| |
|

This overlay will guide you through the buttons:

तस्मै प्राच्या दिशो अन्तर्देशाद्भवमिष्वासमनुष्ठातारमकुर्वन् ॥१॥
तस्मै प्राच्याः दिशः अन्तर्देशात् भवम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥१॥
tasmai prācyāḥ diśaḥ antardeśāt bhavam iṣvāsam anuṣṭhātāram akurvan ..1..

भव एनमिष्वासः प्राच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥२॥
भवः एनम् इष्वासः प्राच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः ॥२॥
bhavaḥ enam iṣvāsaḥ prācyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ ..2..

नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥३॥
न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥३॥
na asya paśūn na samānān hinasti yaḥ evam veda ..3..

तस्मै दक्षिणाया दिशो अन्तर्देशाच्छर्वमिष्वासमनुष्ठातारमकुर्वन् ॥४॥
तस्मै दक्षिणायाः दिशः अन्तर्देशात् शर्वम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥४॥
tasmai dakṣiṇāyāḥ diśaḥ antardeśāt śarvam iṣvāsam anuṣṭhātāram akurvan ..4..

शर्व एनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥५॥
शर्वः एनम् इश्वासः दक्षिणायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥५॥
śarvaḥ enam iśvāsaḥ dakṣiṇāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..5..

तस्मै प्रतीच्या दिशो अन्तर्देशात्पशुपतिमिष्वासमनुष्ठातारमकुर्वन् ॥६॥
तस्मै प्रतीच्याः दिशः अन्तर्देशात् पशुपतिम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥६॥
tasmai pratīcyāḥ diśaḥ antardeśāt paśupatim iṣvāsam anuṣṭhātāram akurvan ..6..

पशुपतिरेनमिष्वासः प्रतीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥७॥
पशुपतिः एनम् इष्वासः प्रतीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥७॥
paśupatiḥ enam iṣvāsaḥ pratīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..7..

तस्मा उदीच्या दिशो अन्तर्देशादुग्रं देवमिष्वासमनुष्ठातारमकुर्वन् ॥८॥
तस्मै उदीच्याः दिशः अन्तर्देशात् उग्रम् देवम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥८॥
tasmai udīcyāḥ diśaḥ antardeśāt ugram devam iṣvāsam anuṣṭhātāram akurvan ..8..

उग्र एनं देव इष्वास उदीच्या दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥९॥
उग्रः एनम् देवः इष्वासः उदीच्याः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥९॥
ugraḥ enam devaḥ iṣvāsaḥ udīcyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..9..

तस्मै ध्रुवाया दिशो अन्तर्देशाद्रुद्रमिष्वासमनुष्ठा - तारमकुर्वन् ॥१०॥
तस्मै ध्रुवायाः दिशः अन्तर्देशात् रुद्रम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥१०॥
tasmai dhruvāyāḥ diśaḥ antardeśāt rudram iṣvāsam anuṣṭhātāram akurvan ..10..

रुद्र एनमिष्वासो ध्रुवाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥११॥
रुद्रः एनम् इष्वासः ध्रुवायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥११॥
rudraḥ enam iṣvāsaḥ dhruvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..11..

तस्मा ऊर्ध्वाया दिशो अन्तर्देशान् महादेवमिष्वासमनुष्ठातारमकुर्वन् ॥ १२ ॥
तस्मै ऊर्ध्वायाः दिशः अन्तर्देशात् महादेवम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥ १२ ॥
tasmai ūrdhvāyāḥ diśaḥ antardeśāt mahādevam iṣvāsam anuṣṭhātāram akurvan .. 12 ..

महादेव एनमिष्वास ऊर्ध्वाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः । नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१३॥
महादेवः एनम् इष्वासः ऊर्ध्वायाः दिशः अन्तर्देशात् अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः । न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥१३॥
mahādevaḥ enam iṣvāsaḥ ūrdhvāyāḥ diśaḥ antardeśāt anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ . na asya paśūn na samānān hinasti yaḥ evam veda ..13..

तस्मै सर्वेभ्यो अन्तर्देशेभ्य ईशानमिष्वासमनुष्ठातारमकुर्वन् ॥१४॥
तस्मै सर्वेभ्यः अन्तर्देशेभ्यः ईशानम् इष्वासम् अनुष्ठातारम् अकुर्वन् ॥१४॥
tasmai sarvebhyaḥ antardeśebhyaḥ īśānam iṣvāsam anuṣṭhātāram akurvan ..14..

ईशान एनमिष्वासः सर्वेभ्यो अन्तर्देशेभ्योऽनुष्ठातानु तिष्ठति नैनं शर्वो न भवो नेशानः ॥१५॥
ईशानः एनम् इष्वासः सर्वेभ्यः अन्तर्देशेभ्यः अनुष्ठाता अनु तिष्ठति न एनम् शर्वः न भवः न ईशानः ॥१५॥
īśānaḥ enam iṣvāsaḥ sarvebhyaḥ antardeśebhyaḥ anuṣṭhātā anu tiṣṭhati na enam śarvaḥ na bhavaḥ na īśānaḥ ..15..

नास्य पशून् न समानान् हिनस्ति य एवं वेद ॥१६॥
न अस्य पशून् न समानान् हिनस्ति यः एवम् वेद ॥१६॥
na asya paśūn na samānān hinasti yaḥ evam veda ..16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In