| |
|

This overlay will guide you through the buttons:

इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।तौ योक्षे प्रथमो योग आगते याभ्यां जितमसुराणां स्वर्यत्॥१॥
इन्द्रस्य बाहू स्थविरौ वृषाणौ चित्रा इमा वृषभौ पारयिष्णू ।तौ प्रथमः योगः आगते याभ्याम् जितम् असुराणाम् स्वर् यत्॥१॥
indrasya bāhū sthavirau vṛṣāṇau citrā imā vṛṣabhau pārayiṣṇū .tau prathamaḥ yogaḥ āgate yābhyām jitam asurāṇām svar yat..1..

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।संक्रन्दनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिन्द्रः ॥२॥
आशुः शिशानः वृषभः न भीमः घनाघनः क्षोभणः चर्षणीनाम् ।संक्रन्दनः अनिमिषः एक-वीरः शतम् सेनाः अजयत् साकम् इन्द्रः ॥२॥
āśuḥ śiśānaḥ vṛṣabhaḥ na bhīmaḥ ghanāghanaḥ kṣobhaṇaḥ carṣaṇīnām .saṃkrandanaḥ animiṣaḥ eka-vīraḥ śatam senāḥ ajayat sākam indraḥ ..2..

संक्रन्दनेनानिमिषेण जिष्णुनायोध्येन दुश्च्यवनेन धृष्णुना ।तदिन्द्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥३॥
संक्रन्दनेन अनिमिषेण जिष्णुना अयोध्येन दुश्च्यवनेन धृष्णुना ।तत् इन्द्रेण जयत तत् सहध्वम् युधः नरः इषु-हस्तेन वृष्णा ॥३॥
saṃkrandanena animiṣeṇa jiṣṇunā ayodhyena duścyavanena dhṛṣṇunā .tat indreṇa jayata tat sahadhvam yudhaḥ naraḥ iṣu-hastena vṛṣṇā ..3..

स इषुहस्तैः स निषङ्गिभिर्वशी संस्रष्टा स युध इन्द्रो गणेन ।संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥४॥
सः इषु-हस्तैः स निषङ्गिभिः वशी संस्रष्टा स युधः इन्द्रः गणेन ।संसृष्ट-जित् सोम-पाः बाहुशर्धी उग्र-धन्वा प्रतिहिता-अभिरस्ता ॥४॥
saḥ iṣu-hastaiḥ sa niṣaṅgibhiḥ vaśī saṃsraṣṭā sa yudhaḥ indraḥ gaṇena .saṃsṛṣṭa-jit soma-pāḥ bāhuśardhī ugra-dhanvā pratihitā-abhirastā ..4..

बलविज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः ।अभिवीरो अभिषत्वा सहोजिज्जैत्रमिन्द्र रथमा तिष्ठ गोविदम् ॥५॥
बल-विज्ञायः स्थविरः प्रवीरः सहस्वान् वाजी सहमानः उग्रः ।अभिवीरः अभिषत्वा सहः-जित् जैत्रम् इन्द्र रथमा तिष्ठ गो-विदम् ॥५॥
bala-vijñāyaḥ sthaviraḥ pravīraḥ sahasvān vājī sahamānaḥ ugraḥ .abhivīraḥ abhiṣatvā sahaḥ-jit jaitram indra rathamā tiṣṭha go-vidam ..5..

इमं वीरमनु हर्षध्वमुग्रमिन्द्रं सखायो अनु सं रभध्वम् ।ग्रामजितं गोजितं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा ॥६॥
इमम् वीरम् अनु हर्षध्वम् उग्रम् इन्द्रम् सखायः अनु सम् रभध्वम् ।ग्राम-जितम् गो-जितम् वज्र-बाहुम् जयन्तम् अज्म प्रमृणन्तम् ओजसा ॥६॥
imam vīram anu harṣadhvam ugram indram sakhāyaḥ anu sam rabhadhvam .grāma-jitam go-jitam vajra-bāhum jayantam ajma pramṛṇantam ojasā ..6..

अभि गोत्राणि सहसा गाहमानोऽदाय उग्रः शतमन्युरिन्द्रः ।दुश्च्यवनः पृतनाषाडयोध्योऽस्माकं सेना अवतु प्र युत्सु ॥७॥
अभि गोत्राणि सहसा गाहमानः अदायः उग्रः शतमन्युः इन्द्रः ।दुश्च्यवनः पृतनाषाह् अ योध्यः अस्माकम् सेनाः अवतु प्र युत्सु ॥७॥
abhi gotrāṇi sahasā gāhamānaḥ adāyaḥ ugraḥ śatamanyuḥ indraḥ .duścyavanaḥ pṛtanāṣāh a yodhyaḥ asmākam senāḥ avatu pra yutsu ..7..

बृहस्पते परि दीया रथेन रक्षोहामित्रामपबाधमानः ।प्रभञ्जंछत्रून् प्रमृणन्न् अमित्रान् अस्माकमेध्यविता तनूनाम् ॥८॥
बृहस्पते परि दीय रथेन रक्षः-हा अमित्राम् अपबाधमानः ।प्रभञ्जन् शत्रून् प्रमृणन् अमित्रान् तनूनाम् ॥८॥
bṛhaspate pari dīya rathena rakṣaḥ-hā amitrām apabādhamānaḥ .prabhañjan śatrūn pramṛṇan amitrān tanūnām ..8..

इन्द्र एषां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।देवसेनानामभिभञ्जतीनां जयन्तीनां मरुतो यन्तु मध्ये ॥९॥
इन्द्रः एषाम् नेता बृहस्पतिः दक्षिणा यज्ञः पुरस् एतु सोमः ।देव-सेनानाम् अभिभञ्जतीनाम् जयन्तीनाम् मरुतः यन्तु मध्ये ॥९॥
indraḥ eṣām netā bṛhaspatiḥ dakṣiṇā yajñaḥ puras etu somaḥ .deva-senānām abhibhañjatīnām jayantīnām marutaḥ yantu madhye ..9..

इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रम् ।महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात्॥१०॥
इन्द्रस्य वृष्णः वरुणस्य राज्ञः आदित्यानाम् मरुताम् शर्धः उग्रम् ।महामनसाम् भुवनच्यवानाम् घोषः देवानाम् जयताम् उदस्थात्॥१०॥
indrasya vṛṣṇaḥ varuṇasya rājñaḥ ādityānām marutām śardhaḥ ugram .mahāmanasām bhuvanacyavānām ghoṣaḥ devānām jayatām udasthāt..10..

अस्माकमिन्द्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयन्तु ।अस्माकं वीरा उत्तरे भवन्त्वस्मान् देवासोऽवता हवेषु ॥११॥
अस्माकम् इन्द्रः समृतेषु ध्वजेषु अस्माकम् याः इषवः ताः जयन्तु ।अस्माकम् वीराः उत्तरे भवन्तु अस्मान् देवासः अवत हवेषु ॥११॥
asmākam indraḥ samṛteṣu dhvajeṣu asmākam yāḥ iṣavaḥ tāḥ jayantu .asmākam vīrāḥ uttare bhavantu asmān devāsaḥ avata haveṣu ..11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In