| |
|

This overlay will guide you through the buttons:

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः ।शं न ऋभवः सुकृतः सुहस्ताः शं नो भवतु पितरो हवेषु ॥१॥
शम् नः सत्यस्य पतयः भवन्तु शम् नः अर्वन्तः शमु सन्तु गावः ।शम् नः ऋभवः सु कृतः सु हस्ताः शम् नः भवतु पितरः हवेषु ॥१॥
śam naḥ satyasya patayaḥ bhavantu śam naḥ arvantaḥ śamu santu gāvaḥ .śam naḥ ṛbhavaḥ su kṛtaḥ su hastāḥ śam naḥ bhavatu pitaraḥ haveṣu ..1..

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु ।शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः ॥२॥
शम् नः देवाः विश्व-देवाः भवन्तु शम् सरस्वती सह धीभिः अस्तु ।शम् अभिषाचः शमु रातिषाचः शम् नः दिव्याः पार्थिवाः शम् नः अप्याः ॥२॥
śam naḥ devāḥ viśva-devāḥ bhavantu śam sarasvatī saha dhībhiḥ astu .śam abhiṣācaḥ śamu rātiṣācaḥ śam naḥ divyāḥ pārthivāḥ śam naḥ apyāḥ ..2..

शं नो अज एकपाद्देवो अस्तु शमहिर्बुध्न्यः शं समुद्रः ।शं नो अपां नपात्पेरुरस्तु शं नः पृष्णिर्भवतु देवगोपा ॥३॥
शम् नः अजः एकपाद् देवः अस्तु शम् अहिर्बुध्न्यः शम् समुद्रः ।शम् नः अपाम् नपात् पेरुः अस्तु शम् नः पृष्णिः भवतु देव-गोपा ॥३॥
śam naḥ ajaḥ ekapād devaḥ astu śam ahirbudhnyaḥ śam samudraḥ .śam naḥ apām napāt peruḥ astu śam naḥ pṛṣṇiḥ bhavatu deva-gopā ..3..

आदित्या रुद्रा वसवो जुषन्तामिदं ब्रह्म क्रियमाणं नवीयः ।सृण्वन्तु नो दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः ॥४॥
आदित्याः रुद्राः वसवः जुषन्ताम् इदम् ब्रह्म क्रियमाणम् नवीयः ।सृण्वन्तु नः दिव्याः पार्थिवासः गो-जाताः उत ये यज्ञियासः ॥४॥
ādityāḥ rudrāḥ vasavaḥ juṣantām idam brahma kriyamāṇam navīyaḥ .sṛṇvantu naḥ divyāḥ pārthivāsaḥ go-jātāḥ uta ye yajñiyāsaḥ ..4..

ये देवानामृत्विजो यज्ञियासो मनोर्यजत्रा अमृता ऋतज्ञाः ।ते नो रासन्तामुरुगायमद्य यूयं पात स्वस्तिभिः सदा नः ॥५॥
ये देवानाम् ऋत्विजः यज्ञियासः मनोः यजत्राः अमृताः ऋत-ज्ञाः ।ते नः रासन्ताम् उरु-गायम् अद्य यूयम् पात स्वस्तिभिः सदा नः ॥५॥
ye devānām ṛtvijaḥ yajñiyāsaḥ manoḥ yajatrāḥ amṛtāḥ ṛta-jñāḥ .te naḥ rāsantām uru-gāyam adya yūyam pāta svastibhiḥ sadā naḥ ..5..

तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम् ।अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥६॥
तत् अस्तु मित्रावरुणा तत् अग्ने शम् योस् अस्मभ्यम् इदम् अस्तु शस्तम् ।अशीमहि गाधम् उत प्रतिष्ठाम् नमः दिवे बृहते सादनाय ॥६॥
tat astu mitrāvaruṇā tat agne śam yos asmabhyam idam astu śastam .aśīmahi gādham uta pratiṣṭhām namaḥ dive bṛhate sādanāya ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In