| |
|

This overlay will guide you through the buttons:

आ रोहत जनित्रीं जातवेदसः पितृयानैः सं व आ रोहयामि ।अवाड्ढव्येषितो हव्यवाह ईजानं युक्ताः सुकृतां धत्त लोके ॥१॥
आ रोहत जनित्रीम् जातवेदसः पितृ-यानैः सम् वः आ रोहयामि ।अवाट् हव्य-इषितः हव्यवाहः ईजानम् युक्ताः सुकृताम् धत्त लोके ॥१॥
ā rohata janitrīm jātavedasaḥ pitṛ-yānaiḥ sam vaḥ ā rohayāmi .avāṭ havya-iṣitaḥ havyavāhaḥ ījānam yuktāḥ sukṛtām dhatta loke ..1..

देवा यज्ञमृतवः कल्पयन्ति हविः पुरोडाशं स्रुचो यज्ञायुधानि ।तेभिर्याहि पथिभिर्देवयानैर्यैरीजानाः स्वर्गं यन्ति लोकम् ॥२॥
देवाः यज्ञम् ऋतवः कल्पयन्ति हविः पुरोडाशम् स्रुचः यज्ञायुधानि ।तेभिः याहि पथिभिः देव-यानैः यैः ईजानाः स्वर्गम् यन्ति लोकम् ॥२॥
devāḥ yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśam srucaḥ yajñāyudhāni .tebhiḥ yāhi pathibhiḥ deva-yānaiḥ yaiḥ ījānāḥ svargam yanti lokam ..2..

ऋतस्य पन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति ।तेभिर्याहि पथिभिः स्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥
ऋतस्य पन्थाम् अनु पश्य साधु अङ्गिरसः सु कृतः येन यन्ति ।तेभिः याहि पथिभिः स्वर्गम् यत्र आदित्याः मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व ॥३॥
ṛtasya panthām anu paśya sādhu aṅgirasaḥ su kṛtaḥ yena yanti .tebhiḥ yāhi pathibhiḥ svargam yatra ādityāḥ madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva ..3..

त्रयः सुपर्णा उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।स्वर्गा लोका अमृतेन विष्ठा इषमूर्जं यजमानाय दुह्राम् ॥४॥
त्रयः सुपर्णाः उपरस्य मायू नाकस्य पृष्ठे अधि विष्टपि श्रिताः ।स्वर्गाः लोकाः अमृतेन विष्ठाः इषम् ऊर्जम् यजमानाय दुह्राम् ॥४॥
trayaḥ suparṇāḥ uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ .svargāḥ lokāḥ amṛtena viṣṭhāḥ iṣam ūrjam yajamānāya duhrām ..4..

जुहूर्दाधार द्यामुपभृदन्तरिक्षं ध्रुवा दाधार पृथिवीं प्रतिष्ठाम् ।जुहू - स्रुवाध्रुवायज्ञपात्राःस्रुवाध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।प्रतीमां लोका घृतपृष्ठाः स्वर्गाः कामंकामं यजमानाय दुह्राम् ॥५॥
जुहूः दाधार द्याम् उपभृत् अन्तरिक्षम् ध्रुवा दाधार पृथिवीम् प्रतिष्ठाम् ।जुहू स्रुव-अध्रुव-अ यज्ञपात्राः स्रुव-अध्रुवे आ रोह पृथिवीम् विश्व-भोजसम् अन्तरिक्षम् उपभृदा क्रमस्व ।प्रति इमाम् लोकाः घृत-पृष्ठाः स्वर्गाः कामम् कामम् यजमानाय दुह्राम् ॥५॥
juhūḥ dādhāra dyām upabhṛt antarikṣam dhruvā dādhāra pṛthivīm pratiṣṭhām .juhū sruva-adhruva-a yajñapātrāḥ sruva-adhruve ā roha pṛthivīm viśva-bhojasam antarikṣam upabhṛdā kramasva .prati imām lokāḥ ghṛta-pṛṣṭhāḥ svargāḥ kāmam kāmam yajamānāya duhrām ..5..

ध्रुव आ रोह पृथिवीं विश्वभोजसमन्तरिक्षमुपभृदा क्रमस्व ।जुहु द्यां गच्छ यजमानेन साकं स्रुवेण वत्सेन दिशः प्रपीनाः सर्वा धुक्ष्वाहृण्यमानः ॥६॥
ध्रुवे आ रोह पृथिवीम् विश्व-भोजसम् अन्तरिक्षम् उपभृदा क्रमस्व ।जुहु द्याम् गच्छ यजमानेन साकम् स्रुवेण वत्सेन दिशः प्रपीनाः सर्वाः धुक्ष्व अ हृण्यमानः ॥६॥
dhruve ā roha pṛthivīm viśva-bhojasam antarikṣam upabhṛdā kramasva .juhu dyām gaccha yajamānena sākam sruveṇa vatsena diśaḥ prapīnāḥ sarvāḥ dhukṣva a hṛṇyamānaḥ ..6..

तीर्थैस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति ।अत्रादधुर्यजमानाय लोकं दिशो भूतानि यदकल्पयन्त ॥७॥
तीर्थैः तरन्ति प्रवतः महीः इति यज्ञ-कृतः सु कृतः येन यन्ति ।अत्र अदधुः यजमानाय लोकम् दिशः भूतानि यत् अकल्पयन्त ॥७॥
tīrthaiḥ taranti pravataḥ mahīḥ iti yajña-kṛtaḥ su kṛtaḥ yena yanti .atra adadhuḥ yajamānāya lokam diśaḥ bhūtāni yat akalpayanta ..7..

अङ्गिरसामयनं पूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः ।महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥८॥
अङ्गिरसामयनम् पूर्वः अग्निः आदित्यानाम् अयनम् गार्हपत्यः दक्षिणानाम् अयनम् दक्षिणाग्निः ।महिमानम् अग्नेः विहितस्य ब्रह्मणा समङ्गः सर्वः उप याहि शग्मः ॥८॥
aṅgirasāmayanam pūrvaḥ agniḥ ādityānām ayanam gārhapatyaḥ dakṣiṇānām ayanam dakṣiṇāgniḥ .mahimānam agneḥ vihitasya brahmaṇā samaṅgaḥ sarvaḥ upa yāhi śagmaḥ ..8..

पूर्वो अग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः ।दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात्॥९॥
पूर्वः अग्निः त्वा तपतु शम् पुरस्तात् शम् पश्चात् तपतु गार्हपत्यः ।दक्षिणाग्निः ते तपतु शर्म वर्म उत्तरतस् मध्यतस् अन्तरिक्षात् दिशः दिशः अग्ने परि पाहि घोरात्॥९॥
pūrvaḥ agniḥ tvā tapatu śam purastāt śam paścāt tapatu gārhapatyaḥ .dakṣiṇāgniḥ te tapatu śarma varma uttaratas madhyatas antarikṣāt diśaḥ diśaḥ agne pari pāhi ghorāt..9..

यूयमग्ने शंतमाभिस्तनूभिरीजानमभि लोकं स्वर्गम् ।अश्वा भूत्वा पृष्टिवाहो वहाथ यत्र देवैः सधमादं मदन्ति ॥१०॥ {२०}
यूयम् अग्ने शंतमाभिः तनूभिः ईजानम् अभि लोकम् स्वर्गम् ।अश्वाः भूत्वा पृष्टि-वाहः वहाथ यत्र देवैः सधमादम् मदन्ति ॥१०॥
yūyam agne śaṃtamābhiḥ tanūbhiḥ ījānam abhi lokam svargam .aśvāḥ bhūtvā pṛṣṭi-vāhaḥ vahātha yatra devaiḥ sadhamādam madanti ..10..

शमग्ने पश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् ।एकस्त्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥११॥
शम् अग्ने पश्चात् तप शम् पुरस्तात् शम् उत्तरात् शम् अधरात् तप एनम् ।एकः त्रेधा विहितः जातवेदः सम्यक् एनम् धेहि सु कृतामु लोके ॥११॥
śam agne paścāt tapa śam purastāt śam uttarāt śam adharāt tapa enam .ekaḥ tredhā vihitaḥ jātavedaḥ samyak enam dhehi su kṛtāmu loke ..11..

शमग्नयः समिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः ।शृतं कृण्वन्त इह माव चिक्षिपन् ॥१२॥
शम् अग्नयः समिद्धाः आ रभन्ताम् प्राजापत्यम् मेध्यम् जातवेदसः ।शृतम् कृण्वन्तः इह मा अव चिक्षिपन् ॥१२॥
śam agnayaḥ samiddhāḥ ā rabhantām prājāpatyam medhyam jātavedasaḥ .śṛtam kṛṇvantaḥ iha mā ava cikṣipan ..12..

यज्ञ एति विततः कल्पमान ईजानमभि लोकं स्वर्गम् ।तमग्नयः सर्वहुतं जुषन्तां प्राजापत्यं मेध्यं जातवेदसः ॥१३॥
यज्ञः एति विततः कल्पमानः ईजानम् अभि लोकम् स्वर्गम् ।तम् अग्नयः सर्व-हुतम् जुषन्ताम् प्राजापत्यम् मेध्यम् जातवेदसः ॥१३॥
yajñaḥ eti vitataḥ kalpamānaḥ ījānam abhi lokam svargam .tam agnayaḥ sarva-hutam juṣantām prājāpatyam medhyam jātavedasaḥ ..13..

ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन् ।तस्मै प्र भाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥१४॥
ईजानः चितम् आरुक्षत् अग्निम् नाकस्य पृष्ठात् दिवम् उत्पतिष्यन् ।तस्मै प्र भाति नभसः ज्योतिषीमान् स्वर्गः पन्थाः सु कृते देव-यानः ॥१४॥
ījānaḥ citam ārukṣat agnim nākasya pṛṣṭhāt divam utpatiṣyan .tasmai pra bhāti nabhasaḥ jyotiṣīmān svargaḥ panthāḥ su kṛte deva-yānaḥ ..14..

अग्निर्होताध्वर्युष्टे बृहस्पतिरिन्द्रो ब्रह्मा दक्षिणतस्ते अस्तु ।हुतोऽयं संस्थितो यज्ञ एति यत्र पूर्वमयनं हुतानाम् ॥१५॥
अग्निः होता अध्वर्युः ते बृहस्पतिः इन्द्रः ब्रह्मा दक्षिणतस् ते अस्तु ।हुतः अयम् संस्थितः यज्ञः एति यत्र पूर्वम् अयनम् हुतानाम् ॥१५॥
agniḥ hotā adhvaryuḥ te bṛhaspatiḥ indraḥ brahmā dakṣiṇatas te astu .hutaḥ ayam saṃsthitaḥ yajñaḥ eti yatra pūrvam ayanam hutānām ..15..

अपूपवान् क्षीरवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१६॥
अपूपवान् क्षीरवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥१६॥
apūpavān kṣīravān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..16..

अपूपवान् दधिवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१७॥
अपूपवान् दधिवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥१७॥
apūpavān dadhivān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..17..

अपूपवान् द्रप्सवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१८॥
अपूपवान् द्रप्सवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥१८॥
apūpavān drapsavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..18..

अपूपवान् घृतवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥१९॥
अपूपवान् घृतवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥१९॥
apūpavān ghṛtavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..19..

अपूपवान् मांसवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२०॥ {२१}
अपूपवान् मांसवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२०॥
apūpavān māṃsavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..20..

अपूपवान् अन्नवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२१॥
अपूपवान् अन्नवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२१॥
apūpavān annavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..21..

अपूपवान् मधुमांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२२॥
अपूपवान् मधुमान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२२॥
apūpavān madhumān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..22..

अपूपवान् रसवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२३॥
अपूपवान् रसवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२३॥
apūpavān rasavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..23..

अपूपवान् अपवांश्चरुरेह सीदतु ।लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥२४॥
अपूपवान् अपवान् चरुः आ इह सीदतु ।लोक-कृतः पथिकृतः यजामहे ये देवानाम् हुत-भागाः इह स्थ ॥२४॥
apūpavān apavān caruḥ ā iha sīdatu .loka-kṛtaḥ pathikṛtaḥ yajāmahe ye devānām huta-bhāgāḥ iha stha ..24..

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥२५॥
अपूप-अपिहितान् कुम्भान् यान् ते देवाः अधारयन् ।ते ते सन्तु स्वधावन्तः मधुमन्तः घृतश्चुतः ॥२५॥
apūpa-apihitān kumbhān yān te devāḥ adhārayan .te te santu svadhāvantaḥ madhumantaḥ ghṛtaścutaḥ ..25..

यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥२६॥
याः ते धानाः अनुकिरामि तिल-मिश्राः स्वधावतीः ।ताः ते सन्तु उद्भ्वीः प्रभ्वीः ताः ते यमः राजा अनु मन्यताम् ॥२६॥
yāḥ te dhānāḥ anukirāmi tila-miśrāḥ svadhāvatīḥ .tāḥ te santu udbhvīḥ prabhvīḥ tāḥ te yamaḥ rājā anu manyatām ..26..

अक्षितिं भूयसीम् ॥२७॥
अक्षितिम् भूयसीम् ॥२७॥
akṣitim bhūyasīm ..27..

द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः ।समानं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः ॥२८॥
द्रप्सः चस्कन्द पृथिवीम् अनु द्याम् इमम् च योनिम् अनु यः च पूर्वः ।समानम् योनिम् अनु संचरन्तम् द्रप्सम् जुहोमि अनु सप्त होत्राः ॥२८॥
drapsaḥ caskanda pṛthivīm anu dyām imam ca yonim anu yaḥ ca pūrvaḥ .samānam yonim anu saṃcarantam drapsam juhomi anu sapta hotrāḥ ..28..

शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम् ।ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥२९॥
शत-धारम् वायुम् अर्कम् स्वर्-विदम् नृ-चक्षसः ते अभि चक्षते रयिम् ।ये पृनन्ति प्र च यच्छन्ति सर्वदा ते दुह्रते दक्षिणाम् सप्त-मातरम् ॥२९॥
śata-dhāram vāyum arkam svar-vidam nṛ-cakṣasaḥ te abhi cakṣate rayim .ye pṛnanti pra ca yacchanti sarvadā te duhrate dakṣiṇām sapta-mātaram ..29..

कोशं दुहन्ति कलशं चतुर्बिलमिडां धेनुं मधुमतीं स्वस्तये ।ऊर्जं मदन्तीमदितिं जनेष्वग्ने मा हिंसीः परमे व्योमन् ॥३०॥ {२२}
कोशम् दुहन्ति कलशम् चतुर्-बिलम् इडाम् धेनुम् मधुमतीम् स्वस्तये ।ऊर्जम् मदन्तीम् अदितिम् जनेषु अग्ने मा हिंसीः परमे व्योमन् ॥३०॥
kośam duhanti kalaśam catur-bilam iḍām dhenum madhumatīm svastaye .ūrjam madantīm aditim janeṣu agne mā hiṃsīḥ parame vyoman ..30..

एतत्ते देवः सविता वासो ददाति भर्तवे ।तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥३१॥
एतत् ते देवः सविता वासः ददाति भर्तवे ।तत् त्वम् यमस्य राज्ये वसानः तार्प्यम् चर ॥३१॥
etat te devaḥ savitā vāsaḥ dadāti bhartave .tat tvam yamasya rājye vasānaḥ tārpyam cara ..31..

धाना धेनुरभवद्वत्सो अस्यास्तिलोऽभवत्।तां वै यमस्य राज्ये अक्षितामुप जीवति ॥३२॥
धाना धेनुः अभवत् वत्सः अस्याः तिलः अभवत्।ताम् वै यमस्य राज्ये अ क्षिताम् उप जीवति ॥३२॥
dhānā dhenuḥ abhavat vatsaḥ asyāḥ tilaḥ abhavat.tām vai yamasya rājye a kṣitām upa jīvati ..32..

एतास्ते असौ धेनवः कामदुघा भवन्तु ।एनीः श्येनीः सरूपा विरूपास्तिलवत्सा उप तिष्ठन्तु त्वात्र ॥३३॥
एताः ते असौ धेनवः कामदुघाः भवन्तु ।एनीः श्येनीः सरूपाः विरूपाः तिल-वत्साः उप तिष्ठन्तु त्वा अत्र ॥३३॥
etāḥ te asau dhenavaḥ kāmadughāḥ bhavantu .enīḥ śyenīḥ sarūpāḥ virūpāḥ tila-vatsāḥ upa tiṣṭhantu tvā atra ..33..

एनीर्धाना हरिणीः श्येनीरस्य कृष्णा धाना रोहिणीर्धेनवस्ते ।तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ॥३४॥
एनीः धानाः हरिणीः श्येनीः अस्य कृष्णाः धानाः रोहिणीः धेनवः ते ।तिल-वत्साः ऊर्जम् अस्मै दुहानाः विश्वाहा सन्तु अन् अपस्फुरन्तीः ॥३४॥
enīḥ dhānāḥ hariṇīḥ śyenīḥ asya kṛṣṇāḥ dhānāḥ rohiṇīḥ dhenavaḥ te .tila-vatsāḥ ūrjam asmai duhānāḥ viśvāhā santu an apasphurantīḥ ..34..

वैश्वानरे हविरिदं जुहोमि साहस्रं शतधारमुत्सम् ।स बिभर्ति पितरं पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥
वैश्वानरे हविः इदम् जुहोमि साहस्रम् शत-धारम् उत्सम् ।स बिभर्ति पितरम् पितामहान् प्रपितामहान् बिभर्ति पिन्वमानः ॥३५॥
vaiśvānare haviḥ idam juhomi sāhasram śata-dhāram utsam .sa bibharti pitaram pitāmahān prapitāmahān bibharti pinvamānaḥ ..35..

सहस्रधारं शतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे ।ऊर्जं दुहानमनपस्फुरन्तमुपासते पितरः स्वधाभिः ॥३६॥
सहस्र-धारम् शत-धारम् उत्सम् अक्षितम् व्यच्यमानम् सलिलस्य पृष्ठे ।ऊर्जम् दुहानम् अन् अपस्फुरन्तम् उपासते पितरः स्वधाभिः ॥३६॥
sahasra-dhāram śata-dhāram utsam akṣitam vyacyamānam salilasya pṛṣṭhe .ūrjam duhānam an apasphurantam upāsate pitaraḥ svadhābhiḥ ..36..

इदं कसाम्बु चयनेन चितं तत्सजाता अव पश्यतेत ।मर्त्योऽयममृतत्वमेति तस्मै गृहान् कृणुत यावत्सबन्धु ॥३७॥
इदम् कसाम्बु चयनेन चितम् तत् सजाताः अव पश्यत इत ।मर्त्यः अयम् अमृत-त्वम् एति तस्मै गृहान् कृणुत यावत् सबन्धु ॥३७॥
idam kasāmbu cayanena citam tat sajātāḥ ava paśyata ita .martyaḥ ayam amṛta-tvam eti tasmai gṛhān kṛṇuta yāvat sabandhu ..37..

इहैवैधि धनसनिरिहचित्त इहक्रतुः ।इहैधि वीर्यवत्तरो वयोधा अपराहतः ॥३८॥
इह एव एधि धन-सनिः इह चित्तः इहक्रतुः ।इह एधि वीर्यवत्तरः वयोधाः अ पराहतः ॥३८॥
iha eva edhi dhana-saniḥ iha cittaḥ ihakratuḥ .iha edhi vīryavattaraḥ vayodhāḥ a parāhataḥ ..38..

पुत्रं पौत्रमभितर्पयन्तीरापो मधुमतीरिमाः ।स्वधां पितृभ्यो अमृतं दुहाना आपो देवीरुभयांस्तर्पयन्तु ॥३९॥
पुत्रम् पौत्रम् अभितर्पयन्तीः आपः मधुमतीः इमाः ।स्वधाम् पितृभ्यः अमृतम् दुहानाः आपः देवीः उभयान् तर्पयन्तु ॥३९॥
putram pautram abhitarpayantīḥ āpaḥ madhumatīḥ imāḥ .svadhām pitṛbhyaḥ amṛtam duhānāḥ āpaḥ devīḥ ubhayān tarpayantu ..39..

आपो अग्निं प्र हिणुत पितॄंरुपेमं यज्ञं पितरो मे जुषन्ताम् ।आसीनामूर्जमुप ये सचन्ते ते नो रयिं सर्ववीरं नि यछान् ॥४०॥ {२३}
आपः अग्निम् प्र हिणुत पितॄन् उप इमम् यज्ञम् पितरः मे जुषन्ताम् ।आसीनाम् ऊर्जम् उप ये सचन्ते ते नः रयिम् सर्व-वीरम् नि यच्छान् ॥४०॥
āpaḥ agnim pra hiṇuta pitṝn upa imam yajñam pitaraḥ me juṣantām .āsīnām ūrjam upa ye sacante te naḥ rayim sarva-vīram ni yacchān ..40..

समिन्धते अमर्त्यं हव्यवाहं घृतप्रियम् ।स वेद निहितान् निधीन् पितॄन् परावतो गतान् ॥४१॥
समिन्धते अमर्त्यम् हव्यवाहम् घृत-प्रियम् ।स वेद निहितान् निधीन् पितॄन् परावतः गतान् ॥४१॥
samindhate amartyam havyavāham ghṛta-priyam .sa veda nihitān nidhīn pitṝn parāvataḥ gatān ..41..

यं ते मन्थं यमोदनं यन् मांसं निपृणामि ते ।ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥४२॥
यम् ते मन्थम् यम् ओदनम् यत् मांसम् निपृणामि ते ।ते ते सन्तु स्वधावन्तः मधुमन्तः घृतश्चुतः ॥४२॥
yam te mantham yam odanam yat māṃsam nipṛṇāmi te .te te santu svadhāvantaḥ madhumantaḥ ghṛtaścutaḥ ..42..

यास्ते धाना अनुकिरामि तिलमिश्राः स्वधावतीः ।तास्ते सन्तूद्भ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥४३॥
याः ते धानाः अनुकिरामि तिल-मिश्राः स्वधावतीः ।ताः ते सन्तु उद्भ्वीः प्रभ्वीः ताः ते यमः राजा अनु मन्यताम् ॥४३॥
yāḥ te dhānāḥ anukirāmi tila-miśrāḥ svadhāvatīḥ .tāḥ te santu udbhvīḥ prabhvīḥ tāḥ te yamaḥ rājā anu manyatām ..43..

इदं पूर्वमपरं नियानं येना ते पूर्वे पितरः परेताः ।पुरोगवा ये अभिसाचो अस्य ते त्वा वहन्ति सुकृतामु लोकम् ॥४४॥
इदम् पूर्वम् अपरम् नियानम् येन ते पूर्वे पितरः परेताः ।पुरोगवाः ये अभिसाचः अस्य ते त्वा वहन्ति सु कृता आमु लोकम् ॥४४॥
idam pūrvam aparam niyānam yena te pūrve pitaraḥ paretāḥ .purogavāḥ ye abhisācaḥ asya te tvā vahanti su kṛtā āmu lokam ..44..

सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने ।सरस्वतीं सुकृतो हवन्ते सरस्वती दाशुषे वार्यं दात्॥४५॥
सरस्वतीम् देवयन्तः हवन्ते सरस्वतीम् अध्वरे तायमाने ।सरस्वतीम् सु कृतः हवन्ते सरस्वती दाशुषे वार्यम् दात्॥४५॥
sarasvatīm devayantaḥ havante sarasvatīm adhvare tāyamāne .sarasvatīm su kṛtaḥ havante sarasvatī dāśuṣe vāryam dāt..45..

सरस्वतीं पितरो हवन्ते दक्षिणा यज्ञमभिनक्षमाणाः ।आसद्यास्मिन् बर्हिषि मादयध्वमनमीवा इष आ धेह्यस्मे ॥४६॥
सरस्वतीम् पितरः हवन्ते दक्षिणा यज्ञम् अभिनक्षमाणाः ।आसद्य अस्मिन् बर्हिषि मादयध्वम् अनमीवाः इषः आ धेहि अस्मे ॥४६॥
sarasvatīm pitaraḥ havante dakṣiṇā yajñam abhinakṣamāṇāḥ .āsadya asmin barhiṣi mādayadhvam anamīvāḥ iṣaḥ ā dhehi asme ..46..

सरस्वति या सरथं ययाथोक्थैः स्वधाभिर्देवि पितृभिर्मदन्ती ।सहस्रार्घमिडो अत्र भागं रायस्पोषं यजमानाय धेहि ॥४७॥
सरस्वति या स रथम् ययाथ उक्थैः स्वधाभिः देवि पितृभिः मदन्ती ।सहस्र-अर्घम् इडः अत्र भागम् रायस्पोषम् यजमानाय धेहि ॥४७॥
sarasvati yā sa ratham yayātha ukthaiḥ svadhābhiḥ devi pitṛbhiḥ madantī .sahasra-argham iḍaḥ atra bhāgam rāyaspoṣam yajamānāya dhehi ..47..

पृथिवीं त्वा पृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः ।परापरैता वसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥४८॥
पृथिवीम् त्वा पृथिव्याम् आ वेशयामि देवः नः धाता प्र तिराति आयुः ।परापरा एताः वसु-विद्वस् अस्तु अधा मृताः पितृषु सम् भवन्तु ॥४८॥
pṛthivīm tvā pṛthivyām ā veśayāmi devaḥ naḥ dhātā pra tirāti āyuḥ .parāparā etāḥ vasu-vidvas astu adhā mṛtāḥ pitṛṣu sam bhavantu ..48..

आ प्र च्यवेथामप तन् मृजेथां यद्वामभिभा अत्रोचुः ।अस्मादेतमघ्न्यौ तद्वशीयो दातुः पितृष्विहभोजनौ मम ॥४९॥
आ प्र च्यवेथाम् अप तत् मृजेथाम् यत् वाम् अभिभाः अत्र ऊचुः ।अस्मात् एतम् अघ्न्यौ तद्-वशीयः दातुः पितृषु इहभोजनौ मम ॥४९॥
ā pra cyavethām apa tat mṛjethām yat vām abhibhāḥ atra ūcuḥ .asmāt etam aghnyau tad-vaśīyaḥ dātuḥ pitṛṣu ihabhojanau mama ..49..

एयमगन् दक्षिणा भद्रतो ना अनेन दत्ता सुदुघा वयोधाः ।यौवने जीवान् उपपृञ्चती जरा पितृभ्य उपसंपराणयादिमान् ॥५०॥ {२४}
आ इयम् अगन् दक्षिणा भद्रतस् नः अनेन दत्ता सु दुघा वयोधाः ।यौवने जीवान् उपपृञ्चती जरा पितृभ्यः उपसंपराणयात् इमान् ॥५०॥
ā iyam agan dakṣiṇā bhadratas naḥ anena dattā su dughā vayodhāḥ .yauvane jīvān upapṛñcatī jarā pitṛbhyaḥ upasaṃparāṇayāt imān ..50..

इदं पितृभ्यः प्र भरामि बर्हिर्जीवं देवेभ्य उत्तरं स्तृणामि ।तदा रोह पुरुष मेध्यो भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥
इदम् पितृभ्यः प्र भरामि बर्हिः जीवम् देवेभ्यः उत्तरम् स्तृणामि ।तदा रोह पुरुष मेध्यः भवन् प्रति त्वा जानन्तु पितरः परेतम् ॥५१॥
idam pitṛbhyaḥ pra bharāmi barhiḥ jīvam devebhyaḥ uttaram stṛṇāmi .tadā roha puruṣa medhyaḥ bhavan prati tvā jānantu pitaraḥ paretam ..51..

एदं बर्हिरसदो मेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम् ।यथापरु तन्वं सं भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥
आ इदम् बर्हिः-असदः मेध्यः अभूः प्रति त्वा जानन्तु पितरः परेतम् ।यथापरु तन्वम् सम् भरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥५२॥
ā idam barhiḥ-asadaḥ medhyaḥ abhūḥ prati tvā jānantu pitaraḥ paretam .yathāparu tanvam sam bharasva gātrāṇi te brahmaṇā kalpayāmi ..52..

पर्णो राजापिधानं चरूणामूर्जो बलं सह ओजो न आगन् ।आयुर्जीवेभ्यो विदधद्दीर्घायुत्वाय शतशारदाय ॥५३॥
पर्णः राजा अपिधानम् चरूणाम् ऊर्जः बलम् सहः ओजः नः आगन् ।आयुः जीवेभ्यः विदधत् दीर्घ-आयु-त्वाय शत-शारदाय ॥५३॥
parṇaḥ rājā apidhānam carūṇām ūrjaḥ balam sahaḥ ojaḥ naḥ āgan .āyuḥ jīvebhyaḥ vidadhat dīrgha-āyu-tvāya śata-śāradāya ..53..

ऊर्जो भागो य इमं जजानाश्मान्नानामाधिपत्यं जगाम ।तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात्॥५४॥
ऊर्जः भागः यः इमम् जजान अश्मा अन्नानाम् आधिपत्यम् जगाम ।तम् अर्चत विश्व-मित्राः हविर्भिः स नः यमः प्रतरम् जीवसे धात्॥५४॥
ūrjaḥ bhāgaḥ yaḥ imam jajāna aśmā annānām ādhipatyam jagāma .tam arcata viśva-mitrāḥ havirbhiḥ sa naḥ yamaḥ prataram jīvase dhāt..54..

यथा यमाय हर्म्यमवपन् पञ्च मानवाः ।एवा वपामि हर्म्यं यथा मे भूरयोऽसत ॥५५॥
यथा यमाय हर्म्यम् अवपन् पञ्च मानवाः ।एव वपामि हर्म्यम् यथा मे भूरयः असत ॥५५॥
yathā yamāya harmyam avapan pañca mānavāḥ .eva vapāmi harmyam yathā me bhūrayaḥ asata ..55..

इदं हिरण्यं बिभृहि यत्ते पिताबिभः पुरा ।स्वर्गं यतः पितुर्हस्तं निर्मृड्ढि दक्षिणम् ॥५६॥
इदम् हिरण्यम् बिभृहि यत् ते पिता अबिभर् पुरा ।स्वर्गम् यतः पितुः हस्तम् निर्मृड्ढि दक्षिणम् ॥५६॥
idam hiraṇyam bibhṛhi yat te pitā abibhar purā .svargam yataḥ pituḥ hastam nirmṛḍḍhi dakṣiṇam ..56..

ये च जीवा ये च मृता ये जाता ये च यज्ञियाः ।तेभ्यो घृतस्य कुल्यैतु मधुधारा व्युन्दती ॥५७॥
ये च जीवाः ये च मृताः ये जाताः ये च यज्ञियाः ।तेभ्यः घृतस्य कुल्या ऐतु मधु-धारा व्युन्दती ॥५७॥
ye ca jīvāḥ ye ca mṛtāḥ ye jātāḥ ye ca yajñiyāḥ .tebhyaḥ ghṛtasya kulyā aitu madhu-dhārā vyundatī ..57..

वृषा मतीनां पवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः ।प्राणः सिन्धूनां कलशामचिक्रददिन्द्रस्य हार्दिमाविशन् मनीषया ॥५८॥
वृषा मतीनाम् पवते विचक्षणः सूरः अह्नाम् प्रतरीता उषसाम् दिवः ।प्राणः सिन्धूनाम् कलशाम् अचिक्रदत् इन्द्रस्य हार्दिम् आविशत् मनीषया ॥५८॥
vṛṣā matīnām pavate vicakṣaṇaḥ sūraḥ ahnām pratarītā uṣasām divaḥ .prāṇaḥ sindhūnām kalaśām acikradat indrasya hārdim āviśat manīṣayā ..58..

त्वेषस्ते धूम ऊर्णोतु दिवि षं छुक्र आततः ।सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥५९॥
त्वेषः ते धूमः ऊर्णोतु दिवि सम् शुक्रः आततः ।सूरः न हि द्युता त्वम् कृपा पावक रोचसे ॥५९॥
tveṣaḥ te dhūmaḥ ūrṇotu divi sam śukraḥ ātataḥ .sūraḥ na hi dyutā tvam kṛpā pāvaka rocase ..59..

प्र वा एतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः ।मर्य इव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥६०॥ {२५}
प्र वै एति इन्दुः इन्द्रस्य निष्कृतिम् सखा सख्युः न प्र मिनाति संगिरः ।मर्यः इव योषाः समर्षसे सोमः कलशे शत-यामना पथा ॥६०॥
pra vai eti induḥ indrasya niṣkṛtim sakhā sakhyuḥ na pra mināti saṃgiraḥ .maryaḥ iva yoṣāḥ samarṣase somaḥ kalaśe śata-yāmanā pathā ..60..

अक्षन्न् अमीमदन्त ह्यव प्रियामधूषत ।अस्तोषत स्वभानवो विप्रा यविष्ठा ईमहे ॥६१॥
अक्षन् अमीमदन्त हि अव प्रिया अमधूषत ।अस्तोषत स्व-भानवः विप्राः यविष्ठाः ईमहे ॥६१॥
akṣan amīmadanta hi ava priyā amadhūṣata .astoṣata sva-bhānavaḥ viprāḥ yaviṣṭhāḥ īmahe ..61..

आ यात पितरः सोम्यासो गम्भीरैः पथिभिः पितृयाणैः ।आयुरस्मभ्यं दधतः प्रजां च रायश्च पोषैरभि नः सचध्वम् ॥६२॥
आ यात पितरः सोम्यासः गम्भीरैः पथिभिः पितृयाणैः ।आयुः अस्मभ्यम् दधतः प्रजाम् च रायः च पोषैः अभि नः सचध्वम् ॥६२॥
ā yāta pitaraḥ somyāsaḥ gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ .āyuḥ asmabhyam dadhataḥ prajām ca rāyaḥ ca poṣaiḥ abhi naḥ sacadhvam ..62..

परा यात पितरः सोम्यासो गम्भीरैः पथिभिः पूर्याणैः ।अधा मासि पुनरा यात नो गृहान् हविरत्तुं सुप्रजसः सुवीराः ॥६३॥
परा यात पितरः सोम्यासः गम्भीरैः पथिभिः पूर्याणैः ।अध मासि पुनर् आ यात नः गृहान् हविः अत्तुम् सुप्रजसः सु वीराः ॥६३॥
parā yāta pitaraḥ somyāsaḥ gambhīraiḥ pathibhiḥ pūryāṇaiḥ .adha māsi punar ā yāta naḥ gṛhān haviḥ attum suprajasaḥ su vīrāḥ ..63..

यद्वो अग्निरजहादेकमङ्गं पितृलोकं गमयं जातवेदाः ।तद्व एतत्पुनरा प्याययामि साङ्गाः स्वर्गे पितरो मादयध्वम् ॥६४॥
यत् वः अग्निः अजहात् एकम् अङ्गम् पितृ-लोकम् गम् अयम् जातवेदाः ।तत् वः एतत् पुनर् आ प्याययामि स अङ्गाः स्वर्गे पितरः मादयध्वम् ॥६४॥
yat vaḥ agniḥ ajahāt ekam aṅgam pitṛ-lokam gam ayam jātavedāḥ .tat vaḥ etat punar ā pyāyayāmi sa aṅgāḥ svarge pitaraḥ mādayadhvam ..64..

अभूद्दूतः प्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः ।प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥६५॥
अभूत् दूतः प्रहितः जातवेदाः सायम् न्यह्ने उपवन्द्यः नृभिः ।प्रादाः पितृभ्यः स्वधया ते अक्षन् अद्धि त्वम् देव प्रयता हवींषि ॥६५॥
abhūt dūtaḥ prahitaḥ jātavedāḥ sāyam nyahne upavandyaḥ nṛbhiḥ .prādāḥ pitṛbhyaḥ svadhayā te akṣan addhi tvam deva prayatā havīṃṣi ..65..

असौ हा इह ते मनः ककुत्सलमिव जामयः ।अभ्येनं भूम ऊर्णुहि ॥६६॥
असौ हा इह ते मनः ककुत्सलम् इव जामयः ।अभि एनम् भूमे ऊर्णुहि ॥६६॥
asau hā iha te manaḥ kakutsalam iva jāmayaḥ .abhi enam bhūme ūrṇuhi ..66..

शुम्भन्तां लोकाः पितृषदनाः पितृषदने त्वा लोक आ सादयामि ॥६७॥
शुम्भन्ताम् लोकाः पितृषदनाः पितृषदने त्वा लोके आ सादयामि ॥६७॥
śumbhantām lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loke ā sādayāmi ..67..

ये अस्माकं पितरस्तेषां बर्हिरसि ॥६८॥
ये अस्माकम् पितरः तेषाम् बर्हिः असि ॥६८॥
ye asmākam pitaraḥ teṣām barhiḥ asi ..68..

उदुत्तमं वरुण पाशमस्मदवाधमं श्रथाय ।अधा वयमादित्य व्रते तवानागसो अदितये स्याम ॥६९॥
उद् उत्तमम् वरुण पाशम् अस्मत् अव अधमम् श्रथाय ।अध वयम् आदित्य व्रते तव अनागसः अदितये स्याम ॥६९॥
ud uttamam varuṇa pāśam asmat ava adhamam śrathāya .adha vayam āditya vrate tava anāgasaḥ aditaye syāma ..69..

प्रास्मत्पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैर्व्यामे ।अधा जीवेम शरदं शतानि त्वया राजन् गुपिता रक्षमाणाः ॥७०॥ {२६}
प्र अस्मद्-पाशान् वरुण मुञ्च सर्वान् यैः समामे बध्यते यैः व्यामे ।अधा जीवेम शरदम् शतानि त्वया राजन् गुपिताः रक्षमाणाः ॥७०॥
pra asmad-pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yaiḥ vyāme .adhā jīvema śaradam śatāni tvayā rājan gupitāḥ rakṣamāṇāḥ ..70..

अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥
अग्नये कव्यवाहनाय स्वधा नमः ॥७१॥
agnaye kavyavāhanāya svadhā namaḥ ..71..

सोमाय पितृमते स्वधा नमः ॥७२॥
सोमाय पितृमते स्वधा नमः ॥७२॥
somāya pitṛmate svadhā namaḥ ..72..

पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥
पितृभ्यः सोमवद्भ्यः स्वधा नमः ॥७३॥
pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ ..73..

यमाय पितृमते स्वधा नमः ॥७४॥
यमाय पितृमते स्वधा नमः ॥७४॥
yamāya pitṛmate svadhā namaḥ ..74..

एतत्ते प्रततामह स्वधा ये च त्वामनु ॥७५॥
एतत् ते प्रततामह स्वधा ये च त्वाम् अनु ॥७५॥
etat te pratatāmaha svadhā ye ca tvām anu ..75..

एतत्ते ततामह स्वधा ये च त्वामनु ॥७६॥
एतत् ते ततामह स्वधा ये च त्वाम् अनु ॥७६॥
etat te tatāmaha svadhā ye ca tvām anu ..76..

एतत्ते तत स्वधा ॥७७॥
एतत् ते तत स्वधा ॥७७॥
etat te tata svadhā ..77..

स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥
स्वधा पितृभ्यः पृथिविषद्भ्यः ॥७८॥
svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ ..78..

स्वधा पितृभ्यो अन्तरिक्षसद्भ्यः ॥७९॥
स्वधा पितृभ्यः अन्तरिक्ष-सद्भ्यः ॥७९॥
svadhā pitṛbhyaḥ antarikṣa-sadbhyaḥ ..79..

स्वधा पितृभ्यो दिविषद्भ्यः ॥८०॥ {२७}
स्वधा पितृभ्यः दिविषद्भ्यः ॥८०॥
svadhā pitṛbhyaḥ diviṣadbhyaḥ ..80..

नमो वः पितर ऊर्जे नमो वः पितरो रसाय ॥८१॥
नमः वः पितरः ऊर्जे नमः वः पितरः रसाय ॥८१॥
namaḥ vaḥ pitaraḥ ūrje namaḥ vaḥ pitaraḥ rasāya ..81..

नमो वः पितरो भामाय नमो वः पितरो मन्यवे ॥८२॥
नमः वः पितरः भामाय नमः वः पितरः मन्यवे ॥८२॥
namaḥ vaḥ pitaraḥ bhāmāya namaḥ vaḥ pitaraḥ manyave ..82..

नमो वः पितरो यद्घोरं तस्मै नमो वः पितरो यत्क्रूरं तस्मै ॥८३॥
नमः वः पितरः यत् घोरम् तस्मै नमः वः पितरः यत् क्रूरम् तस्मै ॥८३॥
namaḥ vaḥ pitaraḥ yat ghoram tasmai namaḥ vaḥ pitaraḥ yat krūram tasmai ..83..

नमो वः पितरो यच्छिवं तस्मै नमो वः पितरो यत्स्योनं तस्मै ॥८४॥
नमः वः पितरः यत् शिवम् तस्मै नमः वः पितरः यत् स्योनम् तस्मै ॥८४॥
namaḥ vaḥ pitaraḥ yat śivam tasmai namaḥ vaḥ pitaraḥ yat syonam tasmai ..84..

नमो वः पितरः स्वधा वः पितरः ॥८५॥
नमः वः पितरः स्वधा वः पितरः ॥८५॥
namaḥ vaḥ pitaraḥ svadhā vaḥ pitaraḥ ..85..

येऽत्र पितरः पितरो येऽत्र यूयं स्थ युष्मांस्तेऽनु यूयं तेषां श्रेष्ठा भूयास्थ ॥८६॥
ये अत्र पितरः पितरः ये अत्र यूयम् स्थ युष्मान् ते अनु यूयम् तेषाम् श्रेष्ठाः भूयास्थ ॥८६॥
ye atra pitaraḥ pitaraḥ ye atra yūyam stha yuṣmān te anu yūyam teṣām śreṣṭhāḥ bhūyāstha ..86..

य इह पितरो जीवा इह वयं स्मः ।अस्मांस्तेऽनु वयं तेषां श्रेष्ठा भूयास्म ॥८७॥
ये इह पितरः जीवाः इह वयम् स्मः ।अस्मान् ते अनु वयम् तेषाम् श्रेष्ठाः भूयास्म ॥८७॥
ye iha pitaraḥ jīvāḥ iha vayam smaḥ .asmān te anu vayam teṣām śreṣṭhāḥ bhūyāsma ..87..

आ त्वाग्न इधीमहि द्युमन्तं देवाजरम् ।यद्घ सा ते पनीयसी समिद्दीदयति द्यवि ।इषं स्तोतृभ्य आ भर ॥८८॥
आ त्वा अग्ने इधीमहि द्युमन्तम् देव अजरम् ।यत् ह सा ते पनीयसी समिध् दीदयति द्यवि ।इषम् स्तोतृभ्यः आ भर ॥८८॥
ā tvā agne idhīmahi dyumantam deva ajaram .yat ha sā te panīyasī samidh dīdayati dyavi .iṣam stotṛbhyaḥ ā bhara ..88..

चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥८९॥ {२८}
चन्द्रमाः अप्सु अन्तरा सुपर्णः धावते दिवि ।न वः हिरण्य-नेमयः पदम् विन्दन्ति विद्युतः वित्तम् मे अस्य रोदसी ॥८९॥
candramāḥ apsu antarā suparṇaḥ dhāvate divi .na vaḥ hiraṇya-nemayaḥ padam vindanti vidyutaḥ vittam me asya rodasī ..89..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In