| |
|

This overlay will guide you through the buttons:

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या ।शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ ॥१॥
शम् नः इन्द्र-अग्नी भवताम् अवोभिः शम् नः इन्द्रावरुणा रात-हव्या ।शम् इन्द्रासोमा सुविताय शम् योस् शम् नः इन्द्रापूषणा वाजसातौ ॥१॥
śam naḥ indra-agnī bhavatām avobhiḥ śam naḥ indrāvaruṇā rāta-havyā .śam indrāsomā suvitāya śam yos śam naḥ indrāpūṣaṇā vājasātau ..1..

शं नो भगः शमु नः शंसो अस्तु शं नः पुरंधिः शमु सन्तु रायः ।शं नः सत्यस्य सुयमस्य शंसः शं नो अर्यमा पुरुजातो अस्तु ॥२॥
शम् नः भगः शमु नः शंसः अस्तु शम् नः पुरंधिः शमु सन्तु रायः ।शम् नः सत्यस्य सु यमस्य शंसः शम् नः अर्यमा पुरु-जातः अस्तु ॥२॥
śam naḥ bhagaḥ śamu naḥ śaṃsaḥ astu śam naḥ puraṃdhiḥ śamu santu rāyaḥ .śam naḥ satyasya su yamasya śaṃsaḥ śam naḥ aryamā puru-jātaḥ astu ..2..

शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतु स्वधाभिः ।शं रोदसी बृहती शं नो अद्रिः शं नो देवानां सुहवानि सन्तु ॥३॥
शम् नः धाता शमु धर्ता नः अस्तु शम् नः उरूची भवतु स्वधाभिः ।शम् रोदसी बृहती शम् नः अद्रिः शम् नः देवानाम् सु हवानि सन्तु ॥३॥
śam naḥ dhātā śamu dhartā naḥ astu śam naḥ urūcī bhavatu svadhābhiḥ .śam rodasī bṛhatī śam naḥ adriḥ śam naḥ devānām su havāni santu ..3..

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम् ।शं नः सुकृतां सुकृतानि सन्तु शं न इषिरो अभि वातु वातः ॥४॥
शम् नः अग्निः ज्योतिः-अनीकः अस्तु शम् नः मित्रावरुणौ अश्विना शम् ।शम् नः सु कृताम् सुकृतानि सन्तु शम् नः इषिरः अभि वातु वातः ॥४॥
śam naḥ agniḥ jyotiḥ-anīkaḥ astu śam naḥ mitrāvaruṇau aśvinā śam .śam naḥ su kṛtām sukṛtāni santu śam naḥ iṣiraḥ abhi vātu vātaḥ ..4..

शं नो द्यावापृथिवी पूर्वहूतौ शमन्तरिक्षं दृशये नो अस्तु ।शं न ओषधीर्वनिनो भवन्तु शं नो रजसस्पतिरस्तु जिष्णुः ॥५॥
शम् नः द्यावापृथिवी पूर्व-हूतौ शम् अन्तरिक्षम् दृशये नः अस्तु ।शम् नः ओषधीः वनिनः भवन्तु शम् नः रजसस्पतिः अस्तु जिष्णुः ॥५॥
śam naḥ dyāvāpṛthivī pūrva-hūtau śam antarikṣam dṛśaye naḥ astu .śam naḥ oṣadhīḥ vaninaḥ bhavantu śam naḥ rajasaspatiḥ astu jiṣṇuḥ ..5..

शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः ।शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा ग्नाभिरिह शृणोतु ॥६॥
शम् नः इन्द्रः वसुभिः देवः अस्तु शम् आदित्येभिः वरुणः सु शंसः ।शम् नः रुद्रः रुद्रेभिः जलाषः शम् नः त्वष्टा ग्नाभिः इह शृणोतु ॥६॥
śam naḥ indraḥ vasubhiḥ devaḥ astu śam ādityebhiḥ varuṇaḥ su śaṃsaḥ .śam naḥ rudraḥ rudrebhiḥ jalāṣaḥ śam naḥ tvaṣṭā gnābhiḥ iha śṛṇotu ..6..

शं नः सोमो भवतु ब्रह्म शं नः शं नो ग्रावाणः शमु सन्तु यज्ञाः ।शं नः स्वरूनां मितयो भवन्तु शं नः प्रस्वः शं वस्तु वेदिः ॥७॥
शम् नः सोमः भवतु ब्रह्म शम् नः शम् नः ग्रावाणः शमु सन्तु यज्ञाः ।शम् नः स्वरूनाम् मितयः भवन्तु शम् नः प्रस्वः शम् वस्तु वेदिः ॥७॥
śam naḥ somaḥ bhavatu brahma śam naḥ śam naḥ grāvāṇaḥ śamu santu yajñāḥ .śam naḥ svarūnām mitayaḥ bhavantu śam naḥ prasvaḥ śam vastu vediḥ ..7..

शं नः सूर्य उरुचक्षा उदेतु शं नो भवन्तु प्रदिशश्चतस्रः ।शं नः पर्वता ध्रुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः ॥८॥
शम् नः सूर्यः उरु-चक्षाः उदेतु शम् नः भवन्तु प्रदिशः चतस्रः ।शम् नः पर्वताः ध्रुवयः भवन्तु शम् नः सिन्धवः शमु सन्तु आपः ॥८॥
śam naḥ sūryaḥ uru-cakṣāḥ udetu śam naḥ bhavantu pradiśaḥ catasraḥ .śam naḥ parvatāḥ dhruvayaḥ bhavantu śam naḥ sindhavaḥ śamu santu āpaḥ ..8..

शं नो अदितिर्भवतु व्रतेभिः शं नो भवन्तु मरुतः स्वर्काः ।शं नो विष्णुः शमु पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः ॥९॥
शम् नः अदितिः भवतु व्रतेभिः शम् नः भवन्तु मरुतः सु अर्काः ।शम् नः विष्णुः शमु पूषा नः अस्तु शम् नः भवित्रम् शम् वस्तु वायुः ॥९॥
śam naḥ aditiḥ bhavatu vratebhiḥ śam naḥ bhavantu marutaḥ su arkāḥ .śam naḥ viṣṇuḥ śamu pūṣā naḥ astu śam naḥ bhavitram śam vastu vāyuḥ ..9..

शं नो देवः सविता त्रायमाणः शं नो भवन्तूषसो विभातीः ।शं नः पर्जन्यो भवतु प्रजाभ्यः शं नः क्षेत्रस्य पतिरस्तु शंभुः ॥१०॥
शम् नः देवः सविता त्रायमाणः शम् नः भवन्तु उषसः विभातीः ।शम् नः पर्जन्यः भवतु प्रजाभ्यः शम् नः क्षेत्रस्य पतिः अस्तु शंभुः ॥१०॥
śam naḥ devaḥ savitā trāyamāṇaḥ śam naḥ bhavantu uṣasaḥ vibhātīḥ .śam naḥ parjanyaḥ bhavatu prajābhyaḥ śam naḥ kṣetrasya patiḥ astu śaṃbhuḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In