| |
|

This overlay will guide you through the buttons:

गोभिष्ट्वा पात्वृषभो वृषा त्वा पातु वाजिभिः ।वायुष्ट्वा ब्रह्मणा पात्विन्द्रस्त्वा पात्विन्द्रियैः ॥१॥
गोभिः त्वा पातु ऋषभः वृषा त्वा पातु वाजिभिः ।वायुः त्वा ब्रह्मणा पातु इन्द्रः त्वा पातु इन्द्रियैः ॥१॥
gobhiḥ tvā pātu ṛṣabhaḥ vṛṣā tvā pātu vājibhiḥ .vāyuḥ tvā brahmaṇā pātu indraḥ tvā pātu indriyaiḥ ..1..

सोमस्त्वा पात्वोषधीभिर्नक्षत्रैः पातु सूर्यः ।माद्भ्यस्त्वा चन्द्रो वृत्रहा वातः प्राणेन रक्षतु ॥२॥
सोमः त्वा पातु ओषधीभिः नक्षत्रैः पातु सूर्यः ।मा अद्भ्यः त्वा चन्द्रः वृत्र-हा वातः प्राणेन रक्षतु ॥२॥
somaḥ tvā pātu oṣadhībhiḥ nakṣatraiḥ pātu sūryaḥ .mā adbhyaḥ tvā candraḥ vṛtra-hā vātaḥ prāṇena rakṣatu ..2..

तिस्रो दिवस्तिस्रः पृथिवीस्त्रीण्यन्तरिक्षाणि चतुरः समुद्रान् ।त्रिवृतं स्तोमं त्रिवृत आप आहुस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
तिस्रः दिवः तिस्रः पृथिवीः त्रीणि अन्तरिक्षाणि चतुरः समुद्रान् ।त्रिवृतम् स्तोमम् त्रिवृतः आपः आहुः ताः त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥३॥
tisraḥ divaḥ tisraḥ pṛthivīḥ trīṇi antarikṣāṇi caturaḥ samudrān .trivṛtam stomam trivṛtaḥ āpaḥ āhuḥ tāḥ tvā rakṣantu trivṛtā trivṛdbhiḥ ..3..

त्रीन् नाकांस्त्रीन् समुद्रांस्त्रीन् ब्रध्नांस्त्रीन् वैष्टपान् ।त्रीन् मातरिश्वनस्त्रीन्त्सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
त्रीन् नाकान् त्रीन् समुद्रान् त्रीन् ब्रध्नान् त्रीन् वैष्टपान् ।त्रीन् मातरिश्वनः त्रीन् सूर्यान् गोप्तॄन् कल्पयामि ते ॥४॥
trīn nākān trīn samudrān trīn bradhnān trīn vaiṣṭapān .trīn mātariśvanaḥ trīn sūryān goptṝn kalpayāmi te ..4..

घृतेन त्वा समुक्षाम्यग्ने आज्येन वर्धयन् ।अग्नेश्चन्द्रस्य सूर्यस्य मा प्राणं मायिनो दभन् ॥५॥
घृतेन त्वा समुक्षामि अग्ने आज्येन वर्धयन् ।अग्नेः चन्द्रस्य सूर्यस्य मा प्राणम् मायिनः दभन् ॥५॥
ghṛtena tvā samukṣāmi agne ājyena vardhayan .agneḥ candrasya sūryasya mā prāṇam māyinaḥ dabhan ..5..

मा वः प्राणं मा वोऽपानं मा हरो मायिनो दभन् ।भ्राजन्तो विश्ववेदसो देवा दैव्येन धावत ॥६॥
मा वः प्राणम् मा वः अपानम् मा हरः मायिनः दभन् ।भ्राजन्तः विश्व-वेदसः देवाः दैव्येन धावत ॥६॥
mā vaḥ prāṇam mā vaḥ apānam mā haraḥ māyinaḥ dabhan .bhrājantaḥ viśva-vedasaḥ devāḥ daivyena dhāvata ..6..

प्राणेनाग्निं सं सृजति वातः प्राणेन संहितः ।प्राणेन विश्वतोमुखं सूर्यं देवा अजनयन् ॥७॥
प्राणेन अग्निम् सम् सृजति वातः प्राणेन संहितः ।प्राणेन विश्वतोमुखम् सूर्यम् देवाः अजनयन् ॥७॥
prāṇena agnim sam sṛjati vātaḥ prāṇena saṃhitaḥ .prāṇena viśvatomukham sūryam devāḥ ajanayan ..7..

आयुषायुःकृतां जीवायुष्मान् जीव मा मृथाः ।प्राणेनात्मन्वतां जीव मा मृत्योरुदगा वशम् ॥८॥
आयुषा आयुः-कृताम् जीव आयुष्मान् जीव मा मृथाः ।प्राणेन आत्मन्वताम् जीव मा मृत्योः उदगाः वशम् ॥८॥
āyuṣā āyuḥ-kṛtām jīva āyuṣmān jīva mā mṛthāḥ .prāṇena ātmanvatām jīva mā mṛtyoḥ udagāḥ vaśam ..8..

देवानां निहितं निधिं यमिन्द्रोऽन्वविन्दत्पथिभिर्देवयानैः ।आपो हिरण्यं जुगुपुस्त्रिवृद्भिस्तास्त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
देवानाम् निहितम् निधिम् यम् इन्द्रः अन्वविन्दत् पथिभिः देव-यानैः ।आपः हिरण्यम् जुगुपुः त्रिवृद्भिः ताः त्वा रक्षन्तु त्रिवृता त्रिवृद्भिः ॥९॥
devānām nihitam nidhim yam indraḥ anvavindat pathibhiḥ deva-yānaiḥ .āpaḥ hiraṇyam jugupuḥ trivṛdbhiḥ tāḥ tvā rakṣantu trivṛtā trivṛdbhiḥ ..9..

त्रयस्त्रिंशद्देवतास्त्रीणि च वीर्याणि प्रियायमाणा जुगुपुरप्स्वन्तः ।अस्मिंश्चन्द्रे अधि यद्धिरण्यं तेनायं कृणवद्वीर्याणि ॥१०॥
त्रयस्त्रिंशत् देवताः त्रीणि च वीर्याणि प्रियायमाणाः जुगुपुः अप्सु अन्तर् ।अस्मिन् चन्द्रे अधि यत् हिरण्यम् तेन अयम् कृणवत् वीर्याणि ॥१०॥
trayastriṃśat devatāḥ trīṇi ca vīryāṇi priyāyamāṇāḥ jugupuḥ apsu antar .asmin candre adhi yat hiraṇyam tena ayam kṛṇavat vīryāṇi ..10..

ये देवा दिव्येकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥११॥ये देवा अन्तरिक्ष एकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१२॥
ये देवाः दिवि एकादश स्थ ते देवासः हविः इदम् जुषध्वम् ॥११॥ये देवाः अन्तरिक्षे एकादश स्थ ते देवासः हविः इदम् जुषध्वम् ॥१२॥
ye devāḥ divi ekādaśa stha te devāsaḥ haviḥ idam juṣadhvam ..11..ye devāḥ antarikṣe ekādaśa stha te devāsaḥ haviḥ idam juṣadhvam ..12..

ये देवा पृथिव्यामेकादश स्थ ते देवासो हविरिदं जुषध्वम् ॥१३॥असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
ये देवा पृथिव्याम् एकादश स्थ ते देवासः हविः इदम् जुषध्वम् ॥१३॥असपत्नम् पुरस्तात् पश्चात् नः अभयम् कृतम् ।
ye devā pṛthivyām ekādaśa stha te devāsaḥ haviḥ idam juṣadhvam ..13..asapatnam purastāt paścāt naḥ abhayam kṛtam .

सविता मा दक्षिणत उत्तरान् मा शचीपतिः ॥१४॥दिवो मादित्या रक्षन्तु भूम्या रक्षन्त्वग्नयः ।
सविता मा दक्षिणतस् उत्तरात् मा शचीपतिः ॥१४॥दिवः मा आदित्याः रक्षन्तु भूम्याः रक्षन्तु अग्नयः ।
savitā mā dakṣiṇatas uttarāt mā śacīpatiḥ ..14..divaḥ mā ādityāḥ rakṣantu bhūmyāḥ rakṣantu agnayaḥ .

इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म ॥१५॥
इन्द्र-अग्नी रक्षताम् मा पुरस्तात् अश्विनौ अभितस् शर्म यच्छताम् ।तिरश्चीन् अघ्न्या रक्षतु जातवेदाः भूत-कृतः मे सर्वतस् सन्तु वर्म ॥१५॥
indra-agnī rakṣatām mā purastāt aśvinau abhitas śarma yacchatām .tiraścīn aghnyā rakṣatu jātavedāḥ bhūta-kṛtaḥ me sarvatas santu varma ..15..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In