| |
|

This overlay will guide you through the buttons:

शतकाण्डो दुश्च्यवनः सहस्रपर्ण उत्तिरः ।दर्भो य उग्र ओषधिस्तं ते बध्नाम्यायुषे ॥१॥
शतकाण्डः दुश्च्यवनः सहस्रपर्णः उत्तिरः ।दर्भः यः उग्रः ओषधिः तम् ते बध्नामि आयुषे ॥१॥
śatakāṇḍaḥ duścyavanaḥ sahasraparṇaḥ uttiraḥ .darbhaḥ yaḥ ugraḥ oṣadhiḥ tam te badhnāmi āyuṣe ..1..

नास्य केशान् प्र वपन्ति नोरसि ताडमा घ्नते ।यस्मा अछिन्नपर्णेन दर्भेन शर्म यच्छति ॥२॥
न अस्य केशान् प्र वपन्ति न उरसि ताडमाः घ्नते ।यस्मै अ छिन्न-पर्णेन दर्भेन शर्म यच्छति ॥२॥
na asya keśān pra vapanti na urasi tāḍamāḥ ghnate .yasmai a chinna-parṇena darbhena śarma yacchati ..2..

दिवि ते तूलमोषधे पृथिव्यामसि निष्ठितः ।त्वया सहस्रकाण्डेनायुः प्र वर्धयामहे ॥३॥
दिवि ते तूलम् ओषधे पृथिव्याम् असि निष्ठितः ।त्वया सहस्र-काण्डेन आयुः प्र वर्धयामहे ॥३॥
divi te tūlam oṣadhe pṛthivyām asi niṣṭhitaḥ .tvayā sahasra-kāṇḍena āyuḥ pra vardhayāmahe ..3..

तिस्रो दिवो अत्यतृणत्तिस्र इमाः पृथिवीरुत ।त्वयाहं दुर्हार्दो जिह्वां नि तृणद्मि वचांसि ॥४॥
तिस्रः दिवः अत्यतृणत् तिस्रः इमाः पृथिवीः उत ।त्वया अहम् दुर्हार्दः जिह्वाम् नि तृणद्मि वचांसि ॥४॥
tisraḥ divaḥ atyatṛṇat tisraḥ imāḥ pṛthivīḥ uta .tvayā aham durhārdaḥ jihvām ni tṛṇadmi vacāṃsi ..4..

त्वमसि सहमानोऽहमस्मि सहस्वान् ।उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
त्वम् असि सहमानः अहम् अस्मि सहस्वान् ।उभौ सहस्वन्तौ भूत्वा सपत्नान् सहिषीवहि ॥५॥
tvam asi sahamānaḥ aham asmi sahasvān .ubhau sahasvantau bhūtvā sapatnān sahiṣīvahi ..5..

सहस्व नो अभिमातिं सहस्व पृतनायतः ।सहस्व सर्वान् दुर्हार्दः सुहार्दो मे बहून् कृधि ॥६॥
सहस्व नः अभिमातिम् सहस्व पृतनायतः ।सहस्व सर्वान् दुर्हार्दः सुहार्दः मे बहून् कृधि ॥६॥
sahasva naḥ abhimātim sahasva pṛtanāyataḥ .sahasva sarvān durhārdaḥ suhārdaḥ me bahūn kṛdhi ..6..

दर्भेण देवजातेन दिवि ष्टम्भेन शश्वदित्।तेनाहं शश्वतो जनामसनं सनवानि च ॥७॥
दर्भेण देव-जातेन दिवि स्तम्भेन शश्वत् इद्।तेन अहम् शश्वतः जनामसनम् सनवानि च ॥७॥
darbheṇa deva-jātena divi stambhena śaśvat id.tena aham śaśvataḥ janāmasanam sanavāni ca ..7..

प्रियं मा दर्भ कृणु ब्रह्मराजन्याभ्यां शूद्राय चार्याय च ।यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
प्रियम् मा दर्भ कृणु ब्रह्म-राजन्याभ्याम् शूद्राय च आर्याय च ।यस्मै च कामयामहे सर्वस्मै च विपश्यते ॥८॥
priyam mā darbha kṛṇu brahma-rājanyābhyām śūdrāya ca āryāya ca .yasmai ca kāmayāmahe sarvasmai ca vipaśyate ..8..

यो जायमानः पृथिवीमदृंहद्यो अस्तभ्नादन्तरिक्षं दिवं च ।यं बिभ्रतं ननु पाप्मा विवेद स नोऽयं दर्भो वरुणो दिवा कः ॥९॥
यः जायमानः पृथिवीम् अदृंहत् यः अस्तभ्नात् अन्तरिक्षम् दिवम् च ।यम् बिभ्रतम् ननु पाप्मा विवेद स नः अयम् दर्भः वरुणः दिवा कः ॥९॥
yaḥ jāyamānaḥ pṛthivīm adṛṃhat yaḥ astabhnāt antarikṣam divam ca .yam bibhratam nanu pāpmā viveda sa naḥ ayam darbhaḥ varuṇaḥ divā kaḥ ..9..

सपत्नहा शतकाण्डः सहस्वान् ओषधीनां प्रथमः सं बभूव ।स नोऽयं दर्भः परि पातु विश्वतस्तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
सपत्न-हा शत-काण्डः सहस्वान् ओषधीनाम् प्रथमः सम् बभूव ।स नः अयम् दर्भः परि पातु विश्वतस् तेन साक्षीय पृतनाः पृतन्यतः ॥१०॥
sapatna-hā śata-kāṇḍaḥ sahasvān oṣadhīnām prathamaḥ sam babhūva .sa naḥ ayam darbhaḥ pari pātu viśvatas tena sākṣīya pṛtanāḥ pṛtanyataḥ ..10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In