शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥
PADACHEDA
शर्वः एनम् इश्वासः दक्षिणायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥५॥
TRANSLITERATION
śarvaḥ enam iśvāsaḥ dakṣiṇāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..5..
पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥
PADACHEDA
पशुपतिः एनम् इष्वासः प्रतीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥७॥
TRANSLITERATION
paśupatiḥ enam iṣvāsaḥ pratīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..7..
उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥९॥
PADACHEDA
उग्रः एनम् देवः इष्वासः उदीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥९॥
TRANSLITERATION
ugraḥ enam devaḥ iṣvāsaḥ udīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..9..
रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥११॥
PADACHEDA
रुद्रः एनम् इष्वासः ध्रुवायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥११॥
TRANSLITERATION
rudraḥ enam iṣvāsaḥ dhruvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..11..
महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१३॥
PADACHEDA
महादेवः एनम् इष्वासः ऊर्ध्वायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥१३॥
TRANSLITERATION
mahādevaḥ enam iṣvāsaḥ ūrdhvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..13..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.
Welcome
Begin your learning journey
Gyaandweep's eGurukuls bring Vedic knowledge to structured, guided learning paths.
✓
You're all set
Head to your chosen Gurukula and begin your first Learning Path.