| |
|

This overlay will guide you through the buttons:

स ध्रुवां दिशमनु व्यचलत् ॥१॥
स ध्रुवाम् दिशम् अनु व्यचलत् ॥१॥
sa dhruvām diśam anu vyacalat ..1..

तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ॥२॥
तम् भूमिः च अग्निः च ओषधयः च वनस्पतयः च वानस्पत्याः च वीरुधः च अनुव्यचलन् ॥२॥
tam bhūmiḥ ca agniḥ ca oṣadhayaḥ ca vanaspatayaḥ ca vānaspatyāḥ ca vīrudhaḥ ca anuvyacalan ..2..

भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ॥३॥
भूमेः च वै सः अग्नेः च ओषधीनाम् च वनस्पतीनाम् च वानस्पत्यानाम् च वीरुधाम् च प्रियम् धाम भवति यः एवम् वेद ॥३॥
bhūmeḥ ca vai saḥ agneḥ ca oṣadhīnām ca vanaspatīnām ca vānaspatyānām ca vīrudhām ca priyam dhāma bhavati yaḥ evam veda ..3..

स ऊर्ध्वां दिशमनु व्यचलत् ॥४॥
सः ऊर्ध्वाम् दिशम् अनु व्यचलत् ॥४॥
saḥ ūrdhvām diśam anu vyacalat ..4..

तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥५॥
तम् ऋतम् च सत्यम् च सूर्यः च चन्द्रः च नक्षत्राणि च अनुव्यचलन् ॥५॥
tam ṛtam ca satyam ca sūryaḥ ca candraḥ ca nakṣatrāṇi ca anuvyacalan ..5..

ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ॥६॥
ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणाम् च प्रियम् धाम भवति यः एवम् वेद ॥६॥
ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇām ca priyam dhāma bhavati yaḥ evam veda ..6..

स उत्तमां दिशमनु व्यचलत् ॥७॥
सः उत्तमाम् दिशम् अनु व्यचलत् ॥७॥
saḥ uttamām diśam anu vyacalat ..7..

तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥८॥
तम् ऋचः च सामानि च यजूंषि च ब्रह्म च अनुव्यचलन् ॥८॥
tam ṛcaḥ ca sāmāni ca yajūṃṣi ca brahma ca anuvyacalan ..8..

ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥९॥
ऋचाम् च वै स साम्नाम् च यजुषाम् च ब्रह्मणः च प्रियम् धाम भवति यः एवम् वेद ॥९॥
ṛcām ca vai sa sāmnām ca yajuṣām ca brahmaṇaḥ ca priyam dhāma bhavati yaḥ evam veda ..9..

स बृहतीं दिशमनु व्यचलत् ॥१०॥
स बृहतीम् दिशम् अनु व्यचलत् ॥१०॥
sa bṛhatīm diśam anu vyacalat ..10..

तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥११॥
तम् इतिहासः च पुराणम् च गाथाः च नाराशंसीः च अनुव्यचलन् ॥११॥
tam itihāsaḥ ca purāṇam ca gāthāḥ ca nārāśaṃsīḥ ca anuvyacalan ..11..

इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥१२॥
इतिहासस्य च वै स पुराणस्य च गाथानाम् च नाराशंसीनाम् च प्रियम् धाम भवति यः एवम् वेद ॥१२॥
itihāsasya ca vai sa purāṇasya ca gāthānām ca nārāśaṃsīnām ca priyam dhāma bhavati yaḥ evam veda ..12..

स परमां दिशमनु व्यचलत् ॥१३॥
स परमाम् दिशम् अनु व्यचलत् ॥१३॥
sa paramām diśam anu vyacalat ..13..

तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ॥१४॥
तम् आहवनीयः च गार्हपत्यः च दक्षिणाग्निः च यज्ञः च यजमानः च पशवः च अनुव्यचलन् ॥१४॥
tam āhavanīyaḥ ca gārhapatyaḥ ca dakṣiṇāgniḥ ca yajñaḥ ca yajamānaḥ ca paśavaḥ ca anuvyacalan ..14..

आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ॥१५॥
आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेः च यज्ञस्य च यजमानस्य च पशूनाम् च प्रियम् धाम भवति यः एवम् वेद ॥१५॥
āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneḥ ca yajñasya ca yajamānasya ca paśūnām ca priyam dhāma bhavati yaḥ evam veda ..15..

सोऽनादिष्टां दिशमनु व्यचलत् ॥१६॥
सः अन् आदिष्टाम् दिशम् अनु व्यचलत् ॥१६॥
saḥ an ādiṣṭām diśam anu vyacalat ..16..

तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् ॥१७॥
तम् ऋतवः च आर्तवाः च लोकाः च लौक्याः च मासाः च अर्ध-मासाः च अहर्-रात्रे च अनुव्यचलन् ॥१७॥
tam ṛtavaḥ ca ārtavāḥ ca lokāḥ ca laukyāḥ ca māsāḥ ca ardha-māsāḥ ca ahar-rātre ca anuvyacalan ..17..

ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ॥१८॥
ऋतूनाम् च वै सः आर्तवानाम् च लोकानाम् च लौक्यानाम् च मासानाम् च अर्ध-मासानाम् च अहर्-रात्रयोः च प्रियम् धाम भवति यः एवम् वेद ॥१८॥
ṛtūnām ca vai saḥ ārtavānām ca lokānām ca laukyānām ca māsānām ca ardha-māsānām ca ahar-rātrayoḥ ca priyam dhāma bhavati yaḥ evam veda ..18..

सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत ॥१९॥
सः अन् आवृत्ताम् दिशम् अनु व्यचलत् ततस् न आवर्त्स्यन् अमन्यत ॥१९॥
saḥ an āvṛttām diśam anu vyacalat tatas na āvartsyan amanyata ..19..

तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥२०॥
तम् दितिः च अदितिः च इडा च इन्द्राणी च अनुव्यचलन् ॥२०॥
tam ditiḥ ca aditiḥ ca iḍā ca indrāṇī ca anuvyacalan ..20..

दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ॥२१॥
दितेः च वै सः अदितेः च इडायाः च इन्द्राण्याः च प्रियम् धाम भवति यः एवम् वेद ॥२१॥
diteḥ ca vai saḥ aditeḥ ca iḍāyāḥ ca indrāṇyāḥ ca priyam dhāma bhavati yaḥ evam veda ..21..

स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥२२॥
स दिशः अनु व्यचलत् तम् विराज् अनु व्यचलत् सर्वे च देवाः सर्वाः च देवताः ॥२२॥
sa diśaḥ anu vyacalat tam virāj anu vyacalat sarve ca devāḥ sarvāḥ ca devatāḥ ..22..

विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥२३॥
विराजः च वै स सर्वेषाम् च देवानाम् सर्वासाम् च देवतानाम् प्रियम् धाम भवति यः एवम् वेद ॥२३॥
virājaḥ ca vai sa sarveṣām ca devānām sarvāsām ca devatānām priyam dhāma bhavati yaḥ evam veda ..23..

स सर्वान् अन्तर्देशान् अनु व्यचलत् ॥२४॥
स सर्वान् अन्तर्देशान् अनु व्यचलत् ॥२४॥
sa sarvān antardeśān anu vyacalat ..24..

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ॥२५॥
तम् प्रजापतिः च परमेष्ठी च पिता च पितामहः च अनुव्यचलन् ॥२५॥
tam prajāpatiḥ ca parameṣṭhī ca pitā ca pitāmahaḥ ca anuvyacalan ..25..

प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥२६॥
प्रजापतेः च वै स परमेष्ठिनः च पितुः च पितामहस्य च प्रियम् धाम भवति यः एवम् वेद ॥२६॥
prajāpateḥ ca vai sa parameṣṭhinaḥ ca pituḥ ca pitāmahasya ca priyam dhāma bhavati yaḥ evam veda ..26..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In