| |
|

This overlay will guide you through the buttons:

स संवत्सरमूर्ध्वोऽतिष्ठत्तं देवा अब्रुवन् व्रात्य किं नु तिष्ठसीति ॥१॥
स संवत्सरम् ऊर्ध्वः अतिष्ठत् तम् देवाः अब्रुवन् व्रात्य किम् नु तिष्ठसि इति ॥१॥
sa saṃvatsaram ūrdhvaḥ atiṣṭhat tam devāḥ abruvan vrātya kim nu tiṣṭhasi iti ..1..

सोऽब्रवीदासन्दीं मे सं भरन्त्विति ॥२॥
सः अब्रवीत् आसन्दीम् मे सम् भरन्तु इति ॥२॥
saḥ abravīt āsandīm me sam bharantu iti ..2..

तस्मै व्रात्यायासन्दीं समभरन् ॥३॥
तस्मै व्रात्याय आसन्दीम् समभरन् ॥३॥
tasmai vrātyāya āsandīm samabharan ..3..

तस्या ग्रीष्मश्च वसन्तश्च द्वौ पादावास्तां शरच्च वर्षाश्च द्वौ ॥४॥
तस्याः ग्रीष्मः च वसन्तः च द्वौ पादौ आस्ताम् शरद् च वर्षाः च द्वौ ॥४॥
tasyāḥ grīṣmaḥ ca vasantaḥ ca dvau pādau āstām śarad ca varṣāḥ ca dvau ..4..

बृहच्च रथन्तरं चानूच्ये आस्तां यज्ञायज्ञियं च वामदेव्यं च तिरश्च्ये ॥५॥
बृहत् च रथन्तरम् च अनूच्ये आस्ताम् यज्ञायज्ञियम् च वामदेव्यम् च तिरश्च्ये ॥५॥
bṛhat ca rathantaram ca anūcye āstām yajñāyajñiyam ca vāmadevyam ca tiraścye ..5..

ऋचः प्राञ्चस्तन्तवो यजूंषि तिर्यञ्चः ॥६॥
ऋचः प्राञ्चः तन्तवः यजूंषि तिर्यञ्चः ॥६॥
ṛcaḥ prāñcaḥ tantavaḥ yajūṃṣi tiryañcaḥ ..6..

वेद आस्तरणं ब्रह्मोपबर्हणम् ॥७॥
वेदः आस्तरणम् ब्रह्म उपबर्हणम् ॥७॥
vedaḥ āstaraṇam brahma upabarhaṇam ..7..

सामासाद उद्गीथोऽपश्रयः ॥८॥
साम-आसादः उद्गीथः अपश्रयः ॥८॥
sāma-āsādaḥ udgīthaḥ apaśrayaḥ ..8..

तामासन्दीं व्रात्य आरोहत्॥९॥
ताम् आसन्दीम् व्रात्यः आरोहत्॥९॥
tām āsandīm vrātyaḥ ārohat..9..

तस्य देवजनाः परिष्कन्दा आसन्त्संकल्पाः प्रहाय्या विश्वानि भूतान्युपसदः ॥१०॥
तस्य देव-जनाः परिष्कन्दाः आसन् संकल्पाः प्रहाय्याः विश्वानि भूतानि उपसदः ॥१०॥
tasya deva-janāḥ pariṣkandāḥ āsan saṃkalpāḥ prahāyyāḥ viśvāni bhūtāni upasadaḥ ..10..

विश्वान्येवास्य भूतान्युपसदो भवन्ति य एवं वेद ॥११॥
विश्वानि एव अस्य भूतानि उपसदः भवन्ति यः एवम् वेद ॥११॥
viśvāni eva asya bhūtāni upasadaḥ bhavanti yaḥ evam veda ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In