| |
|

This overlay will guide you through the buttons:

तस्मै प्राच्या दिशः ॥१॥
तस्मै प्राच्याः दिशः ॥१॥
tasmai prācyāḥ diśaḥ ..1..

वासन्तौ मासौ गोप्तारावकुर्वन् बृहच्च रथन्तरं चानुष्ठातारौ ॥२॥
वासन्तौ मासौ गोप्तारौ अकुर्वन् बृहत् च रथन्तरम् च अनुष्ठातारौ ॥२॥
vāsantau māsau goptārau akurvan bṛhat ca rathantaram ca anuṣṭhātārau ..2..

वासन्तावेनं मासौ प्राच्या दिशो गोपायतो बृहच्च रथन्तरं चानु तिष्ठतो य एवं वेद ॥३ ॥
वासन्तौ एनम् मासौ प्राच्याः दिशः गोपायतः बृहत् च रथन्तरम् च अनु तिष्ठतः यः एवम् वेद ॥३ ॥
vāsantau enam māsau prācyāḥ diśaḥ gopāyataḥ bṛhat ca rathantaram ca anu tiṣṭhataḥ yaḥ evam veda ..3 ..

तस्मै दक्षिणाया दिशः ॥४॥
तस्मै दक्षिणायाः दिशः ॥४॥
tasmai dakṣiṇāyāḥ diśaḥ ..4..

ग्रैष्मौ मासौ गोप्तारावकुर्वन् यज्ञायज्ञियं च वामदेव्यं चानुष्ठातारौ ॥५॥
ग्रैष्मौ मासौ गोप्तारौ अकुर्वन् यज्ञायज्ञियम् च वामदेव्यम् च अनुष्ठातारौ ॥५॥
graiṣmau māsau goptārau akurvan yajñāyajñiyam ca vāmadevyam ca anuṣṭhātārau ..5..

ग्रैष्मावेनं मासौ दक्षिणाया दिशो गोपायतो यज्ञायज्ञियं च वामदेव्यं चानु तिष्ठतो य एवं वेद ॥६॥
ग्रैष्मौ एनम् मासौ दक्षिणायाः दिशः गोपायतः यज्ञायज्ञियम् च वामदेव्यम् च अनु तिष्ठतः यः एवम् वेद ॥६॥
graiṣmau enam māsau dakṣiṇāyāḥ diśaḥ gopāyataḥ yajñāyajñiyam ca vāmadevyam ca anu tiṣṭhataḥ yaḥ evam veda ..6..

तस्मै प्रतीच्या दिशः ॥७॥
तस्मै प्रतीच्याः दिशः ॥७॥
tasmai pratīcyāḥ diśaḥ ..7..

वार्षिकौ मासौ गोप्तारावकुर्वन् वैरूपं च वैराजं चानुष्ठातारौ ॥८॥
वार्षिकौ मासौ गोप्तारौ अकुर्वन् वैरूपम् च वैराजम् च अनुष्ठातारौ ॥८॥
vārṣikau māsau goptārau akurvan vairūpam ca vairājam ca anuṣṭhātārau ..8..

वार्षिकावेनं मासौ प्रतीच्या दिशो गोपायतो वैरूपं च वैराजं चानु तिष्ठतो य एवं वेद ॥९ ॥
वार्षिकौ एनम् मासौ प्रतीच्याः दिशः गोपायतः वैरूपम् च वैराजम् च अनु तिष्ठतः यः एवम् वेद ॥९ ॥
vārṣikau enam māsau pratīcyāḥ diśaḥ gopāyataḥ vairūpam ca vairājam ca anu tiṣṭhataḥ yaḥ evam veda ..9 ..

तस्मा उदीच्या दिशः ॥१०॥
तस्मै उदीच्याः दिशः ॥१०॥
tasmai udīcyāḥ diśaḥ ..10..

शारदौ मासौ गोप्तारावकुर्वं छ्यैतं च नौधसं चानुष्ठातारौ ॥११॥
शारदौ मासौ गोप्तारौ अकुर्वम् श्यैतम् च नौधसम् च अनुष्ठातारौ ॥११॥
śāradau māsau goptārau akurvam śyaitam ca naudhasam ca anuṣṭhātārau ..11..

शारदावेनं मासावुदीच्या दिशो गोपायतः श्यैतं च नौधसं चानु तिष्ठतो य एवं वेद ॥१२॥
शारदौ एनम् मासौ उदीच्याः दिशः गोपायतः श्यैतम् च नौधसम् च अनु तिष्ठतः यः एवम् वेद ॥१२॥
śāradau enam māsau udīcyāḥ diśaḥ gopāyataḥ śyaitam ca naudhasam ca anu tiṣṭhataḥ yaḥ evam veda ..12..

तस्मै ध्रुवाया दिशः ॥१३॥
तस्मै ध्रुवायाः दिशः ॥१३॥
tasmai dhruvāyāḥ diśaḥ ..13..

हैमनौ मासौ गोप्तारावकुर्वन् भूमिं चाग्निं चानुष्ठातारौ ॥१४॥
हैमनौ मासौ गोप्तारौ अकुर्वन् भूमिम् च अग्निम् च अनुष्ठातारौ ॥१४॥
haimanau māsau goptārau akurvan bhūmim ca agnim ca anuṣṭhātārau ..14..

हैमनावेनं मासौ ध्रुवाया दिशो गोपायतो भूमिश्चाग्निश्चानु तिष्ठतो य एवं वेद ॥१५ ॥
हैमनौ एनम् मासौ ध्रुवायाः दिशः गोपायतः भूमिः च अग्निः च अनु तिष्ठतः यः एवम् वेद ॥१५ ॥
haimanau enam māsau dhruvāyāḥ diśaḥ gopāyataḥ bhūmiḥ ca agniḥ ca anu tiṣṭhataḥ yaḥ evam veda ..15 ..

तस्मा ऊर्ध्वाया दिशः॥१६॥
तस्मै ऊर्ध्वायाः दिशः॥१६॥
tasmai ūrdhvāyāḥ diśaḥ..16..

शैशिरौ मासौ गोप्तारावकुर्वन् दिवं चादित्यं चानुष्ठातारौ ॥१७॥
शैशिरौ मासौ गोप्तारौ अकुर्वन् दिवम् च आदित्यम् च अनुष्ठातारौ ॥१७॥
śaiśirau māsau goptārau akurvan divam ca ādityam ca anuṣṭhātārau ..17..

शैशिरावेनं मासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद ॥१८॥
शैशिरौ एनम् मासौ ऊर्ध्वायाः दिशः गोपायतः द्यौः च आदित्यः च अनु तिष्ठतः यः एवम् वेद ॥१८॥
śaiśirau enam māsau ūrdhvāyāḥ diśaḥ gopāyataḥ dyauḥ ca ādityaḥ ca anu tiṣṭhataḥ yaḥ evam veda ..18..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In