| |
|

This overlay will guide you through the buttons:

विषासहिं सहमानं सासहानं सहीयांसम् ।सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।ईड्यं नाम ह्व इन्द्रमायुष्मान् भूयासम् ॥१॥
विषासहिम् सहमानम् सासहानम् सहीयांसम् ।सहमानम् सहः-जितम् स्वर्-जितम् गो-जितम् संधनाजितम् ।ईड्यम् नाम ह्वे इन्द्रम् आयुष्मान् भूयासम् ॥१॥
viṣāsahim sahamānam sāsahānam sahīyāṃsam .sahamānam sahaḥ-jitam svar-jitam go-jitam saṃdhanājitam .īḍyam nāma hve indram āyuṣmān bhūyāsam ..1..

विषासहिं सहमानं सासहानं सहीयांसम् ।सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।ईड्यं नाम ह्व इन्द्रं प्रियो देवानां भूयासम् ॥२॥
विषासहिम् सहमानम् सासहानम् सहीयांसम् ।सहमानम् सहः-जितम् स्वर्-जितम् गो-जितम् संधनाजितम् ।ईड्यम् नाम ह्वे इन्द्रम् प्रियः देवानाम् भूयासम् ॥२॥
viṣāsahim sahamānam sāsahānam sahīyāṃsam .sahamānam sahaḥ-jitam svar-jitam go-jitam saṃdhanājitam .īḍyam nāma hve indram priyaḥ devānām bhūyāsam ..2..

विषासहिं सहमानं सासहानं सहीयांसम् ।सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।ईड्यं नाम ह्व इन्द्रं प्रियः प्रजानां भूयासम् ॥३॥
विषासहिम् सहमानम् सासहानम् सहीयांसम् ।सहमानम् सहः-जितम् स्वर्-जितम् गो-जितम् संधनाजितम् ।ईड्यम् नाम ह्वे इन्द्रम् प्रियः प्रजानाम् भूयासम् ॥३॥
viṣāsahim sahamānam sāsahānam sahīyāṃsam .sahamānam sahaḥ-jitam svar-jitam go-jitam saṃdhanājitam .īḍyam nāma hve indram priyaḥ prajānām bhūyāsam ..3..

विषासहिं सहमानं सासहानं सहीयांसम् ।सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।ईड्यं नाम ह्व इन्द्रं प्रियः पशूनां भूयासम् ॥४॥
विषासहिम् सहमानम् सासहानम् सहीयांसम् ।सहमानम् सहः-जितम् स्वर्-जितम् गो-जितम् संधनाजितम् ।ईड्यम् नाम ह्वे इन्द्रम् प्रियः पशूनाम् भूयासम् ॥४॥
viṣāsahim sahamānam sāsahānam sahīyāṃsam .sahamānam sahaḥ-jitam svar-jitam go-jitam saṃdhanājitam .īḍyam nāma hve indram priyaḥ paśūnām bhūyāsam ..4..

विषासहिं सहमानं सासहानं सहीयांसम् ।सहमानं सहोजितं स्वर्जितं गोजितं संधनाजितम् ।ईड्यं नाम ह्व इन्द्रं प्रियः समानानां भूयासम् ॥५॥
विषासहिम् सहमानम् सासहानम् सहीयांसम् ।सहमानम् सहः-जितम् स्वर्-जितम् गो-जितम् संधनाजितम् ।ईड्यम् नाम ह्वे इन्द्रम् प्रियः समानानाम् भूयासम् ॥५॥
viṣāsahim sahamānam sāsahānam sahīyāṃsam .sahamānam sahaḥ-jitam svar-jitam go-jitam saṃdhanājitam .īḍyam nāma hve indram priyaḥ samānānām bhūyāsam ..5..

उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।द्विषंश्च मह्यं रध्यतु मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥६॥
उदिहि उदिहि सूर्य वर्चसा मा अभ्युदिहि ।द्विषन् च मह्यम् रध्यतु मा च अहम् द्विषते रधम् तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥६॥
udihi udihi sūrya varcasā mā abhyudihi .dviṣan ca mahyam radhyatu mā ca aham dviṣate radham tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..6..

उदिह्युदिहि सूर्य वर्चसा माभ्युदिहि ।आंश्च पश्यामि यांश्च न तेषु मा सुमतिं कृधि तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥७॥
उदिहि उदिहि सूर्य वर्चसा मा अभ्युदिहि ।आन् च पश्यामि यान् च न तेषु मा सुमतिम् कृधि तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥७॥
udihi udihi sūrya varcasā mā abhyudihi .ān ca paśyāmi yān ca na teṣu mā sumatim kṛdhi tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..7..

मा त्वा दभन्त्सलिले अप्स्वन्तर्ये पाशिन उपतिष्ठन्त्यत्र ।हित्वाशस्तिं दिवमारुक्ष एतां स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥८॥
मा त्वा दभन् सलिले अप्सु अन्तर्ये पाशिनः उपतिष्ठन्ति अत्र ।हित्वा अशस्तिम् दिवम् आरुक्षः एताम् स नः मृड सुमतौ ते स्याम तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥८॥
mā tvā dabhan salile apsu antarye pāśinaḥ upatiṣṭhanti atra .hitvā aśastim divam ārukṣaḥ etām sa naḥ mṛḍa sumatau te syāma tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..8..

त्वं न इन्द्र महते सौभगायादब्धेभिः परि पाह्यक्तुभिस्तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥९॥
त्वम् नः इन्द्र महते सौभगाय आत् अब्धेभिः परि पाहि अक्तुभिः तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥९॥
tvam naḥ indra mahate saubhagāya āt abdhebhiḥ pari pāhi aktubhiḥ tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..9..

त्वं न इन्द्रोतिभिः शिवाभिः शंतमो भव ।आरोहंस्त्रिदिवं दिवो गृणानः सोमपीतये प्रियधामा स्वस्तये तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१०॥ {१}
त्वम् नः इन्द्र ऊतिभिः शिवाभिः शंतमः भव ।आरोहन् त्रिदिवम् दिवः गृणानः सोम-पीतये प्रिय-धामा स्वस्तये तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१०॥
tvam naḥ indra ūtibhiḥ śivābhiḥ śaṃtamaḥ bhava .ārohan tridivam divaḥ gṛṇānaḥ soma-pītaye priya-dhāmā svastaye tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..10..

त्वमिन्द्रासि विश्वजित्सर्ववित्पुरुहूतस्त्वमिन्द्र ।त्वमिन्द्रेमं सुहवं स्तोममेरयस्व स नो मृड सुमतौ ते स्याम तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥११॥
त्वम् इन्द्र असि विश्व-जित् सर्व-विद् पुरुहूतः त्वम् इन्द्र ।त्वम् इन्द्र इमम् सु हवम् स्तोमम् एरयस्व स नः मृड सुमतौ ते स्याम तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥११॥
tvam indra asi viśva-jit sarva-vid puruhūtaḥ tvam indra .tvam indra imam su havam stomam erayasva sa naḥ mṛḍa sumatau te syāma tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..11..

अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं छर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥
अदब्धः दिवि पृथिव्याम् उत असि न ते आपुः महिमानम् अन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वम् नः इन्द्र दिवि सम् शर्म यच्छ तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१२॥
adabdhaḥ divi pṛthivyām uta asi na te āpuḥ mahimānam antarikṣe .adabdhena brahmaṇā vāvṛdhānaḥ sa tvam naḥ indra divi sam śarma yaccha tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..12..

या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥
या ते इन्द्र तनूः अप्सु या पृथिव्याम् या अन्तर् अग्नौ या ते इन्द्र पवमाने स्वर्-विदि ।यया इन्द्र तन्वा अन्तरिक्षम् व्यापिथ तया नः इन्द्र तन्वा शर्म यच्छ तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१३॥
yā te indra tanūḥ apsu yā pṛthivyām yā antar agnau yā te indra pavamāne svar-vidi .yayā indra tanvā antarikṣam vyāpitha tayā naḥ indra tanvā śarma yaccha tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..13..

त्वामिन्द्र ब्रह्मणा वर्धयन्तः सत्त्रं नि षेदुर्ऋषयो नाधमानास्तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१४॥
त्वाम् इन्द्र ब्रह्मणा वर्धयन्तः सत्त्रम् नि सेदुः ऋषयः नाधमानाः तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१४॥
tvām indra brahmaṇā vardhayantaḥ sattram ni seduḥ ṛṣayaḥ nādhamānāḥ tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..14..

त्वं तृतं त्वं पर्येष्युत्सं सहस्रधारं विदथं स्वर्विदं तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१५॥
त्वम् तृतम् त्वम् पर्येषि उत्सम् सहस्र-धारम् विदथम् स्वर्-विदम् तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१५॥
tvam tṛtam tvam paryeṣi utsam sahasra-dhāram vidatham svar-vidam tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..15..

त्वं रक्षसे प्रदिशश्चतस्रस्त्वं शोचिषा नभसी वि भासि ।त्वमिमा विश्वा भुवनानु तिष्ठस ऋतस्य पन्थामन्वेषि विद्वांस्तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१६॥
त्वम् रक्षसे प्रदिशः चतस्रः त्वम् शोचिषा नभसी वि भासि ।त्वम् इमा विश्वा भुवना अनु तिष्ठसे ऋतस्य पन्थाम् अन्वेषि विद्वान् तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१६॥
tvam rakṣase pradiśaḥ catasraḥ tvam śociṣā nabhasī vi bhāsi .tvam imā viśvā bhuvanā anu tiṣṭhase ṛtasya panthām anveṣi vidvān tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..16..

पञ्चभिः पराङ्तपस्येकयार्वाङशस्तिमेषि सुदिने बाधमानस्तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१७॥
पञ्चभिः पराङ् तपसि एकया अर्वाङ् अशस्तिम् एषि सुदिने बाधमानः तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१७॥
pañcabhiḥ parāṅ tapasi ekayā arvāṅ aśastim eṣi sudine bādhamānaḥ tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..17..

त्वमिन्द्रस्त्वं महेन्द्रस्त्वं लोकस्त्वं प्रजापतिः ।तुभ्यं यज्ञो वि तायते तुभ्यं जुह्वति जुह्वतस्तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१८॥
त्वम् इन्द्रः त्वम् महेन्द्रः त्वम् लोकः त्वम् प्रजापतिः ।तुभ्यम् यज्ञः वि तायते तुभ्यम् जुह्वति जुह्वतः तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१८॥
tvam indraḥ tvam mahendraḥ tvam lokaḥ tvam prajāpatiḥ .tubhyam yajñaḥ vi tāyate tubhyam juhvati juhvataḥ tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..18..

असति सत्प्रतिष्ठितं सति भूतं प्रतिष्ठितम् ।भूतं ह भव्य आहितं भव्यं भूते प्रतिष्ठितं तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१९॥
असति सत् प्रतिष्ठितम् सति भूतम् प्रतिष्ठितम् ।भूतम् ह भव्ये आहितम् भव्यम् भूते प्रतिष्ठितम् तव इद् विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥१९॥
asati sat pratiṣṭhitam sati bhūtam pratiṣṭhitam .bhūtam ha bhavye āhitam bhavyam bhūte pratiṣṭhitam tava id viṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..19..

शुक्रोऽसि भ्राजोऽसि ।स यथा त्वं भ्राजता भ्राजोऽस्येवाहं भ्राजता भ्राज्यासम् ॥२०॥ {२}
शुक्रः असि भ्राजः असि ।स यथा त्वम् भ्राजता भ्राजः असि एव अहम् भ्राजता भ्राज्यासम् ॥२०॥
śukraḥ asi bhrājaḥ asi .sa yathā tvam bhrājatā bhrājaḥ asi eva aham bhrājatā bhrājyāsam ..20..

रुचिरसि रोचोऽसि ।स यथा त्वं रुच्या रोचोऽस्येवाहं पशुभिश्च ब्राह्मणवर्चसेन च रुचिषीय ॥२१॥
रुचिः असि रोचः असि ।स यथा त्वम् रुच्या रोचः असि एव अहम् पशुभिः च ब्राह्मण-वर्चसेन च रुचिषीय ॥२१॥
ruciḥ asi rocaḥ asi .sa yathā tvam rucyā rocaḥ asi eva aham paśubhiḥ ca brāhmaṇa-varcasena ca ruciṣīya ..21..

उद्यते नम उदायते नम उदिताय नमः ।विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥
उद्यते नमः उदायते नमः उदिताय नमः ।विराजे नमः स्वराजे नमः सम्राजे नमः ॥२२॥
udyate namaḥ udāyate namaḥ uditāya namaḥ .virāje namaḥ svarāje namaḥ samrāje namaḥ ..22..

अस्तंयते नमोऽस्तमेष्यते नमोऽस्तमिताय नमः ।विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥
अस्तंयते नमः अस्तमेष्यते नमः अस्तमिताय नमः ।विराजे नमः स्वराजे नमः सम्राजे नमः ॥२३॥
astaṃyate namaḥ astameṣyate namaḥ astamitāya namaḥ .virāje namaḥ svarāje namaḥ samrāje namaḥ ..23..

उदगादयमादित्यो विश्वेन तपसा सह ।सपत्नान् मह्यं रन्धयन् मा चाहं द्विषते रधं तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥२४॥
उदगात् अयम् आदित्यः विश्वेन तपसा सह ।सपत्नान् मह्यम् रन्धयन् मा च अहम् द्विषते रधम् तव इद्विष्णो बहुधा वीर्याणि ।त्वम् नः पृणीहि पशुभिः विश्व-रूपैः सुधायाम् मा धेहि परमे व्योमन् ॥२४॥
udagāt ayam ādityaḥ viśvena tapasā saha .sapatnān mahyam randhayan mā ca aham dviṣate radham tava idviṣṇo bahudhā vīryāṇi .tvam naḥ pṛṇīhi paśubhiḥ viśva-rūpaiḥ sudhāyām mā dhehi parame vyoman ..24..

आदित्य नावमारुक्षः शतारित्रां स्वस्तये ।अहर्मात्यपीपरो रात्रिं सत्राति पारय ॥२५॥
आदित्य नावम् आरुक्षः शत-अरित्राम् स्वस्तये ।अहर् अत्यपीपरः रात्रिम् सत्रा अति पारय ॥२५॥
āditya nāvam ārukṣaḥ śata-aritrām svastaye .ahar atyapīparaḥ rātrim satrā ati pāraya ..25..

सूर्य नावमारुक्षः शतारित्रां स्वस्तये ।रात्रिं मात्यपीपरोऽहः सत्राति पारय ॥२६॥
सूर्य नावम् आरुक्षः शत-अरित्राम् स्वस्तये ।रात्रिम् मा अत्यपीपरः अहर् सत्राति पारय ॥२६॥
sūrya nāvam ārukṣaḥ śata-aritrām svastaye .rātrim mā atyapīparaḥ ahar satrāti pāraya ..26..

प्रजापतेरावृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।जरदष्टिः कृतवीर्यो विहायाः सहस्रायुः सुकृतश्चरेयम् ॥२७॥
प्रजापतेः आवृतः ब्रह्मणा वर्मणा अहम् कश्यपस्य ज्योतिषा वर्चसा च ।जरदष्टिः कृतवीर्यः विहायाः सहस्र-आयुः सु कृतः चरेयम् ॥२७॥
prajāpateḥ āvṛtaḥ brahmaṇā varmaṇā aham kaśyapasya jyotiṣā varcasā ca .jaradaṣṭiḥ kṛtavīryaḥ vihāyāḥ sahasra-āyuḥ su kṛtaḥ careyam ..27..

परिवृतो ब्रह्मणा वर्मणाहं कश्यपस्य ज्योतिषा वर्चसा च ।मा मा प्रापन्न् इषवो दैव्या या मा मानुषीरवसृष्टाः वधाय ॥२८॥
परिवृतः ब्रह्मणा वर्मणा अहम् कश्यपस्य ज्योतिषा वर्चसा च ।मा मा प्रापन् इषवः दैव्याः याः मा मानुषीः अवसृष्टाः वधाय ॥२८॥
parivṛtaḥ brahmaṇā varmaṇā aham kaśyapasya jyotiṣā varcasā ca .mā mā prāpan iṣavaḥ daivyāḥ yāḥ mā mānuṣīḥ avasṛṣṭāḥ vadhāya ..28..

ऋतेन गुप्त ऋतुभिश्च सर्वैर्भूतेन गुप्तो भव्येन चाहम् ।मा मा प्रापत्पाप्मा मोत मृत्युरन्तर्दधेऽहं सलिलेन वाचः ॥२९॥
ऋतेन गुप्तः ऋतुभिः च सर्वैः भूतेन गुप्तः भव्येन च अहम् ।मा मा प्रापत् पाप्मा मा उत मृत्युः अन्तर्दधे अहम् सलिलेन वाचः ॥२९॥
ṛtena guptaḥ ṛtubhiḥ ca sarvaiḥ bhūtena guptaḥ bhavyena ca aham .mā mā prāpat pāpmā mā uta mṛtyuḥ antardadhe aham salilena vācaḥ ..29..

अग्निर्मा गोप्ता परि पातु विश्वतः उद्यन्त्सूर्यो नुदतां मृत्युपाशान् ।व्युच्छन्तीरुषसः पर्वता ध्रुवाः सहस्रं प्राणा मय्या यतन्ताम् ॥३०॥ {३}
अग्निः मा गोप्ता परि पातु विश्वतस् उद्यन् सूर्यः नुदताम् मृत्यु-पाशान् ।व्युच्छन्तीः उषसः पर्वताः ध्रुवाः सहस्रम् प्राणाः मय्याः यतन्ताम् ॥३०॥
agniḥ mā goptā pari pātu viśvatas udyan sūryaḥ nudatām mṛtyu-pāśān .vyucchantīḥ uṣasaḥ parvatāḥ dhruvāḥ sahasram prāṇāḥ mayyāḥ yatantām ..30..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In