| |
|

This overlay will guide you through the buttons:

सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥१॥
सहस्र-अर्घः शत-काण्डः पयस्वान् अपाम् अग्निः वीरुधाम् राजसूयम् ।स नः अयम् दर्भः परि पातु विश्वतस् देवः मणिः आयुषा सम् सृजाति नः ॥१॥
sahasra-arghaḥ śata-kāṇḍaḥ payasvān apām agniḥ vīrudhām rājasūyam .sa naḥ ayam darbhaḥ pari pātu viśvatas devaḥ maṇiḥ āyuṣā sam sṛjāti naḥ ..1..

घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥२॥
घृतात् उल्लुप्तः मधुमान् पयस्वान् भूमिदृंहः अच्युतः च्यावयिष्णुः ।नुदन् सपत्नान् अधरान् च कृण्वन् दर्भ आ रोह महताम् इन्द्रियेण ॥२॥
ghṛtāt ulluptaḥ madhumān payasvān bhūmidṛṃhaḥ acyutaḥ cyāvayiṣṇuḥ .nudan sapatnān adharān ca kṛṇvan darbha ā roha mahatām indriyeṇa ..2..

त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत्॥३॥
त्वम् भूमिम् अत्येषि ओजसा त्वम् वेद्याम् सीदसि चारुः अध्वरे ।त्वाम् पवित्रम् ऋषयः अभरन्त त्वम् पुनीहि दुरितानि अस्मत्॥३॥
tvam bhūmim atyeṣi ojasā tvam vedyām sīdasi cāruḥ adhvare .tvām pavitram ṛṣayaḥ abharanta tvam punīhi duritāni asmat..3..

तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥४॥
तीक्ष्णः राजा विषासही रक्षः-हा विश्वचर्षणिः ।ओजः देवानाम् बलम् उग्रम् एतत् तम् ते बध्नामि जरसे स्वस्तये ॥४॥
tīkṣṇaḥ rājā viṣāsahī rakṣaḥ-hā viśvacarṣaṇiḥ .ojaḥ devānām balam ugram etat tam te badhnāmi jarase svastaye ..4..

दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥५॥
दर्भेण त्वम् कृणवत् वीर्याणि दर्भम् बिभ्रत् आत्मना मा व्यथिष्ठाः ।अतिष्ठाय वर्चसा अधान्यान् सूर्यः इव आ भाहि प्रदिशः चतस्रः ॥५॥
darbheṇa tvam kṛṇavat vīryāṇi darbham bibhrat ātmanā mā vyathiṣṭhāḥ .atiṣṭhāya varcasā adhānyān sūryaḥ iva ā bhāhi pradiśaḥ catasraḥ ..5..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

नमो नमः

Practice 100+ Vedic scriptures and 1000s of chants — one verse at a time.

Sign In