| |
|

This overlay will guide you through the buttons:

अजैष्माद्यासनामद्यामूमनागसो वयम् ॥१॥
अजैष्म अद्य असनाम् अद्य अमूम् अनागसः वयम् ॥१॥
ajaiṣma adya asanām adya amūm anāgasaḥ vayam ..1..

उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छतु ॥२॥
उषः यस्मात् दुष्वप्न्यात् अभैष्म अप तत् उच्छतु ॥२॥
uṣaḥ yasmāt duṣvapnyāt abhaiṣma apa tat ucchatu ..2..

द्विषते तत्परा वह शपते तत्परा वह ॥३॥
द्विषते तत् परा वह शपते तत् परा वह ॥३॥
dviṣate tat parā vaha śapate tat parā vaha ..3..

यं द्विष्मो यश्च नो द्वेष्टि तस्मा एनद्गमयामः ॥४॥
यम् द्विष्मः यः च नः द्वेष्टि तस्मै एनत् गमयामः ॥४॥
yam dviṣmaḥ yaḥ ca naḥ dveṣṭi tasmai enat gamayāmaḥ ..4..

उषा देवी वाचा संविदाना वाग्देव्युषसा संविदाना ॥५॥
उषाः देवी वाचा संविदाना वाच् देवी उषसा संविदाना ॥५॥
uṣāḥ devī vācā saṃvidānā vāc devī uṣasā saṃvidānā ..5..

उषस्पतिर्वाचस्पतिना संविदानो वाचस्पतिना संविदानः ॥६॥
उषस्पतिः वाचस्पतिना संविदानः वाचस्पतिना संविदानः ॥६॥
uṣaspatiḥ vācaspatinā saṃvidānaḥ vācaspatinā saṃvidānaḥ ..6..

तेऽमुष्मै परा वहन्त्वरायान् दुर्णाम्नः सदान्वाः ॥७॥
ते अमुष्मै परा वहन्तु अरायान् दुर्णाम्नः सदान्वाः ॥७॥
te amuṣmai parā vahantu arāyān durṇāmnaḥ sadānvāḥ ..7..

कुम्भीकाः दूषीकाः पीयकान् ॥८॥
कुम्भीकाः दूषीकाः पीयकान् ॥८॥
kumbhīkāḥ dūṣīkāḥ pīyakān ..8..

जाग्रद्दुष्वप्न्यं स्वप्नेदुष्वप्न्यम् ॥९॥
जाग्रत्-दुःष्वप्न्यम् स्वप्नेदुःष्वप्न्यम् ॥९॥
jāgrat-duḥṣvapnyam svapneduḥṣvapnyam ..9..

अनागमिष्यतो वरान् अवित्तेः संकल्पान् अमुच्या द्रुहः पाशान् ॥१०॥
अन् आगमिष्यतः वरान् अवित्तेः संकल्पान् अमुच्याः द्रुहः पाशान् ॥१०॥
an āgamiṣyataḥ varān avitteḥ saṃkalpān amucyāḥ druhaḥ pāśān ..10..

तदमुष्मा अग्ने देवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥११॥
तत् अमुष्मै अग्ने देवाः परा वहन्तु वघ्रिः यथा असत् विथुरः न साधुः ॥११॥
tat amuṣmai agne devāḥ parā vahantu vaghriḥ yathā asat vithuraḥ na sādhuḥ ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In