| |
|

This overlay will guide you through the buttons:

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजसस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥१॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejasasmākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam ..1..

तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥२॥
tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ ..2..

स निर्ऋत्याः पाशान् मा मोचि ॥३॥
sa nirṛtyāḥ pāśān mā moci ..3..

तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥४॥
tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..4..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स निर्ऋत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa nirṛtyāḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..5..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽभूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'bhūtyāḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..6..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स निर्भूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa nirbhūtyāḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..7..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स पराभूत्याः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa parābhūtyāḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..8..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स देवजामीनां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa devajāmīnāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..9..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स बृहस्पतेः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa bṛhaspateḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..10..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स प्रजापतेः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥११॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa prajāpateḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..11..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स ऋषीणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१२॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa ṛṣīṇāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..12..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आर्षेयाणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१३॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa ārṣeyāṇāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..13..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽङ्गिरसां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१४॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'ṅgirasāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..14..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आङ्गिरसानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa āṅgirasānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..15..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽथर्वणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'tharvaṇāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..16..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आथर्वणानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa ātharvaṇānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..17..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स वनस्पतीणां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa vanaspatīṇāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..18..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स वानस्पत्यानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥१९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa vānaspatyānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..19..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स ऋतूनां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa ṛtūnāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..20..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स आर्तवानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२१॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa ārtavānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..21..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स मासानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२२॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa māsānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..22..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽर्धमासानां पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२३॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'rdhamāsānāṃ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..23..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽहोरात्रयोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२४॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'horātrayoḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..24..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।सोऽह्नोः संयतोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२५॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .so'hnoḥ saṃyatoḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..25..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स द्यावापृथिव्योः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२६॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa dyāvāpṛthivyoḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..26..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स इन्द्राग्न्योः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२७॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa indrāgnyoḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..27..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स मित्रावरुणयोः पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२८॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa mitrāvaruṇayoḥ pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..28..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ।तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ।स राज्ञो वरुणस्य पाशान् मा मोचि । तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥२९॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam .tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ .sa rājño varuṇasya pāśān mā moci . tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..29..

जितमस्माकमुद्भिन्नमस्माकमृतमस्माकं तेजोऽस्माकं ब्रह्मास्माकं स्वरस्माकं यज्ञोऽस्माकं पशवोऽस्माकं प्रजा अस्माकं वीरा अस्माकम् ॥३०॥
jitamasmākamudbhinnamasmākamṛtamasmākaṃ tejo'smākaṃ brahmāsmākaṃ svarasmākaṃ yajño'smākaṃ paśavo'smākaṃ prajā asmākaṃ vīrā asmākam ..30..

तस्मादमुं निर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥३१॥
tasmādamuṃ nirbhajāmo'mumāmuṣyāyaṇamamuṣyāḥ putramasau yaḥ ..31..

स मृत्योः पड्वीशात्पाशान्मा मोचि ॥३२॥
sa mṛtyoḥ paḍvīśātpāśānmā moci ..32..

तस्येदं वर्चस्तेजः प्राणमायुर्नि वेष्टयामीदमेनमधराञ्चं पादयामि ॥३३॥
tasyedaṃ varcastejaḥ prāṇamāyurni veṣṭayāmīdamenamadharāñcaṃ pādayāmi ..33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In