| |
|

This overlay will guide you through the buttons:

स महिमा सद्रुर्भूत्वान्तं पृथिव्या अगच्छत्समुद्रोऽभवत्॥१॥
स महिमा सद्रुः भूत्वा अन्तम् पृथिव्याः अगच्छत् समुद्रः अभवत्॥१॥
sa mahimā sadruḥ bhūtvā antam pṛthivyāḥ agacchat samudraḥ abhavat..1..

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चापश्च श्रद्धा च वर्षं भूत्वानुव्यवर्तयन्त ॥२॥
तम् प्रजापतिः च परमेष्ठी च पिता च पितामहः च अपः च श्रद्धा च वर्षम् भूत्वा अनुव्यवर्तयन्त ॥२॥
tam prajāpatiḥ ca parameṣṭhī ca pitā ca pitāmahaḥ ca apaḥ ca śraddhā ca varṣam bhūtvā anuvyavartayanta ..2..

ऐनमापो गच्छन्त्यैनं श्रद्धा गच्छत्यैनं वर्षं गच्छति य एवं वेद ॥३॥
आ एनम् आपः गच्छन्ति आ एनम् श्रद्धा गच्छति आ एनम् वर्षम् गच्छति यः एवम् वेद ॥३॥
ā enam āpaḥ gacchanti ā enam śraddhā gacchati ā enam varṣam gacchati yaḥ evam veda ..3..

तं श्रद्धा च यज्ञश्च लोकश्चान्नं चान्नाद्यं च भूत्वाभिपर्यावर्तन्त ॥४॥
तम् श्रद्धा च यज्ञः च लोकः च अन्नम् च अन्नाद्यम् च भूत्वा अभिपर्यावर्तन्त ॥४॥
tam śraddhā ca yajñaḥ ca lokaḥ ca annam ca annādyam ca bhūtvā abhiparyāvartanta ..4..

ऐनं श्रद्धा गच्छत्यैनं यज्ञो गच्छत्यैनं लोको गच्छत्यैनमन्नं गच्छत्यैनमन्नाद्यं गच्छति य एवं वेद ॥५॥
आ एनम् श्रद्धा गच्छति आ एनम् यज्ञः गच्छति आ एनम् लोकः गच्छति आ एनम् अन्नम् गच्छति आ एनम् अन्नाद्यम् गच्छति यः एवम् वेद ॥५॥
ā enam śraddhā gacchati ā enam yajñaḥ gacchati ā enam lokaḥ gacchati ā enam annam gacchati ā enam annādyam gacchati yaḥ evam veda ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In