| |
|

This overlay will guide you through the buttons:

अप न्यधुः पौरुषेयं वधं यमिन्द्राग्नी धाता सविता बृहस्पतिः ।सोमो राजा वरुणो अश्विना यमः पूषास्मान् परि पातु मृत्योः ॥१॥
अप न्यधुः पौरुषेयम् वधम् यम् इन्द्र-अग्नी धाता सविता बृहस्पतिः ।सोमः राजा वरुणः अश्विना यमः पूषा अस्मान् परि पातु मृत्योः ॥१॥
apa nyadhuḥ pauruṣeyam vadham yam indra-agnī dhātā savitā bṛhaspatiḥ .somaḥ rājā varuṇaḥ aśvinā yamaḥ pūṣā asmān pari pātu mṛtyoḥ ..1..

यानि चकार भुवनस्य यस्पतिः प्रजापतिर्मातरिश्वा प्रजाभ्यः ।प्रदिशो यानि वसते दिशश्च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
यानि चकार भुवनस्य यस्पतिः प्रजापतिः मातरिश्वा प्रजाभ्यः ।प्रदिशः यानि वसते दिशः च तानि मे वर्माणि बहुलानि सन्तु ॥२॥
yāni cakāra bhuvanasya yaspatiḥ prajāpatiḥ mātariśvā prajābhyaḥ .pradiśaḥ yāni vasate diśaḥ ca tāni me varmāṇi bahulāni santu ..2..

यत्ते तनूष्वनह्यन्त देवा द्युराजयो देहिनः ।इन्द्रो यच्चक्रे वर्म तदस्मान् पातु विश्वतः ॥३॥
यत् ते तनूषु अनह्यन्त देवाः द्युराजयः देहिनः ।इन्द्रः यत् चक्रे वर्म तत् अस्मान् पातु विश्वतस् ॥३॥
yat te tanūṣu anahyanta devāḥ dyurājayaḥ dehinaḥ .indraḥ yat cakre varma tat asmān pātu viśvatas ..3..

वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः ।वर्म मे विश्वे देवाः क्रन् मा मा प्रापत्प्रतीचिका ॥४॥
वर्म मे द्यावापृथिवी वर्म अहर् वर्म सूर्यः ।वर्म मे विश्वे देवाः क्रन् मा मा प्रापत् प्रतीचिका ॥४॥
varma me dyāvāpṛthivī varma ahar varma sūryaḥ .varma me viśve devāḥ kran mā mā prāpat pratīcikā ..4..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In