyai devatāyai udakam yācāmi imām devatām vāsaye imām imām devatām pari veveṣmī pari veviṣyāt ..13..

तस्यामेवास्य तद्देवतायां हुतं भवति य एवं वेद ॥१४॥
तस्याम् एव अस्य तत् देवतायाम् हुतम् भवति यः एवम् वेद ॥१४॥
tasyām eva asya tat devatāyām hutam bhavati yaḥ evam veda ..14..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In