| |
|

This overlay will guide you through the buttons:

ओ चित्सखायं सख्या ववृत्यां तिरः पुरू चिदर्णवं जगन्वान् ।पितुर्नपातमा दधीत वेधा अधि क्षमि प्रतरं दीध्यानः ॥१॥
आ उ चित् सखायम् सख्या ववृत्याम् तिरस् पुरू चित् अर्णवम् जगन्वान् ।पितुर्नपातमाः दधीत वेधाः अधि क्षमि प्रतरम् दीध्यानः ॥१॥
ā u cit sakhāyam sakhyā vavṛtyām tiras purū cit arṇavam jaganvān .piturnapātamāḥ dadhīta vedhāḥ adhi kṣami prataram dīdhyānaḥ ..1..

न ते सखा सख्यं वष्ट्येतत्सलक्ष्मा यद्विषुरूपा भवति ।महस्पुत्रासो असुरस्य वीरा दिवो धर्तार उर्विया परि ख्यन् ॥२॥
न ते सखा सख्यम् वष्टि एतत् सलक्ष्मा यत् विषुरूपा भवति ।महस् पुत्रासः असुरस्य वीराः दिवः धर्तारः उर्विया परि ख्यन् ॥२॥
na te sakhā sakhyam vaṣṭi etat salakṣmā yat viṣurūpā bhavati .mahas putrāsaḥ asurasya vīrāḥ divaḥ dhartāraḥ urviyā pari khyan ..2..

उशन्ति घा ते अमृतास एतदेकस्य चित्त्यजसं मर्त्यस्य ।नि ते मनो मनसि धाय्यस्मे जन्युः पतिस्तन्वमा विविष्याः ॥३॥
उशन्ति घ ते अमृतासः एतत् एकस्य चित्ति-अजसम् मर्त्यस्य ।नि ते मनः मनसि धायि अस्मे जन्युः पतिः तनू अमा विविष्याः ॥३॥
uśanti gha te amṛtāsaḥ etat ekasya citti-ajasam martyasya .ni te manaḥ manasi dhāyi asme janyuḥ patiḥ tanū amā viviṣyāḥ ..3..

न यत्पुरा चकृमा कद्ध नूनमृतं वदन्तो अनृतं रपेम ।गन्धर्वो अप्स्वप्या च योषा सा नौ नाभिः परमं जामि तन् नौ ॥४॥
न यत् पुरा चकृम कद् ह नूनम् ऋतम् वदन्तः अनृतम् रपेम ।गन्धर्वः अप्स्वप्या च योषा सा नौ नाभिः परमम् जामि तत् नौ ॥४॥
na yat purā cakṛma kad ha nūnam ṛtam vadantaḥ anṛtam rapema .gandharvaḥ apsvapyā ca yoṣā sā nau nābhiḥ paramam jāmi tat nau ..4..

गर्भे नु नौ जनिता दम्पती कर्देवस्त्वष्टा सविता विश्वरूपः ।नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
गर्भे नु नौ जनिता दम्पती कः देवः त्वष्टा सविता विश्व-रूपः ।नकिरस्य प्र मिनन्ति व्रतानि वेद नावस्य पृथिवी उत द्यौः ॥५॥
garbhe nu nau janitā dampatī kaḥ devaḥ tvaṣṭā savitā viśva-rūpaḥ .nakirasya pra minanti vratāni veda nāvasya pṛthivī uta dyauḥ ..5..

को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।आसन्निषून् हृत्स्वसो मयोभून् य एषां भृत्यामृणधत्स जीवात्॥६॥
कः अद्य युङ्क्ते धुरि गाः ऋतस्य शिमीवतः भामिनः दुर्हृणायून् ।आसन्निषून् हृत्स्वसः मयोभून् यः एषाम् भृत्या मृणधत् स जीवात्॥६॥
kaḥ adya yuṅkte dhuri gāḥ ṛtasya śimīvataḥ bhāminaḥ durhṛṇāyūn .āsanniṣūn hṛtsvasaḥ mayobhūn yaḥ eṣām bhṛtyā mṛṇadhat sa jīvāt..6..

को अस्य वेद प्रथमस्याह्नः क ईं ददर्श क इह प्र वोचत्।बृहन् मित्रस्य वरुणस्य धाम कदु ब्रव आहनो वीच्या नॄन् ॥७॥
कः अस्य वेद प्रथमस्य अह्नः कः ईम् ददर्श कः इह प्र वोचत्।बृहत् मित्रस्य वरुणस्य धाम कदु ब्रवः आहनः वीच्या नॄन् ॥७॥
kaḥ asya veda prathamasya ahnaḥ kaḥ īm dadarśa kaḥ iha pra vocat.bṛhat mitrasya varuṇasya dhāma kadu bravaḥ āhanaḥ vīcyā nṝn ..7..

यमस्य मा यम्यं काम आगन्त्समाने योनौ सहशेय्याय ।जायेव पत्ये तन्वं रिरिच्यां वि चिद्वृहेव रथ्येव चक्रा ॥८॥
यमस्य मा यम्यम् कामः आगन् समाने योनौ सहशेय्याय ।जाया इव पत्ये तन्वम् रिरिच्याम् वि चित् वृहेव रथ्या इव चक्रा ॥८॥
yamasya mā yamyam kāmaḥ āgan samāne yonau sahaśeyyāya .jāyā iva patye tanvam riricyām vi cit vṛheva rathyā iva cakrā ..8..

न तिष्ठन्ति न नि मिषन्त्येते देवानां स्पश इह ये चरन्ति ।अन्येन मदाहनो याहि तूयं तेन वि वृह रथ्येव चक्रा ॥९॥
न तिष्ठन्ति न नि मिषन्ति एते देवानाम् स्पशः इह ये चरन्ति ।अन्येन मद्-आहनः याहि तूयम् तेन वि वृह रथ्या इव चक्रा ॥९॥
na tiṣṭhanti na ni miṣanti ete devānām spaśaḥ iha ye caranti .anyena mad-āhanaḥ yāhi tūyam tena vi vṛha rathyā iva cakrā ..9..

रात्रीभिरस्मा अहभिर्दशस्येत्सूर्यस्य चक्षुर्मुहुरुन् मिमीयात्।दिवा पृथिव्या मिथुना सबन्धू यमीर्यमस्य विवृहादजामि ॥१०॥ {१}
रात्रीभिः अस्मै अहभिः दशस्येत् सूर्यस्य चक्षुः मुहुर् उद् मिमीयात्।दिवा पृथिव्या मिथुना सबन्धू यमीः यमस्य विवृहात् अजामि ॥१०॥
rātrībhiḥ asmai ahabhiḥ daśasyet sūryasya cakṣuḥ muhur ud mimīyāt.divā pṛthivyā mithunā sabandhū yamīḥ yamasya vivṛhāt ajāmi ..10..

आ घा ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन्न् अजामि ।उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत्॥११॥
आ घ ता गच्छान् उत्तरा युगानि यत्र जामयः कृणवन् अजामि ।उप बर्बृहि वृषभाय बाहुम् अन्यम् इच्छस्व सुभगे पतिम् मत्॥११॥
ā gha tā gacchān uttarā yugāni yatra jāmayaḥ kṛṇavan ajāmi .upa barbṛhi vṛṣabhāya bāhum anyam icchasva subhage patim mat..11..

किं भ्रातासद्यदनाथं भवाति किमु स्वसा यन् निर्ऋतिर्निगछात्।काममूता बह्वेतद्रपामि तन्वा मे तन्वं सं पिपृग्धि ॥१२॥
किम् भ्राता असत् यत् अनाथम् भवाति किमु स्वसा यत् निरृतिः निगच्छात्।काम-मूता बहु एतत् रपामि तन्वाः मे तन्वम् सम् पिपृग्धि ॥१२॥
kim bhrātā asat yat anātham bhavāti kimu svasā yat nirṛtiḥ nigacchāt.kāma-mūtā bahu etat rapāmi tanvāḥ me tanvam sam pipṛgdhi ..12..

न ते नाथं यम्यत्राहमस्मि न ते तनूं तन्वा सं पपृच्याम् ।अन्येन मत्प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्ट्येतत्॥१३॥
न ते नाथम् यमि अत्र अहम् अस्मि न ते तनूम् तन्वा सम् पपृच्याम् ।अन्येन मद्-प्रमुदः कल्पयस्व न ते भ्राता सुभगे वष्टि एतत्॥१३॥
na te nātham yami atra aham asmi na te tanūm tanvā sam papṛcyām .anyena mad-pramudaḥ kalpayasva na te bhrātā subhage vaṣṭi etat..13..

न वा उ ते तनूं तन्वा सं पिपृच्यां पापमाहुर्यः स्वसारं निगच्छात्।असंयदेतन् मनसो हृदो मे भ्राता स्वसुः शयने यच्छयीय ॥१४॥
न वै उ ते तनूम् तन्वा सम् पिपृच्याम् पापम् आहुः यः स्वसारम् निगच्छात्।अ संयत् एतत् मनसः हृदः मे भ्राता स्वसुः शयने यत् शयीय ॥१४॥
na vai u te tanūm tanvā sam pipṛcyām pāpam āhuḥ yaḥ svasāram nigacchāt.a saṃyat etat manasaḥ hṛdaḥ me bhrātā svasuḥ śayane yat śayīya ..14..

बतो बतासि यम नैव ते मनो हृदयं चाविदामा ।अन्या किल त्वां कक्ष्येव युक्तं परि ष्वजातौ लिबुजेव वृक्षम् ॥१५॥
बतः बत असि यम न एव ते मनः हृदयम् च अविदाम ।अन्या किल त्वाम् कक्ष्या इव युक्तम् परि स्वजातौ लिबुजा इव वृक्षम् ॥१५॥
bataḥ bata asi yama na eva te manaḥ hṛdayam ca avidāma .anyā kila tvām kakṣyā iva yuktam pari svajātau libujā iva vṛkṣam ..15..

अन्यमू षु यम्यन्य उ त्वां परि ष्वजातौ लिबुजेव वृक्षम् ।तस्य वा त्वं मन इछा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥१६॥
अन्यमू सु यमि अन्ये उ त्वाम् परि स्वजातौ लिबुजा इव वृक्षम् ।तस्य वा त्वम् मनः इछ स वा तव अधा कृणुष्व संविदम् सु भद्राम् ॥१६॥
anyamū su yami anye u tvām pari svajātau libujā iva vṛkṣam .tasya vā tvam manaḥ icha sa vā tava adhā kṛṇuṣva saṃvidam su bhadrām ..16..

त्रीणि च्छन्दांसि कवयो वि येतिरे पुरुरूपं दर्शतं विश्वचक्षणम् ।आपो वाता ओषधयस्तान्येकस्मिन् भुवन आर्पितानि ॥१७॥
त्रीणि छन्दांसि कवयः वि येतिरे पुरु-रूपम् दर्शतम् विश्व-चक्षणम् ।आपः वाताः ओषधयः तानि एकस्मिन् भुवने आर्पितानि ॥१७॥
trīṇi chandāṃsi kavayaḥ vi yetire puru-rūpam darśatam viśva-cakṣaṇam .āpaḥ vātāḥ oṣadhayaḥ tāni ekasmin bhuvane ārpitāni ..17..

वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः ।विश्वं स वेद वरुणो यथा धिया स यज्ञियो यजति यज्ञियामृतून् ॥१८॥
वृषा वृष्णे दुदुहे दोहसा दिवः पयांसि यह्वः अदितेः अदाभ्यः ।विश्वम् स वेद वरुणः यथा धिया स यज्ञियः यजति यज्ञियाम् ऋतून् ॥१८॥
vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvaḥ aditeḥ adābhyaḥ .viśvam sa veda varuṇaḥ yathā dhiyā sa yajñiyaḥ yajati yajñiyām ṛtūn ..18..

रपद्गन्धर्वीरप्या च योषणा नदस्य नादे परि पातु नो मनः ।इष्टस्य मध्ये अदितिर्नि धातु नो भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥१९॥
रपत्-गन्धर्वी-रप्या च योषणा नदस्य नादे परि पातु नः मनः ।इष्टस्य मध्ये अदितिः नि धातु नः भ्राता नः ज्येष्ठः प्रथमः वि वोचति ॥१९॥
rapat-gandharvī-rapyā ca yoṣaṇā nadasya nāde pari pātu naḥ manaḥ .iṣṭasya madhye aditiḥ ni dhātu naḥ bhrātā naḥ jyeṣṭhaḥ prathamaḥ vi vocati ..19..

सो चित्नु भद्रा क्षुमती यशस्वत्युषा उवास मनवे स्वर्वती ।यदीमुशन्तमुशतामनु क्रतुमग्निं होतारं विदथाय जीजनन् ॥२०॥ {२}
सा उ चित्नु भद्रा क्षुमती यशस्वती उषाः उवास मनवे स्वर्वती ।यदि ईम् उशन्तम् उशताम् अनु क्रतुम् अग्निम् होतारम् विदथाय जीजनन् ॥२०॥
sā u citnu bhadrā kṣumatī yaśasvatī uṣāḥ uvāsa manave svarvatī .yadi īm uśantam uśatām anu kratum agnim hotāram vidathāya jījanan ..20..

अध त्यं द्रप्सं विभ्वं विचक्षनं विराभरदिषिरः श्येनो अध्वरे ।यदी विशो वृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥२१॥
अध त्यम् द्रप्सम् विभ्वम् विचक्षनम् विराभरत् इषिरः श्येनः अध्वरे ।यदि विशः वृणते दस्मम् आर्याः अग्निम् होतारम् अध धीः अजायत ॥२१॥
adha tyam drapsam vibhvam vicakṣanam virābharat iṣiraḥ śyenaḥ adhvare .yadi viśaḥ vṛṇate dasmam āryāḥ agnim hotāram adha dhīḥ ajāyata ..21..

सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषः स्वध्वरः ।विप्रस्य वा यच्छशमान उक्थ्यो वाजं ससवामुपयासि भूरिभिः ॥२२॥
सदा असि रण्वः यवसा इव पुष्यते होत्राभिः अग्ने मनुषः सु अध्वरः ।विप्रस्य वा यत् शशमानः उक्थ्यः वाजम् ससवाम् उपयासि भूरिभिः ॥२२॥
sadā asi raṇvaḥ yavasā iva puṣyate hotrābhiḥ agne manuṣaḥ su adhvaraḥ .viprasya vā yat śaśamānaḥ ukthyaḥ vājam sasavām upayāsi bhūribhiḥ ..22..

उदीरय पितरा जार आ भगमियक्षति हर्यतो हृत्त इष्यति ।विवक्ति वह्निः स्वपस्यते मखस्तविष्यते असुरो वेपते मती ॥२३॥
उदीरय पितरा जारः आ भगम् इयक्षति हर्यतः हृत्तस् इष्यति ।विवक्ति वह्निः स्वपस्यते मखः तविष्यते असुरः वेपते मती ॥२३॥
udīraya pitarā jāraḥ ā bhagam iyakṣati haryataḥ hṛttas iṣyati .vivakti vahniḥ svapasyate makhaḥ taviṣyate asuraḥ vepate matī ..23..

यस्ते अग्ने सुमतिं मर्तो अख्यत्सहसः सूनो अति स प्र शृण्वे ।इषं दधानो वहमानो अश्वैरा स द्युमाममवान् भूषति द्यून् ॥२४॥
यः ते अग्ने सुमतिम् मर्तः अख्यत् सहसः सूनो अति स प्र शृण्वे ।इषम् दधानः वहमानः अश्वैः आ स द्युमाममवान् भूषति द्यून् ॥२४॥
yaḥ te agne sumatim martaḥ akhyat sahasaḥ sūno ati sa pra śṛṇve .iṣam dadhānaḥ vahamānaḥ aśvaiḥ ā sa dyumāmamavān bhūṣati dyūn ..24..

श्रुधी नो अग्ने सदने सधस्थे युक्ष्वा रथममृतस्य द्रवित्नुम् ।आ नो वह रोदसी देवपुत्रे माकिर्देवानामप भूरिह स्याः ॥२५॥
श्रुधि नः अग्ने सदने सधस्थे युक्ष्व रथम् अमृतस्य द्रवित्नुम् ।आ नः वह रोदसी देव-पुत्रे माकिर् देवानाम् अप भूः इह स्याः ॥२५॥
śrudhi naḥ agne sadane sadhasthe yukṣva ratham amṛtasya dravitnum .ā naḥ vaha rodasī deva-putre mākir devānām apa bhūḥ iha syāḥ ..25..

यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र ।रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात्॥२६॥
यत् अग्ने एषा समितिः भवाति देवी देवेषु यजता यजत्र ।रत्ना च यत् विभजासि स्वधावस् भागम् नः अत्र वसुमन्तम् वीतात्॥२६॥
yat agne eṣā samitiḥ bhavāti devī deveṣu yajatā yajatra .ratnā ca yat vibhajāsi svadhāvas bhāgam naḥ atra vasumantam vītāt..26..

अन्वग्निरुषसामग्रमख्यदन्वहानि प्रथमो जातवेदाः ।अनु सूर्य उषसो अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
अनु अग्निः उषसाम् अग्रम् अख्यत् अनु अहानि प्रथमः जातवेदाः ।अनु सूर्यः उषसः अनु रश्मीन् द्यावापृथिवी आ विवेश ॥२७॥
anu agniḥ uṣasām agram akhyat anu ahāni prathamaḥ jātavedāḥ .anu sūryaḥ uṣasaḥ anu raśmīn dyāvāpṛthivī ā viveśa ..27..

प्रत्यग्निरुषसामग्रमख्यत्प्रत्यहानि प्रथमो जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
प्रति अग्निः उषसाम् अग्रम् अख्यत् प्रति अहानि प्रथमः जातवेदाः ।प्रति सूर्यस्य पुरुधा च रश्मीन् प्रति द्यावापृथिवी आ ततान ॥२८॥
prati agniḥ uṣasām agram akhyat prati ahāni prathamaḥ jātavedāḥ .prati sūryasya purudhā ca raśmīn prati dyāvāpṛthivī ā tatāna ..28..

द्यावा ह क्षामा प्रथमे ऋतेनाभिश्रावे भवतः सत्यवाचा ।देवो यन् मर्तान् यजथाय कृण्वन्त्सीदद्धोता प्रत्यङ्स्वमसुं यन् ॥२९॥
द्यावा ह क्षामा प्रथमे ऋतेन अभिश्रावे भवतः सत्य-वाचा ।देवः यत् मर्तान् यजथाय कृण्वन् सीदत् होता प्रत्यङ् स्वमसुम् यन् ॥२९॥
dyāvā ha kṣāmā prathame ṛtena abhiśrāve bhavataḥ satya-vācā .devaḥ yat martān yajathāya kṛṇvan sīdat hotā pratyaṅ svamasum yan ..29..

देवो देवान् परिभूर्ऋतेन वहा नो हव्यं प्रथमश्चिकित्वान् ।धूमकेतुः समिधा भाऋजीको मन्द्रो होता नित्यो वाचा यजीयान् ॥३०॥ {३}
देवः देवान् परिभूः ऋतेन वह नः हव्यम् प्रथमः चिकित्वान् ।धूम-केतुः समिधा भाऋजीकः मन्द्रः होता नित्यः वाचा यजीयान् ॥३०॥
devaḥ devān paribhūḥ ṛtena vaha naḥ havyam prathamaḥ cikitvān .dhūma-ketuḥ samidhā bhāṛjīkaḥ mandraḥ hotā nityaḥ vācā yajīyān ..30..

अर्चामि वां वर्धायापो घृतस्नू द्यावाभूमी शृणुतं रोदसी मे ।अहा यद्देवा असुनीतिमायन् मध्वा नो अत्र पितरा शिशीताम् ॥३१॥
अर्चामि वाम् वर्धाय अपः घृतस्नू द्यावाभूमी शृणुतम् रोदसी मे ।अहा यत् देवाः असुनीतिम् आयन् मध्वा नः अत्र पितरा शिशीताम् ॥३१॥
arcāmi vām vardhāya apaḥ ghṛtasnū dyāvābhūmī śṛṇutam rodasī me .ahā yat devāḥ asunītim āyan madhvā naḥ atra pitarā śiśītām ..31..

स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी ।विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥३२॥
स्वावृज् देवस्य अमृतम् यदि गोः अतस् जातासः धारयन्तः उर्वी ।विश्वे देवाः अनु तत् ते यजुः गुः दुहे यद्-एनी दिव्यम् घृतम् वाः ॥३२॥
svāvṛj devasya amṛtam yadi goḥ atas jātāsaḥ dhārayantaḥ urvī .viśve devāḥ anu tat te yajuḥ guḥ duhe yad-enī divyam ghṛtam vāḥ ..32..

किं स्विन् नो राजा जगृहे कदस्याति व्रतं चकृमा को वि वेद ।मित्रस्चिद्धि ष्मा जुहुराणो देवां छ्लोको न यातामपि वाजो अस्ति ॥३३॥
किम् स्विद् नः राजा जगृहे कदस्य अति व्रतम् चकृम कः वि वेद ।मित्रः चित् हि स्म जुहुराणः देवाम् श्लोकः न याताम् अपि वाजः अस्ति ॥३३॥
kim svid naḥ rājā jagṛhe kadasya ati vratam cakṛma kaḥ vi veda .mitraḥ cit hi sma juhurāṇaḥ devām ślokaḥ na yātām api vājaḥ asti ..33..

दुर्मन्त्वत्रामृतस्य नाम सलक्ष्मा यद्विषुरूपा भवाति ।यमस्य यो मनवते सुमन्त्वग्ने तमृष्व पाह्यप्रयुच्छन् ॥३४॥
नाम सलक्ष्मा यत् विषुरूपा भवाति ।यमस्य यः मनवते सुमन्तु अग्ने तम् ऋष्व पाहि अप्रयुच्छन् ॥३४॥
nāma salakṣmā yat viṣurūpā bhavāti .yamasya yaḥ manavate sumantu agne tam ṛṣva pāhi aprayucchan ..34..

यस्मिन् देवा विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।सूर्ये ज्योतिरदधुर्मास्यक्तून् परि द्योतनिं चरतो अजस्रा ॥३५॥
यस्मिन् देवाः विदथे मादयन्ते विवस्वतः सदने धारयन्ते ।सूर्ये ज्योतिः अदधुः मासि अक्तून् परि द्योतनिम् चरतः अजस्रा ॥३५॥
yasmin devāḥ vidathe mādayante vivasvataḥ sadane dhārayante .sūrye jyotiḥ adadhuḥ māsi aktūn pari dyotanim carataḥ ajasrā ..35..

यस्मिन् देवा मन्मनि संचरन्त्यपीच्ये न वयमस्य विद्म ।मित्रो नो अत्रादितिरनागान्त्सविता देवो वरुणाय वोचत्॥३६॥
यस्मिन् देवाः मन्मनि संचरन्ति अपीच्ये न वयम् अस्य विद्म ।मित्रः नः अत्र अदितिः अनागान् सविता देवः वरुणाय वोचत्॥३६॥
yasmin devāḥ manmani saṃcaranti apīcye na vayam asya vidma .mitraḥ naḥ atra aditiḥ anāgān savitā devaḥ varuṇāya vocat..36..

सखाय आ शिषामहे ब्रह्मेन्द्राय वज्रिणे ।स्तुष ऊ षु नृतमाय धृष्णवे ॥३७॥
सखायः आ शिषामहे ब्रह्म इन्द्राय वज्रिणे ।स्तुषे उ सु नृतमाय धृष्णवे ॥३७॥
sakhāyaḥ ā śiṣāmahe brahma indrāya vajriṇe .stuṣe u su nṛtamāya dhṛṣṇave ..37..

शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।मघैर्मघोनो अति शूर दाशसि ॥३८॥
शवसा हि असि श्रुतः वृत्र-हत्येन वृत्रहा ।मघैः मघोनः अति शूर दाशसि ॥३८॥
śavasā hi asi śrutaḥ vṛtra-hatyena vṛtrahā .maghaiḥ maghonaḥ ati śūra dāśasi ..38..

स्तेगो न क्षामत्येषि पृथिवीं मही नो वाता इह वान्तु भूमौ ।मित्रो नो अत्र वरुणो युजमानो अग्निर्वने न व्यसृष्ट शोकम् ॥३९॥
स्तेगः न क्षाम् अत्येषि पृथिवीम् मही नः वाताः इह वान्तु भूमौ ।मित्रः नः अत्र वरुणः युजमानः अग्निः वने न व्यसृष्ट शोकम् ॥३९॥
stegaḥ na kṣām atyeṣi pṛthivīm mahī naḥ vātāḥ iha vāntu bhūmau .mitraḥ naḥ atra varuṇaḥ yujamānaḥ agniḥ vane na vyasṛṣṭa śokam ..39..

स्तुहि श्रुतं गर्तसदं जनानां राजानं भीममुपहत्नुमुग्रम् ।मृडा जरित्रे रुद्र स्तवानो अन्यमस्मत्ते नि वपन्तु सेन्यम् ॥४०॥ {४}
स्तुहि श्रुतम् गर्त-सदम् जनानाम् राजानम् भीमम् उपहत्नुम् उग्रम् ।मृड जरित्रे रुद्र स्तवानः अन्यम् अस्मत् ते नि वपन्तु सेन्यम् ॥४०॥
stuhi śrutam garta-sadam janānām rājānam bhīmam upahatnum ugram .mṛḍa jaritre rudra stavānaḥ anyam asmat te ni vapantu senyam ..40..

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४१॥
सरस्वतीम् देवयन्तः हवन्ते सरस्वतीम् अध्वरे तायमाने ।सरस्वतीम् सु कृतः हवन्ते सरस्वती दाशुषे वार्यम् दात्॥४१॥
sarasvatīm devayantaḥ havante sarasvatīm adhvare tāyamāne .sarasvatīm su kṛtaḥ havante sarasvatī dāśuṣe vāryam dāt..41..

सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४२॥
सरस्वतीम् पितरः हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः ।आसद्य अस्मिन् बर्हिषि मादयध्वम् अनमीवाः इषः आ धेहि अस्मे ॥४२॥
sarasvatīm pitaraḥ havante dakṣiṇā yajñam abhinakṣamāṇāḥ .āsadya asmin barhiṣi mādayadhvam anamīvāḥ iṣaḥ ā dhehi asme ..42..

सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४३॥
सरस्वति या स रथम् ययाथ उक्थैः स्वधाभिः देवि पितृभिः मदन्ती ।सहस्र-अर्घम् इडः अत्र भागम् रायस्पोषम् यजमानाय धेहि ॥४३॥
sarasvati yā sa ratham yayātha ukthaiḥ svadhābhiḥ devi pitṛbhiḥ madantī .sahasra-argham iḍaḥ atra bhāgam rāyaspoṣam yajamānāya dhehi ..43..

उदीरतामवर उत्परास उन् मध्यमाः पितरः सोम्यासः ।असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥४४॥
उदीरताम् अवरे उद् परासः उद् मध्यमाः पितरः सोम्यासः ।असुम् ये ईयुः अवृकाः ऋत-ज्ञाः ते नः अवन्तु पितरः हवेषु ॥४४॥
udīratām avare ud parāsaḥ ud madhyamāḥ pitaraḥ somyāsaḥ .asum ye īyuḥ avṛkāḥ ṛta-jñāḥ te naḥ avantu pitaraḥ haveṣu ..44..

आहं पितॄन्त्सुविदत्रामवित्सि नपातं च विक्रमणं च विष्णोः ।बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस्त इहागमिष्ठाः ॥४५॥
आ अहम् पितॄन् सुविदत्राम् अवित्सि नपातम् च विक्रमणम् च विष्णोः ।बर्हिषदः ये स्वधया सुतस्य भजन्त पित्वः ते इह आगमिष्ठाः ॥४५॥
ā aham pitṝn suvidatrām avitsi napātam ca vikramaṇam ca viṣṇoḥ .barhiṣadaḥ ye svadhayā sutasya bhajanta pitvaḥ te iha āgamiṣṭhāḥ ..45..

इदं पितृभ्यो नमो अस्त्वद्य ये पूर्वासो ये अपरास ईयुः ।ये पार्थिवे रजस्या निषक्ता ये वा नूनं सुवृजनासु दिक्षु ॥४६॥
इदम् पितृभ्यः नमः अस्तु अद्य ये पूर्वासः ये अपरासः ईयुः ।ये पार्थिवे रजस्याः निषक्ताः ये वा नूनम् सु वृजनासु दिक्षु ॥४६॥
idam pitṛbhyaḥ namaḥ astu adya ye pūrvāsaḥ ye aparāsaḥ īyuḥ .ye pārthive rajasyāḥ niṣaktāḥ ye vā nūnam su vṛjanāsu dikṣu ..46..

मातली कव्यैर्यमो अङ्गिरोभिर्बृहस्पतिर्ऋक्वभिर्वावृधानः ।यांश्च देवा वावृधुर्ये च देवांस्ते नोऽवन्तु पितरो हवेषु ॥४७॥
मातली कव्यैः यमः अङ्गिरोभिः बृहस्पतिः ऋक्वभिः वावृधानः ।यान् च देवाः वावृधुः ये च देवान् ते नः अवन्तु पितरः हवेषु ॥४७॥
mātalī kavyaiḥ yamaḥ aṅgirobhiḥ bṛhaspatiḥ ṛkvabhiḥ vāvṛdhānaḥ .yān ca devāḥ vāvṛdhuḥ ye ca devān te naḥ avantu pitaraḥ haveṣu ..47..

स्वादुष्किलायं मधुमामुतायं तीव्रः किलायं रसवामुतायम् ।उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥४८॥
स्वादुः किल अयम् मधुमाम् उत अयम् तीव्रः किल अयम् रसवाम् उत अयम् ।उत उ नु अस्य पपिवांसम् इन्द्रम् न कश्चन सहते आहवेषु ॥४८॥
svāduḥ kila ayam madhumām uta ayam tīvraḥ kila ayam rasavām uta ayam .uta u nu asya papivāṃsam indram na kaścana sahate āhaveṣu ..48..

परेयिवांसं प्रवतो महीरिति बहुभ्यः पन्थामनुपस्पशानम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥४९॥
परेयिवांसम् प्रवतः महीः इति बहुभ्यः पन्थाम् अनुपस्पशानम् ।वैवस्वतम् संगमनम् जनानाम् यमम् राजानम् हविषा सपर्यत ॥४९॥
pareyivāṃsam pravataḥ mahīḥ iti bahubhyaḥ panthām anupaspaśānam .vaivasvatam saṃgamanam janānām yamam rājānam haviṣā saparyata ..49..

यमो नो गातुं प्रथमो विवेद नैषा गव्यूतिरपभर्तवा उ ।यत्रा नः पूर्वे पितरः परेता एना जज्ञानाः पथ्या अनु स्वाः ॥५०॥ {५}
यमः नः गातुम् प्रथमः विवेद न एषा गव्यूतिः अपभर्तवै उ ।यत्रा नः पूर्वे पितरः परेताः एना जज्ञानाः पथ्याः अनु स्वाः ॥५०॥
yamaḥ naḥ gātum prathamaḥ viveda na eṣā gavyūtiḥ apabhartavai u .yatrā naḥ pūrve pitaraḥ paretāḥ enā jajñānāḥ pathyāḥ anu svāḥ ..50..

बर्हिषदः पितर ऊत्यर्वागिमा वो हव्या चकृमा जुषध्वम् ।त आ गतावसा शंतमेनाधा नः शं योररपो दधात ॥५१॥
बर्हिषदः पितरः ऊती अर्वाक् इमा वः हव्या चकृम जुषध्वम् ।ते आ गत अवसा शंतमेन अध नः शम् या उररपः दधात ॥५१॥
barhiṣadaḥ pitaraḥ ūtī arvāk imā vaḥ havyā cakṛma juṣadhvam .te ā gata avasā śaṃtamena adha naḥ śam yā urarapaḥ dadhāta ..51..

आच्या जानु दक्षिणतो निषद्येदं नो हविरभि गृणन्तु विश्वे ।मा हिंसिष्ट पितरः केन चिन् नो यद्व आगः पुरुषता कराम ॥५२॥
आच्य जानु दक्षिणतस् निषद्य इदम् नः हविः अभि गृणन्तु विश्वे ।मा हिंसिष्ट पितरः केन चित् नः यत् वः आगः पुरुष-ता कराम ॥५२॥
ācya jānu dakṣiṇatas niṣadya idam naḥ haviḥ abhi gṛṇantu viśve .mā hiṃsiṣṭa pitaraḥ kena cit naḥ yat vaḥ āgaḥ puruṣa-tā karāma ..52..

त्वष्टा दुहित्रे वहतुं कृणोति तेनेदं विश्वं भुवनं समेति ।यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥५३॥
त्वष्टा दुहित्रे वहतुम् कृणोति तेन इदम् विश्वम् भुवनम् समेति ।यमस्य माता पर्युह्यमाना महः जाया विवस्वतः ननाश ॥५३॥
tvaṣṭā duhitre vahatum kṛṇoti tena idam viśvam bhuvanam sameti .yamasya mātā paryuhyamānā mahaḥ jāyā vivasvataḥ nanāśa ..53..

प्रेहि प्रेहि पथिभिः पूर्याणैर्येना ते पूर्वे पितरः परेताः ।उभा राजानौ स्वधया मदन्तौ यमं पश्यासि वरुणं च देवम् ॥५४॥
प्रेहि प्रेहि पथिभिः पूर्याणैः येन ते पूर्वे पितरः परेताः ।उभा राजानौ स्वधया मदन्तौ यमम् पश्यासि वरुणम् च देवम् ॥५४॥
prehi prehi pathibhiḥ pūryāṇaiḥ yena te pūrve pitaraḥ paretāḥ .ubhā rājānau svadhayā madantau yamam paśyāsi varuṇam ca devam ..54..

अपेत वीत वि च सर्पतातोऽस्मा एतं पितरो लोकमक्रन् ।अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्यवसानमस्मै ॥५५॥
अपेत वीत वि च सर्पत अतस् अस्मै एतम् पितरः लोकम् अक्रन् ।अहोभिः अद्भिः अक्तुभिः व्यक्तम् यमः ददाति अवसानम् अस्मै ॥५५॥
apeta vīta vi ca sarpata atas asmai etam pitaraḥ lokam akran .ahobhiḥ adbhiḥ aktubhiḥ vyaktam yamaḥ dadāti avasānam asmai ..55..

उशन्तस्त्वेधीमह्युशन्तः समिधीमहि ।उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥५६॥
उशन्तः त्वा इधीमहि उशन्तः समिधीमहि ।उशन् उशतः आ वह पितॄन् हविषे अत्तवे ॥५६॥
uśantaḥ tvā idhīmahi uśantaḥ samidhīmahi .uśan uśataḥ ā vaha pitṝn haviṣe attave ..56..

द्युमन्तस्त्वेधीमहि द्युमन्तः समिधीमहि ।द्युमान् द्युमत आ वह पितॄन् हविषे अत्तवे ॥५७॥
द्युमन्तः त्वा एधीमहि द्युमन्तः समिधीमहि ।द्युमान् द्युमतः आ वह पितॄन् हविषे अत्तवे ॥५७॥
dyumantaḥ tvā edhīmahi dyumantaḥ samidhīmahi .dyumān dyumataḥ ā vaha pitṝn haviṣe attave ..57..

अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।तेषां वयं सुमतौ यज्ञियानामपि भद्रे सौमनसे स्याम ॥५८॥
अङ्गिरसः नः पितरः नवग्वाः अथर्वाणः भृगवः सोम्यासः ।तेषाम् वयम् सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥५८॥
aṅgirasaḥ naḥ pitaraḥ navagvāḥ atharvāṇaḥ bhṛgavaḥ somyāsaḥ .teṣām vayam sumatau yajñiyānām api bhadre saumanase syāma ..58..

अङ्गिरोभिर्यज्ञियैरा गहीह यम वैरूपैरिह मादयस्व ।विवस्वन्तं हुवे यः पिता तेऽस्मिन् बर्हिष्या निषद्य ॥५९॥
अङ्गिरोभिः यज्ञियैः आ गहि इह यम वैरूपैः इह मादयस्व ।विवस्वन्तम् हुवे यः पिता ते अस्मिन् बर्हिष्याः निषद्य ॥५९॥
aṅgirobhiḥ yajñiyaiḥ ā gahi iha yama vairūpaiḥ iha mādayasva .vivasvantam huve yaḥ pitā te asmin barhiṣyāḥ niṣadya ..59..

इमं यम प्रस्तरमा हि रोहाङ्गिरोभिः पितृभिः संविदानः ।आ त्वा मन्त्राः कविशस्ता वहन्त्वेना राजन् हविषो मादयस्व ॥६०॥
इमम् यम प्रस्तरमा हि रोह अङ्गिरोभिः पितृभिः संविदानः ।आ त्वा मन्त्राः कवि-शस्ताः वहन्तु एना राजन् हविषः मादयस्व ॥६०॥
imam yama prastaramā hi roha aṅgirobhiḥ pitṛbhiḥ saṃvidānaḥ .ā tvā mantrāḥ kavi-śastāḥ vahantu enā rājan haviṣaḥ mādayasva ..60..

इत एत उदारुहन् दिवस्पृष्ठान्वारुहन् ।प्र भूर्जयो यथा पथा द्यामङ्गिरसो ययुः ॥६१॥ {६}
इतस् एते उदारुहन् दिव-स्पृष्ठा अन्वारुहन् ।प्र भूर्जयः यथा पथा द्याम् अङ्गिरसः ययुः ॥६१॥
itas ete udāruhan diva-spṛṣṭhā anvāruhan .pra bhūrjayaḥ yathā pathā dyām aṅgirasaḥ yayuḥ ..61..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In