अदब्धो दिवि पृथिव्यामुतासि न त आपुर्महिमानमन्तरिक्षे ।अदब्धेन ब्रह्मणा वावृधानः स त्वं न इन्द्र दिवि षं छर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१२॥
adabdho divi pṛthivyāmutāsi na ta āpurmahimānamantarikṣe .adabdhena brahmaṇā vāvṛdhānaḥ sa tvaṃ na indra divi ṣaṃ charma yaccha tavedviṣṇo bahudhā vīryāṇi .tvaṃ naḥ pṛṇīhi paśubhirviśvarūpaiḥ sudhāyāṃ mā dhehi parame vyoman ..12..
या त इन्द्र तनूरप्सु या पृथिव्यां यान्तरग्नौ या ते इन्द्र पवमाने स्वर्विदि ।ययेन्द्र तन्वाऽन्तरिक्षं व्यापिथ तया न इन्द्र तन्वा शर्म यच्छ तवेद्विष्णो बहुधा वीर्याणि ।त्वं नः पृणीहि पशुभिर्विश्वरूपैः सुधायां मा धेहि परमे व्योमन् ॥१३॥