| |
|

This overlay will guide you through the buttons:

यत इन्द्र भयामहे ततो नो अभयं कृधि ।मघवंछग्धि तव त्वं न ऊतिभिर्वि द्विषो वि मृधो जहि ॥१॥
यतस् इन्द्र भयामहे ततस् नः अभयम् कृधि ।मघवन् शग्धि तव त्वम् नः ऊतिभिः वि द्विषः वि मृधः जहि ॥१॥
yatas indra bhayāmahe tatas naḥ abhayam kṛdhi .maghavan śagdhi tava tvam naḥ ūtibhiḥ vi dviṣaḥ vi mṛdhaḥ jahi ..1..

इन्द्रं वयमनूराधं हवामहेऽनु राध्यास्म द्विपदा चतुष्पदा ।मा नः सेना अररुषीरुप गुर्विषूचिरिन्द्र द्रुहो वि नाशय ॥२॥
इन्द्रम् वयम् अनूराधम् हवामहे अनु राध्यास्म द्विपदा चतुष्पदा ।मा नः सेनाः अ ररुषीः उप गुर्विषूचिः इन्द्र द्रुहः वि नाशय ॥२॥
indram vayam anūrādham havāmahe anu rādhyāsma dvipadā catuṣpadā .mā naḥ senāḥ a raruṣīḥ upa gurviṣūciḥ indra druhaḥ vi nāśaya ..2..

इन्द्रस्त्रातोत वृत्रहा परस्फानो वरेण्यः ।स रक्षिता चरमतः स मध्यतः स पश्चात्स पुरस्तान् नो अस्तु ॥३॥
इन्द्रः त्राता उत वृत्रहा परस्फानः वरेण्यः ।स रक्षिता चरमतस् स मध्यतस् स पश्चात् स पुरस्तात् नः अस्तु ॥३॥
indraḥ trātā uta vṛtrahā parasphānaḥ vareṇyaḥ .sa rakṣitā caramatas sa madhyatas sa paścāt sa purastāt naḥ astu ..3..

उरुं नो लोकमनु नेषि विद्वान्त्स्वर्यज्ज्योतिरभयं स्वस्ति ।उग्रा त इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
उरुम् नः लोकम् अनु नेषि विद्वान् स्वर् यत् ज्योतिः अभयम् स्वस्ति ।उग्रा ते इन्द्र स्थविरस्य बाहू उप क्षयेम शरणा बृहन्ता ॥४॥
urum naḥ lokam anu neṣi vidvān svar yat jyotiḥ abhayam svasti .ugrā te indra sthavirasya bāhū upa kṣayema śaraṇā bṛhantā ..4..

अभयं नः करत्यन्तरिक्षमभयं द्यावापृथिवी उभे इमे ।अभयं पश्चादभयं पुरस्तादुत्तरादधरादभयं नो अस्तु ॥५॥
अभयम् नः करति अन्तरिक्षम् अभयम् द्यावापृथिवी उभे इमे ।अभयम् पश्चात् अभयम् पुरस्तात् उत्तरात् अधरात् अभयम् नः अस्तु ॥५॥
abhayam naḥ karati antarikṣam abhayam dyāvāpṛthivī ubhe ime .abhayam paścāt abhayam purastāt uttarāt adharāt abhayam naḥ astu ..5..

अभयं मित्रादभयममित्रादभयं ज्ञातादभयं पुरो यः ।अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु ॥६॥
अभयम् मित्रात् अभयम् अमित्रात् अभयम् ज्ञातात् अभयम् पुरस् यः ।अभयम् नक्तम् अभयम् दिवा नः सर्वाः आशाः मम मित्रम् भवन्तु ॥६॥
abhayam mitrāt abhayam amitrāt abhayam jñātāt abhayam puras yaḥ .abhayam naktam abhayam divā naḥ sarvāḥ āśāḥ mama mitram bhavantu ..6..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In