| |
|

This overlay will guide you through the buttons:

अग्निं ते वसुवन्तमृच्छन्तु ।ये माघायवः प्राच्या दिशोऽभिदासान् ॥१॥
अग्निम् ते वसुवन्तम् ऋच्छन्तु ।ये माघायवः प्राच्याः दिशः अभिदासान् ॥१॥
agnim te vasuvantam ṛcchantu .ye māghāyavaḥ prācyāḥ diśaḥ abhidāsān ..1..

वायुं तेऽन्तरिक्षवन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥२॥
वायुम् ते अन्तरिक्षवन्तम् ऋच्छन्तु ।ये माघायवः एतस्याः दिशः अभिदासान् ॥२॥
vāyum te antarikṣavantam ṛcchantu .ye māghāyavaḥ etasyāḥ diśaḥ abhidāsān ..2..

सोमं ते रुद्रवन्तमृच्छन्तु ।ये माघायवो दक्षिणाया दिशोऽभिदासान् ॥३॥
सोमम् ते रुद्रवन्तम् ऋच्छन्तु ।ये माघायवः दक्षिणायाः दिशः अभिदासान् ॥३॥
somam te rudravantam ṛcchantu .ye māghāyavaḥ dakṣiṇāyāḥ diśaḥ abhidāsān ..3..

वरुणं त आदित्यवन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥४॥
वरुणम् ते आदित्यवन्तम् ऋच्छन्तु ।ये माघायवः एतस्याः दिशः अभिदासान् ॥४॥
varuṇam te ādityavantam ṛcchantu .ye māghāyavaḥ etasyāḥ diśaḥ abhidāsān ..4..

सूर्यं ते द्यावापृथिवीवन्तमृच्छन्तु ।ये माघायव प्रतीच्या दिशोऽभिदासान् ॥५॥
सूर्यम् ते द्यावापृथिवीवन्तम् ऋच्छन्तु ।ये माघायवः प्रतीच्याः दिशः अभिदासान् ॥५॥
sūryam te dyāvāpṛthivīvantam ṛcchantu .ye māghāyavaḥ pratīcyāḥ diśaḥ abhidāsān ..5..

अपस्त ओषधीमतीर्ऋच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥६॥
अपः ते ओषधीमतीः ऋच्छन्तु ।ये माघायवः एतस्याः दिशः अभिदासान् ॥६॥
apaḥ te oṣadhīmatīḥ ṛcchantu .ye māghāyavaḥ etasyāḥ diśaḥ abhidāsān ..6..

विश्वकर्माणं ते सप्तऋषिवन्तमृच्छन्तु ।ये माघायव उदीच्या दिशोऽभिदासान् ॥७॥
विश्वकर्माणम् ते सप्त-ऋषिवन्तम् ऋच्छन्तु ।ये माघायवः उदीच्याः दिशः अभिदासान् ॥७॥
viśvakarmāṇam te sapta-ṛṣivantam ṛcchantu .ye māghāyavaḥ udīcyāḥ diśaḥ abhidāsān ..7..

इन्द्रं ते मरुत्वन्तमृच्छन्तु ।ये माघायव एतस्या दिशोऽभिदासान् ॥८॥
इन्द्रम् ते मरुत्वन्तम् ऋच्छन्तु ।ये माघायवः एतस्याः दिशः अभिदासान् ॥८॥
indram te marutvantam ṛcchantu .ye māghāyavaḥ etasyāḥ diśaḥ abhidāsān ..8..

प्रजापतिं ते प्रजननवन्तमृच्छन्तु ।ये माघायवो ध्रुवाया दिशोऽभिदासान् ॥९॥
प्रजापतिम् ते प्रजननवन्तम् ऋच्छन्तु ।ये मा अघायवः ध्रुवायाः दिशः अभिदासान् ॥९॥
prajāpatim te prajananavantam ṛcchantu .ye mā aghāyavaḥ dhruvāyāḥ diśaḥ abhidāsān ..9..

बृहस्पतिं ते विश्वदेववन्तमृच्छन्तु ।ये माघायव ऊर्ध्वाया दिशोऽभिदासान् ॥१०॥
बृहस्पतिम् ते विश्वदेववन्तम् ऋच्छन्तु ।ये माघायवः ऊर्ध्वायाः दिशः अभिदासान् ॥१०॥
bṛhaspatim te viśvadevavantam ṛcchantu .ye māghāyavaḥ ūrdhvāyāḥ diśaḥ abhidāsān ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In