| |
|

This overlay will guide you through the buttons:

तेनैनं विध्याम्यभूत्यैनं विध्यामि निर्भूत्यैनं विध्यामि पराभूत्यैनं विध्यामि ग्राह्यैनं विध्यामि तमसैनं विध्यामि ॥१॥
तेन एनम् विध्यामि अभूत्या एनम् विध्यामि निर्भूत्या एनम् विध्यामि पराभूत्या एनम् विध्यामि ग्राह्या एनम् विध्यामि तमसा एनम् विध्यामि ॥१॥
tena enam vidhyāmi abhūtyā enam vidhyāmi nirbhūtyā enam vidhyāmi parābhūtyā enam vidhyāmi grāhyā enam vidhyāmi tamasā enam vidhyāmi ..1..

देवानामेनं घोरैः क्रूरैः प्रैषैरभिप्रेष्यामि ॥२॥
देवानाम् एनम् घोरैः क्रूरैः प्रैषैः अभिप्रेष्यामि ॥२॥
devānām enam ghoraiḥ krūraiḥ praiṣaiḥ abhipreṣyāmi ..2..

वैश्वानरस्यैनं दंष्ट्रयोरपि दधामि ॥३॥
वैश्वानरस्य एनम् दंष्ट्रयोः अपि दधामि ॥३॥
vaiśvānarasya enam daṃṣṭrayoḥ api dadhāmi ..3..

एवानेवाव सा गरत्॥४॥
एव अनेव अव सा गरत्॥४॥
eva aneva ava sā garat..4..

योऽस्मान् द्वेष्टि तमात्मा द्वेष्टु यं वयं द्विष्मः स आत्मानं द्वेष्टु ॥५॥
यः अस्मान् द्वेष्टि तम् आत्मा द्वेष्टु यम् वयम् द्विष्मः सः आत्मानम् द्वेष्टु ॥५॥
yaḥ asmān dveṣṭi tam ātmā dveṣṭu yam vayam dviṣmaḥ saḥ ātmānam dveṣṭu ..5..

निर्द्विषन्तं दिवो निः पृथिव्या निरन्तरिक्षाद्भजाम ॥६॥
निः द्विषन्तम् दिवः निः पृथिव्याः निः अन्तरिक्षात् भजाम ॥६॥
niḥ dviṣantam divaḥ niḥ pṛthivyāḥ niḥ antarikṣāt bhajāma ..6..

सुयामंश्चाक्षुष ॥७॥
सुयामन् चाक्षुष ॥७॥
suyāman cākṣuṣa ..7..

इदमहमामुष्यायणेऽमुष्याः पुत्रे दुष्वप्न्यं मृजे ॥८॥
इदम् अहम् आमुष्यायणे अमुष्याः पुत्रे दुष्वप्न्यम् मृजे ॥८॥
idam aham āmuṣyāyaṇe amuṣyāḥ putre duṣvapnyam mṛje ..8..

यददोअदो अभ्यगछं यद्दोषा यत्पूर्वां रात्रिम् ॥९॥
यत् अदः अदः अभ्यगछम् यत् दोषा यत् पूर्वाम् रात्रिम् ॥९॥
yat adaḥ adaḥ abhyagacham yat doṣā yat pūrvām rātrim ..9..

यज्जाग्रद्यत्सुप्तो यद्दिवा यन् नक्तम् ॥१०॥
यत् जाग्रत् यत् सुप्तः यत् दिवा यत् नक्तम् ॥१०॥
yat jāgrat yat suptaḥ yat divā yat naktam ..10..

यदहरहरभिगछामि तस्मादेनमव दये ॥११॥
यत् अहर् अहर् अभिगच्छामि तस्मात् एनम् अव दये ॥११॥
yat ahar ahar abhigacchāmi tasmāt enam ava daye ..11..

तं जहि तेन मन्दस्व तस्य पृष्टीरपि शृणीहि ॥१२॥
तम् जहि तेन मन्दस्व तस्य पृष्टीः अपि शृणीहि ॥१२॥
tam jahi tena mandasva tasya pṛṣṭīḥ api śṛṇīhi ..12..

स मा जीवीत्तं प्राणो जहातु ॥१३॥
स मा जीवीत् तम् प्राणः जहातु ॥१३॥
sa mā jīvīt tam prāṇaḥ jahātu ..13..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In