| |
|

This overlay will guide you through the buttons:

यमाय सोमः पवते यमाय क्रियते हविः ।यमं ह यज्ञो गच्छत्यग्निदूतो अरंकृतः ॥१॥
यमाय सोमः पवते यमाय क्रियते हविः ।यमम् ह यज्ञः गच्छति अग्नि-दूतः अरंकृतः ॥१॥
yamāya somaḥ pavate yamāya kriyate haviḥ .yamam ha yajñaḥ gacchati agni-dūtaḥ araṃkṛtaḥ ..1..

यमाय मधुमत्तमं जुहोता प्र च तिष्ठत ।इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
यमाय मधुमत्तमम् जुहोत प्र च तिष्ठत ।इदम् नमः ऋषिभ्यः पूर्व-जेभ्यः पूर्वेभ्यः पथिकृद्भ्यः ॥२॥
yamāya madhumattamam juhota pra ca tiṣṭhata .idam namaḥ ṛṣibhyaḥ pūrva-jebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ ..2..

यमाय घृतवत्पयो राज्ञे हविर्जुहोतन ।स नो जीवेष्वा यमेद्दीर्घमायुः प्र जीवसे ॥३॥
यमाय घृतवत् पयः राज्ञे हविः जुहोतन ।स नः जीव-इष्वा यमेत् दीर्घम् आयुः प्र जीवसे ॥३॥
yamāya ghṛtavat payaḥ rājñe haviḥ juhotana .sa naḥ jīva-iṣvā yamet dīrgham āyuḥ pra jīvase ..3..

मैनमग्ने वि दहो माभि शूशुचो मास्य त्वचं चिक्षिपो मा शरीरम् ।शृतं यदा करसि जातवेदोऽथेमेनं प्र हिणुतात्पितॄंरुप ॥४॥
मा एनम् अग्ने वि दहः मा अभि शूशुचः मा अस्य त्वचम् चिक्षिपः मा शरीरम् ।शृतम् यदा करसि जातवेदः अथ ईम् एनम् प्र हिणुतात् पितॄन् उप ॥४॥
mā enam agne vi dahaḥ mā abhi śūśucaḥ mā asya tvacam cikṣipaḥ mā śarīram .śṛtam yadā karasi jātavedaḥ atha īm enam pra hiṇutāt pitṝn upa ..4..

यदा शृतं कृणवो जातवेदोऽथेममेनं परि दत्तात्पितृभ्यः ।यदो गछात्यसुनीतिमेतामथ देवानां वशनीर्भवाति ॥५॥
यदा शृतम् कृणवः जातवेदः अथ इमम् एनम् परि दत्तात् पितृभ्यः ।यदा उ गच्छाति असुनीतिम् एताम् अथ देवानाम् वशनीः भवाति ॥५॥
yadā śṛtam kṛṇavaḥ jātavedaḥ atha imam enam pari dattāt pitṛbhyaḥ .yadā u gacchāti asunītim etām atha devānām vaśanīḥ bhavāti ..5..

त्रिकद्रुकेभिः पवते षडुर्वीरेकमिद्बृहत्।त्रिष्टुब्गायत्री छन्दांसि सर्वा ता यम आर्पिता ॥६॥
त्रिकद्रुकेभिः पवते षड् उर्वीः एकम् इद् बृहत्।त्रिष्टुभ्-गायत्री छन्दांसि सर्वा ता यमे आर्पिता ॥६॥
trikadrukebhiḥ pavate ṣaḍ urvīḥ ekam id bṛhat.triṣṭubh-gāyatrī chandāṃsi sarvā tā yame ārpitā ..6..

सूर्यं चक्षुषा गच्छ वातमात्मना दिवं च गच्छ पृथिवीं च धर्मभिः ।अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रति तिष्ठा शरीरैः ॥७॥
सूर्यम् चक्षुषा गच्छ वातम् आत्मना दिवम् च गच्छ पृथिवीम् च धर्मभिः ।अपः वा गच्छ यदि तत्र ते हितम् ओषधीषु प्रति तिष्ठ शरीरैः ॥७॥
sūryam cakṣuṣā gaccha vātam ātmanā divam ca gaccha pṛthivīm ca dharmabhiḥ .apaḥ vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭha śarīraiḥ ..7..

अजो भागस्तपसस्तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः ।यास्ते शिवास्तन्वो जातवेदस्ताभिर्वहैनं सुकृतामु लोकम् ॥८॥
अजः भागः तपसः तम् तपस्व तम् ते शोचिः तपतु तम् ते अर्चिः ।याः ते शिवाः तन्वः जातवेदः ताभिः वह एनम् सु कृतामु लोकम् ॥८॥
ajaḥ bhāgaḥ tapasaḥ tam tapasva tam te śociḥ tapatu tam te arciḥ .yāḥ te śivāḥ tanvaḥ jātavedaḥ tābhiḥ vaha enam su kṛtāmu lokam ..8..

यास्ते शोचयो रंहयो जातवेदो याभिरापृणासि दिवमन्तरिक्षम् ।अजं यन्तमनु ताः समृण्वतामथेतराभिः शिवतमाभिः शृतं कृधि ॥९॥
याः ते शोचयः रंहयः जातवेदः याभिः आपृणासि दिवम् अन्तरिक्षम् ।अजम् यन्तम् अनु ताः समृण्वताम् अथ इतराभिः शिवतमाभिः शृतम् कृधि ॥९॥
yāḥ te śocayaḥ raṃhayaḥ jātavedaḥ yābhiḥ āpṛṇāsi divam antarikṣam .ajam yantam anu tāḥ samṛṇvatām atha itarābhiḥ śivatamābhiḥ śṛtam kṛdhi ..9..

अव सृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधावान् ।आयुर्वसान उप यातु शेषः सं गच्छतां तन्वा सुवर्चाः ॥१०॥ {७}
अव सृज पुनर् अग्ने पितृभ्यः यः ते आहुतः चरति स्वधावान् ।आयुः वसानः उप यातु शेषः सम् गच्छताम् तन्वा सु वर्चाः ॥१०॥
ava sṛja punar agne pitṛbhyaḥ yaḥ te āhutaḥ carati svadhāvān .āyuḥ vasānaḥ upa yātu śeṣaḥ sam gacchatām tanvā su varcāḥ ..10..

अति द्रव श्वानौ सारमेयौ चतुरक्षौ शबलौ साधुना पथा ।अधा पितॄन्त्सुविदत्रामपीहि यमेन ये सधमादं मदन्ति ॥११॥
अति द्रव श्वानौ सारमेयौ चतुर्-अक्षौ शबलौ साधुना पथा ।अध पितॄन् सुविदत्राम् अपीहि यमेन ये सधमादम् मदन्ति ॥११॥
ati drava śvānau sārameyau catur-akṣau śabalau sādhunā pathā .adha pitṝn suvidatrām apīhi yamena ye sadhamādam madanti ..11..

यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिषदी नृचक्षसा ।ताभ्यां राजन् परि धेह्येनं स्वस्त्यस्मा अनमीवं च धेहि ॥१२॥
यौ ते श्वानौ यम रक्षितारौ चतुर्-अक्षौ पथिषदी नृ-चक्षसा ।ताभ्याम् राजन् परि धेहि एनम् स्वस्ति अस्मै अनमीवम् च धेहि ॥१२॥
yau te śvānau yama rakṣitārau catur-akṣau pathiṣadī nṛ-cakṣasā .tābhyām rājan pari dhehi enam svasti asmai anamīvam ca dhehi ..12..

उरूणसावसुतृपावुदुम्बलौ यमस्य दूतौ चरतो जनामनु ।तावस्मभ्यं दृशये सूर्याय पुनर्दातामसुमद्येह भद्रम् ॥१३॥
उरूणसौ असुतृपौ उदुम्बलौ यमस्य दूतौ चरतः जनाम् अनु ।तौ अस्मभ्यम् दृशये सूर्याय पुनर् दाताम् असुम् अद्य इह भद्रम् ॥१३॥
urūṇasau asutṛpau udumbalau yamasya dūtau carataḥ janām anu .tau asmabhyam dṛśaye sūryāya punar dātām asum adya iha bhadram ..13..

सोम एकेभ्यः पवते घृतमेक उपासते ।येभ्यो मधु प्रधावति तांश्चिदेवापि गच्छतात्॥१४॥
सोमः एकेभ्यः पवते घृतम् एके उपासते ।येभ्यः मधु प्रधावति तान् चित् एव अपि गच्छतात्॥१४॥
somaḥ ekebhyaḥ pavate ghṛtam eke upāsate .yebhyaḥ madhu pradhāvati tān cit eva api gacchatāt..14..

ये चित्पूर्व ऋतसाता ऋतजाता ऋतावृधः ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१५॥
ये चित् पूर्वे ऋत-साताः ऋत-जाताः ऋतावृधः ।ऋषीन् तपस्वतः यम तपः-जाम् अपि गच्छतात्॥१५॥
ye cit pūrve ṛta-sātāḥ ṛta-jātāḥ ṛtāvṛdhaḥ .ṛṣīn tapasvataḥ yama tapaḥ-jām api gacchatāt..15..

तपसा ये अनाधृष्यास्तपसा ये स्वर्ययुः ।तपो ये चक्रिरे महस्तांश्चिदेवापि गच्छतात्॥१६॥
तपसा ये अनाधृष्याः तपसा ये स्वर् ययुः ।तपः ये चक्रिरे महः तान् चित् एव अपि गच्छतात्॥१६॥
tapasā ye anādhṛṣyāḥ tapasā ye svar yayuḥ .tapaḥ ye cakrire mahaḥ tān cit eva api gacchatāt..16..

ये युध्यन्ते प्रधनेषु शूरासो ये स्वर्तनूत्यजः ।ये वा सहस्रदक्षिणास्तां चिदेवापि गच्छतात्॥१७॥
ये युध्यन्ते प्रधनेषु शूरासः ये स्वर् तनूत्यजः ।ये वा सहस्र-दक्षिणाः ताम् चित् एव अपि गच्छतात्॥१७॥
ye yudhyante pradhaneṣu śūrāsaḥ ye svar tanūtyajaḥ .ye vā sahasra-dakṣiṇāḥ tām cit eva api gacchatāt..17..

सहस्रणीथाः कवयो ये गोपायन्ति सूर्यम् ।ऋषीन् तपस्वतो यम तपोजामपि गच्छतात्॥१८॥
सहस्रणीथाः कवयः ये गोपायन्ति सूर्यम् ।ऋषीन् तपस्वतः यम तपः-जाम् अपि गच्छतात्॥१८॥
sahasraṇīthāḥ kavayaḥ ye gopāyanti sūryam .ṛṣīn tapasvataḥ yama tapaḥ-jām api gacchatāt..18..

स्योनास्मै भव पृथिव्यनृक्षरा निवेशनी ।यछास्मै शर्म सप्रथाः ॥१९॥
स्योना अस्मै भव पृथिवि अनृक्षरा निवेशनी ।यच्छ अस्मै शर्म सप्रथाः ॥१९॥
syonā asmai bhava pṛthivi anṛkṣarā niveśanī .yaccha asmai śarma saprathāḥ ..19..

असंबाधे पृथिव्या उरौ लोके नि धीयस्व ।स्वधा याश्चकृषे जीवन् तास्ते सन्तु मधुश्चुतः ॥२०॥ {८}
असंबाधे पृथिव्याः उरौ लोके नि धीयस्व ।स्वधाः याः चकृषे जीवन् ताः ते सन्तु मधुश्चुतः ॥२०॥
asaṃbādhe pṛthivyāḥ urau loke ni dhīyasva .svadhāḥ yāḥ cakṛṣe jīvan tāḥ te santu madhuścutaḥ ..20..

ह्वयामि ते मनसा मन इहेमान् गृहामुप जुजुषाण एहि ।सं गच्छस्व पितृभिः सं यमेन स्योनास्त्वा वाता उप वान्तु शग्माः ॥२१॥
ह्वयामि ते मनसा मनः इह इमान् गृहाम् उप जुजुषाणः एहि ।सम् गच्छस्व पितृभिः सम् यमेन स्योनाः त्वा वाताः उप वान्तु शग्माः ॥२१॥
hvayāmi te manasā manaḥ iha imān gṛhām upa jujuṣāṇaḥ ehi .sam gacchasva pitṛbhiḥ sam yamena syonāḥ tvā vātāḥ upa vāntu śagmāḥ ..21..

उत्त्वा वहन्तु मरुत उदवाहा उदप्रुतः ।अजेन कृण्वन्तः शीतं वर्षेणोक्षन्तु बालिति ॥२२॥
उत्त्वा वहन्तु मरुतः उद-वाहाः उद-प्रुतः ।अजेन कृण्वन्तः शीतम् वर्षेण उक्षन्तु बालिति ॥२२॥
uttvā vahantu marutaḥ uda-vāhāḥ uda-prutaḥ .ajena kṛṇvantaḥ śītam varṣeṇa ukṣantu bāliti ..22..

उदह्वमायुरायुषे क्रत्वे दक्षाय जीवसे ।स्वान् गच्छतु ते मनो अधा पितॄंरुप द्रव ॥२३॥
उदह्वम् आयुः आयुषे क्रत्वे दक्षाय जीवसे ।स्वान् गच्छतु ते मनः अध पितॄन् उप द्रव ॥२३॥
udahvam āyuḥ āyuṣe kratve dakṣāya jīvase .svān gacchatu te manaḥ adha pitṝn upa drava ..23..

मा ते मनो मासोर्माङ्गानां मा रसस्य ते ।मा ते हास्त तन्वः किं चनेह ॥२४॥
मा ते मनः मा असोः मा अङ्गानाम् मा रसस्य ते ।मा ते ह आस्त तन्वः किम् चन इह ॥२४॥
mā te manaḥ mā asoḥ mā aṅgānām mā rasasya te .mā te ha āsta tanvaḥ kim cana iha ..24..

मा त्वा वृक्षः सं बाधिष्ट मा देवी पृथिवी मही ।लोकं पितृषु वित्त्वैधस्व यमराजसु ॥२५॥
मा त्वा वृक्षः सम् बाधिष्ट मा देवी पृथिवी मही ।लोकम् पितृषु वित्त्वा एधस्व यम-राजसु ॥२५॥
mā tvā vṛkṣaḥ sam bādhiṣṭa mā devī pṛthivī mahī .lokam pitṛṣu vittvā edhasva yama-rājasu ..25..

यत्ते अङ्गमतिहितं पराचैरपानः प्राणो य उ वा ते परेतः ।तत्ते संगत्य पितरः सनीडा घासाद्घासं पुनरा वेशयन्तु ॥२६॥
यत् ते अङ्गम् अतिहितम् पराचैस् अपानः प्राणः यः उ वा ते परेतः ।तत् ते संगत्य पितरः सनीडाः घासात् घासम् पुनर् आ वेशयन्तु ॥२६॥
yat te aṅgam atihitam parācais apānaḥ prāṇaḥ yaḥ u vā te paretaḥ .tat te saṃgatya pitaraḥ sanīḍāḥ ghāsāt ghāsam punar ā veśayantu ..26..

अपेमं जीवा अरुधन् गृहेभ्यस्तं निर्वहत परि ग्रामादितः ।मृत्युर्यमस्यासीद्दूतः प्रचेता असून् पितृभ्यो गमयां चकार ॥२७॥
अप इमम् जीवाः अरुधन् गृहेभ्यः तम् निर्वहत परि ग्रामात् इतस् ।मृत्युः यमस्य आसीत् दूतः प्रचेताः असून् पितृभ्यः गमयाम् चकार ॥२७॥
apa imam jīvāḥ arudhan gṛhebhyaḥ tam nirvahata pari grāmāt itas .mṛtyuḥ yamasya āsīt dūtaḥ pracetāḥ asūn pitṛbhyaḥ gamayām cakāra ..27..

ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादश्चरन्ति ।परापुरो निपुरो ये भरन्त्यग्निष्टान् अस्मात्प्र धमाति यज्ञात्॥२८॥
ये दस्यवः पितृषु प्रविष्टाः ज्ञाति-मुखाः अहुत-अदः चरन्ति ।परापुरः निपुरः ये भरन्ति अग्निः तान् अस्मात् प्र धमाति यज्ञात्॥२८॥
ye dasyavaḥ pitṛṣu praviṣṭāḥ jñāti-mukhāḥ ahuta-adaḥ caranti .parāpuraḥ nipuraḥ ye bharanti agniḥ tān asmāt pra dhamāti yajñāt..28..

सं विशन्त्विह पितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः ।तेभ्यः शकेम हविषा नक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥२९॥
सम् विशन्तु इह पितरः स्वाः नः स्योनम् कृण्वन्तः प्रतिरन्तः आयुः ।तेभ्यः शकेम हविषा नक्षमाणाः ज्योक् जीवन्तः शरदः पुरूचीः ॥२९॥
sam viśantu iha pitaraḥ svāḥ naḥ syonam kṛṇvantaḥ pratirantaḥ āyuḥ .tebhyaḥ śakema haviṣā nakṣamāṇāḥ jyok jīvantaḥ śaradaḥ purūcīḥ ..29..

यां ते धेनुं निपृणामि यमु क्षीर ओदनम् ।तेना जनस्यासो भर्ता योऽत्रासदजीवनः ॥३०॥ {९}
याम् ते धेनुम् निपृणामि यमु क्षीरे ओदनम् ।जनस्य असः भर्ता यः अत्र असदजीवनः ॥३०॥
yām te dhenum nipṛṇāmi yamu kṣīre odanam .janasya asaḥ bhartā yaḥ atra asadajīvanaḥ ..30..

अश्वावतीं प्र तर या सुशेवा र्क्षाकं वा प्रतरं नवीयः ।यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद्विदत भागधेयम् ॥३१॥
अश्वावतीम् प्र तर या सु शेवा र्क्षाकम् वा प्रतरम् नवीयः ।यः त्वा जघान वध्यः सः अस्तु मा सः अन्यत् विदत भागधेयम् ॥३१॥
aśvāvatīm pra tara yā su śevā rkṣākam vā prataram navīyaḥ .yaḥ tvā jaghāna vadhyaḥ saḥ astu mā saḥ anyat vidata bhāgadheyam ..31..

यमः परोऽवरो विवस्वान् ततः परं नाति पश्यामि किं चन ।यमे अध्वरो अधि मे निविष्टो भुवो विवस्वान् अन्वाततान ॥३२॥
यमः परः अवरः विवस्वान् ततस् परम् न अति पश्यामि किम् चन ।यमे अध्वरः अधि मे निविष्टः भुवः विवस्वान् अन्वाततान ॥३२॥
yamaḥ paraḥ avaraḥ vivasvān tatas param na ati paśyāmi kim cana .yame adhvaraḥ adhi me niviṣṭaḥ bhuvaḥ vivasvān anvātatāna ..32..

अपागूहन्न् अमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते ।उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥३३॥
अपागूहन् अमृताम् मर्त्येभ्यः कृत्वा सवर्णाम् अदधुः विवस्वते ।उत अश्विनौ अभरत् यत् तत् आसीत् अजहात् उ द्वा मिथुना सरण्यूः ॥३३॥
apāgūhan amṛtām martyebhyaḥ kṛtvā savarṇām adadhuḥ vivasvate .uta aśvinau abharat yat tat āsīt ajahāt u dvā mithunā saraṇyūḥ ..33..

ये निखाता ये परोप्ता ये दग्धा ये चोद्धिताः ।सर्वांस्तान् अग्न आ वह पितॄन् हविषे अत्तवे ॥३४॥
ये निखाताः ये परोप्ताः ये दग्धाः ये च उद्धिताः ।सर्वान् तान् अग्ने आ वह पितॄन् हविषे अत्तवे ॥३४॥
ye nikhātāḥ ye paroptāḥ ye dagdhāḥ ye ca uddhitāḥ .sarvān tān agne ā vaha pitṝn haviṣe attave ..34..

ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते ।त्वं तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञं स्वधितिं जुषन्ताम् ॥३५॥
ये अग्नि-दग्धाः ये अन् अग्नि-दग्धाः मध्ये दिवः स्वधया मादयन्ते ।त्वम् तान् वेत्थ यदि ते जातवेदः स्वधया यज्ञम् स्वधितिम् जुषन्ताम् ॥३५॥
ye agni-dagdhāḥ ye an agni-dagdhāḥ madhye divaḥ svadhayā mādayante .tvam tān vettha yadi te jātavedaḥ svadhayā yajñam svadhitim juṣantām ..35..

शं तप माति तपो अग्ने मा तन्वं तपः ।वणेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥३६॥
शम् तप मा अति तपः अग्ने मा तन्वम् तपः ।वणेषु शुष्मः अस्तु ते पृथिव्याम् अस्तु यत् हरः ॥३६॥
śam tapa mā ati tapaḥ agne mā tanvam tapaḥ .vaṇeṣu śuṣmaḥ astu te pṛthivyām astu yat haraḥ ..36..

ददाम्यस्मा अवसानमेतद्य एष आगन् मम चेदभूदिह ।यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥३७॥
ददामि अस्मै अवसानम् एतत् यः एषः आगन् मम चेद् अभूत् इह ।यमः चिकित्वान् प्रति एतत् आह मम एष रायः उप तिष्ठताम् इह ॥३७॥
dadāmi asmai avasānam etat yaḥ eṣaḥ āgan mama ced abhūt iha .yamaḥ cikitvān prati etat āha mama eṣa rāyaḥ upa tiṣṭhatām iha ..37..

इमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३८॥
इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥३८॥
imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..38..

प्रेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥३९॥
प्र इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥३९॥
pra imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..39..

अपेमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४०॥ {१०}
अप इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥४०॥
apa imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..40..

वीमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४१॥
वि इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥४१॥
vi imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..41..

निरिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४२॥
निः इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥४२॥
niḥ imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..42..

उदिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४३॥
उद् इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥४३॥
ud imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..43..

समिमां मात्रां मिमीमहे यथापरं न मासातै ।शते शरत्सु नो पुरा ॥४४॥
सम् इमाम् मात्राम् मिमीमहे यथा अपरम् न मासातै ।शते शरत्सु न उ पुरा ॥४४॥
sam imām mātrām mimīmahe yathā aparam na māsātai .śate śaratsu na u purā ..44..

अमासि मात्रां स्वरगामायुष्मान् भूयासम् ।यथापरं न मासातै शते शरत्सु नो पुरा ॥४५॥
अमासि मात्राम् स्वर-गाम् आयुष्मान् भूयासम् ।यथा अपरम् न मासातै शते शरत्सु न उ पुरा ॥४५॥
amāsi mātrām svara-gām āyuṣmān bhūyāsam .yathā aparam na māsātai śate śaratsu na u purā ..45..

प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय ।अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥४६॥
प्राणः अपानः व्यानः आयुः चक्षुः दृशये सूर्याय ।अपरिपरेण पथा यम-राज्ञः पितॄन् गच्छ ॥४६॥
prāṇaḥ apānaḥ vyānaḥ āyuḥ cakṣuḥ dṛśaye sūryāya .aparipareṇa pathā yama-rājñaḥ pitṝn gaccha ..46..

ये अग्रवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः ।ते द्यामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
ये अग्रवः शशमानाः परेयुः हित्वा द्वेषांसि अनपत्यवन्तः ।ते द्याम् उदित्य अविदन्त लोकम् नाकस्य पृष्ठे अधि दीध्यानाः ॥४७॥
ye agravaḥ śaśamānāḥ pareyuḥ hitvā dveṣāṃsi anapatyavantaḥ .te dyām uditya avidanta lokam nākasya pṛṣṭhe adhi dīdhyānāḥ ..47..

उदन्वती द्यौरवमा पीलुमतीति मध्यमा ।तृतीया ह प्रद्यौरिति यस्यां पितर आसते ॥४८॥
उदन्वती द्यौः अवमा पीलुमती इति मध्यमा ।तृतीया ह प्रद्यौः इति यस्याम् पितरः आसते ॥४८॥
udanvatī dyauḥ avamā pīlumatī iti madhyamā .tṛtīyā ha pradyauḥ iti yasyām pitaraḥ āsate ..48..

ये न पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥४९॥
ये न पितुः पितरः ये पितामहाः ये आविविशुः उरु अन्तरिक्षम् ।ये आक्षियन्ति पृथिवीम् उत द्याम् तेभ्यः पितृभ्यः नमसा विधेम ॥४९॥
ye na pituḥ pitaraḥ ye pitāmahāḥ ye āviviśuḥ uru antarikṣam .ye ākṣiyanti pṛthivīm uta dyām tebhyaḥ pitṛbhyaḥ namasā vidhema ..49..

इदमिद्वा उ नापरं दिवि पश्यसि सूर्यम् ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {११}
इदम् इद् वै उ न अपरम् दिवि पश्यसि सूर्यम् ।माता पुत्रम् यथा सिचा अभि एनम् भूमे ऊर्णुहि ॥५०॥
idam id vai u na aparam divi paśyasi sūryam .mātā putram yathā sicā abhi enam bhūme ūrṇuhi ..50..

इदमिद्वा उ नापरं जरस्यन्यदितोऽपरम् ।जाया पतिमिव वाससाभ्येनं भूम ऊर्णुहि ॥५१॥
इदम् इद् वै उ न अपरम् जरसि अन्यत् इतस् अपरम् ।जाया पतिम् इव वाससा अभि एनम् भूमे ऊर्णुहि ॥५१॥
idam id vai u na aparam jarasi anyat itas aparam .jāyā patim iva vāsasā abhi enam bhūme ūrṇuhi ..51..

अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया ।जीवेषु भद्रं तन् मयि स्वधा पितृषु सा त्वयि ॥५२॥
अभि त्वा ऊर्णोमि पृथिव्याः मातुः वस्त्रेण भद्रया ।जीवेषु भद्रम् तत् मयि स्वधा पितृषु सा त्वयि ॥५२॥
abhi tvā ūrṇomi pṛthivyāḥ mātuḥ vastreṇa bhadrayā .jīveṣu bhadram tat mayi svadhā pitṛṣu sā tvayi ..52..

अग्नीषोमा पथिकृता स्योनं देवेभ्यो रत्नं दधथुर्वि लोकम् ।उप प्रेष्यन्तं पूषणं यो वहात्यञ्जोयानैः पथिभिस्तत्र गच्छतम् ॥५३॥
अग्नीषोमा पथिकृता स्योनम् देवेभ्यः रत्नम् दधथुः वि लोकम् ।उप प्रेष्यन्तम् पूषणम् यः वहाति अञ्जः-यानैः पथिभिः तत्र गच्छतम् ॥५३॥
agnīṣomā pathikṛtā syonam devebhyaḥ ratnam dadhathuḥ vi lokam .upa preṣyantam pūṣaṇam yaḥ vahāti añjaḥ-yānaiḥ pathibhiḥ tatra gacchatam ..53..

पूषा त्वेतश्च्यावयतु प्र विद्वान् अनष्टपशुर्भुवनस्य गोपाः ।स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
पूषा त्वा इतस् च्यावयतु प्र विद्वान् अ नष्ट-पशुः भुवनस्य गोपाः ।स त्वा एतेभ्यः परि ददत् पितृभ्यः अग्निः देवेभ्यः सुविदत्रियेभ्यः ॥५४॥
pūṣā tvā itas cyāvayatu pra vidvān a naṣṭa-paśuḥ bhuvanasya gopāḥ .sa tvā etebhyaḥ pari dadat pitṛbhyaḥ agniḥ devebhyaḥ suvidatriyebhyaḥ ..54..

आयुर्विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।यत्रासते सुकृतो यत्र त ईयुस्तत्र त्वा देवः सविता दधातु ॥५५॥
आयुः विश्वायुः परि पातु त्वा पूषा त्वा पातु प्रपथे पुरस्तात्।यत्र आसते सु कृतः यत्र ते ईयुः तत्र त्वा देवः सविता दधातु ॥५५॥
āyuḥ viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt.yatra āsate su kṛtaḥ yatra te īyuḥ tatra tvā devaḥ savitā dadhātu ..55..

इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।ताभ्यां यमस्य सादनं समितिश्चाव गच्छतात्॥५६॥
इमौ युनज्मि ते वह्नी असुनीताय वोढवे ।ताभ्याम् यमस्य सादनम् समितिः च अव गच्छतात्॥५६॥
imau yunajmi te vahnī asunītāya voḍhave .tābhyām yamasya sādanam samitiḥ ca ava gacchatāt..56..

एतत्त्वा वासः प्रथमं न्वागन्न् अपैतदूह यदिहाबिभः पुरा ।इष्टापूर्तमनुसंक्राम विद्वान् यत्र ते दत्तं बहुधा विबन्धुषु ॥५७॥
एतत् त्वा वासः प्रथमम् नु आगन् अप एतत् ऊह यत् इह अबिभः पुरा ।इष्टापूर्तम् अनुसंक्राम विद्वान् यत्र ते दत्तम् बहुधा विबन्धुषु ॥५७॥
etat tvā vāsaḥ prathamam nu āgan apa etat ūha yat iha abibhaḥ purā .iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattam bahudhā vibandhuṣu ..57..

अग्नेर्वर्म परि गोभिर्व्ययस्व सं प्रोर्णुष्व मेदसा पीवसा च ।नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधृग्विधक्षन् परीङ्खयातै ॥५८॥
अग्नेः वर्म परि गोभिः व्ययस्व सम् प्र ऊर्णुष्व मेदसा पीवसा च ।न इत्त्वा धृष्णुः हरसा जर्हृषाणः दधृष् विधक्षन् परि ईङ्खयातै ॥५८॥
agneḥ varma pari gobhiḥ vyayasva sam pra ūrṇuṣva medasā pīvasā ca .na ittvā dhṛṣṇuḥ harasā jarhṛṣāṇaḥ dadhṛṣ vidhakṣan pari īṅkhayātai ..58..

दण्डं हस्तादाददानो गतासोः सह श्रोत्रेण वर्चसा बलेन ।अत्रैव त्वमिह वयं सुवीरा विश्वा मृधो अभिमातीर्जयेम ॥५९॥
दण्डम् हस्तात् आददानः गतासोः सह श्रोत्रेण वर्चसा बलेन ।अत्र एव त्वम् इह वयम् सु वीराः विश्वाः मृधः अभिमातीः जयेम ॥५९॥
daṇḍam hastāt ādadānaḥ gatāsoḥ saha śrotreṇa varcasā balena .atra eva tvam iha vayam su vīrāḥ viśvāḥ mṛdhaḥ abhimātīḥ jayema ..59..

धनुर्हस्तादाददानो मृतस्य सह क्षत्रेण वर्चसा बलेन ।समागृभाय वसु भूरि पुष्टमर्वाङ्त्वमेह्युप जीवलोकम् ॥६०॥ {१२}
धनुः-हस्तात् आददानः मृतस्य सह क्षत्रेण वर्चसा बलेन ।समागृभाय वसु भूरि पुष्टम् अर्वाङ् त्वम् एहि उप जीव-लोकम् ॥६०॥
dhanuḥ-hastāt ādadānaḥ mṛtasya saha kṣatreṇa varcasā balena .samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehi upa jīva-lokam ..60..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In