| |
|

This overlay will guide you through the buttons:

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥१॥
इयम् नारी पति-लोकम् वृणाना नि पद्यते उप त्वा मर्त्य प्रेतम् ।धर्मम् पुराणम् अनुपालयन्ती तस्यै प्रजाम् द्रविणम् च इह धेहि ॥१॥
iyam nārī pati-lokam vṛṇānā ni padyate upa tvā martya pretam .dharmam purāṇam anupālayantī tasyai prajām draviṇam ca iha dhehi ..1..

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥२॥
उदीर्ष्व नारि अभि जीव-लोकम् गतासुम् एतम् उप शेषः एहि ।हस्त-ग्राभस्य दधिषोः तव इदम् पत्युः जनित्वम् अभि सम् बभूथ ॥२॥
udīrṣva nāri abhi jīva-lokam gatāsum etam upa śeṣaḥ ehi .hasta-grābhasya dadhiṣoḥ tava idam patyuḥ janitvam abhi sam babhūtha ..2..

अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥३॥
अपश्यम् युवतिम् नीयमानाम् जीवाम् मृतेभ्यः परिणीयमानाम् ।अन्धेन यत् तमसा प्रावृता आसीत् प्राक्तस् अपाचीम् अनयम् तत् एनाम् ॥३॥
apaśyam yuvatim nīyamānām jīvām mṛtebhyaḥ pariṇīyamānām .andhena yat tamasā prāvṛtā āsīt prāktas apācīm anayam tat enām ..3..

प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥४॥
प्रजानति अघ्न्ये जीव-लोकम् देवानाम् पन्थाम् अनुसंचरन्ती ।अयम् ते गोपतिः तम् जुषस्व स्वर्गम् लोकम् अधि रोहय एनम् ॥४॥
prajānati aghnye jīva-lokam devānām panthām anusaṃcarantī .ayam te gopatiḥ tam juṣasva svargam lokam adhi rohaya enam ..4..

उप द्यामुप वेतसमवत्तरो नदीनाम् ।अग्ने पित्तमपामसि ॥५॥
उप द्याम् उप वेतसम् अवत्तरः नदीनाम् ।अग्ने पित्तम् अपामसि ॥५॥
upa dyām upa vetasam avattaraḥ nadīnām .agne pittam apāmasi ..5..

यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥
यम् त्वम् अग्ने समदहः तमु निर्वापय पुनर् ।क्याम्बूः अत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥६॥
yam tvam agne samadahaḥ tamu nirvāpaya punar .kyāmbūḥ atra rohatu śāṇḍadūrvā vyalkaśā ..6..

इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥७॥
इदम् ते एकम् पुरस् उ ते एकम् तृतीयेन ज्योतिषा सम् विशस्व ।संवेशने तन्वा चारुः एधि प्रियः देवानाम् परमे सधस्थे ॥७॥
idam te ekam puras u te ekam tṛtīyena jyotiṣā sam viśasva .saṃveśane tanvā cāruḥ edhi priyaḥ devānām parame sadhasthe ..7..

उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥८॥
उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।तत्र त्वम् पितृभिः संविदानः सम् सोमेन मदस्व सम् स्वधाभिः ॥८॥
uttiṣṭha prehi pra dravaukaḥ kṛṇuṣva salile sadhasthe .tatra tvam pitṛbhiḥ saṃvidānaḥ sam somena madasva sam svadhābhiḥ ..8..

प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥
प्र च्यवस्व तन्वम् सम् भरस्व मा ते गात्रा वि हायि मा उ शरीरम् ।मनः निविष्टम् अनुसंविशस्व यत्र भूमेः जुषसे तत्र गच्छ ॥९॥
pra cyavasva tanvam sam bharasva mā te gātrā vi hāyi mā u śarīram .manaḥ niviṣṭam anusaṃviśasva yatra bhūmeḥ juṣase tatra gaccha ..9..

वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥१०॥ {१३}
वर्चसा माम् पितरः सोम्यासः अञ्जन्तु देवाः मधुना घृतेन ।चक्षुषे मा प्रतरम् तारयन्तः जरसे मा जरदष्टिम् वर्धन्तु ॥१०॥
varcasā mām pitaraḥ somyāsaḥ añjantu devāḥ madhunā ghṛtena .cakṣuṣe mā prataram tārayantaḥ jarase mā jaradaṣṭim vardhantu ..10..

वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥११॥
वर्चसा माम् समनक्तु अग्निः मेधाम् मे विष्णुः न्यनक्तु आसन् ।रयिम् मे विश्वे नि यच्छन्तु देवाः स्योनाः मा अपः पवनैः पुनन्तु ॥११॥
varcasā mām samanaktu agniḥ medhām me viṣṇuḥ nyanaktu āsan .rayim me viśve ni yacchantu devāḥ syonāḥ mā apaḥ pavanaiḥ punantu ..11..

मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥१२॥
मित्रावरुणा परि माम् अधाताम् आदित्याः मा स्वरवः वर्धयन्तु ।वर्चः मे इन्द्रः न्यनक्तु हस्तयोः जरदष्टिम् मा सविता कृणोतु ॥१२॥
mitrāvaruṇā pari mām adhātām ādityāḥ mā svaravaḥ vardhayantu .varcaḥ me indraḥ nyanaktu hastayoḥ jaradaṣṭim mā savitā kṛṇotu ..12..

यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥१३॥
यः ममार प्रथमः मर्त्यानाम् यः प्रेयाय प्रथमः लोकम् एतम् ।वैवस्वतम् संगमनम् जनानाम् यमम् राजानम् हविषा सपर्यत ॥१३॥
yaḥ mamāra prathamaḥ martyānām yaḥ preyāya prathamaḥ lokam etam .vaivasvatam saṃgamanam janānām yamam rājānam haviṣā saparyata ..13..

परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥१४॥
परा यात पितरः आ च यात अयम् वः यज्ञः मधुना समक्तः ।दत्तः अस्मभ्यम् द्रविणा इह भद्रम् रयिम् च नः सर्व-वीरम् दधात ॥१४॥
parā yāta pitaraḥ ā ca yāta ayam vaḥ yajñaḥ madhunā samaktaḥ .dattaḥ asmabhyam draviṇā iha bhadram rayim ca naḥ sarva-vīram dadhāta ..14..

कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥१५॥
कण्वः कक्षीवान् पुरुमीढः अगस्त्यः श्यावाश्वः सोभरि-अर्चनानाः ।विश्वामित्रः अयम् जमदग्निः अत्रिः अवन्तु नः कश्यपः वामदेवः ॥१५॥
kaṇvaḥ kakṣīvān purumīḍhaḥ agastyaḥ śyāvāśvaḥ sobhari-arcanānāḥ .viśvāmitraḥ ayam jamadagniḥ atriḥ avantu naḥ kaśyapaḥ vāmadevaḥ ..15..

विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥१६॥
विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।शर्दिः नः अत्रिः अग्रभीत् नमोभिः सु संशासः पितरः मृडत नः ॥१६॥
viśvāmitra jamadagne vasiṣṭha bharadvāja gotama vāmadeva .śardiḥ naḥ atriḥ agrabhīt namobhiḥ su saṃśāsaḥ pitaraḥ mṛḍata naḥ ..16..

कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥१७॥
कस्ये मृजानाः अति यन्ति रिप्रम् आयुः दधानाः प्रतरम् नवीयः ।आप्यायमानाः प्रजया धनेन अध स्याम सुरभयः गृहेषु ॥१७॥
kasye mṛjānāḥ ati yanti ripram āyuḥ dadhānāḥ prataram navīyaḥ .āpyāyamānāḥ prajayā dhanena adha syāma surabhayaḥ gṛheṣu ..17..

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥१८॥
अञ्जते व्यञ्जते समञ्जते क्रतुम् रिहन्ति मधुना अभ्यञ्जते ।सिन्धोः उच्छ्वासे पतयन्तम् उक्षणम् हिरण्य-पावाः पशुमासु गृह्नते ॥१८॥
añjate vyañjate samañjate kratum rihanti madhunā abhyañjate .sindhoḥ ucchvāse patayantam ukṣaṇam hiraṇya-pāvāḥ paśumāsu gṛhnate ..18..

यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥१९॥
यत् वः मुद्रम् पितरः सोम्यम् च तेन उ सचध्वम् स्व-यशसः हि भूत ।ते अर्वाणः कवयः आ शृणोत सुविदत्राः विदथे हुयमानाः ॥१९॥
yat vaḥ mudram pitaraḥ somyam ca tena u sacadhvam sva-yaśasaḥ hi bhūta .te arvāṇaḥ kavayaḥ ā śṛṇota suvidatrāḥ vidathe huyamānāḥ ..19..

ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥२०॥ {१४}
ये अत्रयः अङ्गिरसः नवग्वाः इष्टावन्तः रातिषाचः दधानाः ।दक्षिणावन्तः सु कृतः ये उ स्थासद्य अस्मिन् बर्हिषि मादयध्वम् ॥२०॥
ye atrayaḥ aṅgirasaḥ navagvāḥ iṣṭāvantaḥ rātiṣācaḥ dadhānāḥ .dakṣiṇāvantaḥ su kṛtaḥ ye u sthāsadya asmin barhiṣi mādayadhvam ..20..

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥२१॥
अधा यथा नः पितरः परासः प्रत्नासः अग्ने ऋतम् आशशानाः ।शुचीदयन् दीध्यतः उक्थ-शसः क्षामा भिन्दन्तः अरुणीः अप व्रन् ॥२१॥
adhā yathā naḥ pitaraḥ parāsaḥ pratnāsaḥ agne ṛtam āśaśānāḥ .śucīdayan dīdhyataḥ uktha-śasaḥ kṣāmā bhindantaḥ aruṇīḥ apa vran ..21..

सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥२२॥
सु कर्मानः सु रुचः देवयन्तः अयः न देवाः जनिमा धमन्तः ।शुचन्तः अग्निम् वावृधन्तः इन्द्रम् उर्वीम् गव्याम् परिषदम् नः अक्रन् ॥२२॥
su karmānaḥ su rucaḥ devayantaḥ ayaḥ na devāḥ janimā dhamantaḥ .śucantaḥ agnim vāvṛdhantaḥ indram urvīm gavyām pariṣadam naḥ akran ..22..

आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥२३॥
आ यूथा इव क्षुमति पश्वः अख्यत् देवानाम् जनिमान्ति उग्रः ।मर्तासः चित् उर्वशीः अकृप्रन् वृधे चित् अर्यः उपरस्य आयोः ॥२३॥
ā yūthā iva kṣumati paśvaḥ akhyat devānām janimānti ugraḥ .martāsaḥ cit urvaśīḥ akṛpran vṛdhe cit aryaḥ uparasya āyoḥ ..23..

अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥२४॥
अकर्म ते सु अपसः अभूम ऋतम् अवस्रन् उषसः विभातीः ।विश्वम् तत् भद्रम् यत् अवन्ति देवाः बृहत् वदेम विदथे सु वीराः ॥२४॥
akarma te su apasaḥ abhūma ṛtam avasran uṣasaḥ vibhātīḥ .viśvam tat bhadram yat avanti devāḥ bṛhat vadema vidathe su vīrāḥ ..24..

इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२५॥
इन्द्रः मा मरुत्वान् प्राच्याः दिशः पातु बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२५॥
indraḥ mā marutvān prācyāḥ diśaḥ pātu bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..25..

धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२६॥
धाता मा निरृत्याः दक्षिणायाः दिशः पातु बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२६॥
dhātā mā nirṛtyāḥ dakṣiṇāyāḥ diśaḥ pātu bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..26..

अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२७॥
अदितिः मा आदित्यैः प्रतीच्याः दिशः पातु बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२७॥
aditiḥ mā ādityaiḥ pratīcyāḥ diśaḥ pātu bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..27..

सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२८॥
सोमः मा विश्वैः देवैः उदीच्याः दिशः पातु बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२८॥
somaḥ mā viśvaiḥ devaiḥ udīcyāḥ diśaḥ pātu bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..28..

धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२९॥
धर्ता ह त्वा धरुणः धारयातै ऊर्ध्वम् भानुम् सविता द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२९॥
dhartā ha tvā dharuṇaḥ dhārayātai ūrdhvam bhānum savitā dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..29..

प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३०॥ {१५}
प्राच्याम् त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३०॥
prācyām tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..30..

दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३१॥
दक्षिणायाम् त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३१॥
dakṣiṇāyām tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..31..

प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३२॥
प्रतीच्याम् त्वा दिशि पुरा संवृतः स्वधायामा आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३२॥
pratīcyām tvā diśi purā saṃvṛtaḥ svadhāyāmā ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..32..

उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३३॥
उदीच्याम् त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३३॥
udīcyām tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..33..

ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३४॥
ध्रुवायाम् त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३४॥
dhruvāyām tvā diśi purā saṃvṛtaḥ svadhāyām ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..34..

ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥३५॥
ऊर्ध्वायाम् त्वा दिशि पुरा सम्वृतः स्वधायाम् आ दधामि बाहु-च्युता पृथिवी द्याम् इव उपरि ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥३५॥
ūrdhvāyām tvā diśi purā samvṛtaḥ svadhāyām ā dadhāmi bāhu-cyutā pṛthivī dyām iva upari .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..35..

धर्तासि धरुनोऽसि वंसगोऽसि ॥३६॥
धर्ता असि धरुनः असि वंसगः असि ॥३६॥
dhartā asi dharunaḥ asi vaṃsagaḥ asi ..36..

उदपूरसि मधुपूरसि वातपूरसि ॥३७॥
उद-पूरसि मधु-पूरसि वात-पूरसि ॥३७॥
uda-pūrasi madhu-pūrasi vāta-pūrasi ..37..

इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥३८॥
इतस् च माम् उतस् च अवताम् यमे इव यतमाने यदा एतम् ।प्र वाम् भरन् मानुषाः देवयन्तः आ सीदताम् स्वम् उ लोकम् विदाने ॥३८॥
itas ca mām utas ca avatām yame iva yatamāne yadā etam .pra vām bharan mānuṣāḥ devayantaḥ ā sīdatām svam u lokam vidāne ..38..

स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत्॥३९॥
स्वासस्थे भवतम् इन्दवे नः युजे वाम् ब्रह्म पूर्व्यम् नमोभिः ।वि श्लोकः एति पथ्या इव सूरिः शृण्वन्तु विश्वे अमृतासः एतत्॥३९॥
svāsasthe bhavatam indave naḥ yuje vām brahma pūrvyam namobhiḥ .vi ślokaḥ eti pathyā iva sūriḥ śṛṇvantu viśve amṛtāsaḥ etat..39..

त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥४०॥ {१६}
त्रीणि पदानि रुपः अन्वरोहत् चतुष्पदीम् अनु एतत् व्रतेन ।अक्षरेण प्रति मिमीते अर्कम् ऋतस्य नाभौ अभि सम् पुनाति ॥४०॥
trīṇi padāni rupaḥ anvarohat catuṣpadīm anu etat vratena .akṣareṇa prati mimīte arkam ṛtasya nābhau abhi sam punāti ..40..

देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥४१॥
देवेभ्यः कम् अवृणीत मृत्युम् प्रजायै किम् अमृतम् न अवृणीत ।बृहस्पतिः यज्ञम् अतनुत ऋषिः प्रियाम् यमः तन्वम् आ रिरेच ॥४१॥
devebhyaḥ kam avṛṇīta mṛtyum prajāyai kim amṛtam na avṛṇīta .bṛhaspatiḥ yajñam atanuta ṛṣiḥ priyām yamaḥ tanvam ā rireca ..41..

त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥४२॥
त्वम् अग्ने ईडितः जातवेदः अवाट् हव्यानि सुरभीणि कृत्वा ।प्रादाः पितृभ्यः स्वधया ते अक्षन् अद्धि त्वम् देव प्रयता हवींषि ॥४२॥
tvam agne īḍitaḥ jātavedaḥ avāṭ havyāni surabhīṇi kṛtvā .prādāḥ pitṛbhyaḥ svadhayā te akṣan addhi tvam deva prayatā havīṃṣi ..42..

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥४३॥
आसीनासः अरुणीनाम् उपस्थे रयिम् धत्त दाशुषे मर्त्याय ।पुत्रेभ्यः पितरः तस्य वस्वः प्र यच्छत ते इह ऊर्जम् दधात ॥४३॥
āsīnāsaḥ aruṇīnām upasthe rayim dhatta dāśuṣe martyāya .putrebhyaḥ pitaraḥ tasya vasvaḥ pra yacchata te iha ūrjam dadhāta ..43..

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥४४॥
अग्निष्वात्ताः पितरः आ इह गच्छत सदः-सदः सदत सु प्रणीतयः ।अत्तः हवींषि प्रयतानि बर्हिषि रयिम् च नः सर्व-वीरम् दधात ॥४४॥
agniṣvāttāḥ pitaraḥ ā iha gacchata sadaḥ-sadaḥ sadata su praṇītayaḥ .attaḥ havīṃṣi prayatāni barhiṣi rayim ca naḥ sarva-vīram dadhāta ..44..

उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥४५॥
उपहूताः नः पितरः सोम्यासः बर्हिष्येषु निधिषु प्रियेषु ।ते आ गमन्तु ते इह श्रुवन्तु अधि ब्रुवन्तु ते अवन्तु अस्मान् ॥४५॥
upahūtāḥ naḥ pitaraḥ somyāsaḥ barhiṣyeṣu nidhiṣu priyeṣu .te ā gamantu te iha śruvantu adhi bruvantu te avantu asmān ..45..

ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥४६॥
ये नः पितुः पितरः ये पितामहाः अनूजहिरे सोम-पीथम् वसिष्ठाः ।तेभिः यमः सम्रराणः हवींषि उशन् उशद्भिः प्रतिकामम् अत्तु ॥४६॥
ye naḥ pituḥ pitaraḥ ye pitāmahāḥ anūjahire soma-pītham vasiṣṭhāḥ .tebhiḥ yamaḥ samrarāṇaḥ havīṃṣi uśan uśadbhiḥ pratikāmam attu ..46..

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥४७॥
ये तातृषुः देवत्रा जेहमानाः होत्रा-विदः स्तोम-तष्टासः अर्कैः ।आ अग्ने याहि सहस्रम् देव-वन्दैः सत्यैः कविभिः ऋषिभिः घर्म-सद्भिः ॥४७॥
ye tātṛṣuḥ devatrā jehamānāḥ hotrā-vidaḥ stoma-taṣṭāsaḥ arkaiḥ .ā agne yāhi sahasram deva-vandaiḥ satyaiḥ kavibhiḥ ṛṣibhiḥ gharma-sadbhiḥ ..47..

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥४८॥
ये सत्यासः हविः-अदः हविष्पाः इन्द्रेण देवैः स रथम् तुरेण ।आ अग्ने याहि सुविदत्रेभिः अर्वाङ् परैः पूर्वैः ऋषिभिः घर्म-सद्भिः ॥४८॥
ye satyāsaḥ haviḥ-adaḥ haviṣpāḥ indreṇa devaiḥ sa ratham tureṇa .ā agne yāhi suvidatrebhiḥ arvāṅ paraiḥ pūrvaiḥ ṛṣibhiḥ gharma-sadbhiḥ ..48..

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥
उप सर्प मातरम् भूमिम् एताम् उरु-व्यचसम् पृथिवीम् सु शेवाम् ।ऊर्णम्रदाः पृथिवी दक्षिणावतः एषा त्वा पातु प्रपथे पुरस्तात्॥४९॥
upa sarpa mātaram bhūmim etām uru-vyacasam pṛthivīm su śevām .ūrṇamradāḥ pṛthivī dakṣiṇāvataḥ eṣā tvā pātu prapathe purastāt..49..

उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥५०॥ {१७}
उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सु उपायना अस्मै भव सु उपसर्पणा ।माता पुत्रम् यथा सिचा अभि एनम् भूमे ऊर्णुहि ॥५०॥
ucchvañcasva pṛthivi mā ni bādhathāḥ su upāyanā asmai bhava su upasarpaṇā .mātā putram yathā sicā abhi enam bhūme ūrṇuhi ..50..

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥५१॥
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रम् मितः उप हि श्रयन्ताम् ।ते गृहासः घृतश्चुतः स्योनाः विश्वाहा अस्मै शरणाः सन्तु अत्र ॥५१॥
ucchvañcamānā pṛthivī su tiṣṭhatu sahasram mitaḥ upa hi śrayantām .te gṛhāsaḥ ghṛtaścutaḥ syonāḥ viśvāhā asmai śaraṇāḥ santu atra ..51..

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥
उत्ते स्तभ्नामि पृथिवीम् त्वत् परि इमम् लोगम् निदधन् मा उ अहम् रिषम् ।एताम् स्थूणाम् पितरः धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥५२॥
utte stabhnāmi pṛthivīm tvat pari imam logam nidadhan mā u aham riṣam .etām sthūṇām pitaraḥ dhārayanti te tatra yamaḥ sādanā te kṛṇotu ..52..

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥५३॥
इमम् अग्ने चमसम् मा वि जिह्वरः प्रियः देवानाम् उत सोम्यानाम् ।अयम् यः चमसः देव-पानः तस्मिन् देवाः अमृताः मादयन्ताम् ॥५३॥
imam agne camasam mā vi jihvaraḥ priyaḥ devānām uta somyānām .ayam yaḥ camasaḥ deva-pānaḥ tasmin devāḥ amṛtāḥ mādayantām ..53..

अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥५४॥
अथर्वा पूर्णम् चमसम् यम् इन्द्राय अबिभर् वाजिनीवते ।तस्मिन् कृणोति सुकृतस्य भक्षम् तस्मिन् इन्दुः पवते विश्वदानीम् ॥५४॥
atharvā pūrṇam camasam yam indrāya abibhar vājinīvate .tasmin kṛṇoti sukṛtasya bhakṣam tasmin induḥ pavate viśvadānīm ..54..

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥५५॥
यत् ते कृष्णः शकुनः आतुतोद पिपीलः सर्पः उत वा श्वापदः ।अग्निः तत् विश्वात् अगदम् कृणोतु सोमः च यः ब्राह्मणाम् आविवेश ॥५५॥
yat te kṛṣṇaḥ śakunaḥ ātutoda pipīlaḥ sarpaḥ uta vā śvāpadaḥ .agniḥ tat viśvāt agadam kṛṇotu somaḥ ca yaḥ brāhmaṇām āviveśa ..55..

पयस्वतीरोषधयः पयस्वन् मामकं पयः ।अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥५६॥
पयस्वतीः ओषधयः पयस्वत् मामकम् पयः ।अपाम् पयसः यत् पयः तेन मा सह शुम्भतु ॥५६॥
payasvatīḥ oṣadhayaḥ payasvat māmakam payaḥ .apām payasaḥ yat payaḥ tena mā saha śumbhatu ..56..

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥५७॥
इमाः नारीः अविधवाः सु पत्नीः आञ्जनेन सर्पिषा सम् स्पृशन्ताम् ।अनश्रवः अनमीवाः सु रत्नाः आ रोहन्तु जनयः योनिम् अग्रे ॥५७॥
imāḥ nārīḥ avidhavāḥ su patnīḥ āñjanena sarpiṣā sam spṛśantām .anaśravaḥ anamīvāḥ su ratnāḥ ā rohantu janayaḥ yonim agre ..57..

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥५८॥
सम् गच्छस्व पितृभिः सम् यमेन इष्टापूर्तेन परमे व्योमन् ।हित्वा अवद्यम् पुनर् अस्तम् एहि सम् गच्छताम् तन्वा सु वर्चाः ॥५८॥
sam gacchasva pitṛbhiḥ sam yamena iṣṭāpūrtena parame vyoman .hitvā avadyam punar astam ehi sam gacchatām tanvā su varcāḥ ..58..

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥५९॥
ये नः पितुः पितरः ये पितामहाः ये आविविशुः उरु अन्तरिक्षम् ।तेभ्यः स्वरात् असुनीतिः नः अद्य वथावशम् तन्वः कल्पयाति ॥५९॥
ye naḥ pituḥ pitaraḥ ye pitāmahāḥ ye āviviśuḥ uru antarikṣam .tebhyaḥ svarāt asunītiḥ naḥ adya vathāvaśam tanvaḥ kalpayāti ..59..

शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥६०॥ {१८}
शम् ते नीहारः भवतु शम् ते शीयताम् ।शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।मण्डूकि अप्सु शम् भुवः इमम् सु अग्निम् शमय ॥६०॥
śam te nīhāraḥ bhavatu śam te śīyatām .śītike śītikāvati hlādike hlādikāvati .maṇḍūki apsu śam bhuvaḥ imam su agnim śamaya ..60..

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥६१॥
विवस्वान् नः अभयम् कृणोतु यः सुत्रामा जीर-दानुः सुदानुः ।इह इमे वीराः बहवः भवन्तु गोमत् अश्ववत् मयि अस्तु पुष्टम् ॥६१॥
vivasvān naḥ abhayam kṛṇotu yaḥ sutrāmā jīra-dānuḥ sudānuḥ .iha ime vīrāḥ bahavaḥ bhavantu gomat aśvavat mayi astu puṣṭam ..61..

विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥६२॥
विवस्वान् नः अमृत-त्वे दधातु परैतु मृत्युः अमृतम् नः ऐतु ।इमान् रक्षतु पुरुषान् आ जरिम्णः मा उ स्वेषाम् असवः यमम् गुः ॥६२॥
vivasvān naḥ amṛta-tve dadhātu paraitu mṛtyuḥ amṛtam naḥ aitu .imān rakṣatu puruṣān ā jarimṇaḥ mā u sveṣām asavaḥ yamam guḥ ..62..

यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥६३॥
यः दध्रे अन्तरिक्षे न मह्ना पितॄणाम् कविः प्रमतिः मतीनाम् ।तम् अर्चत विश्व-मित्राः हविर्भिः स नः यमः प्रतरम् जीवसे धात्॥६३॥
yaḥ dadhre antarikṣe na mahnā pitṝṇām kaviḥ pramatiḥ matīnām .tam arcata viśva-mitrāḥ havirbhiḥ sa naḥ yamaḥ prataram jīvase dhāt..63..

आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥६४॥
आ रोहत दिवम् उत्तमाम् ऋषयः मा बिभीतन ।सोम-पाः सोम-पायिनः इदम् वः क्रियते हविः अगन्म ज्योतिः उत्तमम् ॥६४॥
ā rohata divam uttamām ṛṣayaḥ mā bibhītana .soma-pāḥ soma-pāyinaḥ idam vaḥ kriyate haviḥ aganma jyotiḥ uttamam ..64..

प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥६५॥
प्र केतुना बृहता भाति अग्निः आ रोदसी वृषभः रोरवीति ।दिवः चित्-अन्तात् उपमाम् उदानडपाम् उपस्थे महिषः ववर्ध ॥६५॥
pra ketunā bṛhatā bhāti agniḥ ā rodasī vṛṣabhaḥ roravīti .divaḥ cit-antāt upamām udānaḍapām upasthe mahiṣaḥ vavardha ..65..

नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥६६॥
नाके सुपर्णम् उप यत् पतन्तम् ह्र्दा वेनन्तः अभ्यचक्षत त्वा ।हिरण्य-पक्षम् वरुणस्य दूतम् यमस्य योनौ शकुनम् भुरन्युम् ॥६६॥
nāke suparṇam upa yat patantam hrdā venantaḥ abhyacakṣata tvā .hiraṇya-pakṣam varuṇasya dūtam yamasya yonau śakunam bhuranyum ..66..

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥६७॥
इन्द्र क्रतुम् नः आ भर पिता पुत्रेभ्यः यथा ।शिक्ष नः अस्मिन् पुरुहूत यामनि जीवाः ज्योतिः अशीमहि ॥६७॥
indra kratum naḥ ā bhara pitā putrebhyaḥ yathā .śikṣa naḥ asmin puruhūta yāmani jīvāḥ jyotiḥ aśīmahi ..67..

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥६८॥
अपूप-अपिहितान् कुम्भान् यान् ते देवाः अधारयन् ।ते ते सन्तु स्वधावन्तः मधुमन्तः घृतश्चुतः ॥६८॥
apūpa-apihitān kumbhān yān te devāḥ adhārayan .te te santu svadhāvantaḥ madhumantaḥ ghṛtaścutaḥ ..68..

यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥६९॥
याः ते धानाः अनुकिरामि तिल-मिश्रा स्वधावतीः ।ताः ते सन्तु विभ्वीः प्रभ्वीः ताः ते यमः राजा अनु मन्यताम् ॥६९॥
yāḥ te dhānāḥ anukirāmi tila-miśrā svadhāvatīḥ .tāḥ te santu vibhvīḥ prabhvīḥ tāḥ te yamaḥ rājā anu manyatām ..69..

पुनर्देहि वनस्पते य एष निहितस्त्वयि ।यथा यमस्य सादन आसातौ विदथा वदन् ॥७०॥
पुनर् देहि वनस्पते यः एष निहितः त्वयि ।यथा यमस्य सादने आसातौ विदथा वदन् ॥७०॥
punar dehi vanaspate yaḥ eṣa nihitaḥ tvayi .yathā yamasya sādane āsātau vidathā vadan ..70..

आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥७१॥
आ रभस्व जातवेदः तेजस्वत् हरः अस्तु ते ।शरीरम् अस्य सम् दह अथ एनम् देहि सु कृतामु लोके ॥७१॥
ā rabhasva jātavedaḥ tejasvat haraḥ astu te .śarīram asya sam daha atha enam dehi su kṛtāmu loke ..71..

ये ते पूर्वे परागता अपरे पितरश्च ये ।तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥७२॥
ये ते पूर्वे परागताः अपरे पितरः च ये ।तेभ्यः घृतस्य कुल्या ऐतु शत-धारा व्युन्दती ॥७२॥
ye te pūrve parāgatāḥ apare pitaraḥ ca ye .tebhyaḥ ghṛtasya kulyā aitu śata-dhārā vyundatī ..72..

एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥७३॥ {१९}
एतत् आ रोह वयः उन्मृजानः स्वाः इह बृहतु दीदयन्ते ।अभि प्रेहि मध्यतस् मा अप ह आस्थाः पितॄनाम् लोकम् प्रथमः यः अत्र ॥७३॥
etat ā roha vayaḥ unmṛjānaḥ svāḥ iha bṛhatu dīdayante .abhi prehi madhyatas mā apa ha āsthāḥ pitṝnām lokam prathamaḥ yaḥ atra ..73..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In