| |
|

This overlay will guide you through the buttons:

शं त आपो हैमवतीः शमु ते सन्तूत्स्याः ।शं ते सनिष्यदा आपः शमु ते सन्तु वर्ष्याः ॥१॥
शम् ते आपः हैमवतीः शमु ते सन्तु उत्स्याः ।शम् ते सनिष्यदः आपः शमु ते सन्तु वर्ष्याः ॥१॥
śam te āpaḥ haimavatīḥ śamu te santu utsyāḥ .śam te saniṣyadaḥ āpaḥ śamu te santu varṣyāḥ ..1..

शं त आपो धन्वन्याः शं ते सन्त्वनूप्याः ।शं ते खनित्रिमा आपः शं याः कुम्भेभिराभृताः ॥२॥
शम् ते आपः धन्वन्याः शम् ते सन्तु अनूप्याः ।शम् ते खनित्रिमाः आपः शम् याः कुम्भेभिः आभृताः ॥२॥
śam te āpaḥ dhanvanyāḥ śam te santu anūpyāḥ .śam te khanitrimāḥ āpaḥ śam yāḥ kumbhebhiḥ ābhṛtāḥ ..2..

अनभ्रयः खनमाना विप्रा गम्भीरे अपसः ।भिषग्भ्यो भिषक्तरा आपो अछा वदामसि ॥३॥
अनभ्रयः खनमानाः विप्राः गम्भीरे अपसः ।भिषग्भ्यः भिषक्तराः आपः अछा वदामसि ॥३॥
anabhrayaḥ khanamānāḥ viprāḥ gambhīre apasaḥ .bhiṣagbhyaḥ bhiṣaktarāḥ āpaḥ achā vadāmasi ..3..

अपामह दिव्यानामपां स्रोतस्यानाम् ।अपामह प्रणेजनेऽश्वा भवथ वाजिनः ॥४॥
अपामह दिव्यानाम् अपाम् स्रोतस्यानाम् ।अपामह प्रणेजने अश्वाः भवथ वाजिनः ॥४॥
apāmaha divyānām apām srotasyānām .apāmaha praṇejane aśvāḥ bhavatha vājinaḥ ..4..

ता अपः शिवा अपोऽयक्ष्मंकरणीरपः ।यथैव तृप्यते मयस्तास्त आ दत्त भेसजीः ॥५॥
ताः अपः शिवाः अपः अ यक्ष्मंकरणीः अपः ।यथा एव तृप्यते मयः ताः ते आ दत्त भेसजीः ॥५॥
tāḥ apaḥ śivāḥ apaḥ a yakṣmaṃkaraṇīḥ apaḥ .yathā eva tṛpyate mayaḥ tāḥ te ā datta bhesajīḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In